१४ केवलव्यतिरेकिभङ्गः

केवलव्यतिरेक्यनुमानं च न युक्तम्

अथ केवलव्यतिरेकिभङ्गः ॥ २० ॥

तर्कताण्डवं

केवलव्यतिरेक्यनुमानं च न युक्तम् । त्वन्मते व्याप्तिग्रहार्थं प्रतिज्ञावाक्यस्याबोधकत्वपरिहारार्थं च विशिष्टज्ञानं विशेषणज्ञान-पूर्वकमिति नियमार्थं साध्यप्रसिद्धेरावश्यकत्वात् । केवलव्यतिरेकिणि च तस्या अभावात् ॥

तत्र साध्यप्रसिद्धिर्न तावत्पक्षे केवलव्यतिरेकिवैयर्थ्यात् । नाप्यन्यत्र । तत्र हेतोर्वृत्तावन्वयित्वस्यावृत्तावसाधारण्यस्य चापातात् ॥

नापि पक्षैकदेशे तेन नासाधारण्यम् । पक्षादन्यत्र तदप्रसिद्धेः, नापि केवलव्यतिरेकवैयर्थ्यम् । तस्य कृत्स्ने पक्षे साध्यप्रतीत्यर्थ-त्वादिति वाच्यम् । पृथिवीतरभिन्नेत्यादौ पक्षस्यैकदेशसत्त्वेपि गगन-मितरभिन्नमित्यादौ तदभावात् । अंशे सिद्धसाधनाच्च । अभेदानुमान इव पक्षैकदेशस्य निश्चितसाध्यकतयाऽन्वयदृष्टान्तत्वसम्भवेन केवल-व्यतिरेकित्वभङ्गाच्च । पक्षभिन्नत्वेन विशेषणे च गौरवम् ॥

न चान्वयाप्रतिसन्धानदशायां केवलव्यतिरेकित्वमिति वाच्यम् । तथात्वेऽन्वयव्यतिरेकिण्यपि तत्प्रसङ्गात् । अन्वयाप्रतिसन्धाने स्वनिरूपितव्याप्तिज्ञानाभावेनानुमितिरेव नास्तीति वक्ष्यमाणत्वाच्च ॥

न च यत्रानित्ये वाङ्मनसे इत्यादौ पक्षतावच्छेदकनानात्वं तत्रैवांशे सिद्धसाधनम् । इह तु तदवच्छेदकं पृथिवीत्वमेकमेवेति वाच्यम् । उद्देश्यप्रतीतिसिद्ध्यसिद्ध्योरेव सिद्धसाधनतदभावौ प्रति तन्त्रतयाऽस्य परिभाषामात्रत्वात् ॥

न च तर्ह्युद्देश्यायाः पृथिवीत्वावच्छेदेनेतरभेदबुद्धेरंशेऽप्यभावान्नांशे सिद्धसाधनमिति वाच्यम् । निश्चितसाध्यकत्वेन सन्देहसिषाधयिषयोर-भावेनैकदेशस्य त्वन्मते पक्षत्वायोगात् ॥

न च घटस्य घटत्वेनेतरभेदनिश्चयेऽपि पृथिवीत्वेन तत्सन्देहादिक-मिति वाच्यम् । विशेषाकारेणेतरभेदनिश्चये सति सामान्याकारेण तत्संदेहस्य तद्विशेषेतरविशेषविषयत्वनियमात् । अन्यथैतत्पर्वतत्वेन वह्निमत्तया निश्चयेऽपि पर्वते पर्वतत्वेन तत्सन्देहापत्त्या तत्र वह्न्यर्थिनो निष्कम्पप्रवृत्तिर्न स्यात् ॥

नापि पक्ष एव सन्देहरूपा साध्यप्रसिद्धिः । एवं च नान्वयि-त्वादिकम् । पक्षैकदेशेऽपि साध्यानिश्चयात् । नाप्यसाधारण्यं सपक्षाभावान् नापि व्यतिरेकिवैयर्थ्यम् । तस्य निश्चयार्थत्वादिति वाच्यम् । साध्यकोटेरप्रसिद्ध्या सन्देहस्यैवायोगात् ॥

न च तेजोभिन्ना पृथिवी जलादिद्वादशभिन्ना न वेति तेजोभिन्न-धर्मिकजलादिद्वादशभिन्नत्वकोटिकसंशयेनार्थात् त्रयोदशभिन्नत्व रूपसाध्यप्रसिद्धिर्युक्तेति वाच्यम् । संशयस्यासार्वत्रिकत्वात् । संशयरूपसाध्यप्रसिद्धेर्मयापि स्वीकाराच्च । शशीयकर्णादौ शशीयमिदं शृङ्गं न वेति सन्देहेन शशशृङ्गस्यापि प्रसिद्धिप्रसङ्गाच्च । विशेषण-निश्चयजन्यविशिष्टनिश्चयरूपानुमित्यङ्गभूतायाः साध्यतावच्छेदकत्रयो-दशभिन्नत्वप्रकारिकाया निश्चयरूपप्रसिद्धेरभावाच्च ॥

न च तर्हि पक्षादन्यत्रैव त्रयोदशसु त्रयोदशभेदानां विशकलितानां निश्चयरूपा प्रसिद्धिरस्तीति नाप्रसिद्धविशेषणत्वादीति वाच्यम् । जीवच्छरीरजातं सात्मकमित्यादावखण्डसाध्यक उक्तप्रकारा-सम्भावात्१ । त्रयोदशसु साध्यप्रसिद्धौ तत्र साध्याभावस्यासत्त्वेन व्यतिरेकव्याप्तिग्रहासम्भवाच्च ॥

