१३ परमते बाधस्य व्यभिचारसङ्करः

यच्चोक्तं मणौ

अथ परमते बाधस्य व्यभिचारसङ्करः ॥ ३५ ॥

तर्कताण्डवं

यच्चोक्तं मणौ– बाधस्यादोषत्वे वस्तुतो महानसीयः प्रसिद्धो वह्निः पर्वते वह्नित्वेन सिध्येत् । पर्वते वह्निजातीयस्य सत्त्वेन व्यभिचारा-भावात् । पर्वते महानसीयो वह्निर्नास्तीति प्रत्यक्षबाधात्तु न सिध्यतीति बाधस्य व्यभिचारासङ्कर इति ।

तन्न । पर्वते महानसीयो वह्निर्नास्तीति प्रत्यक्षस्य पर्वते वह्निरस्तीति प्रत्यक्षशाब्दबोधौ प्रतीव पर्वते वह्निरित्यनुमितिं प्रत्यपि भिन्नविषयकत्वेनाबाधकत्वात् । यथा हीन्द्रियं स्वसन्निकृष्टविषयक-ज्ञानजननस्वभावं तथा लिङ्गमपि स्वसमानाधिकरणलिङ्गिविषयक-ज्ञानजननस्वभावम् । समानाधिकरणयोर्लिङ्गलिङ्गिनोर्हि व्याप्तिः ॥

अस्तु वा प्रत्यक्षानुमित्योः समानविषयकत्वं तथाऽपि न तन्मात्रं बाधत्वे तन्त्रम् । किन्तु समानप्रकारकत्वमपि । घटवत्येव गेहे घटो नास्तीति भ्राम्यतोऽपि गेहे प्रमेयमस्तीति प्रमया तत्र सतो घटस्यापि प्रमेयत्वेन ग्रहणदर्शनात् । पर्वतेतरवृत्तिर्वह्निः पर्वते नास्तीति प्रमावतोऽपि पर्वतो वह्निमानिति भ्रान्तिरूपानुमितिदर्शनाच्च । देशान्तरे सन्नेव भ्रान्तिविषय इति त्वन्मते पर्वतेतरवृत्तिवह्नेरेव भ्रान्ति-रूपानुमितौ पर्वतवृत्तिवह्नित्वेन भानात् ॥

किं चास्ति बाधोऽत्र चेद्व्यभिचारोऽप्यस्त्येव । बाधितसाध्यके हेतुवृत्तेरेव व्यभिचारत्वात् ॥

अपि च यदि बाधादेव महानसीयवह्नेरसिद्धिः । तर्हि बाधा-नवतारदशायां स सिध्येत् ॥

एतेन बाधस्यादोषत्वे गन्धप्रागभावावच्छिन्नो घटो गन्धवान् पृथिवीत्वादित्यनेन गन्धप्रागभाववति काले घटे गन्धः सिध्येत् । गन्धात्यन्ताभाववद्गामित्वरूपव्यभिचारस्याभावात् । प्रागभाव-प्रमारूपाद्बाधात्तु न सिध्यतीति बाधः पृथगिति निरस्तम् । बाधोऽ-प्यस्ति चेद्व्यभिचारोऽप्यस्तीति बाधानवतारदशायां प्रागभावकाले गन्धः सिध्येदिति चोक्तदोषद्वयस्य दुर्वारत्वात् ॥

किं च प्रागभाववति काले गन्धापादनं न तावत्सिषा-धयिषामात्रेण । शब्दस्य तात्पर्यपारतन्त्र्यवदनुमानस्य सिषाधयिषा-पारतन्त्र्याभावात् ॥

नापि गन्धप्रागभावावच्छिन्नत्वस्य पक्षतावच्छेदकत्वमात्रेण तदा-पादनम् । पक्षतावच्छेदकस्य हि यत्र १पृथिवीत्वं तत्र गन्ध इति दैशिकव्याप्तिबलेन साध्यस्य समानदेशत्वाक्षेप एव सामर्थ्यम् । न तु स्वसमानकालीनत्वाक्षेपेऽपि ॥

नापि यदा पृथिवीत्वं तदा गन्ध इति व्याप्तिबलात्तदापादनम् । गन्धप्रागभावध्वंसदशायां पृथिवीत्त्वस्य सत्वेऽपि गन्धाभावात् ॥

