पुनरप्यनुमानं द्विविधम् । स्वार्थं परार्थं च
अथ पञ्चावयवादिनियमभङ्गः ॥ २१ ॥
तर्कताण्डवम्
पुनरप्यनुमानं द्विविधम् । स्वार्थं परार्थं च । तत्र परोपदेशानपेक्षं स्वार्थम् । तत्सापेक्षं परार्थम् । ससामर्थ्यलिङ्गप्रतिपादकवाक्यात्मकः परोपदेशोऽपि परार्थानुमानमित्युपचर्यत इति स्थिते तस्य परोपदेशस्य जिज्ञासासंशयशक्यप्राप्तिप्रयोजनसंशयनिरासप्रतिज्ञाहेतूदाहरणोप-नय(निगम)नानीति दशावयवा इति जरन्नैयायिकाः । प्रतिज्ञादयः पञ्चेति नवीनाः । प्रतिज्ञादयो वोदाहरणादयो वा त्रय एवेति मीमांसकाः । उदाहरणोपनयौ द्वावेवेति सौगताः ॥
तन्न । आद्यपञ्चकस्याशब्दात्मकतया वाक्यावयवत्वस्यैवा-भावात् । उक्तनियमेषु हेत्वभावाच्च ॥
ननु– यावता व्याप्तिपक्षधर्मतादिविशिष्टलिङ्गधीस्तावदाकाङ्क्षा-क्रमेणाभिधेयम् अन्यथा न्यूनत्वापत्तेः । तत्र साध्यानुपस्थितौ हेत्वा-काङ्क्षैव नोदेतीति तदुपस्थित्यर्थं प्रतिज्ञा । ततः कस्मात्प्रमाणादिदं ज्ञेयम् इत्याकाङ्क्षायां पराङ्गतापन्नलिङ्गस्वरूपमात्रप्रतिपादकं धूमादिति हेतुवचनम् । ततोऽस्य सामर्थ्यजिज्ञासायां प्रथमं व्याप्तिप्रदर्शनार्थ-मुदाहरणम् । पश्चात्पक्षधर्मताप्रतिपादनार्थमुपनयः । ततः सर्वस्यैक-बुद्ध्यारोहायैकवाक्यतामापादयितुं निगमनम् ॥
यद्वा पक्षे१ प्रतिज्ञया प्रमेये उपस्थापिते हेतुना च तदवधारणार्थं लिङ्गरूपे प्रमाण उक्ते तस्य निरस्तसमस्तदोषशङ्कस्यैव प्रमेयावधार-कत्वाच्छङ्कानिरासार्थम् उदाहरणादयोऽपेक्षिताः । तत्र व्याप्तिदर्शकेनोदा-हरणेन विरुद्धानैकान्तिकानध्यवसितानां निरासः । उपनयेनासिद्धेः । निगमनेनापि सिद्धे सत्यारम्भस्य नियमार्थत्वात् तस्मादेव नान्य-स्मादिति हेत्वनुवादेन सिद्धसाधनताया अग्निमानेव न त्वनग्निक इति साध्यानुवादेन बाधसत्प्रतिपक्षयोर्निरास इति कथं पञ्चावयवनियमे हेत्वभाव इति ॥
उच्यते–
आद्यः पक्षस्तावन्न युक्तः । न हि वादिवाक्यमाप्तवाक्यतया व्याप्त्यादिविशिष्टलिङ्गप्रमापकम् । येनाकाङ्क्षाक्रमेणावयवनियमः स्यात् । वादिनोः परस्परमनाश्वासात् । अन्यथा प्रतिज्ञयैवालम् । किं तु गृहीतव्याप्त्यादिकं पुरुषं प्रति तत्साधकत्वेनागृहीतव्याप्त्यादिकं प्रति तु तज्जिज्ञासाजनकत्वेनोपयुज्यते ॥
तथा च व्याप्तिपक्षधर्मताभ्यां वा व्याप्तिसमुचितदेशसिद्धिभ्यां वा विशिष्टलिङ्गस्मृतिर्यावता भवति तावदेव वक्तव्यम् । अन्यथाऽऽधिक्या- पातात् ॥
सा च पर्वतोऽग्निमान्धूमवत्त्वान्महानसवदिति प्रतिज्ञाहेतू-दाहरणैकदेशदृष्टान्तवचनमात्रेण वा, अग्निव्याप्तधूमवत्पर्वतोऽग्निमानिति हेतुगर्भप्रतिज्ञामात्रेण वा, विवादेनैव प्रतिज्ञासिद्धौ कुतः पर्वतोऽग्नि-मानिति प्रश्नेऽग्निव्याप्तधूमवत्त्वादिति हेतुमात्रेण वा पर्वतस्याग्निमत्त्वे किं प्रमाणमिति प्रश्नेऽग्निव्याप्तधूमवत्त्वमिति लिङ्गोक्तिमात्रेण वा, धूमवन्महानसवत्पर्वतोग्निमानिति सप्रसिज्ञेन हेतुगर्भेण दृष्टान्तवचन-मात्रेण वा, अग्निना व्याप्तो धूमः पर्वतेऽस्तीत्युपनयमात्रेण वा, व्याप्तिमद्धूमवत्त्वात्पर्वतोऽग्निमानिति निगमनमात्रेण वा, जायमानानु-भूयत इति किं पञ्चावयवादिनियमेन ॥
आद्ये ह्यनुमानमुद्राभिज्ञस्य व्याप्तिग्रहणस्थले उक्ते व्याप्तिस्मृति-र्भवत्येवेति न न्यूनता । व्याप्तिवाचकशब्दस्तु यो यो धूमवानसाव-सावग्निमानित्युदाहरणभागान्तरेऽपि नास्ति ॥
द्वितीयेऽपि लोके शास्त्रे च हेतुगर्भविशेषणप्रयोगान्दृष्टवतो व्युत्पन्नस्य धूमवत्त्वं हेतुरिति धीर्भवत्येवेति न न्यूनता ॥
तृतीयेऽपि धूमवत्त्वादित्यस्य प्रश्नस्थेनाग्निमानित्यनेनान्वयान्ना-पार्थकता । नापि प्रतिज्ञाभावेन साध्यानुपस्थितेर्न्यूनता । विवादेनैव तदुपस्थितेः । न च समयबन्धादिना विप्रतिपत्तिर्व्यवहितेति वाच्यम् । समयबन्धानन्तरभाविना कुतोऽग्निमानिति प्रश्नेन पुनरपि साध्योप-स्थितेः । आद्यपक्षस्तु स्वपक्षं साधयेत्याद्यनुयोग एव प्रवृत्त इति स्वपक्षभूतसाध्योपस्थित्यर्थं तत्र प्रतिज्ञाऽपेक्षितैव ॥