किञ्चैकेनैव लिङ्गेनैकदा साध्यमाना अपि त्रयोदशभेदाः प्रत्येक-निरूपितत्रयोदशव्याप्तिभिरेव साधनीयाः । न तु मिलितनिरूपितैक-व्याप्त्या । मिलिताप्रसिद्धौ तदज्ञानात् । तथा च प्रत्येकमेव साध्यता विश्रान्तेत्येकैकभेदरूपसाध्यवतो जलादेरेव सपक्षत्वेन ततो व्यावृत्त-त्वेन हेतोरसाधारण्यतादवस्थ्यम् ॥

ननु– प्रत्येकव्याप्त्या प्रत्येकभेदसाधनेऽपि नासाधारण्यम् । अनुमितिविषयसाध्यवद्व्यावृत्त्या हि तद्भवति । अन्यथा दूष्यानु-मित्यविरोधित्वेनासाधारण्यस्य प्रतिपक्षोन्नायकत्वं न स्यात् । न च प्रकृतेऽनुमिति विषयमिलितभेदरूपसाध्यवानन्योऽस्ति । येन तद्व्यावृत्त्याऽसाधारण्यं स्यादिति चेन्न । प्रत्येकभेदवद्व्यावृत्तेऽपि स्वसाधितप्रत्येकभेदाभावद्वारेण भेदमेलनविघटकतया दूष्यानुमिति-विरुद्धत्वात् ॥

किं चास्मिन्पक्षे भेदमेलनं पक्षधर्मताबललभ्यम् । न च तद्बललभ्यसाध्यवद्व्यावृत्त्याऽसाधारण्यं युक्तम् । तथात्वेऽनुमानफलस्य निष्पन्नतया साधारण्यस्याकिञ्चित्करत्वापातात् ॥

अथ– साध्यतावच्छेदकावच्छिन्नसाध्यवद्व्यावृत्त्यैवासाधारण्यम् । प्रकृते च साध्यतावच्छेदकं भेदगतं व्यासज्यवृत्तित्रयोदशत्वम् । तच्च न प्रत्येकपरिसमाप्तम् । ततः प्रत्येकभेदवद्व्यावृत्तावपि नासाधारण्य-मिति चेन्न । एवमसाधारण्यपरिहारेऽपि त्रयोदशत्वपर्याप्त्यधि-करणत्वरूपसाध्यतावच्छेदकावच्छिन्नसाध्याप्रसिद्धेरप्रसिद्धविशेषणत्व- तादवस्थ्यात् । जलादौ स्वस्माद्भेदाभावेऽपि तेज आदिद्वादशभेदानां सत्त्वेन त्रयोदशभेदाभावरूपसाध्यव्यतिरेकाभावेन व्यतिरेकव्याप्ति-ग्रहानुपपत्तेश्च ॥

ननु घटस्य सत्त्वेऽपि पटाभावेन घटपटौ न स्त इतिवज्जले द्वादश-भेदेषु सत्स्वपि जलाद्भेदाभावेन व्यासज्यवृत्तिप्रतियोगिताकत्रयोदश-भेदाभावोऽस्तीति चेन्न । पृथिव्यां जलात्मकत्वे सत्यपि तेज आद्य-नात्मकत्वमात्रेण त्रयोदशान्योन्याभावोपपत्त्याऽर्थान्तरात् । लाघवेन प्रतियोगिसत्त्वमात्रमभावविरोधीति वदता त्वयैव व्यासज्यवृत्ति-प्रतियोगिकाभावानङ्गीकाराच्च । घटे सत्यपि घटपटौ न स्त इति धीस्तु घटे पटसाहित्याभावविषयेति त्वयैवोक्तम् ॥

तस्मादप्रसिद्धविशेषणत्वांशे सिद्धसाधनत्वा१न्वयित्वासाधारण्या-नामन्यतरद्दुर्वारम् ॥

न चासाधारण्यस्य सत्प्रतिपक्षवद्विपक्षे बाधकाभावदशायामेव दोषत्वात्प्रकृते च विपक्षे बाधकस्य सत्त्वात्तस्यादोषत्वमिति वाच्यम् । तथापि सपक्षसत्त्वेनाविद्यमान सपक्षत्वरूपकेवलव्यतिरेकित्वभङ्गात् ॥

एतेन जलत्वादित्रयोदशधर्मसंसर्गात्यन्ताभावाः साध्याः । ते च पक्षैकदेशे घटादौ मिलिता वा पक्षादन्यत्र विशकलिता वा घटादौ जलत्वं नेत्यादिप्रत्यक्षेण सिद्धा इति निरस्तम् । उक्तरीत्याऽन्वयित्वा-साधारण्यान्यतरापत्तेर्दुर्वारत्वात् ॥

ननु तर्हि जलं तेजःप्रभृतिद्वादशभिन्ननिष्ठभेदप्रतियोगि द्रव्यत्वा-त्तेजोवदित्यनुमानेन वा व्याघातदण्डभयेन वा सामान्यतः प्रसिद्धं त्रयोदशभिन्नत्वं पृथिव्यां साध्यते । ततो नान्वयित्वमसाधारण्यं वा । सांमुग्ध्येन साध्यसिद्धावपि पक्षो वा पक्षादन्यो वायं साध्यवानिति व्यक्तिविशेषनिश्चयाभावादिति चेन्न । व्यक्तिविशेषानिश्चयेऽपि व्यतिरेकिप्रवृत्तेः प्राक्कश्चित्साध्यवानिति निश्चये तस्यैव सपक्षत्वेन व्यतिरेकित्वभङ्गात् । अन्यथोपाधिना क्वचिद्व्याप्तिभङ्ग इति निश्चयेऽपि अत्रेति व्याप्तिभङ्गस्थलविशेषस्यानिश्चयात् सोपाधिकोऽपि सद्धेतुः स्यात् ॥

