१६ लीलावत्युक्तहेत्वाभासचातुर्विध्यभङ्गः

लीलावत्यां तु

लीलावत्युक्तहेत्वाभासचातुर्विध्यभङ्गः ॥ ३८ ॥

तर्कताण्डवं

लीलावत्यां तु । असिद्धविरुद्धसव्यभिचारानध्यवसिताश्चत्वारो हेत्वाभासाः । बाधप्रतिरोधौ तु पूर्वोक्तरीत्या व्याप्तिपक्षधर्मतापहारेणैव दोषौ । न स्वातन्त्र्येण । तत्र व्याप्तिपक्षधर्मतावत्त्वेनानिश्चितो हेतुर-सिद्धः । तेनासिद्धित्रयस्य सङ्ग्रहः । पक्षैकवृत्तिरनध्यवसितः ॥

यद्यपि सव्यभिचारविरुद्धानध्यवसितेषु व्याप्त्यप्रमितिरूपा व्याप्यत्वासिद्धिरस्ति तथाऽपि व्यभिचारिणि परार्थानुमाने सर्वोप-संहारप्रवृत्तोदाहरणवाक्यादुपाध्यस्फुरणदशायां व्याप्तिग्रहण-सम्भवाद्व्याप्त्यग्रहो नोद्भावयितुं शक्य इति व्यभिचार एवोद्भाव्यः । विरुद्धे तु विपरीतप्रतिबन्धे वाक्यस्थेऽन्तरङ्गे स्फुरति सति बहिरङ्ग-व्याप्त्यज्ञानादिकं नोद्भाव्यम् । अनध्यवसिते तु विपक्षव्यावृत्तिमुखेन व्यतिरेकव्याप्तेर्दर्शितत्वान्न व्याप्त्यसिद्धिरुद्भावयितुं शक्या । न चानध्यवसिते सन्दिग्धसाध्यवत्पक्षमात्रवृत्तित्वेन साध्याभावसम्बन्धा-द्व्यभिचार एवास्त्विति वाच्यम् । सपक्षविपक्षयोर्लिङ्गाज्ञानस्यैवा-१नध्यवसायरूपाज्ञानहेतुत्वेन सरलदूषणतयोद्भाव्यत्वात् । तत्फलतो व्यभिचारस्तु विलम्बितप्रातीतिक इत्युक्तम् ॥

तन्न । व्यभिचारिणि त्वया समर्थितेन व्यभिचारस्योद्भाव्यत्वेनैव मदुक्ताव्याप्तेरेवोद्भाव्यत्वसिद्धेः । उक्तं हि । साध्याभावसम्बन्धरूपो व्यभिचार एवाव्याप्तिरिति । न चानित्यत्वसाधकस्य मेयत्वादेर्गगनादौ व्याप्तिभङ्गे स्वेन प्रमितेऽप्यनाप्तवादिवाक्यादुदाहरणादेव व्याप्तिसिद्धिः । शब्दोऽनित्यश्चाक्षुषत्वादित्यादावसिद्धेरप्यनुद्भाव्यता-पातात् । तत्रापि वादिवाक्येने१वोपनयेनैव पक्षधर्मताया ज्ञातत्वात् ॥

किंच यदि व्यभिचारिणि शक्योद्भावनत्वाद्व्यभिचारमादाय व्याप्त्यप्रमितेस्त्यागस्तर्हि तत एवासिद्धेऽपि पक्षे हेत्वसत्त्वमादाय पक्षे हेतुसत्त्वाप्रमितिरूपासिद्धेरपि त्यागः स्यात् । ततश्च पक्षे हेत्वसत्त्वं हेत्वाभासान्तरं स्यात् । तत्र पक्षे हेत्वसत्त्वं हेतुसत्त्वानुपलम्भनिर्वाह्यं चेद् व्याप्त्यभावरूपो व्यभिचारोऽपि व्याप्त्यनुपलम्भनिर्वाह्य इति समम् । विरुद्धेऽपि नियतसाध्याभावसम्बन्धरूपायां विपरीतव्याप्तौ मदुक्ताव्याप्तिरन्तर्गतैव । न तु बहिरङ्गा । अनध्यवसितेऽपि सपक्ष-विपक्षयोर्लिङ्गाज्ञानमसाधारणप्रस्तावोक्तरीत्या न स्वतोऽनुमिति-प्रतिबन्धकम् । किं तूपाध्यादिवदव्याप्त्युन्नायकमेव । अन्यथोपाधिः सिद्धसाधनं च सरलतया हेत्वाभासान्तरं स्यात् ॥