ननु तथापि हेतुमात्राकाङ्क्षाशामकेन हेतुवचनेन धूमादित्येवंरूपेणैव भाव्यम् । न तु धूमवत्त्वादित्येवंरूपेण । तथा च पक्षधर्मताया अलाभात् पुनरपि तृतीये न्यूनतैव । मन्मते तूपनयेन तल्लाभ इति चेन्न । पक्षस्य साध्यवत्त्वे को हेतुरित्याकाङ्क्षाशामकेन हेतुवचनेन हेतौ पक्षसम्बन्धस्यापि बोधनीयत्वात् । अत एवोपनयोऽधिकः ॥
पञ्चमेऽपि महानसवदित्यनेन व्याप्तेर्धूमवदिति दृष्टान्तविशेषणेन पक्षधर्मतायाश्चोपस्थितिरिति न न्यूनता ॥
न चैवं वादिवाक्यस्याप्तवाक्यवदनुसरणीयत्वेन निग्रहोद्भावनं न स्यादिति वाच्यम् । प्रमापकत्वांशत्यागेन ज्ञापकत्वांशे लोकशास्त्र-प्रहतरीत्यनुसारिणो वादिवाक्यस्याप्यनुसरणीयत्वात् । अन्यथाऽग्नि-मानित्युक्तेऽग्निशब्दस्य चित्रमूलाद्यर्थत्वमादायार्थान्तराद्युद्भावनं स्यात् ॥
किं च त्वत्पक्ष एव न्यूनादिनिग्रहोद्भावनं न स्यात् । न्यूनादिकं प्रति लोकसिद्धमर्यादाया एवावधित्वात् । मत्पक्षे निग्रहोद्भावनं तु लोकसिद्धरीत्यतिक्रमे सावकाशम् ॥
या तु सुधायां संस्कारोद्बोधोपयुक्तं सादृश्यसम्बन्धादिकं किम-प्येष्टव्यमित्यादिना व्याप्तिपक्षधर्मतयोरन्यतरस्मिन्नुक्तेऽन्यस्य स्मृति-र्भविष्यतीत्युक्तिः सा दृश्यते खलु लोके पदैकदेशेन पदार्थस्मृति-रित्युक्तिवत्कथाबाह्यप्रयोगाभिप्राया वा, वादकथाभिप्राया वा, एकोक्तिमात्रेण द्व्यंशस्मृतिमत्पुरुषविशेषाभिप्राया वा, कैमुत्याभिप्राया वा, न तु द्वयोरन्यतरदेवाभिधेयमित्यभिप्राया ॥
अत एव विष्णुतत्त्वनिर्णयटीकायां ‘‘स्मरणं तु पदैकदेशादिनापि दृष्टं किमुत प्रतिज्ञादिभिः’’ इत्युक्तम् । अत एव च ब्रह्मतर्के–
युक्तिः प्रतिज्ञारूपा च हेतुदृष्टान्तरूपिका ।
तथोपनयरूपा च परा निगमनात्मिका ॥
इत्यवयवपञ्चकस्य प्रत्येकं परार्थानुमानत्वं प्रतिज्ञायान्ते व्याप्तिमाश्रित्य केवलं’’ इत्युक्त्या सर्वत्रापि व्याप्त्यभिधानं सूचितम् ॥
विष्णुतत्त्वनिर्णयटीकायामपि ‘व्याप्तिमाश्रित्येत्यपि पक्षान्तर-दर्शनं’’ इत्युक्त्या प्रतिज्ञादावपि व्याप्त्यभिधानं सूचितम् ॥
प्रमाणपद्धतावपि उपनयेऽग्निना व्याप्तो धूमः पर्वतेऽस्तीति, निगमनेऽपि व्याप्त्यादिमद्धूमवत्त्वादिति व्याप्तिरुक्ता । प्रमाणलक्षणेऽपि ‘हेतुगर्भा प्रतिज्ञा केवलाऽपि, सिद्धौ प्रतिज्ञायां हेतुमात्रं च, दृष्टान्तः सप्रतिज्ञो हेतुगर्भ इति व्याप्यरूपलिङ्गवचनार्थकेन हेतुशब्देन सर्वत्रापि व्याप्त्यभिधानं सूचितम् । सुधायामपि ससामर्थ्यलिङ्गप्रतीतिजनकं वाक्यमुपदेश इत्युक्तम् ॥
यद्वा धूमवत्त्वादित्येव हेतुः । न तु व्याप्तधूमवत्त्वादिति । एवमवयवान्तरेऽपि द्रष्टव्यम् । तथापि न न्यूनता । प्रतिवादिन आकाङ्क्षाक्रमेण व्याप्त्यादेस्तृतीयादिकक्ष्यासूक्तिसम्भवात् । स्वीकृता च त्वयाऽप्याकाङ्क्षाक्रमेणोक्तिः । किं तु तव मते प्रतिवादिना द्वितीयादिकक्ष्यास्वाकाङ्क्षिष्यमाणमपि व्याप्त्यादिकं वादिना पञ्चा-वयवेन महावाक्येनाद्यकक्ष्यायामेव वक्तव्यमिति नियमः । मम तु न । उत्तरत्राकाङ्क्षिष्यमाणस्याप्यादावेवोक्तावाकथापरिसमाप्ति याव-द्वक्तव्यं तावत आदावेवोक्तिप्रसङ्गात् ॥
किञ्च युगपदुक्तिनियमेऽपि तदभिमतस्योपनयस्य निगमनस्य च प्रत्येकं व्याप्त्याद्युक्तौ शक्तत्वात्किमवयवान्तरेण । तस्मादाद्यः पक्षो न युक्तः ॥
नापि सकलशङ्कानिरासार्थं पञ्चावयवनियम इति द्वितीयः । आदावेव सकलशङ्कानिरासकस्यैव परार्थानुमानत्वे पञ्चावयवप्रयोगेणैव तन्निवृत्तौ तावतैव कथामुद्रणापातेन तन्निवर्तिकाया कृत्स्नकथाया एव परार्थानुमानत्वप्रसङ्गात् । अवान्तरशङ्कानिवर्तकत्वं तु प्रत्येकं प्रतिज्ञा-देरप्यस्ति ॥
किञ्चोक्तरीत्यैकैकावयवेनापि व्याप्तिपक्षधर्मतयोरभिधानात्सकल-शङ्कानिवर्तकत्वं तस्याप्यस्ति । अपि चास्मिन् पक्षे कण्टकोद्धारोऽपि पृथङ्न कर्तव्यः स्यात् । तस्मात्पक्षद्वयमप्ययुक्तम् ॥
अपि च पञ्चावयवादिनियमोऽपि विप्रतिपन्नं प्रत्यनुमानेनैव साध्यः । तस्य प्रत्यक्षाद्यविषयत्वात् । पञ्चावयवप्रयोगेणैव तत्साधने मीमांसकादिं प्रत्याधिक्यप्रसङ्गात् । तत्परिहारार्थं पञ्चावयवनियमस्य तात्त्विकत्वसाधने चानवस्थानात् । तद्रीत्या त्र्यवयवादिप्रयोगे च तव न्यूनत्वापातात् ॥