अथ– यदनङ्गीकारेऽनिष्टप्रसक्तिस् तत्प्रामाणिकमिति नियमात् प्रकृतसाध्यानङ्गीकारे चानिष्टप्रसक्तेः सत्त्वात् साध्यस्य सामान्येन प्रामाणिकत्वे सिद्धे प्रमाणविशेषजिज्ञासायां व्यतिरेक्युपन्यास इति न कोऽपि दोष इति चेन्न । प्रामाणिकत्वेनैवार्थे निश्चिते प्रमाण-विशेषजिज्ञासाया विशेषगतविशेषजिज्ञासाया इव वैयर्थ्यात् । प्रमाणसामान्येन साध्यवत्तया निश्चितस्यापि सपक्षत्वेन केवल-व्यतिरेकित्वभङ्गाच्च ॥

तस्मान्न व्यतिरेक्यनुमानं युक्तम् । किञ्चाभावगतया व्यतिरेक-व्याप्त्या कथं भावस्य गमकत्वम् ॥

ननु गमकत्वेऽन्वयव्यतिरेकव्याप्त्यनुगतं व्याप्तित्वमेव तन्त्रम् । न त्वन्वयव्याप्तित्वम् । गौरवाद् इति चेन्न । तथात्वे धूमगतया वह्निव्याप्त्या कृतकत्वस्यानित्यत्वगमकत्वापत्त्या स्वनिष्ठव्याप्तित्वं तन्त्रमिति वक्तव्यत्वेनाभावनिष्ठव्याप्त्या भावस्य गमकत्वायोगात् ॥

नन्वन्वयिनि स्वनिष्ठा व्याप्तिस्तन्त्रम् । व्यतिरेकिणि त्वभाव-गता । न चातिप्रसङ्गः । प्रतियोग्यनुयोगिभावस्य नियामकत्वादिति चेन्न । व्याप्यं लिङ्गमिति लिङ्गलक्षणस्य व्यतिरेकिण्यव्याप्त्यापातात् ॥

१न च स्वनिरूपितव्यभिचारविरोधित्वरूपं वा स्वनिरूपित-व्यभिचारधीप्रतिबन्धकधीविषयत्वरूपं वा व्याप्तिमत्त्वमुभयानुगतमिति वाच्यम् । स्वनिरूपितव्याप्त्यपेक्षयाऽस्य गुरुत्वात् । एतदज्ञानेऽप्यनु-मित्युत्पत्तेरनुभवाच्च । साध्यसाधनसामानाधिकरण्यगर्भितत्वेन त्वन्मतेऽस्य व्याप्तित्वायोगाच्च ॥

किंच व्याप्तिविशिष्टपक्षधर्मताज्ञानरूपलिङ्गपरामर्शोऽनुमितिमात्रे हेतुः । व्यतिरेकिणि च स न युक्तः । व्याप्तिपक्षधर्मतयोर्वैयधि-करण्यात् ॥

न चान्वयिनि लिङ्गपरामर्शो, व्यतिरेकिणि साध्याभावव्यापका-भावप्रतियोगित्वज्ञानं, अनुमितिमात्रे तु पक्षधर्मताधीर्हेतुरिति वाच्यम् । तृणारणिमणिजन्यवह्निष्विव लिङ्गपरामर्शादिरूपोक्तकारणद्वयजन्यानु-मितिष्ववान्तरविशेषस्याननुभवात् । तत्कल्पनस्य चान्योन्याश्रयेण योग्यानुपलब्धिबाधेन चायुक्तत्वात् ॥

किञ्च व्यतिरेकव्याप्तेः साक्षाद्गमकत्वे व्यर्थविशेषणत्वस्य त्वदभि-मतं व्याप्तिज्ञानप्रतिबन्धद्वाराऽनुमितिप्रतिबन्धकत्वं न स्यात् । वैयर्थ्ये-नान्वयव्याप्तिविघटनेऽपि व्यतिरेकस्याखण्डाभावतया वैयर्थ्याभावेन व्यतिरेकव्याप्त्यविघटनात् ॥

अपि चैवं विरुद्धस्य साध्यव्यापकाभावप्रतियोगित्वं दूषकता-बीजमिति त्वदभिमतं न सिध्येत् । तथा हि– उक्तप्रतियोगित्वस्य ज्ञानं किमव्यभिचारज्ञानप्रतिबन्धद्वाराऽनुमितिप्रतिबन्धकम् । किं वा सहचारज्ञानप्रतिबन्धद्वारा । नाद्यः । विरुद्धस्य साधारणान्त-र्भावापातात् । न द्वितीयः । सकलसाध्यवति हेत्वभावज्ञानस्यान्वय-सहचारज्ञानविघटकत्वेऽपि व्यतिरेकसहचारज्ञानविघटकस्य सकल-साध्याभाववति साधनमिति ज्ञानस्याभावेन तदविघटनात् ॥

तस्मान्न व्यतिरेक्यनुमानं युक्तम् ॥

परीक्षकाणां व्यतिरेकव्याप्त्युपन्यासस्तु– यथोपाधिसिद्धिसाध्य-साधनवैकल्यादेरनुमानदूषकव्यभिचारादिसाधनतयोपन्यासो न तु साक्षाद्दूषकतया । यथा वा दृष्टान्तस्यानुमानाङ्गव्याप्तिप्रदर्शक-तयोपन्यासः न तु साक्षादङ्गतया । तथानुमानाङ्गान्वयव्याप्तिसाधक-तया न तु साक्षादङ्गतयेति द्रष्टव्यम् ॥