ननु तथापि हेतुः स्वावच्छिन्नदेशकालीनसाध्यबोधकस्वभावः । न हि धूमेन वह्निः सिध्यन्नर्वाग्भागे काले च सिध्यति । तथा च पृथिवीत्वमपि स्वावच्छिन्ने गन्धप्रागभावकाले गन्धं बोधयेदेव । बाधात्तु न बोधयतीति चेन्न । यत्र यदा यदवच्छेदेन धूमस्तत्र तदा तदवच्छेदेन वह्निरिति व्याप्तिरेव हि तत्रास्ति । प्रकृते तु यत्र यदा यदवच्छेदेन पृथिवीत्वं तत्र तदा तदवच्छेदेन गन्ध इति व्याप्ति-र्नास्तीत्युक्तम् ॥

अथ प्रागभावावच्छिन्नत्वं न पक्षविशेषणम् । किं तु घटः गन्धप्रागभावकालीनगन्धवानिति साध्यविशेषणमिति चेन्न । यदा पृथिवीत्वं तदा गन्धप्रागभावसमानकालीनगन्ध इति व्याप्तेरभावात् ॥

एतेन धूमानुमाने दैवादुपनीतकाञ्चनमयत्वस्य वह्निविशेषणत्वेन भानेऽनुमितेर प्रमात्वादप्रमात्वस्य च दोषाधीनत्वादन्यस्य च दोषस्याभावाद्बाध एव दोषो वक्तव्य इति निरस्तम् । बाधोऽस्ति चेद्व्यभिचारोऽप्यस्तीत्यादिना दोषद्वयस्योक्तत्वात् ॥

किं च व्याप्तिपक्षधर्मताज्ञानाविषयस्याप्युपनीतस्यानुमितौ भाने यथार्थानुमितिः, जयपराजयादिव्यवस्था, अनुमितौ व्याप्तिज्ञानापेक्षा चोच्छिद्येत । न च वह्न्युपनयार्थमेव व्याप्तिज्ञानापेक्षा । प्रायिक-सहचारदर्शनमात्रेणाप्युपनयसिद्धेः ॥

नन्वथापि लिङ्गपरामर्शनिष्पत्त्यन्तरं प्रत्यक्षादिबाधेनानुमितेर-प्रमात्वं दृश्यते । तत्र च दोषान्तराभावाद्बाध एव दोष इति चेन्न । निष्पन्नेऽप्यर्थनिश्चये तदप्रामाण्यनिश्चयेन पुनरप्यर्थनिश्चयविघटन-वन्निष्पन्नेऽपि परामर्शे बाधेन पुनरपि परामर्शविघटनस्यावश्यकत्वेना-सिद्धिव्यभिचारयोरन्यतरस्य सत्त्वात् ॥

ननु तथाऽपि व्यभिचारशरीरप्रविष्टसाध्याभावनिश्चयः स्वप्रमात्व-निश्चयाधीन इत्युपजीव्यः प्रमात्वनिश्चयरूपो बाधः पृथगिति चेन्न । साध्याभावरूपार्थसत्त्वघटितप्रामाण्यनिश्चयस्य अर्थसत्त्वनिश्चयाधीन-त्वेनार्थनिश्चयस्यैवोपजीव्यत्वात् । त्वन्मतेऽप्रामाण्यशङ्कारहितज्ञान-स्यैवार्थनिश्चायकत्वेनापसिद्धान्ताच्च । परतः पक्षे अनवस्थानाच्च ॥

तस्मात्परमते बाधस्य व्यभिचारासङ्करो न युक्तः । अस्मन्मते तु बाधस्य प्रतिज्ञादोषत्वेन व्यभिचार१शङ्कैव नास्तीति प्रागेवोक्तम् । व्याप्यत्वासिद्धेर्व्यभिचारासङ्कीर्णमुदाहरणं नीलधूमादित्यादिकमिति त्वीश्वरवादे निरस्तम् । आश्रयासिद्धेः स्वर्णमयोऽद्रिरग्निमानित्यादिक-मुदाहरणमप्याश्रयासिद्धेरदोषत्वप्रस्तावे निरस्तम् ॥