तत्तन्मतरीत्या प्रयोक्तव्यमिति वा, यावता व्याप्त्यादिविशिष्ट-लिङ्गधीस्तावत्प्रयोक्तव्यमिति वा, समयबन्धेन च मीमांसकादिना स्वाभिमतावयवनियमसिद्ध्यर्थं कृतेन त्र्यवयवादिप्रयोगेन तव व्याप्ति-स्मृत्यादिरावश्यक इति स्वीकृतत्वेन त्वयैव पञ्चावयवनियमस्त्य-क्तव्यः । एवं मीमांसकादिभिरपि स्वाभिमतो नियमस्त्यक्तव्य इति कथं तन्नियमः ॥
किञ्च नेदं स्वसाध्यसाधकं, असिद्धत्वादित्याद्य१साधकानुमानेषु नायमसिद्धस् तल्लक्षणरहितत्वाद् इत्यादिकण्टकोद्धारानुमानेषु प्रथम-प्रयुक्तहेतोर्व्याप्तिपक्षधर्मतादौ विप्रतिपत्तौ तत्साधकेषु द्वितीयादि-कक्ष्यानिपातिषु शाखानुमानेषु वादिभ्यां कथामध्ये स्वाभिमततत्त-त्प्रमेयसिद्ध्यर्थं पञ्चावयवतां विनाऽप्युच्यमानेषु परिशेषार्थापत्त्यादि-रूपेषूपशाखानुमानेषु च त्वयैव नियमस्त्यक्त इति कथमन्यत्र तन्नियमः ॥
नन्वसिद्धत्वादेरसाधकत्वादिना व्याप्त्यस्वीकारे कथानधिकारेण तत्र व्याप्तेरुभयसंमतत्वात्पक्षधर्मतामात्रं प्रदर्शनीयमिति चेत् तर्हि कृतकत्वानित्यत्वयोरपि व्याप्तेर्मीमांसकसम्मतत्वात्तत्र केवलान्वयि-साध्यके हेतौ च व्यभिचारशङ्कानुदयात्तत्रापि पक्षधर्मतामात्रं प्रदर्शनीयं स्यात् ॥
किञ्च केवलान्वयिहेतौ पक्षधर्मतायाः सर्वसंमतत्त्वात्तत्र व्याप्तिमात्रं प्रदर्शनीयं स्यात् ॥
यदि च व्याप्त्यादौ प्रतिवादिनः संमतेऽपि वादिना स्वकर्तव्यं२ तर्ह्यसिद्धत्वासाधकत्वयोर्व्याप्तिप्रदर्शनमपि कर्तव्यमेव । किञ्चैवम-सिद्धस्यापि साधकत्वस्वीकारे कथानधिकार इत्यपि सुवचत्वेना-साधकतानुमानं विफलम् ॥
यदि च तत्स्वीकारिणोऽपि कथानधिकारे विप्रतिपन्नं प्रति असाधकतानुमानं सफलम् । तर्ह्यसिद्धत्वासाधकत्वयोर्व्याप्तौ विप्रतिपन्नं प्रति तत्प्रदर्शनमपि सफलमेव ॥
किञ्चैवं शाखोपशाखानुमानेषु का गतिस् तत्र व्याप्तेरुभय-सम्मत्यभावान् मदुक्तरीतिरेव वक्तव्येति मूलानुमानेषु तथैऽवास्तु ॥
अपि चाग्निना व्याप्तो धूमः पर्वतेऽस्तीति वाक्यम् आप्तोक्तं व्याप्त्यादिविशिष्टलिङ्गप्रमापकं दृष्टमिति तदेव वाद्युक्तं कथं तज्ज्ञापकं न स्यात् । किञ्च त्वयाऽपि त्वत्कल्पितपञ्चावयवनियमविस्मृति-दशायामवयवानियमोऽयुक्तो ऽतिप्रसङ्गादित्येतावतैवावयवानियमा-युक्तत्वस्य साध्यमानत्वात्स्वक्रियाविरोधः ॥
नन्वेवमनियमवादिमते कथं न्यूनाद्युद्भावनमिति चेन्न । उदाहरणान्तमुदाहरणादि वावयवत्रयमेवेति परमते कथमप्राप्तकाला-द्युद्भावनम् । कथं चोदाहरणे दृष्टान्तोक्तिर् यच्छब्दतच्छब्दयोर्वीप्सा विशिष्य कण्टकोद्धारो ऽसाधकताऽनुमानम् उपाधेः स्वशब्दोऽद्भावनं चानियतमिति नैयायिकमते न्यूनाद्युद्भावनम् ॥ समयबन्धानुसारेणेति चेत् । समं प्रकृतेऽपि । उक्तपक्षेष्वेतं१ पक्षमाश्रित्य वक्तव्यमिति वा लोकशास्त्रसर्वावगतमार्गेण व्याप्तिपक्षधर्मताविशिष्टलिङ्गोपस्थिति-र्यावता तावद्वक्तव्यमिति वा समयस्य बन्धनीयत्वात् । अत एव ब्रह्मतर्के ॥
‘‘पृथक्पृथक्प्रमाणत्वं याति युक्तितयैव तु’’ ।
इत्यत्र परार्थानुमानत्वे युक्तिशब्दवाच्यव्याप्तिपक्षधर्मताविशिष्ट-लिङ्गोपस्थापकत्वमेव तन्त्रमित्युक्तम् ।
यच्चोक्तं साध्योपस्थापकत्वात्प्रतिज्ञैव प्रथमेति । तन्न । क्वचि-द्विधितोऽप्यर्थवादस्य प्राथम्यवत्, भट्टादिमते उदाहरणस्य प्राथम्यवत्, ‘‘आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानां तस्मादनित्यमुच्यते’’ ‘‘अत एव प्राणः’’ ‘‘प्रवृत्तिसामर्थ्यादर्थवत्प्रमाणं’’ इत्यादौ निगमने च हेतोः प्राथम्यवच्च लोकशास्त्रव्यवहृतेनोपाद्धातन्यायेन हेतोरपि प्राथम्यसम्भवात् । विवादेनैव साध्योपस्थितेरुक्तत्वाच्च । पर्वतस्याग्नि-मत्त्वं कुत इति प्रश्ने प्रतिज्ञाया अनन्वयाच्च । त्वयाऽपि त्वत्कल्पित-प्रतिज्ञाप्राथम्यनियमविस्मृतिदशायां कदाचिद्धेतोरपि पूर्वमुक्त्या स्वक्रियाविरोधाच्च ॥
अत एव हेतुवचनस्य द्वितीयत्वनियमोऽपि निरस्तः । उपनयस्य सार्थक्यार्थं हेतुवचनस्य मतुबादिराहित्यं तु प्रागेव निरस्तम् । पृथिवीत्वादिसम्बन्धात्पृथिवीत्यादिस्वभाष्यविरुद्धं च ॥