यद्यप्यन्वयव्यतिरेकिणि व्यतिरेकव्याप्तिर्नान्वयव्याप्तिसाधिका । तत्रान्वयव्याप्तेरन्यत एव सिद्धेः । तथापि स्पष्टव्यभिचारेऽप्यनुमाने उपाधिवन्मूकीभूता वा अन्वयव्याप्तेरेव व्यभिचारशङ्कां निराकुर्वन्ती वाऽवतिष्ठते ॥

यत्तु सुधायां व्यतिरेकि नानुमानं पञ्चरूपतावैधुर्यादित्येतत्परि-शेषादिरूपानुमानेष्वनैकान्तिकमिति व्यतिरेकिणस्तटस्थाशङ्किता-ननुमानत्वनिराकरणं तदप्रसिद्धविशेषणत्वस्य दोषत्वे व्यतिरेकि-प्रामाण्यं न स्यादिति परं प्रत्यापादनस्य तत्र प्रस्तुतत्वात्पररीति-माश्रित्य वा १व्यतिरेकिव्याप्तिसाधकतयोपयुज्यत इत्यभिप्रेत्य वा, पञ्चरूपतावैधुर्यादननुमानत्वं न किं तु व्याप्तिपक्षधर्मतयोर्वैयधिकरण्या-देवेत्यभिप्रेत्य वेति द्रष्टव्यम् ॥

अन्यथा व्यतिरेकव्याप्तेरनुमानानङ्गत्वादित्यादितद्वाक्यविरोधात् । तस्माद्व्याप्तेर्द्वैविध्यमनुमानस्य त्रैविध्यं चायुक्तमिति ॥

न्यायदीपः

केवलान्वयिधर्मलक्षणखण्डनेनैव केवलान्वयिसाध्यकमनुमानं निरस्तं मत्वाऽऽह– केवलव्यतिरेकीति । यस्य धर्मस्य केवलं व्यतिरेको अभाव एव प्रसिद्धः न तु भावः स धर्मः केवलव्यतिरेकीति तादृशधर्मसाध्यकमनुमान-मपि केवलव्यतिरेक्यनुमानमित्यर्थः । व्याप्तीति । साध्याप्रसिद्धौ तन्निरूपित-तत्सामानाधिकरण्यादिरूपव्याप्तिग्रहासम्भवादिति भावः । अबोधकत्वेति । साध्यधर्मस्याप्रसिद्धौ तत्र शब्दस्य शक्तिग्रहायोगेनाव्युत्पन्नसाध्यपदघटित-प्रतिज्ञावाक्यस्य बोधकत्वायोगादिति भावः । विशिष्टेति । व्यतिरेकिहेतु-नोत्पन्नसाध्यविशेषणकपक्षविशेष्यकविशिष्टज्ञानमनुमितेः पूर्वं साध्याप्रसिद्धौ विशेषणज्ञानपूर्वकं न स्यात् । तथा च तत्पूर्वकत्वनियमश्च निर्विकल्पक-ज्ञानवादिना त्वयाऽङ्गीकृत इति तद्रक्षार्थं साध्यप्रसिद्धिरावश्यकीत्यर्थः ॥

कथमभाव इत्यतो भक्तिपादे साध्याप्रसिद्धेरदोषत्वोक्तिप्रस्तावे सुधोक्तरीत्याऽऽह– तत्रेति । केवलव्यतिरेकिणीत्यर्थः । व्यतिरेकवादे मणौ सिद्धान्ते कथितं निराह– नापीति । इतरेति । जलादीन्यष्टद्रव्याणि गुणकर्मसामान्यविशेषसमवायाः पञ्चेति त्रयोदशपदार्था इतरपदार्थाः । तदभावादिति । तस्याखण्डत्वोपगमात्तार्किकैरिति भावः । अभेदेति । अयमेतद्भिन्न१ एतद्वृक्षत्वादेतद्वृक्षवदित्यनुमान इवेत्यर्थः ॥

ननु पक्षादन्यत्र निश्चितसाध्यकत्वमेव दृष्टान्तत्वे प्रयोजकमित्यत आह– पक्षेति । नन्वस्तूक्तदिशा व्यतिरेकिणोऽन्वयित्वं तथापि न केवलव्यतिरेकित्वभङ्ग इत्याशङ्क्य प्रत्याह– न चान्वयेति । इष्टापत्तिं मन्वानं प्रत्याह– अन्वयेति । स्वेति । साध्यनिरूपितेत्यर्थः । वक्ष्यमाणत्वादिति । अत्रैवोत्तरत्र किञ्चाभावगतया व्यतिरेकव्याप्त्या कथं भावस्य गमकत्वमित्यादिनेति भावः । मण्याद्युक्तमेवांशतः सिद्धसाधनता-दोषोद्धारमाशङ्क्य निराह– न च यत्रेति । तत्रैवेति । पक्षतावच्छेदक-सामानाधिकरण्येन साध्यसिद्धिर्ह्यनुमानफलम् । नानात्वस्थले चैकावच्छेदेन साध्यसिद्धावप्यनुमानफलस्य जातत्वात्पुनरन्यावच्छेदेनाप्यनुमित्युत्पादनार्थ-मनुमानाप्रवृत्तेरिति भावः । एकमिति । तथा च घटाद्यंशे घटत्वाद्यवच्छेदेन साध्यसिद्धावपि पृथिवीत्वरूपपक्षतावच्छेदक२सामानाधिकरण्येनेतर-भेदरूपसाध्यासिद्ध्या तत्रानुमित्युदयार्थमनुमानप्रवृत्तिसम्भवान्न तत्र दोष इति भावः । पक्षत्वायोगादिति । तथा च केवलव्यतिरेकिणोऽन्वयित्वमेव प्राप्तमिति भावः । संदेहसिषाधयिषयोरभावेनेत्ययुक्तमित्याशङ्क्य निराह– न चेति । यज्ञपत्युक्तमेव दोषमाह– विशेषेति । तद्विशेषेतरेति । घटादिरूपविशेषेतरपृथिवीविषयकत्वनियमादित्यर्थः । ज्ञानयोः समान-प्रकारकत्वेनैव निवर्त्यनिवर्तकभाव इति न्यायस्य सामान्यविशेषप्रकारान्य-परत्वमिति भावः ॥