अपि च दूषणत्वादुद्भावनम् । न तूद्भावनाद्दूषणत्वम् । क्लृप्तं चाव्याप्तेर्दोषत्वम् । न तु सपक्षविपक्षयोर्लिङ्गाज्ञानस्य ॥

किं चानध्यवसिते हेतोः पक्षवृत्तित्वाज्ञानेऽसिद्धिप्रसङ्गेन पक्षवृत्तित्वज्ञानस्यावश्यकत्वादतिसरलतयाऽसाधारणन्यायेन सन्दिग्ध-साध्यवन्मात्रवृत्तित्वरूपाऽव्याप्तिरेव दोषोऽस्त्विति दिक् ॥

न्यायदीपः

लीलावत्यां त्विति । इत्युक्तमित्यन्वयः । पूर्वोक्तरीत्येति । बाधितस्थले हेतोः साध्याभाववद्वृत्तित्वेन व्याप्तेरपहारेण सन्दिग्धसाध्य-वद्वृत्तित्वाभावेन पक्षधर्मतापहारेणेत्यर्थः । दूषणसौकर्यायासिद्ध्यादेर् लक्षणमाह– तत्रेति । असिद्धत्रयस्येति । आश्रयासिद्धस्वरूपासिद्ध-व्याप्यत्वासिद्धरूपासिद्धत्रयस्येत्यर्थः । साध्याभावव्याप्तो विरुद्धः । पक्षत्रयवृत्तिः सव्यभिचार इति व्यक्तत्वात्तयोर्लक्षणानुक्तिः । साङ्कर्यशङ्कामनूद्य निराह– यद्यपीत्यादिना । व्यभिचारिणीति । अनित्यः शब्दः प्रमेयत्वाद् यत्र प्रमेयत्वं तत्रानित्यत्वं घटादाविति व्यभिचारिणीत्यर्थः । विपरीत-प्रतिबन्ध इति । प्रतिबन्धो व्याप्तिः साध्याभावेन सह हेतोर्व्याप्तिरूप-विपरीतव्याप्तौ स्फुरन्त्यां नित्यः शब्दः कृतकत्वादिति वाक्यादवगम्य-मानायामित्यर्थः । अनध्यवसिते त्विति । भूर्नित्या गन्धवत्त्वाद् यत्र नित्यत्वाभावस् तत्र गन्धवत्त्वाभावो जलादाविति साध्याभावहेत्वभावयो-र्विपक्षवृत्तित्वमुखेन व्यतिरेकव्याप्तेरनध्यवसितप्रयोक्त्रा दर्शितत्वादित्यर्थः । व्यभिचार एवेति । सन्दिग्धव्यभिचार एवास्त्वित्यर्थः । सरलेति । ओशदूषणतयेत्यर्थः । तत्फलभूतोऽनध्यवसायज्ञानफलभूतः । कथं सिद्धिरित्यत आह– उक्तं हीति । साधारणस्याव्याप्तावन्तर्भावप्रस्तावे प्रागुक्तमित्यर्थः ॥