न्यायदीपः

स्वमते बाधस्य व्यभिचारासाङ्कर्यं तद्रीत्यनुसरणे तत्साङ्कर्यमेव प्राप्नोति । तथा च बाधस्य पृथग्दोषत्व२हानेः पञ्चेति हेत्वाभासविभागभङ्ग इति भावेनाह– यच्चेति ॥

ननु पर्वतीयधूमस्य महानसीयवह्न्यभावसामानाधिकरण्येन व्यभिचारान्न तेन महानसीयवह्निः सिध्यतीत्यत आह– पर्वत इति । व्यापकतावच्छेदका-वच्छिन्नव्यापकाभावसामानाधिकरण्यस्यैव व्यभिचारत्वाद्वह्नित्वस्य व्यापकता-वच्छेदकत्वेन तदवच्छेदेन तत्र तस्य सत्त्वादित्यर्थः । तर्हि कुतो न सिध्य-तीत्यत आह– पर्वत इति । त्वदुक्तप्रत्यक्षस्य पर्वतीयवह्न्यनुमितिं प्रति बाधकत्वमेव नास्ति । कथं तस्य बाधत्वेन पार्थक्यमिति भावेन निराह– तन्नेत्यादिना ॥

एवं तर्हि महानसीयवह्निविषयानुमितिः कुतो न जायते पर्वतीयवह्नि-विषयैव कुतो जायत इत्यतो न त्वदुक्तबाधदोषबलात् किं तु लिङ्गस्य व्याप्तिप्रकारमपेक्ष्य लिङ्गिज्ञानजनकत्वं स्वभाव इति स्वभावबलादेवेति भावेन दृष्टान्तपूर्वमाह– यथा हीति ॥

यद्वा भिन्नविषयकत्वेनेत्युक्तम् । तदसिद्धम् । बाधस्यादोषत्वे १समान-विषयत्वस्यैव प्रत्यक्षानुमित्योर्बाधकबाध्यत्वाभिमितयोः स्यादित्यतः स्वभावकृतमेव भिन्नविषयत्वमित्याह– यथा हीति । तथा च सामग्य्र-भावादेव महानसीयवह्निसिद्ध्युपपत्तौ किं बाधवशेन तदसिद्धिकल्पनया । अत एव पद्धतौ ‘‘पर्वते धूमं दृष्टवतोऽपि कथमन्यत्रानुमित्यनुद्भवः । व्याप्तिप्रकारमपेक्ष्य लिङ्गस्य लिङ्गिज्ञानजनकत्वनियमात् । तथा हि । कयोश्चित्समानदेशत्वेऽपि भिन्नकालीनयोर् व्याप्तिः । यथा धूमस्याग्निनेत्या-द्युक्तम् । तत्रान्यत्रानुद्भव इत्युपलक्षणम् । कथमन्यदीयाग्निप्रमानुद्भव इत्यपि ध्येयमिति भावः ॥

ननु प्रतियोग्यसमानाधिकरणयत्समानाधिकरणेत्यादिमण्युक्तसामान्यव्याप्ति-लक्षणपक्षे व्यधिकरणधूमवह्न्योरपि व्याप्तिरस्त्येवेति पर्वतीयधूमो महानसीय-वह्निज्ञानजननस्वभाव एवेति भिन्नविषयत्वस्वभावो नेति चेन्न । तस्य लक्षणस्य निरस्तत्वात् । अत एव समानाधिकरणलिङ्गेत्युक्तम् । तुष्यतु दुर्जन इत्यभ्युपेत्यापि बाध्यबाधकभावो न युक्त इत्याह– अस्तु वेति । महानसीयवह्निः पर्वते नास्तीति प्रत्यक्षस्य पर्वतो वह्निमानित्यनुमिते-रित्यर्थः । कुत इत्यतः समानविषयत्वं ज्ञानस्य भ्रमरूपज्ञानस्य वा प्रमा-रूपज्ञानस्य वा ज्ञानान्तरबाधकत्वे तन्त्रम् । आद्ये दोषमाह– घटवतीति । अन्त्य आह– पर्वतेति । यद्वा समानविषयकत्वं ज्ञानस्य किं तादृश-प्रमाबाधने तन्त्रम् । उत भ्रान्तिबाधने । आद्य आह– घटवतीति । अन्त्य आह– पर्वतेति । अत्यन्तासदेव भ्रान्तावारोप्यत इति सिद्धान्ते समानविषयकत्वाभावेऽपि मणिकृन्मते तदस्तीत्याह– देशान्तरे इति । समानप्रकारकत्वाभावान्न त्वदुक्तप्रत्यक्षस्य बाधकतेत्युक्तम् । क्लृप्तव्यभिचार-रूपदोषादेव महानसीयवह्न्यसिद्ध्युपपत्तौ न तदर्थं बाधस्य दोषतेत्याह– किञ्चेति ॥