एवं मणिकृदभिमतं पक्षैकदेशसाध्यप्रसिद्धिपक्षं निरस्योदयनाद्यभिमतं मणावनूद्य निरस्तमपि मण्युक्तदोषे तद्व्याख्यातॄणां विवादभावात्स्वयं दृढदोषविवक्षया संशयरूपसाध्यप्रसिद्धिपक्षमाशङ्क्य निराह– नापीति । जलादित्रयोदशपदार्थान्योन्याभावानामेकत्राप्रसिद्ध्या सन्देहायोगेऽपि तेष्वभावेष्वेकस्तेजोन्योन्याभावो जले प्रसिद्धः, पृथिवी तेजोभिन्ना न वेति संशयेन पृथिव्यामेव वा प्रसिद्धः । जलादितेजोन्यद्वादशपदार्थान्योन्या-भावास्तेजसि प्रसिद्धाः । एवं च तत्रैकं पक्षभूतधर्मिविशेषणं कृत्वाऽन्य-कोटिकसंशयोत्पादे किमपि न बाधकमित्याशङ्क्य निराह– न च तेजो-भिन्नेति । असार्वत्रिकत्वादिति । तथा च यत्र न सन्देहस्तत्राप्रसिद्धि-र्दुर्वारेति भावः ।

ननु सन्दिग्धे न्यायप्रवृत्तेः संशयः सार्वत्रिक इति चेत् । सिद्धेऽपि सिषाधयिषयाऽनुमानप्रवृत्तेः । एवमपि त्वदुक्तरीत्या संशयस्य सात्मकत्वाद्य-खण्डसाध्येऽयोगाच्च । घनगर्जितादिस्थले सन्देहाभावेऽप्यनुमितिदर्शनाच्चेति भावः । मयापीति । व्यतिरेकी नेति वदतापीत्यर्थः । यद्वा व्यतिरेकिणि साध्याप्रसिद्धिवादिनापीत्यर्थः । तथा च तादृशं प्रति निश्चयरूपसाध्य-प्रसिद्धिरेव वाच्येति भावः । शशशृृङ्गस्यापीति । भूतलं शशशृृङ्गवदित्यप्यनु-मानं स्यादिति भावः । साध्यतेति । साध्यतावच्छेदकं यत् त्रयोदशभिन्नत्वं तत्प्रकारिकाया इत्यर्थः । अथवेत्यादिना मण्युक्तं पक्षान्तरमाशङ्क्य निराह– न च तर्हीति । त्रयोदशसु जलादिसमवायान्तेषु त्रयोदशस्वित्यर्थः । विशकलितानामिति । जले तेजःप्रभृतिद्वादशान्योन्याभावाः प्रसिद्धाः । जलान्योन्याभावश्च तेजःप्रभृतिषु । तथा जलादिद्वादशान्योन्याभावास्तेजसि । तेजोन्योन्याभावोऽन्यत्रेत्येवंरूपेणेत्यर्थः । यद्वा त्रयोदशपदार्थानामन्योन्या-भावानां जलभेदस्तेजसि तेजोभेदो जले इत्येवं रूपेण प्रसिद्धिरित्यर्थः । आदिपदेन व्याप्त्यग्रहादिग्रहः । तत्र साध्याभावस्यासत्त्वेनेति । यत्र त्रयोदशानामन्योन्याभावानामभावस्तत्र पृथिवीत्वाभाव इति हि व्यतिरेक-व्याप्तिर्जलादौ प्रदर्शनीया । तत्र जले जलान्योन्याभावाभावस्य सत्त्वेऽपि तेजःप्रभृतिप्रतियोगिकानां द्वादशभेदानामभावस्यासत्त्वेन साध्याभावस्या-भावात् । एवं तेजःप्रभृतिष्वपीति कथं व्यतिरेकव्याप्तिग्रह इत्यर्थः ॥

नन्वेकसत्त्वेऽपि द्वयमिह नास्तीति प्रतीत्या द्वित्वावच्छिन्नप्रतियोगिताका भाववत्त्रयोदशत्वावच्छिन्नजलाद्यन्योन्याभावनिष्ठप्रतियोगिताकाभावो जलादौ भविष्यतीति नानुपपत्तिरिति चेन्न । व्यासज्यधर्मावच्छिन्नप्रतियोगिताका-भावस्य व्याप्तिवादे मणिकृता निरासेन मणिकृन्मते तदभावात् । प्रतीते-रन्यतराभावविषयत्वेनोपपत्तावतिरिक्ताभावकल्पनायोगाच्च ॥

