अनुष्ठान-सन्देह-निवारक-न्यायः

परिचयः

  • एतेषाम् उपयोगो लोके ऽप्यस्ति।

बाधविभागः

  • प्राप्तबाधः - यथा शास्त्रद्वयेन प्राप्तौ सतायां दुर्बलस्य बाधः।
  • अप्राप्तबाधः - यथा - श्रुतिलिङ्गाधिकरणन्याये।

प्रमेयबलाबलनिर्णय-न्यायः

“क्षुतय् आचामेद्” इति स्मृत्या ऽचमनं चोदिते, श्रुत्या च वेदं कृत्वा वेदिं करोतीति क्रमे निर्दिष्टे, वेदकरणात् परं यजमानेन क्षुते सति - स्मृतिचोदितम् प्रमेयं क्रियात्कम्, शृतिचोदितं तु गुणात्मकम् इति कृत्वा वेदवेदीकरणयोर् मध्ये भवत्याचनम्।

अपच्छेदन्यायः

  • पौर्वापर्ये पूर्व-दौर्बल्यं - प्रकृतिवत् (विकृतौ सतायाम्) (जै.सू. 6-5-54)।
  • परस्य पूर्वस्मात् प्राबल्ये बीजं पूर्व-बाधकतयैवोत्पन्नत्वम्। तदुक्तं तन्त्रवार्तिके - “पूर्वं परम् अजातत्वाद् अबाधित्वैव जायते। परस्यानन्यथोत्पादाद् न त्वबाधेन संभवः॥" (तं. वा. ३-३-१४) इति। यथा रज्जुं दृष्ट्वा सर्पभ्रान्तौ पश्चाज् जातो “रज्जुरयमिति” निश्चयः न समभविष्यत् यदि पूर्वबाधकत्वं नावर्तिष्यत।

सञ्चारविषयः

  • पूर्वोत्तरयोः विरोधः आवश्यकः।
    • अत एव ‘वायव्यं श्वेतमालभेत भूतिकामः’ इति विहिते विकृतिविशेषे प्राकृतस्य अजस्य न बाधः- अविरोधात्।
    • निरूपितं चैतत् “नैमित्तिके तु कार्यत्वात् प्रकृतेः स्यात् तदापत्तेः” इति दाशमिकेऽधिकरणे।
  • विरुद्धयोः प्रमाणयोः पौर्वापर्येणोत्पत्तिर् आवश्यकी।
    • ‘विप्रतिषेधे परं कार्यम्’ इति पाणिन्युक्तन्यायात् तु +अस्यायमेव विशेषः - यत् तत्र पाठक्रमेणैव प्रायेण साम्प्रदायिकैः पौर्वापर्यं विवक्षितम् (पश्चाद् एव ऋषिराजाख्येनान्यथा विवृतम्), इह तु न तथेति।
  • पूर्वोत्तरयोः मिथोऽपेक्षाराहित्येन एकवाक्यतायाः अनावश्यकत्वं निर्णीतं स्यात्। एवं चोपक्रमन्यायस्याविषयः सम्पद्यते।
    • उपक्रमन्यायविषये पूर्वोत्तरयोर् एकवाक्यत्वम् आवश्यकम्। अपच्छेदन्यायविषये परस्परनिरपेक्षताऽपेक्षिता। उक्तं च तन्त्रवार्तिके - “पौर्वापर्यबलीयस्त्वं तत्र नाम प्रतीयते। अन्योन्य-निरपेक्षाणां यत्र जन्म धियां भवेत्॥” इति।
  • पूर्वस्य परं प्रति प्राधान्यं प्रमाणान्तरेण निश्चितं न भवेत्। एवं चाङ्गगुणविरोधन्यायादीनाम् अविषयः सम्पद्यते।

बाधस्वरूपभेदाः

  • संकोच-लक्षणो बाधः। यथा शास्त्रयोः - “(गावः सप्तमे) पदे जुहोति” इति शास्त्रेण “आहवनीये जुहोति” इति शास्त्रस्य सञ्चारविषयस्य सङ्कोचः - न तु प्रामाण्यान्निरसनम्।
  • अननुष्ठापकत्व-लक्षणो बाधः। यथा ऽधो दर्शिते ज्योतिष्टोम+अपच्छेदोदाहरणे प्रायश्चित्तान्तरस्याऽननुष्ठापकता जाता।
  • भ्रमत्व-ज्ञान-रूपो बाधः। यथा ऽधो दर्शिते ज्योतिष्टोम+अपच्छेदोदाहरणे पूर्ववर्तिप्-रायश्चित्तदक्षिणाज्ञानम् बाध्यते।
  • काम्य-नैमित्तिकाभ्यां नित्यस्य, वैकृतेन च प्राकृतस्य बाधोऽपि अपच्छेदन्यायेनैव।
    • तत्र सामान्यविशेषन्याय इत्यपि संज्ञा प्रसिद्धा। अत्र “सावकाश-निरवकाश-न्यायो"ऽपि सङ्कीर्णः।
    • उक्तं च टुप्टीकायाम्- “नित्य-नैमित्तिकयोः, नित्य-काम्ययोः, प्राकृत-वैकृतयोश्च पौर्वापर्यनैमित्तिकन्यायेन बाधः” इति।