यच्चोक्तं प्रतिज्ञायामग्निशब्दे हेतौ धूमशब्दे च तज्ज्ञाने लक्षणा । अन्यथा धूमस्याग्निं प्रत्यकारणत्वेन पञ्चम्या अयोगादिति । तन्न । धूमे वह्निज्ञानजनकज्ञानविषयत्वरूपज्ञापकहेतुत्वस्य सत्त्वात् ॥
ननु तद्विषयकज्ञानजनकत्वमेव ज्ञापकहेतुत्वं तच्च धूमज्ञानस्यैव न तु धूमस्येति चेन्न । धूमज्ञानगतं हि ज्ञापकत्वं न तावद्वह्निं प्रति । धूमज्ञानाद्वह्निरिति कदाऽप्यप्रयोगात् । नापि वह्निज्ञानं प्रति । तत्र कारकहेतुत्वस्यैव सम्भवात् । व्यावृत्तिधीहेतुधीविषये दण्डादौ व्यावर्तकशब्दस्येव वह्निधीहेतुधीविषये धूम एव वह्निज्ञापकशब्दस्य प्रयोगाच्च ॥
ज्ञापकहेतौ चानुपपत्तिप्रतिसन्धाननिरपेक्षप्रचुरप्रयोगादिना पञ्चमी मुख्यैव । अन्यथा सा कारकहेतावेवामुख्या स्यात् । कारकहेतावेव मुख्यत्वेऽपि पञ्चम्यामेव लक्षणाऽस्तु । न तु प्रधाने धूमप्रातिपदिके । न च सुब्विभक्तौ न लक्षणेति कुलधर्मः। वेदे ‘प्रयाजशेषेण हवीं-ष्यभिघारयति’ इत्यादौ, त्वन्मते चतुर्विंशतिगुणाः, एकः समवाय इत्यादौ च तद्दर्शनात् । न हि गुणा इत्यादिविभक्त्युक्ता बहुत्वादि-सङ्ख्या त्वन्मते गुणादावस्ति । प्रत्युत हेतुवचने ज्ञानलक्षणायामुदाहरणे उपनये च ज्ञानस्य गमकत्वार्थं तस्यैव व्याप्त्यादिविषयकत्वं वक्तव्यम् । न तु लिङ्गस्य व्याप्त्यादिमत्त्वम् ॥
किंचावयवेनानुमित्यङ्गमेव ज्ञानमुत्पादयितव्यम् । लिङ्गज्ञानमेव च तदङ्गम् । न तु लिङ्गज्ञानज्ञानम् । नापि वह्निशब्दे लक्षणा । पञ्चम्युक्तज्ञापकत्वान्तर्गतज्ञानं प्रति विषयतया वा ज्ञापकत्वं प्रत्येव ज्ञाप्यतया वाऽन्वयेनैव वह्नेर्ज्ञाप्यत्वसिद्धेः । दृश्यते च चैत्रमातेत्यादौ स्त्रीत्वविशिष्टजनकत्वरूपमातृत्वान्तर्गतजनकत्वेन सह चैत्रस्य जन्य-तयाऽन्वयः । उदाहरणेपि योयो धूमवानसाव‘ग्निमानिति पूर्वभागेनैव वा, यथा महानस इत्युत्तरभागेनैव वा व्याप्त्युपस्थितेरन्यतरद्व्यर्थम् ॥
अत एव दृष्टान्ताभिधानं सामयिकमिति चेन्न । अनुपयुक्त-मप्यभिधेयमिति समयबन्धस्यैवायोगात् । यस्य पुंसः पूर्वभागेन न व्याप्तिस्मृतिस्तं प्रति दृष्टान्तस्याप्युक्तिरिति चेन्न । तथात्वेऽवयवा-नियमसिद्धेः ॥
यच्च सकलस्यापि साधनवतः साध्यवत्त्वरूपव्याप्त्यन्तर्गत-साकल्यार्थं यच्छब्दे वीप्सेत्युक्तम् । तन्न । ‘गौर्न पदा स्पृष्टव्या’ ‘यस्योभयं हविरार्तिमार्छेत्’ यो ब्राह्मणायावगुरेत्तं शतेन यातया’-दित्यादाविव वीप्सां विनाऽपि यो धूमवानिति सामान्योक्त्यैव तत्सिद्धेः । इदमेतदभिन्नम्, एतदसाधारणधर्माधिकरणत्वाद् एत-द्वदित्यभेदानुमाने सपक्षव्यक्तिभेदाभावेन वीप्सार्थाभावाच्च । क्वचि-द्वीप्सा तु स्पष्टतार्था । अत एव विमतो भिन्नो मुक्तत्वाद्यदित्थं तत्तथेत्यादावाचार्योक्तौ न वीप्सा ॥
उपनयोऽपि हेतुवचनेन गतार्थः । अग्निव्याप्तधूमवांश्चायमिति त्वदभिमते उपनये उदाहरणसिद्धव्याप्त्यनुवादांशवैयर्थ्यं च । निगमन-मपि प्रतिज्ञया गतार्थम् । न चोपसंहारार्थं तत् । विजातीयबहुप्रमेया-व्यवधानेन तदनपेक्षणात् । अन्यथा प्रत्येकं कण्टकोद्धारानन्तरं तस्मात्सर्वदोषराहित्यादिदं साधकमित्याद्यपि निगमनं नियतं स्यात् । न च बाधादिशङ्कानिरासार्थं तत् । उदाहरणोपनयोक्तव्याप्तिपक्षधर्मता-भ्यामेव स्वविरोधिसर्वदोषप्रतिक्षेपात् ॥
तस्मात्पञ्चावयवादिनियमो न युक्त इति ॥
न्यायदीपः
पुनरनुमानं द्विविधं स्वार्थं परार्थं चेत्यादिना पद्धत्युक्तं विवृण्वान आह– पुनरिति । प्रागुक्तविभागापेक्षया पुनःशब्दः । व्याप्तिविशिष्टलिङ्गज्ञानरूप-मनुमानमित्यर्थः । तत्र तयोर्मध्ये । परोपदेशं वह्निव्याप्यधूमवानयमित्यादि-रूपपरकृतोपदेशं नापेक्षत इति परोपदेशानपेक्षम् । व्याप्तिविशिष्टलिङ्ग-ज्ञानमिति विशेष्यम् अत्रोत्तरत्र च योज्यम् । परोपदेशस्वरूपस्य पद्धतावनुक्तेः ‘अनुमा युक्तिरेवोक्तेति’ युक्तिपादीयानुव्याख्यानसुधोक्तमाह– ससामर्थ्येति । व्याप्तिसमुचितदेशवृत्तित्वरूपसामर्थ्यसहितम् । यद्वा व्याप्तिरेव सामर्थ्यम् । तत्सहितं यल्लिङ्गं धूमादि तत्प्रतिपत्तिजनकं वाक्यं परोपदेश इत्यर्थः । स च वह्निव्याप्यधूमवानयमित्यादिरूपः । वाक्यमात्रस्य परोपदेशतानिवृत्तये प्रतिपादकेत्यन्तोक्तिः । ससामर्थ्यलिङ्गप्रतिपत्तिसामान्यकारणादृष्टमनः-संयोगादिष्वतिव्याप्तिवारणाय वाक्यात्मक इत्युक्तिः । धूमोऽस्तीति वाक्येऽति-व्याप्तिनिरासाय सामर्थ्येति । पद्धतौ ‘तज्जनकत्वात्परोपदेशोऽपि परार्थानुमानमिति क्वचिदुपचर्यते’ इत्युक्तेराह– परार्थेति । इत्युपचर्यत इत्यर्थः ॥