ननु– यन्मते तादृशाभावस्वीकारस्तन्मतरीत्याऽयं पक्षो मणावुक्त इति चेन्न । तन्मतस्यैव गौरवेण दूष्यत्वादिति भावः । अभ्युपेत्यापि दोषमाह– किञ्चेति । प्रत्येकप्रतियोगिकाभावनिरूपितेत्यर्थः । व्यतिरेकिण्यन्वय-व्याप्तेरभावान् मिलितनिरूपितेति । यत्र त्रयोदशान्योन्याभावानामभावस्तत्र पृथिवीत्वाभाव इत्येवंरूपेण मिलितप्रतियोगिकाभावनिरूपितैकव्याप्त्येत्यर्थः । तदज्ञानादिति । मिलिताप्रसिद्धौ मिलितप्रतियोगिकाभावव्याप्त्यज्ञानादित्यर्थः । यद्वा व्यतिरेकव्याप्तिरेतादृशस्थले न वाच्या । किं त्वन्वयव्याप्तिरेव । न च मिलितसाध्याप्रसिद्ध्या तन्निरूपितैकव्याप्त्यज्ञानमिति वाच्यम् । प्रत्येकाभावानां प्रत्येकनिरूपितान्वयव्याप्तिभिरेव तावतां भेदानां साध्य-त्वादिति भावेनायं ग्रन्थः प्रवृत्त इति यथान्यास एव ग्रन्थः साधुरिति ज्ञेयम् ।

पक्षधरमतमाशङ्कते– नन्विति । अन्यथेति । अनुमितिविषयैक-देशवद्व्यावृत्तिमात्रेण १साधारण्येऽनुमितिविषयाभाव२विषयकत्वात्सत्प्रतिपक्षतया दोषत्वं न स्यादित्यर्थः । अनुमितिविषयवतो व्यावृत्तत्वमेव पृथिवीत्व-हेतोरस्त्वित्यत आह– न च प्रकृत इति ॥

नरहर्याद्युक्तदोषेण निराह– प्रत्येकेति । साध्यतावच्छेदकं व्यासज्य-वृत्तिधर्ममादायासाधारण्याभावमाशङ्क्याप्रसिद्धविशेषणत्वेन निराह– अथेत्यादिना । व्यासज्यवृत्तिप्रतियोगिकाभावोऽन्यो नेत्युपेत्य व्याप्त्यभावदोषं चाह– जलादाविति । व्यासज्यवृत्तिधर्मावच्छिन्नप्रतियोगिताकाभावोऽ-न्योऽस्तीति वादी शङ्कते– नन्विति । व्यासज्येति । व्यासज्यवृत्तिर् अनुगतवृत्तिमान्यस् तादृशधर्मावच्छिन्ना प्रतियोगिता यस्य तादृशो यस्त्रयोदश-भेदानामभाव इत्यर्थः । जलात्मकत्वे सत्यपीति । पृथिव्यां जलादि-त्रयोदशपदार्थतादात्म्याभावरूपास्त्रयोदशभेदाः साध्यन्ते तत्सिद्धिर्न स्यात् । जलतादात्म्ये सत्यपि तेजःप्रभृतिद्वादशपदार्थतादात्म्यानामभावमात्रेण त्रयोदशत्वरूपव्यासज्यवृत्तिधर्मावच्छिन्नप्रतियोगिताकत्रयोदशतादात्म्यानामभावसिद्ध्यापि साध्यपर्यवसानसम्भवेन जलभेदासिद्ध्याऽर्थान्तरदोषः स्यात् । अतो न तादृशोऽभावोऽङ्गीकर्तुं शक्य इति प्रागुक्तव्याप्तिग्रहानुपपत्तिः सुस्थेति भावः । किञ्च प्रतियोगिसत्त्वस्थले तादृशाभावो विरोधान्नाङ्गीकार्यः । न च यावत्प्रतियोगिसत्वमभावविरोधि नत्वेकप्रतियोगिसत्वं, व्यासज्यवृत्तिस्थले चैकप्रतियोगिसत्त्वमेवेति वाच्यम् । तस्य गुरुत्वादिति भावेनाह– लाघवेनेति । इति वदतेति । व्याप्तिवादे । त्वया मणिकृता । अन्यतरदिति ॥

यद्यप्यन्यतममिति वक्तव्यम् । द्वयोरेव डतरचो विधानात् । अन्यतरा-न्यतमशब्दयोरखण्डत्वेऽपि द्विबहुविषयत्वेन व्यवस्थितत्वस्य पस्पशाह्निके कैय्यटेऽभिधानात् । तथापि त्रयाणां मध्ये द्वयमेकीकृत्य द्वित्वसम्पाद-नेनान्यतरदिति साध्विति ध्येयम् ॥

असाधारण्यदोषोद्धारमाशङ्क्य दोषान्तरमाह– न चेति । प्रकृते चेति । इतरभेदसाध्यकपृथिवीत्वहेतौ हेतूच्छित्त्यादिविपक्षबाधकस्येत्यर्थः । सपक्षस्येति । प्रत्येकं त्रयोदशाभावानां साध्यत्वेनाभिमतानां जलादित्रयोदशसु प्रसिद्धत्वेन तेषामेव सपक्षत्वादिति भावः । योऽपि मणावन्ये त्वित्यादिना तत्तदसाधारणधर्मात्यन्ताभावाः साध्या इत्यन्ताभावसाध्यकपक्ष उक्तस् तमपि निराह– एतेनेति । सिद्धा इति । अतो नाप्रसिद्धविशेषणत्वमिति भावः। उक्तरीत्येति । ‘‘पक्षैकदेशस्य घटादेर्निश्चितसाध्यकतयाऽन्वयदृष्टान्तत्व-सम्भवेने’’त्यादिनोक्तरीत्यान्वयित्वस्य, तथा ‘किं चैकेनैव लिङ्गेने’त्यादि-नोक्तरीत्या साधारण्यस्य चेत्यर्थः । प्रत्येकमेवात्यन्ताभावानां साध्यत्वात्तेषां च प्रत्येकं जलादावेव प्रसिद्धेस्तत्र च हेतोरवृत्तेः । अनुमितिविषयसाध्य-वद्व्यावृत्त्या ह्यसाधारण्यमिति जयदेवपक्षस्य च निरासादिति भावः । यदपि मणौ ‘यद्वा जलं तेजःप्रभृतिद्वादशभिन्नप्रतियोगिकान्योन्याभाववदित्या’दिना सामान्यतः प्रसिद्धिसंपादकमनुमानमुक्तं तदप्याशङ्क्य निराह– ननु तर्हीत्यादिना ॥

