उदयनेन तु निबन्धे..
उदयनोक्तहेत्वाभासासङ्करभङ्गः ॥ ३६ ॥
तर्कताण्डवम्
उदयनेन तु निबन्धे सव्यभिचारस्य कोटिद्वयोपस्थापकतया साध्यतदभावसंशयः फलम् । विरुद्धे साध्याभावसिद्धिः । बाधे तु पक्षधर्महेतौ व्याप्तिबाधः । सत्प्रतिपक्षत्वे किमत्र तत्त्वमिति जिज्ञासा । असिद्धे तच्चतुष्टयान्यालिङ्गत्वज्ञानमिति फलमुखलक्षण-मुक्तम् । तदपि न । इदं हि लक्षणं किं स्वरूपसदित्येताव-न्मात्रेणोच्यते असाधकतालिङ्गत्वेन वा । नाद्यः । तस्य हेत्वाभास-विभागोपाधित्वं नास्तीत्युक्तत्वात्१ । द्वितीये हि सव्यभिचारे इदमसाधकं संशयजनकत्वादिति, विरुद्धे साध्याभावसाधकत्वादिति, बाधे तु बाधितव्याप्तिकत्वादिति, सत्प्रतिपक्षे तु जिज्ञासाजनकत्वा-दिति, असिद्धे चतुष्टयान्यालिङ्गत्वज्ञानजनकत्वादिति, प्रयोक्तव्यम् । तत्र च संशयजनकत्वं साध्याभावबुद्धिजनकत्वं च किं फलोपधानं विवक्षितं योग्यता वा । नाद्यः । २‘असाधारणत्वादिग्रहकाले कुतोऽपि निमित्तात्संशयसाध्याभावबुद्ध्योरनुत्पत्तौ उत्पत्तावप्यप्रमितौ चासाधकताहेतोरसिद्धिः । बाधप्रतिरोधयोस्तु प्रत्यक्षादाविवानु-मितावपि साक्षाद्विषयापहारिणोः पुनः परावृत्त्या द्रविडमण्डकन्यायेन करणसामर्थ्यविघटकहेत्वाभासान्तरसंपादनेनाव्याप्तिज्ञानजिज्ञासाजनना-भ्यामसाधकतानुमापकत्वकल्पनमत्यन्तायुक्तम् ॥
किं च सत्प्रतिपक्षे जिज्ञासाजनकस्येष्टसाधनत्वज्ञानस्याभावेन वा, अत्यन्ताभीष्टविषयकप्रबलजिज्ञासान्तरप्रतिबन्धेन वा, किं तत्त्वमिति जिज्ञासाया अनुत्पत्तौ असाधकत्वहेतोरसिद्धिः स्यात् । असिद्धेऽप्ये-तच्चतुष्टयान्यालिङ्गत्वं नासाधकतासाधकम् । तदज्ञानेऽपि स्वरूपा-सिद्ध्यादावेकैकज्ञानेनासाधकताऽनुमितिदर्शनात् । नान्त्यः । योग्यताया विपक्षवृत्तित्वसाध्याभावव्याप्यत्वादिरूपत्वात् । तस्य चाव्याप्तावन्तर्भावस्योक्तत्वात् । बाधसत्प्रतिपक्षयोर्हेत्वाभासत्वस्यैव निरासाच्च ॥
न्यायदीपः
मण्याद्युक्तरीत्या पञ्चानां हेत्वाभासानामसाङ्कर्यं नेत्युपपाद्योदयन-मतेऽप्यापाततोऽसाङ्कर्यप्रतीतावपि तदयुक्तमिति भावेन तदुक्तमनूद्य निराह– उदयनेन त्विति । निबन्धे निबन्धाख्यग्रन्थे । कोटिद्वयेति । साधारणानैकान्तिकस्य साध्यतदभावाभ्यां १सहचारे असाधारणानुपसंहारिणो-रुभाभ्यां सहचाराभावेनेति ध्येयम् । प्राचां मतेऽसाधारणानुपसंहारिणो-रनध्यवसितप्रभेदत्वेन पृथगुक्तेः साधारणानैकान्तिक एव सव्यभिचारशब्देन ग्राह्यः । किमत्रेति । द्वयमध्ये किं तत्त्वं २निर्दोषत्वमित्यर्थः । तच्चतुष्ट-येति । सव्यभिचारादिचतुष्टयान्यत्वे सत्यलिङ्गत्वज्ञानमित्यर्थः । उक्त-त्वादिति । यद्रूपेण हि ज्ञानमनुमितिप्रतिबन्धकमित्यादिना पञ्चहेत्वा-भासते३त्येत्खण्डनप्रस्तावे उक्तत्वादित्यर्थः ।
असिद्धेरिति । आद्ये लिङ्गस्वरूपस्यैवाभावात् । द्वितीये लिङ्गसत्त्वेऽपि तत्प्रमित्यभावेन प्रमित्यसिद्धेरित्यर्थः । द्रविडमण्डकेति । विवृतस्त्वयं न्याय उदयनोक्तवक्त्रभिप्रायविध्यर्थभङ्गे । अत्यन्तायुक्तमिति । हेतुदोषत्व-मेवायुक्तम् एवं रूपेण कल्पनं त्वत्यन्तायुक्तमित्यर्थः । तथा च द्वयोः प्रतिज्ञातार्थप्रमाणविरुद्धत्वेनैकेन रूपेण प्रागुक्तदिशा प्रतिज्ञादोषत्वमेवेति भावः । अस्मिन् पक्षेऽसाधकताऽनुमानानुत्थानं प्रतिपक्षे स्यादिति दोषान्तरं चाह– किं चेति । इष्टेति । जिज्ञासा हि ज्ञानेच्छा फलादन्यत्रेच्छा चेष्टसाधनत्वज्ञाने सति भवति । किमनयोस्तत्त्वमिति ज्ञानस्येष्टसाधनत्वज्ञानं तज्जनकमिति जिज्ञासाजनकस्येष्टसाधनत्वज्ञानस्येत्युक्तम् । असिद्धिः स्यादिति । जिज्ञासाजननरूपफलस्य तदानीमभावेन किं तत्त्वमिति जिज्ञासाजनकत्वादिति हेतोरभावादिति भावः । योग्यता वेति पक्षं निराह– नान्त्य इति । हेत्वाभासत्वस्येति । हेतुदोषत्वस्येत्यर्थः । कुतोऽन्त-र्भावबहिर्भावचिन्तेत्येवकारार्थः ॥
॥ इति उदयनोक्तहेत्वाभासासङ्करभङ्गः ॥ ३६ ॥