उदाहरणम्

  • ज्योतिष्टोमय् यजमानसहितानाम् ऋत्विजां शृङ्खलेव विन्यस्तानाम् (परस्परस्पर्शेन) +“अन्वारम्भ"माणानाम् प्रसर्पणे - ‘याद्युद्गाता ऽपच्छिन्द्यात् - अदक्षिणं तं यज्ञम् इष्ट्वा, तेन पुनर् यजेत। तत्र तद् दद्यात् यत् पूर्वस्मिन् दास्यन् स्यात्। यदि प्रतिहर्ता (नाम ऋत्विग्विशेषो ऽपच्छिन्द्यात्) सर्ववेदसं(=सर्वस्वम्) दद्यात्’। यदि द्वयोर् अप्यपच्छेदो भवति - तर्हि पश्चात्तरस्यापच्छेदस्य हि प्रायश्चित्तम् कार्यम् - पौर्वापर्ये पूर्व-दौर्बल्यं - प्रकृतिवत् (विकृतौ सतायाम्) (जै.सू. 6-5-54) इति न्यायात्।
  • नैमित्तिकेन नित्यस्य बाधो यथा – दर्शपूर्णमासयोः ‘पञ्चदश सामिधेनीर् अन्वाह’ इति सामान्येन समिधेनीपाञ्चदश्यं विहितम्। तत्रैव ‘सप्तदशानुब्रूयाद् वैश्यस्य’ इति वैश्यकर्तृकत्वे निमित्ते तत्साप्तदश्यं विहितम्। नैमित्तिकमिदं नित्यं पाञ्चदश्यं बाधते।
  • काम्येन नित्यस्य बाधो यथातत्रैव ‘पञ्चदश सामिधेनीर् अन्वाह … सप्तदशानुब्रूयाद् वैश्यस्य … एकविंशतिम् अनुब्रूयात् प्रतिष्ठाकामस्य’ इति प्रतिष्ठारूपफलसाधनतया विहितेन सामिधेनीनामेकविंशतित्वेन नित्यस्य तत्पाञ्चदश्यस्य बाधः। अनेन च काम्येन नैमित्तिकस्य साप्तदश्यस्यापि बाधो भवति। तदपीह उदाहरणम्।
  • वैकृतेन प्रकृतस्य बाधो यथा - विकृतिविशेषे ‘शरमयं बर्हिर्’ इति विहितेन शरेण प्रकृतितः प्राप्तस्य कुशस्य बाधः। औपदेशिकेनातिदेशिकस्य बाधः सर्वोऽपि अपच्छेदन्यायस्योदाहरणमेव।

मुख्यन्यायः

  • वाक्यतात्पर्यनिर्णायकन्यायेषु +उपक्रमन्यायवत्। मुख्यजघन्ययोर् विरोधे मुख्यं स्वीकार्यम्।
  • दर्शपूर्णमासयोः कस्यचनेष्टेर् विकाराव् उक्तौ। द्वे ऽप्यनुष्ठेये, कुन्तु किञ्चनाङ्गम् एकवारमेवानुष्ठेयम्। तदङ्गं पौर्णमासीविकारानुसारं स्यात् उत दर्शानुसारम्? यो यागः प्रथमम् उपस्थितः, तदनुसारं स्याद् इति मुख्यन्यायः।

भूयोऽनुग्रहन्यायः

  • तात्पर्यबोधन्यायेष्वप्य् अयम् प्रवर्तते। तदन्यत्रोक्तम्
  • भूयोऽनुग्रहन्यायस्यापवादः। यत्र चाल्पस्यापि प्रधानत्वं, भूयसामपि गुणत्वं तत्र नायं न्यायः प्रवर्तते।
    • यथा - यूपनिर्माणाय खदिरकाष्ठं विहितम्। तदभावे कदरकाष्ठम्। पशुबन्धनार्थम् अपि योग्यं खदिरकाष्ठं न लब्धं चेन् नित्यकर्मणे, तर्हि कदरो ग्राह्यः। कदाचित् पशुबन्धनार्थम् उचितं खदिरकाष्ठं लब्धं, किन्तु तक्षणादिसंस्काराणां कृते न योग्यम्, तर्हि कदरकाष्ठं ग्राह्यं वेति चेत् - न। बहुसंस्कारानुग्रहेऽपि द्रव्यमेव प्रधानम्, संस्कारो द्रव्यार्थ एवेति कृत्वा। सूत्रम्- “द्रव्यसंस्कारविरोधे द्रव्यं तदर्थत्वात्”।
    • यथा - “आत्मार्थे पृथिवीं त्यजेत्॥”

उदाहरणम्

  • पञ्चदशरात्रे ऽग्निष्टुत्कर्मणः प्राग् आरम्भे कतरः सुब्रह्मण्यो वाच्य इति प्रश्ने - आग्नेयी सुब्रह्मण्या अल्पा - एकस्माय् एव दिनायोचिता, भूयसी +ऐन्द्री सुब्रह्मण्या - १४ दिनेभ्य उचिता।
  • त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत्। ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्॥

अङ्गगुणविरोधन्यायः

“सोमेनेष्ट्या पशुना च पर्वकाले यजेते"ति निर्देशे सति, सोमयागः पर्वकाले स्यात् प्राधान्यात्, अङ्गकार्याणि दिनान्तरेषु।

सावकाश-निरवकाश-न्यायः

  • केनचिदपि शास्त्रेणापरं शास्त्रम् पूर्णतो निरवकाशो/ वैयर्थ्यं यथा न भवेत् तथा चिन्त्यम्।

उदाहरणम्

  • सोमयागे कस्मिंश्चित् - यत् किञ्चित् प्राचीनम् अग्निषोमीयहवनात्, तत्रोपांशुस्वरो विहितः। किन्तु शास्त्रान्तरेण दीक्षण्यां यजमानकामानुसारः स्वरो विहितः। तर्हि द्वितीयशास्त्रायावकाशो देयः।
  • व्याकरणे ऽपि बहुत्र।

कांस्यभोजिन्यायः

गुरोः कांशभोजननिषेधो नास्ति, शिष्यस्य त्व् अस्ति। तथा सति गुरुः कांस्यस्थालीं गृह्णाति, शिष्यायेतरस्थालीं त्यजन्।