ननूक्तमत्रोदाहरणवाक्याद्व्याप्तिग्रहसम्भवादव्याप्त्युद्भावनमशक्यमितीति चेत्, सत्यमुक्तम् । दुरुक्तं तदित्याह– न चेति । व्याप्तिसिद्धिरित्य-नेनान्वयः । प्रमित इति । अनाप्तेति च । हेतुगर्भविपरीतप्रमासद्भावेऽप्य-नाप्तवाक्याद्व्याप्तिनिश्चयसम्भवेनाव्याप्त्युद्भावनस्याशक्यत्वेऽसिद्ध्युद्भावनमप्यशक्यं स्यात् । स्वस्य हेतुत्वाभावनिश्चये सत्यपि वादिवाक्याद्धेतुसत्त्वनिश्चयस्य सम्भवादिति भावेनाह– शब्द इति । प्रतिबन्दीरूपेणातिप्रसङ्गं चाह– किञ्च यदीति । त्याग इति । अनुद्भावनम् । तत एव शक्योद्भावनत्वादेव अस्तु को दोष इत्यत आह– ततश्चेति । हेत्वाभासान्तरमिति । १त्वया व्याप्तिपक्षधर्मतावत्त्वेनानिश्चितो हेतुरसिद्ध इति त्वयोक्तत्वेन तदपेक्षया हेत्वसत्त्वमात्रं हेत्वाभासान्तरं स्यात् । तथा च त्वदुक्तचतुष्ट्वभङ्ग इति भावः । परमुखेनैवोत्तरं वाचयित्वा सममित्याह– तत्र पक्ष इति । तथा चानुपलम्भ एव दोषो न तु हेत्वसत्त्वमित्यर्थः । अस्मिन्नपि मते विरुद्धोऽप्यव्याप्त्यन्तर्भूत इत्याह– विरुद्धेऽपीति । साध्याभावव्याप्तरूपे विरुद्धेऽपीत्यर्थः । मदुक्तेति । साध्याभावसम्बन्धरूपा । न तु बहिरङ्गेति । साध्याभावव्याप्तिरित्यर्थः । दूषणमिति योज्यम् । पराभिमतानध्यवसितपक्षे हेत्वाभासत्वमेव दुर्घटं कुतोऽन्तर्भावचिन्तेति भावेनाह– अनध्यवसितेऽपीति । असाधारणेति । असाधारणस्याव्याप्त्यन्तर्भावोक्तिप्रस्तावे व्याप्त्यभाव-व्याप्यतया दूषकत्व इत्यादिग्रन्थेनोक्तरीत्येत्यर्थः । यदप्यनध्यवसिते विपक्षव्यावृत्तिमुखेन व्यतिरेकव्याप्तेर्दर्शितत्वान्न व्याप्त्यसिद्धिरुद्भावयितुं शक्येति तत्राह– अपि चेति । ततश्चाव्याप्तिरेव दोषत्वेन क्लृप्तत्वादुद्भाव्येति भावेनाह– क्लृप्तं चेति । अतिसरलतयेति । अव्याप्तिरेव दोष इत्यन्वयः ॥

नन्वेवं चेत्केवलव्यतिरेकिविषयापत्तिरित्यत उक्तम्– असाधारण-न्यायेनेति । तत्रैतच्चोद्यसमाधानादिति भावः ॥

ननूक्तरूपानध्यवसितस्याव्याप्तिज्ञानं प्रत्युपजीव्यत्वादयमेव तत्र दोष इति चेन्न । उपजीव्यत्वेऽपि व्याप्त्याद्यभावरूपत्वाभावेन स्वतो दूषणत्वा-भावात् । अन्यथोपाध्यादिरपि दोषः स्यादित्युक्तत्वात् । किं च सपक्ष-विपक्षयोर्लिङ्गाज्ञानस्य स्वयमज्ञायमानत्वेन ज्ञायमानतया प्रतिबन्धकी-भूताव्याप्तेरेव हेत्वाभासत्वेन वक्तव्यत्वात् । अपि चानुकूलतर्कावतार-दशायामपि सपक्षविपक्षयोर्लिङ्गाज्ञानस्य सत्त्वेन तदाप्यनुमितिप्रतिबन्धकतया दोषत्वापातादित्यभिप्रेत्याह– इति दिगिति ॥

॥ इति लीलावत्युक्तहेत्वाभासचातुर्विध्यभङ्गः ॥ ३८ ॥