यत्तु– ससामर्थ्यलिङ्गप्रतिपादकवाक्यं न परोपदेशस् तस्मिन्नेव वाक्येऽति-व्याप्तेरिति तन्न । ससामर्थ्यलिङ्गप्रतिपादकं वाक्यमिति वाक्यस्य तादृशवर्ण-मालारूपवाक्यप्रतिपादकत्वेन तादृश लिङ्गाप्रतिपादकत्वात् । अन्यथा घटाभावज्ञानमपि घटज्ञानं घटाभावव्यवहारोपि घटव्यवहार इत्यापातात् । अन्यानवच्छेदेन घटावगाहि घटज्ञानमिति चेद् अन्यानवच्छेदेन तादृशलिङ्ग-प्रतिपादकं परोपदेशः । न चैवमतिप्रसङ्गोऽस्ति । अन्यथा छलोत्तरत्वं स्यादिति भावः । आद्येति । जिज्ञासा ज्ञातुमिच्छा, वह्निमान्न वेत्यादि-संशयः, प्राप्तुं योग्यता शक्यप्राप्तिः प्रयोजनं प्रसिद्धं, वह्निमान्न वेत्यादिसन्देह-निरास इत्येवंरूपाद्यपञ्चकस्येत्यर्थः ॥
तत्र प्रतिज्ञादिस्वरूपं पक्षवचनं प्रतिज्ञा, लिङ्गं हेतुरित्यादिना मिथ्यात्वानुमानखण्डनतट्टीकातद्भावप्रकाशिकासु प्रमाणपद्धत्यादौ च व्यक्तत्वात्तत्स्वरूपमनुक्त्वा पञ्चैवावयवाः क्रमेणैव प्रयोज्या न न्यूनाः, त्रय एव प्रयोज्या न न्यूना नाधिकाः, द्वावेव प्रयोज्यौ न त्वधिक इति वादिनां यो नियमपक्षस्तन्निरासे युक्तिपादीयानुव्याख्यानसुधाद्युक्तिं हृदि कृत्वा हेतुमाह– उक्तनियमेष्विति । आकाङ्क्षैव हेतुरिति भावेन सुधाशङ्कितरीत्या मण्याद्युक्तरीत्या च शङ्कते– नन्विति । पर आहेत्यादिना सुधोक्तं पक्षान्तरमनुवदति– यद्वेति । अनध्यवसितपदेनासाधारणानैकान्तिकग्रहः । सुधोक्तरीत्या निराह– आद्य इत्यादिना । पररीत्या– व्याप्तिपक्षधर्म-ताभ्यामिति । स्वमतेनाह– व्याप्तिसमुचितदेशसिद्धिभ्यामिति ॥
ननूक्तरूपलिङ्गस्मृतिः कियता भवतीत्यतः पद्धत्याद्युक्तसप्तप्रकारैर्भव-तीत्याह– सा चेति । जायमानेत्यन्वयः । व्याप्त्यभिधानपूर्वं दृष्टान्तवचनं ह्युदाहरणम् । तत्र यो यो धूमवानसावसावग्निमानिति व्याप्त्युक्त्यंशत्यागेन महानसवदिति दृष्टान्तवचनमात्रेणेत्यर्थः । उक्तसर्वपक्षेषु व्याप्तिस्मृत्युत्पाद-प्रकारमुपपादयन्न्यूनतादिदोषं निराह– आद्ये हीत्यादिना ॥
ननु व्याप्तिबोधकशब्दाभावे कथं व्याप्तिस्मृतिरित्यत आह– व्याप्तिवाचकेति । यो य इति साध्ये सकलसाधनाधिकरणसत्त्वबोधकस्यैव सत्त्वाद्व्याप्तीतिपदाभावादिति भावः । नन्वेवमाद्यपक्षे प्रतिज्ञा व्यर्थैवेत्यतो दशाविशेष एव स पक्ष इत्याह– आद्यपक्षस्त्विति । अनुयोग एव– प्रश्ने सत्येवेत्यर्थः । अधिकः कृतकार्य इत्यर्थः । व्यर्थ इति यावत् । प्रमाप-कत्वांशेति । आप्तवाक्य इव वादिवाक्ये प्रमापकत्वाभावेऽपि ज्ञापकत्व-मात्रस्य सत्त्वाद्बाधितार्थकवाक्यस्यापि बोधकताया योग्यतावादे साधनादिति भावः ॥
चित्रमूलादीति । ननु तथोक्तौ छलेन निगृह्येतेति चेत् तदेव कुतः । प्रकरणाद्यननुसन्धानादिति चेत् समं प्रकृतेऽपीति भावः । लोकसिद्धेति । अस्मदुक्तप्रकारा एव लोकसिद्धमर्यादानुसारिण इति भावः । ननु युक्ति-पादीयसुधायां व्याप्तिपक्षधर्मत्वयोरन्यतरदेवाभिधेयम् । व्याप्त्यभिधानं नावश्यकमिति प्रतीतेः प्रागुक्तपक्षेषु च द्वयोरप्यभिधानप्रतीतेर्विरोध इत्यतः सुधोक्तमनूद्य तस्य चतुर्धाऽभिप्रायोक्त्या विरोधं निराह– या तु सुधायामित्यादिना । स इत्यस्यार्धवाक्यप्रयोगाभिप्राया वेत्यादिनान्वयः । वादेति । तत्र निर्णीताप्तभावत्वेन निग्रहस्थानाभावेन चैकदेशकीर्तनेऽप्युभय-स्मृतिसम्भवादिति भावः । कैमुत्येति । एवमेकदेशकीर्तनेनापि ससामर्थ्यलिङ्गस्मृतिर्भवति किमु प्रागुक्तसप्तप्रकारैस् तत्रापेक्षितशब्दानां सत्त्वादिति कैमुत्याभिप्राया वेत्यर्थः । अत एव चेति । व्याप्त्याद्यभिधान-स्यावश्यकत्वादेवेत्यर्थः । १सूचितमित्यन्वयः । ब्रह्मतर्क इति । तत्त्व-निर्णयोदाहृते, युक्तिर्व्याप्त्यादिमल्लिङ्गम् । प्रतिज्ञा रूपं निरूपकं स्मृत्यादि-जननी यस्याः सा तथोक्ता । एवं हेतुरूपिका दृष्टान्तरूपिकेत्याद्यपि व्याख्येयम् ॥