यद्यन्यनिष्ठलिङ्गस्य स्वसमानाधिकरणसाध्यविषयानुमितिजनने इवान्यनिष्ठसाध्यगोचरानुमितिजननेऽपि शक्तिमुपेत्य बाधरूपदोषादेव तदभावं मन्यसे तदा दोषान्तरं चाह– अपि चेति । स इति । महानसीयवह्निः । सामग्रीसद्भावात्प्रतिबन्धाभावात् । अन्यथा पर्वतीयवह्निसिद्धिरपि न स्यात् । सामग्य्राः प्रतिबन्धाभावस्य चोभयत्र तुल्यत्वात् । तस्मात्तदंशे व्यधिकरण-धूमादेः शक्तिरेव नेति भिन्नविषयत्वेन प्रागुक्तप्रत्यक्षानुमित्योर् न बाध्यबाधक-भाव इत्येव युक्तः पन्था इति भावः । पराभिमतं बाधस्यासङ्कीर्ण-मुदाहरणान्तरमप्यनूद्य निराह– एतेनेति । निरस्तमित्यन्वयः । गन्धः सिध्येदिति । लिङ्गमपि स्वसमानाधिकरणलिङ्गिविषयकज्ञानजननस्वभाव-मित्यादि प्रागुक्तसामग्य्राः सत्त्वादिति भावः ॥

ननु सामग्रीसत्त्वेऽपि व्यभिचाररूपक्लृप्तदोषादेव तत्र गन्धासिद्धिरित्यत आह– गन्धेति । साध्यप्रागभाववद्गामित्वं न व्यभिचारः । किं तूक्तरूप एव । स च तत्र नास्ति । प्रागभावेन विरोधात् । अग्रे गन्धानुदया-पाताच्चेति भावः । कथं तर्हि तत्र बाध इत्यत आह– प्रागभावेति । साध्यसंसर्गाभावप्रमाया एव बाधशब्दार्थत्वादिति भावः । अस्तीतीति । १इति इति च दोषद्वयस्येत्यन्वयः । बाधितसाध्यके हेतुवृत्तेरेव व्यभिचारत्वात् । तथा समानाधिकरणसाध्यगोचरप्रमाजननस्वभावत्वाच्च । बाधस्य चानवतारादिति भावः । कथं तर्हि तत्र गन्धसिद्ध्यभावः । बाधस्य च त्वया तत्र दोषत्वानङ्गीकारादिति चेद् गन्धप्रागभाववति गन्धापादक-सामग्य्रा अभावादेवेति भावेन का तत्र तव सामग्री अभिमता । गन्ध-प्रागभावकालेऽपि गन्धसाधनेच्छामात्रं वा गन्धप्रागभावस्य पक्षतावच्छेद-कत्वमात्रं वा यदा पृथिवीत्वं तदा गन्ध इति व्याप्तिर्वा स्वावच्छिन्न-देशकालीनसाध्यबोधकस्वभावो वा यदा पृथिवीत्वं तदा गन्धप्रागभाव-कालीनगन्धवानिति व्याप्तिर्वा । आद्यं तावन्निराह– न तावदित्यादिना । व्याप्तिपक्षधर्मतामात्रपारतन्त्र्यादिति भावः । द्वितीयं निराह– नापीति । स्वसमानदेशत्वाक्षेप एवेति । स तु प्रकृते न बाधित इति भावः । तृतीयं निराह– नापि यदेति । चतुर्थमाशङ्कते– नन्विति । उक्तमिति । गन्धप्रागभावध्वंसदशायामिति पूर्वग्रन्थेनेति भावः । पञ्चममपि निरसितुमा-शङ्कते– अथेति । व्याप्तेरभावादिति । यदा पृथिवीत्वं तदा घटीयगन्ध-प्रागभावसमानकालीनो गन्धः १घटीय इति व्याप्तेः सत्त्वेऽपि समानाधिकरण-तादृशगन्धेन व्याप्तेरभिमतत्वात् । तस्याश्चाभावात् । अन्यथा छलवादा-पातादिति भावः । अन्यदपि पराभिमतमसङ्कीर्णोदाहरणमनूद्य निराह– एतेनेति । दोषाधीनत्वादिति । अप्रामाण्यस्य परतस्त्वादिति भावः । अन्यस्य २वाऽभावादित्यसिद्धमिति भावेनाह– बाधोऽस्ति चेदिति । बाधितसाध्यके ३हेतुरित्येव व्यभिचारत्वादित्यादिनोक्तत्वादित्यर्थः ॥