यद्यपि मणावन्यथैव साध्यनिर्देशः कृतस् तथापि तत्र यथाश्रुते तेजःप्रभृतिद्वादशनिरूपितभेदाधिकरणे जलभेदासिद्ध्या सिषाधयिषितत्रयोदश-पदार्थनिरूपित भेदानामेकत्राप्रसिद्धे(द्धि)रेव । अतस्तद्व्याख्यातृभिर्व्यत्यासेन योजितस्य साध्यनिर्देशस्यायमनुवाद इत्यदोषः । तेजःप्रभृतयो ये द्वादश-पदार्थास्तद्भिन्नं यद्वस्तु तन्निष्ठो यो भेदस्तत्प्रतियोगीति साध्यार्थः । तथा च जलभेदस्तेजःप्रभृतिद्वादशपदार्थभेदाश्चैकत्रैव सामान्यतः सिद्धा इति अनुमानेन वा सिद्धं त्रयोदशभिन्नत्वमित्यन्वयः । प्रामाण्यवादे प्रामाण्यानुमिति सिद्ध्यर्थं प्रामाण्यप्रसिद्धिसम्पादकतया मण्याद्युक्तं तुल्यन्यायत्वादिहाप्या-शङ्कते– व्याघातेति । साध्याप्रसिद्धौ त्रयोदशान्योन्याभावरूपसाध्यं न प्रसिद्धमिति निषेधायोगेन निषेधता पुरुषेण साध्यं सामान्यतोऽवगतमेवेति न प्रसिद्धमित्युक्ताविदं नाभिधेयमित्युक्तिवद्व्याघातरूपदण्डभयेनेत्यर्थः । कथं नान्वयित्वादिकमित्यतो मण्युक्तरीत्यैव व्यनक्ति– सांमुग्ध्येनेति । अयं पृथिव्यादिरित्यर्थः । अन्वयित्वासाधारण्ययोरभावेऽपि यदसपक्षत्वं व्यतिरेक्यनुमानस्य लक्षणमुक्तं तद्भग्नमित्याह– व्यक्तिविशेषेति । अनिष्ट-प्रसक्तेरिति । जलादिवैधर्म्यगन्धाद्युपलम्भहानिरूपानिष्टप्रसक्तेरिति, पृथिवीरूपवस्तुहानिरूपानिष्टप्रसक्तेरिति वाऽर्थः ॥

एवं मण्याद्युक्तसाध्यप्रसिद्धिप्रकारम् अनुसृत्य व्यतिरेक्यनुमानं निरस्येदानीं व्यतिरेकव्याप्तेः प्रकृतसाध्यसिद्धौ अनुपयोगात् ‘‘न हि भावेन भावसाधने अभावेनाभावस्य व्याप्तिरुपयुज्यते’’ इत्यादि पद्धत्याद्युक्तं हृदिकृत्वा प्रकारान्तरेण व्यतिरेकिणं निराह– किं चाभावगतयेति । न चातिप्रसङ्ग इति । धूमनिष्ठया व्याप्त्या कृतकत्वस्यानित्यत्वगमकत्वप्रसङ्ग इत्यर्थः । प्रतियोगीति । व्याप्यव्यापकभावापन्नाभावयोर्हेतुसाध्ययोश्च प्रतियोग्यनुयोगि-भावस्येत्यर्थः । व्यतिरेकिणीति । केवलव्यतिरेकिसाध्यकपृथिवीत्वादि-हेतावित्यर्थः । साध्याभावस्यैव व्याप्यत्वाद्धेतुत्वेनाभिमतपृथिवीत्वादेर-व्याप्यत्वादिति भावः । व्याप्तिद्वयस्याप्यनुगमकमाशङ्क्य निराह– न च स्वेति । व्यतिरेकोऽन्वयश्च स्वशब्दार्थः । व्यतिरेकनिरूपितो व्यभिचारो १हेत्वभाववति साध्यासत्त्वं तद्द्विरोधित्वं व्यतिरेकव्याप्तेरस्ति । साध्याभाववति हेतुसत्त्वमन्वयव्यभिचारः । तद्विरोधित्वमन्वयव्याप्तेरस्तीति स्वनिरूपित- व्यभिचारविरोधित्वमुभयव्याप्तेरस्ति । एवं धीपक्षेऽपीत्यनुगतव्याप्तिज्ञानरूपं करणमुभयत्रास्तीति तद्विशिष्टपरामर्शो व्यतिरेकिण्यपि युक्त इति भावः । त्वन्मत इति । सामानाधिकरण्यगर्भितव्याप्तिवादिनो मत इत्यर्थः । अवान्तरवैजात्यस्येति । तदवश्यमङ्गीकर्तव्यम् । अन्यथा सामग्रीद्वयस्य परस्परव्यतिरेकव्यभिचारेणानुमितिं प्रति हेतुत्वासिद्ध्यापातात्तृणारणि-मणिजन्यवह्निष्वपि वह्नित्वव्याप्यतत्तज्जन्यतावच्छेदकावान्तरजातिर्नोपेया स्यात् । न चासौ जातिरनुभूयते । अतो नैवं कल्पना युक्तेति भावः । तृणारणिमणिजन्यवह्निष्विवेति पररीत्या व्यतिरेकदृष्टान्तः । तत्राप्यवान्तर-जातेर्द्वितीयपरिच्छेदे निरासात् । स्वमतेनान्वयदृष्टान्त एवायमित्यन्ये । अननुभूयमानापि सामग्रीवैजात्यात्कल्प्यत इत्यत आह– तत्कल्पनस्येति । सिद्धे वैजात्ये विशेषसामग्रीद्वयकल्पनं सामग्रीद्वयसिद्धौ वैजात्यकल्पनमित्य-न्योन्याश्रयेणेत्यर्थः । व्यतिरेकिणि त्वदुक्तगमकत्वस्याद्याप्यसिद्धेरिति भावः ।