दृष्टान्तशब्देन तद्वचनमुपलक्ष्यते । उदाहरणैकदेशग्रहणार्थं दृष्टान्ते-त्युक्तम् । युक्ति२र्निगमजन्यस्मृतिमतीत्यर्थे निगमनात्मिकेत्यौपचारिकप्रयोगः । युक्तेरेकत्वेऽपि तत्स्मृतिजनकभेदाभिप्रायेणो३पचारेत्युक्तम् । अत्र सर्वत्र हेतुगर्भप्रतिज्ञारूपेति सप्रतिज्ञहेतुरूपिकेति हेतुगर्भसप्रतिज्ञदृष्टान्तरूपिकेति सप्रतिज्ञोपनयरूपेत्येवं पूरणीयम् । प्रतिज्ञाहेतुरूपैवेत्यादिवाक्यशेषात् । विष्णुतत्त्वेति । अत एवेत्यनुषङ्गः । तत्र सप्रतिज्ञोपनयरूपेति प्रागुक्तपक्षापेक्षया सव्याप्तिकोपनयरूपेत्येतदर्थपरत्वप्रतीतावपि तुल्य-न्यायत्वात्प्रतिज्ञादावपीत्युक्तम् । प्राक् स्वोक्तरीत्येपि भावः । सुधाया-मपीति । ‘व्याप्तिरेव तु सा स्मृते’ति युक्तिपादीयानुव्याख्यानव्याख्यावसरे सुधायामित्यर्थः । एवमवयवान्तरेऽपीति । प्रतिज्ञादयः पञ्चाप्यवयवा हेत्वादिकिञ्चित्सहिताः सन्तः प्रत्येकं परोपदेश इत्युक्तम् । तत्र प्रागुक्तसप्तसु परोपदेशप्रकारवाक्येष्ववयवभूतो यो हेत्वंशः स व्याप्त्यभिधानशून्यः । केवल एवाभिधेय इत्यर्थः । तृतीयादीति ॥
धूमवत्त्वादिति वादिनः प्रथमकक्षा, व्याप्तिर्नास्योपलभ्यते कथं व्याप्तिरिति वादिनो द्वितीया कक्ष्या, यो यो धूमवानिति व्याप्त्यभिधानवादिनस् तृतीया कक्षा, कथं व्याप्तस्य पक्षनिष्ठता समुचितदेशवृत्तिर्वेति प्रतिवादिनश्चतुर्थी कक्षा, वह्निव्याप्तो धूमः पर्वतेऽस्तीत्युपनयवादिनो वादिनः पञ्चमी कक्षेत्येवं रूपेण कथाप्रवृत्तेस्तृतीयादिकक्षास्वित्युक्तम् । मम तु नेत्ययुक्तम् । आकाङ्क्षिष्यमाणस्याप्यादावेव वक्तव्यत्वादित्यत आह– उत्तरत्रेति । पररीत्याप्युपनयनिगमनान्यतराभ्यामेवालमन्यद्व्यर्थमित्याह– किञ्चेति ॥
न पञ्चावयवोक्तौ तु विवादावसितिर्भवेत् ।
दृष्टान्तादिषु चैवं स्यात् ॥
इत्यनुव्याख्यानसुधोक्तदिशा निराह– आदावेवेत्यादिना । ननु हेत्वाभासादिदोषदुष्टतारूपावान्तरशङ्कापञ्चावयवप्रयोगमात्रेण निरस्यत इति तावदेवैकं महावाक्यमित्युच्यत इति चेत्तर्हि पर्वतो वह्निमान्न वेति शङ्कानिवर्तकत्वं पर्वतोऽग्निमानिति प्रतिज्ञायाः कुतोऽग्निमत्त्वमिति शङ्कानिरासकत्वं धूमवत्त्वादितिहेतुवचनस्य, कथमस्य व्याप्त्यादीति शङ्कानिषेधकत्वमुदाहरणस्य, इत्येवं रूपेणावान्तरशङ्का एकैकावयवोक्तावपि निवर्त्यत इति प्रतिज्ञादिकमपि प्रत्येकं परोपदेशरूपमहावाक्यं स्यादित्यर्थः । पूर्वपक्ष इवास्मिन् पक्षेऽपि पररीत्या सर्वाभासनिरासस्य प्रत्येकं सम्भवादवय-वान्तरं व्यर्थमेवेत्यत आह– किञ्चोक्तरीत्येति । सा च पर्वतोऽग्निमान् धूमवत्त्वादित्यादिनोक्तरीत्येत्यर्थः । तस्यापीति । प्रतिज्ञाहेतुदृष्टान्तरूपाद्यै-कैकावयवस्यापीत्यर्थः ॥
त्रिपञ्चावयवामेव युग्मावयविनीमपि ।
नियमाद्योऽनुमां ब्रूयात्तं ब्रूयाद्यदि तादृशीम् ॥
इत्यनुव्याख्यानसुधोक्तयुक्त्या च नियमपक्षं निराह– अपि च पञ्चावयवेति । प्रत्यक्षाद्यविषयत्वादिति । आगमस्य चाभावादित्यपि ध्येयम् । अनवस्थानादिति । पञ्चावयवनियमस्य पञ्चावयवयुक्तानुमानेन मीमांसकमवयवत्रयनियमवादिनं प्रति साधने त्वया कृते मीमांसकेनाधिकं निग्रहस्थानमित्युक्ते पुनस्त्वयाऽऽधिक्यदोषनिरासार्थं पञ्चावयवनियम एव परमार्थत्वमिति पञ्चावयवयुक्तेनानुमानेनैव साध्यम् । तत्रापि तेन पूर्वोक्तदोषेऽभिहिते पुनरनुमानान्तरेण त्वया तथैव साध्यमित्यनवस्थाना-दित्यर्थः । तद्रीत्या मीमांसकरीत्या ॥
एवं मीमांसकादिभिरिति । अवयवत्रययुक्तानुमाने मीमांसकेनोक्ते न्यूनतया नैयायिकेन प्रत्युक्तेऽवयवत्रयनियमस्य तात्त्विकतासाधनमपि तादृशप्रयोगेणैव कार्यमित्यनवस्थानात् । न्यायमतरीत्या मीमांसकेनोक्ते स्वमतेनाधिक्यं तत्तन्मतरीत्या प्रयोक्तव्यमित्याद्युक्तौ च न्यायमतरीत्या नैयायिकेन पञ्चावयवप्रयोगे कृते तेन तव व्याप्तिस्मृत्यादि भवतीत्युपेयमित्य-वयवत्रयनियमस्त्यक्त एव । एवं बौद्धेनापि स्वाभिमतो नियमस्त्यक्तव्य एवेत्यर्थः ॥