ननु सत्यपि तत्र व्यभिचारे तदप्रतिसन्धानदशायां काञ्चनमयो न भवति वह्निरिति बाधप्रतिसन्धानेऽपि तादृशानुमितेरप्रमात्त्वावगमात्सोऽपि पृथग्दोष एवेति चेद्भासकसामग्य्रभावेन तथाऽनुमितिरेवायुक्तेत्येतद्विपक्षे बाधमुखेनाह– किञ्चेति । ज्ञानाविषयस्यापि तादृशज्ञानबलालभ्यस्यापीत्यर्थः । यथार्थेति । सर्वत्राप्यनुमितौ यत्किञ्चिदविद्यमानस्य साध्यविशेषणस्य भानसम्भवादिति भावः । जयेति । सर्वत्रानुमितावयाथार्थ्यप्राप्तावयमनुमानप्रयोक्ता सदनुमानवादीति जयी, अयं चासदनुमानप्रयोक्तृत्वादपजयीति न स्यादित्यर्थः । अनन्यगत्या बाधस्य दोषत्वं वाच्यमिति शङ्कते– नन्विति । दोषान्तरासत्त्वोपपादनायोक्तं परामर्शनिष्पत्त्यनन्तरमिति । तदनिष्पत्ताव-सिद्ध्यादिरेव दोषस्तत्र भविष्यतीति भावः । दोषान्तरसत्त्वान्न बाधस्य तत्र दोषत्वं कल्प्यमिति परिहरति– निष्पन्नेऽपीति । बाधेन साध्याभावप्रमारूप-बाधेनेत्यर्थः । परामर्शेति । साध्यव्याप्यहेतुमानयमिति परामर्शेत्यर्थः । असिद्धिव्यभिचारयोरिति । व्याप्तस्य पक्षधर्मताप्रतीतिः सिद्धिः । तदभावोऽसिद्धिरित्युक्तेः । बाधितसाध्यके १त्ववृत्तिरूपत्वाद्व्यभिचारस्येति भावः । पराभिमतं प्रकारान्तरेण बाधस्य दोषत्वमाशङ्कते– नन्विति । तथापीति । दोषान्तरसाङ्कर्येऽपीत्यर्थः । प्रमात्वेति । साध्याभावज्ञानस्य प्रमात्वनिश्चयरूप इत्यर्थः । साध्याभावरूपार्थनिश्चयं प्रति तत्प्रमात्व-निश्चयस्य नोपजीव्यता । येन साध्याभावनिश्चयद्वारा निश्चितसाध्याभाव-वद्वृत्तित्वरूपव्यभिचारेऽप्युपजीव्यता स्यात् । किं तु अर्थनिश्चयस्यैव स्वप्रमात्वनिश्चये उपजीव्यतेति वैपरीत्यमेवेति निराह– साध्याभावेति । अर्थनिश्चायकत्वस्य प्रमात्वनिश्चयायत्तत्त्वे दोषान्तरमाह– त्वन्मत इति । अर्थनिश्चयस्य प्रामाण्यनिश्चयायत्तत्व इत्यत्र दोषान्तरमाह– परत इति । साध्याभावरूपार्थनिश्चयस्तत्प्रामाण्यनिश्चयाधीनः प्रामाण्यनिश्चयश्च प्रामाण्यग्राहकस्य प्रमाण्यनिश्चयाधीन इत्येवं रूपेणानवस्थेति भावः ॥

॥ परमते बाधस्य व्यभिचारसङ्करः ॥ ३५ ॥