ननु व्यतिरेकिणोऽपि शास्त्रे तत्र तत्र संव्यवहारात्तदन्यथानुपपत्त्या व्यतिरेकव्याप्तेरप्यनुमितिसामग्रीत्वं क्लृप्तमिति चेन्न । परंपरयैवानु-मित्युपयोगाभिप्रायेण तत्संव्यवहार इति भावेन साक्षादुपयोगं निराह– किञ्चेति । गमकत्वेऽनुमितिजनकत्व इत्यर्थः । व्यर्थविशेषणत्वस्येति । पर्वतोग्निमान्नीलधूमवत्त्वादित्यादौ व्यर्थविशेषणत्वस्य वह्निनिरूपितधूमनिष्ठ-व्याप्तिज्ञानप्रतिबन्धद्वाराऽनुमितिप्रतिबन्धकत्वेपि यत्र वह्न्यभावस्तत्र नील-धूमाभाव इति व्यतिरेकव्याप्तेरप्रतिबन्धेनानुमितिः स्यादेव । नीलधूमरूप-विशिष्टाभावस्य व्यापकत्वे व्यर्थविशेषणत्वाभावात् । अभावस्याखण्डत्वा-दित्यर्थः ॥

ननु व्यतिरेकव्याप्तिः केवलव्यतिरेकिण्येव साक्षाद्गमिका । अन्यत्र तु व्यभिचारज्ञाननिवृत्तिद्वारोपयुज्यते न साक्षादिति वदन्तं प्रत्याह– अपि चेति । एवमिति । व्यतिरेकव्याप्तेः साक्षाद्गमकत्व इत्यर्थः । त्वदभिमत-मिति । हेत्वाभासग्रन्थे तथैवोक्तेरिति भावः । किमव्यभिचारेति । बाधप्रतिपक्षौ हि ग्राह्यभावावगाहितया साक्षादनुमितिप्रतिबन्धकौ । विरुद्धासिद्धव्यभिचारास्त्रयोऽनुमितिकरणपरामर्शविघटकत्वेनानुमिति- प्रतिबन्धकाः । परामर्शविघटकत्वं च तद्विषयाभावविषयकत्वेन । तद्विषयश्च व्याप्तिः पक्षधर्मता चेति द्वयम् । तत्रासिद्धिः पक्षधर्मताविरोधित्वेन । अन्यद्द्वयं व्याप्तिविरोधित्वेन । व्याप्तिश्चाव्यभिचारः सहचारश्चेति दलद्वयम् । तत्र विरुद्धस्थे साध्यव्यापकीभूताभावप्रतियोगित्वज्ञानं किमव्यभिचारज्ञान-प्रतिबन्धद्वाराऽथ सहचारज्ञानप्रतिबन्धद्वारेत्यर्थः । साधारणेति । साधारणा-नेकान्तिकेत्यर्थः । विरुद्धत्वज्ञानस्येत्यस्य विवरणेन निर्देशः– सकलसाध्य-वति हेत्वभावज्ञानस्येति । अन्वयसहचारेति । हेतौ साध्यसामानाधि-करण्यरूपसहचारेत्यर्थः । तदविघटनादिति । तथा च तत्र व्यतिरेक-सहचाराप्रतिबन्धेनाव्यभिचारज्ञानप्रतिबन्धकस्यान्यस्य कस्यचिदभावाद्विरुद्ध-स्थलेऽपि व्यतिरेकव्याप्तिज्ञानसम्भवेनानुमितिः स्यादेवेति भावः । कथं तर्हि शास्त्रे तदुपन्यासस्तत्रतत्र क्रियत इत्यत आह– परीक्षकाणामिति । उपाधिश्च सिद्धसाधनं च साध्यवैकल्यं च तदादेरित्यर्थः । व्यभिचारा-दीत्यादिपदेन सिद्धसाधनमाश्रयासिद्धिसाधकतया साध्यवैकल्यं व्याप्यत्वा-सिद्धिसाधकतयेत्येवं ग्राह्यम् । एवं हि धूमादावन्वयव्यतिरेकिणि व्यतिरेकोप-न्यासो व्यर्थ इति शङ्कामनूद्यान्वयव्यतिरेकिणि तु व्यतिरेकव्याप्तिरनुपयुक्तै-वेत्यादिपद्धतिवाक्यं हृदि कृत्वा परिहारमाह– यद्यपीति । भक्तिपादीयसुधा-विरोधमाशङ्क्य त्रिधा तात्पर्योक्त्या निराह– यत्त्विति ॥

॥ इति केवलव्यतिरेकिभङ्गः ॥ २० ॥