क्वचित्क्लृप्तत्वात्प्राथमिकस्थापनानुमानेपि न पञ्चावयवादिनियमो ग्राह्य इति प्रतिबन्दीमुखेनापि नियमभङ्गं साधयति– किञ्च नेदमिति । तथैव हेत्वाभासान्ते मणौ व्यक्तत्वादिति भावः । शाखानुमानेष्विति । प्रथमं प्रधानप्रमेयसाधनार्थं प्रयुक्तमनुमानं प्रधानं महावृक्षस्थानीयं तदुपयुक्ततया तद्दूषकतया वा प्रयुक्तानि शाखानुमानानि मध्येमध्येऽवान्तरप्रमेयोप-युक्तान्यनुमानान्युपशाखानुमानानीति शाखानुमानेषूपशाखानुमानेष्विति चोक्तम् ॥
परमुखेनोत्तरं वाचयित्वा सममित्याह– नन्विति । अविवादे तु नावयवान्तरप्रयोग इत्यत्र दोषान्तरमाह– किंच केवलान्वयीति । मदुक्तरीतिरिति । यावता तद्बोधस् तावन्मात्रमित्यादिना प्रागुक्तसप्त-प्रकारान्यतममेवानुसर्तव्यमित्यर्थः । सजातीयान्वयदर्शनरूपं वा अन्वयिता-वच्छेदकवत्त्वरूपं वा योग्यतावत्त्वं हेत्ववयवेऽप्यस्तीति तदेवानुमिति हेतुलिङ्गज्ञानजनकमित्यवयवान्तरं व्यर्थमेव । तावतैव सर्वदोषशङ्कानिवृत्ति-सम्भवाच्चेति भावेनाह– अपि चाग्निनेति ॥
व्याघाताच्च नियमपक्षस्त्याज्य इत्याह– किञ्च त्वयापीति । इत्येता-वतैव साध्यमानत्वादित्यन्वयः । इत्येतावतैव–प्रतिज्ञाहेतुरूपावयवद्वये-नैवेत्यर्थः । तत्र हेतुस्त्वत्कल्पितेत्यादि । अनियमेति । पञ्चावयवानियम-पक्षस्य यदयुक्तत्वं तस्येत्यर्थः । प्रतिबन्द्योत्तरमाह– उदाहरणान्तमिति । मन्मत इव तन्मतेऽप्यनियमस्य तुल्यत्वादिति भावः । अप्राप्तेति । क्रमविपर्यासोऽप्राप्तकालमित्यप्राप्तकालाख्यनिग्रहस्थानाद्युद्भावनमित्यर्थः । कथञ्चेत्यस्य न्यूनाद्युद्भावनमित्यन्वयः । अनियतपदं प्रत्येकमन्वेति । तेनैवोत्तरं वाचयति– समयेति । त्वयोदाहरणान्तमेव वाच्यमिति समयबन्धे सति तदतिक्रमेणोदाहरणादिप्रयोगे कथिते निग्रहस्थानोद्भावनमिति चेदित्यर्थः । अनियमपक्षे समयबन्ध एवायुक्त इत्यत आह– उक्तपक्षे-ष्विति । सा चेत्यादिना प्रागुक्तसप्तपक्षेषु ॥
ननु यावतेत्यादिना ग्रन्थेन प्रतिज्ञाद्यवयवानां यः पौर्वापर्यरूपक्रमः शङ्कितस् तमपि प्रत्याचष्टे– यच्चेति । विधितोऽप्यर्थवादस्येति । ‘‘प्रजापतिर्वा इदमेक आसीत्, सोऽकामायत प्रजाः पशून् सृजेयेति स चात्मनो वपामुदखिदत्तामग्नौ प्रागृह्णात्ततोजस्तूपरः समभवत् तं स्वायै देवताया आलभत्ततो वै स प्रजाः पशूनसृजत यः प्रजाकामः पशुकामस्स्यात्स एतं प्राजापत्यमजं तूपरमालभेते’’त्यादावर्थवादस्य प्राथम्यं यथेत्यर्थः ॥
भट्टादीत्यादिपदेन बौद्धग्रहः । हेतोः प्राथम्येऽर्थवादाधिकरणगतजैमिनि-सूत्रमुदाहरति– आम्नायस्येति । वेदस्य धर्माधर्मरूपकर्मलक्षण-क्रियाबोधकत्वात् । अतदर्थानामक्रियार्थकानाम् अर्थवादानामानर्थक्यं तस्मादर्थ-हीनत्वादनित्यमिवानित्यमप्रमाणमुच्यतेऽर्थवादजातमिति पूर्वपक्ष सूत्रार्थः । तथैव व्याससूत्रमुदाहरति– अत एवेति । निरवकाशलिङ्गादेव प्राणशब्दार्थो ब्रह्मेति सूत्रार्थः । तत्रैव गौतमसूत्रमुदाहरति– प्रवृत्तीति । सफलप्रवृत्ति-जनकत्वादर्थावगाहि प्रमाणमित्यर्थः । निगमने चेति । तस्मात्पर्वतो वह्निमानिति निगमनाख्यावयवेत्यर्थः । अत्रापि कथकानुमानप्रयोग-स्थलेऽपीत्यर्थः । प्रतिज्ञाया एवानैयत्यं कुतस्तत्प्राथम्यनैयत्यमित्याह– विवादेति ॥
ननु गिरिरग्निमान् गिरिरनग्निक इति विवाद एव स्पपरपक्षप्रतिज्ञारूप इति वदन्तं प्रति प्रकारान्तरेण तदनैयत्यमाह– पर्वतस्येति । अत एवेति । हेतुवचनप्राथम्यस्य प्रदर्शितत्वादेवेत्यर्थः । यत्तु मण्यादौ कथायां धूमादित्येव प्रयोक्तव्यं न तु धूमवत्त्वादिति । मतुबो व्यर्थत्वात् । पक्षधर्मता तूपनय-लभ्येत्युक्तं तन्निराह– उपनयस्येति । मतुबादीत्यादिपदेन उदाहरणसार्थक्यार्थं यद्व्याप्तिराहित्यमुक्तं तद्ग्रहः । वह्निव्याप्यधूमवत्त्वादिति प्रयोगस्य दर्शितत्वादिति भावः । प्रागेवेति । ननु तथापि हेतुमात्राकाङ्क्षा-शामकेत्यादिग्रन्थेनेति भावः । इति स्वभाष्येति । गौतमसूत्रभाष्ये । हेतुवचन एव मतुबर्थस्य पक्षसम्बन्धस्योपादानेन हेतुवचने मतुबो राहित्यकथनं तद्विरुद्धमित्यर्थः । मण्याद्युक्तमन्यदपि निराह– यच्चेति । अग्निमानित्यस्याग्निज्ञान१मित्यर्थः । धूमादित्यस्य च धूमज्ञानादित्यर्थः । धूमादिप्रातिपदिकेन ज्ञानलक्षणायां हेतुत्वार्थकपञ्चमी मुख्यैव संपद्यत इत्यर्थः । यज्ञपत्याद्युक्तदिशा निराह– धूम इति । व्यावृत्तीति । दण्डविशिष्टे अदण्डितो व्यावृत्तीत्यर्थः ॥
ननु धूमे वह्निज्ञापकशब्दप्रयोगो लक्षणयाऽस्त्वित्यत आह– ज्ञापकहेतौ चेति । मुख्यार्थानुपपत्तीत्यर्थः । एवं प्रयोगेऽपि लक्षणेत्युक्तौ बाधकमाह– अन्यथेति । यद्वा नन्वन्यायश्चानेकार्थत्वमिति न्यायेनैकत्रैव मुख्यत्वमन्यत्रा-मुख्यत्वमुपेयमित्यत आह– अन्यथेति । अस्तु वा त्वद्रीत्या कारकहेतावेव पञ्चमी मुख्या । तथाप्यन्यत्र ज्ञापकहेतौ लाक्षणिकीति स्यादित्याह– कारकहेतावेवेति ॥
ननु सुब्विभक्तौ लक्षणा न युक्तेत्यत आह– न चेति । क्वाप्यनुपलम्भान्न सुब्विभक्तौ लक्षणेत्यत आह– वेद इति । प्रयाजशेषेणेति । वाजपेयगते प्रयाजशेषेणेति वाक्ये द्वितीयातृतीयाभ्यां शेषस्य हविस्संस्कारार्थत्वप्रतीत्या प्रयाजनामकयागसाधनाज्यद्रव्यशेषेण हविस्संस्कुर्यादित्यर्थ इति प्राप्ते शेषस्य प्रतिपत्तिमात्रापेक्षत्वात्तत्प्रातिपदिकस्वारस्यानुरोधेन प्रयाजनामकयाग-साधनाज्यशेषं हविष्षु स्थापयेदित्यर्थस्य चतुर्थस्याद्यपादे ‘अभिघारणे विप्रकर्षादनुयाजवत्पात्रभेदः स्या’दिति त्रयोदशेऽधिकरणे व्यवस्थापितत्वेन तृतीयाद्वितीययोः कर्मत्वाधिकरणार्थत्वस्वीकारदर्शनादित्यर्थः । बहुवचनैक-वचनयोरविवक्षितार्थत्वभ्रान्तिनिरासाय चतुर्विंशतीति एक इति च विशेषणो-पादानम् । तद्दर्शनादिति । गुण्यादिस्थसङ्ख्यालक्षणया१ दर्शनादित्यर्थः ॥
लिङ्गज्ञानमेव चेति । न तु लिङ्गज्ञानज्ञानम् । ज्ञानलक्षणापक्षे च लिङ्गज्ञानज्ञानमेवोत्पाद्यम् । गङ्गापदेन तीरज्ञानमिव । तच्च नानुमित्यङ्गमिति भावः । हेतौ ज्ञानलक्षणां निरस्य साध्येऽपि तां निराह– २न त्विति । वह्निज्ञानजनकज्ञानविषयत्वरूपज्ञापकत्वान्तर्गतवह्निज्ञानं प्रतीत्यर्थः । ज्ञाप्यतयेति । ज्ञानजनकत्वरूपज्ञापकत्वं प्रत्येव तज्जन्यज्ञानविषयत्व-रूपज्ञाप्यतयेत्यर्थः ॥
नन्वाद्यपक्षे पदार्थैकदेशेन कथमन्वय इत्यत आह– दृश्यते चेति । उदाहरणरूपावयवमपि पराभिप्रेतं निराह– उदाहरणेऽपीति । शङ्कते– अत एवेति । पूर्वभागमात्रेण व्याप्त्युपस्थितेर्जातत्वादेव । सामयिकं समयबन्ध-कृतमित्यर्थः । अवयवेति । अवयवानियमस्यास्मत्पक्षस्य सिद्धेरित्यर्थः ॥
गौरिति । या गौः सा पदा न स्पृष्टव्येत्यभिप्रायेण ‘गौर्न पदा स्पृष्टव्ये’त्युच्यते वेदे, तथा ‘यस्योभयं सायङ्कालीनं प्रातःकालीनं च हविः क्रिमिकीटादिवशेनार्तिं नाशमाप्नुयाद् ऐन्द्रं पञ्चशरावमोदनं निर्वपे’दित्यत्र यस्य यस्य पुंस इति वक्तव्ये यस्येति सकृदेवोक्तिर्यथा, अथ यो ब्राह्मणायावगुरेद् वधोद्योगं कुर्यात् तं शतयातनाख्यनरकिणं विद्यादित्यादौ यो य इति वीप्सां विना यथोक्तिरित्यर्थः ॥
ननु कथं तर्हि ‘यद्यत्पापं प्रति जहि जगन्नाथ तन्मे’ ‘यां यां प्रियः पै्रक्षते’त्यादौ वीप्सोक्तिरित्यत आह– क्वचिदिति । आचार्योक्ताविति । तत्त्वोद्योते । उपनयाख्यावयवं च निराह– उपनयोऽपीति । पञ्चमावयवं च निराह– निगमनमपीति । उपसंहारार्थमिति । पृथक्पृथग्वाक्योक्तानामेक-बुद्ध्यारोहार्थमित्यर्थः । प्रत्येकं कण्टकेति । नायमसिद्धस् तल्लक्षणहीनत्वा-दित्युक्त्वा तस्मादसिद्धिराहित्यादिदं साधकम्, नायं विरुद्धस् तल्लक्षणराहित्या-दित्युक्त्वा विरुद्धराहित्यादिदं साधकमिति प्रत्येकं निगमनं स्यात्, तथा नायमाभासस् तल्लक्षणैर्हीनत्वादित्यनन्तरं तस्मात्सर्वदोषराहित्यादिदं साधक-मिति, तथा इदमसाधकम् असिद्धत्वादिति दूषकतानुमानेऽपि तस्मादसिद्ध-त्वादिदमसाधकं तस्मादाभासकत्वादिदमसाधकमित्युपसंहारः स्यात् । ननु कदाचित्तत्रापीष्यत एवेत्यत आह– नियतमिति । तदिति । निगमन-मित्यर्थः । पूर्वोक्तदिशेति भावः ॥
॥ पञ्चावयवादिनियमभङ्गः ॥ २१ ॥