११ स्वमते तर्कस्योपयोगः

तर्कस्योपयोगस्त्वित्थम्– तर्कनिवर्त्याऽप्रयोजकत्वशङ्का हि द्वेधा

अथ स्वमते तर्कस्योपयोगः ॥ १७ ॥

तर्कस्योपयोगस्त्वित्थम्–

तर्कनिवर्त्याऽप्रयोजकत्वशङ्का हि द्वेधा । पक्षतदितरसाधारण्येन सधूमोऽपि कश्चिन्निरग्निकोऽस्त्विति वा, पक्षादन्यत्र नियमेऽपि पक्षे समबलस्य प्रबलस्य वा साध्याभावप्रमाणस्याभिमानेन पक्ष एव सधूमो निरग्निकोऽस्त्विति वा । तत्राद्या व्यभिचारशङ्कारूपा लिङ्गपरामर्शा-त्प्राचीना । द्वितीया तु प्रतिप्रमाणशङ्कारूपा तस्मादर्वाचीना ॥

यद्यपि द्वितीयापि फलतो व्यभिचारशङ्कैव । तथाप्याद्या, पार्थिवत्वलोहलेख्यत्वादौ भूयोदर्शनादिके सत्यपि व्यभिचारदर्शना-त्तन्निमित्तका स्वारसिकी । पक्षतदितरसाधारणी च । द्वितीया तु प्रतिप्रमाणशङ्कानिमित्तकाधेया पक्षासाधारणी चेति भेदः ॥

द्विविधापि शङ्का तर्केण निरस्यते । अन्यथोपपत्तिविषयया शङ्कया प्रतिप्रमाणेन च साक्षादनुपपत्तिप्रमापकस्य तर्कस्य विषयकृतविरोधस्य सत्त्वात् । तर्कस्य व्याघातपर्यन्ततया दृढमूलत्त्वेन शङ्काप्रतिप्रमाणा-भासाभ्यां प्राबल्याच्च ॥

निवर्त्यभेदान्निवर्तकस्तर्कोऽपि द्वेधा । तत्राद्योऽनुमितिकरण-निष्पादको द्वितीयस्तु निष्पन्नेन करणेन प्रतिप्रमाणशङ्कानिरासार्थ-मपेक्षितत्वेन फलोपकारकत्वादनुमानानुग्राहकः ॥

एतदेवाभिप्रेत्योक्तं पद्धतौ– ‘सोऽयं क्वचिद्विपरीतशङ्कानिरसनद्वारेण १करणस्यानुग्राहकोऽपि भवतीति । क्वचिद्दशाविशेषे करण-निष्पत्तेरर्वाक् प्रतिप्रमाणशङ्कानिरसनद्वारेण१ करणशरीरनिष्पादकश्च भवतीत्यर्थः ॥

यद्वा क्वचित्प्रत्यक्षादावनुग्राहको भवति । तत्र करण-निष्पादकत्वासम्भवात् । अपिशब्दादनुमान उक्तरीत्योभयात्मकश्च भवतीत्यर्थः ॥

यद्वा क्वचिद्व्यभिचारस्य प्रतिप्रमाणस्य वा शङ्कायामनुग्राहकः । करणनिष्पादनेन वा निष्पन्नस्य करणस्य सहकारितया वोपकारको भवति । अपिशब्दाच्छङ्काया २अभावेन तन्निवर्तकस्य तर्कस्या-नपेक्षितत्वादननुग्राहकश्च भवतीत्यर्थः ॥

यद्वा क्वचिदद्रिरग्निमान्धूमवत्त्वादिति प्रयोग उक्तरीत्याऽनुग्राहको भवति । अपि शब्दात्क्वचित्स्वतन्त्रोऽपि भवति । अद्रिरग्निमान्न वेति विप्रतिपत्तौ साधनानुमानं विनैव यदि निरग्निकः स्यात्तर्हि निर्धूमः स्यान्न चायं निर्धूम इति तर्करूपानुमानेनैवाग्निसिद्धेः । न हि विधिमुखेन साधयित्वैव निषेधमुखेन साधनीयमिति कुलधर्म इत्यर्थः । उक्तं च टीकाकारैर्दूषणानुमानविभागप्रस्तावे । नायं निरग्निकोऽ-निर्धूमत्वादिति । यद्वा क्वचिदुद्देश्यायां तस्मान्न निरग्निक इति प्रमायां साध्यायामनुग्राहको भवति । अपिशब्दान्निर्धूमत्वेनाङ्गीकर्तव्य इति प्रमायां व्याप्तिप्रमायां वा साध्यायां स्वतन्त्रश्च भवतीत्यर्थः । तस्माद्यथाप्रमाणसंप्लवे द्वितीयं प्रमाणभूतमेव प्रथमप्रमाणदार्ढ्यहेतुत्वेन प्रथमानुग्राहकम् । तथा तर्कोऽपि स्वयं प्रमाणमेव प्रमाणस्यानु-ग्राहकः । साधकं बाधकं वा प्रमाणमेव हि शङ्कानिवर्तकम् । न त्वप्रमाणम् । तर्कज्ञानस्य भ्रमत्वे हि व्याप्तियोग्यतादि-भ्रमजन्यानुमितिशाब्दज्ञानादेरिव धारावाहिकभ्रमे द्वितीयानुगृहीतस्य प्रथमस्येव वा प्रमाणतर्कानुगृहीतानुमितेरेवाप्रमात्वं स्यात् । अप्रमाणतर्कबाधितस्य प्रत्यनुमानस्यैव च प्रामाण्यं स्यात् ॥

न्यायदीपः

पद्धत्युक्तमुपयोगं विवृण्वान आह– तर्कस्येति । तस्मादर्वाचीनेति । परामर्शादनन्तरभाविनीत्यर्थः । उक्तयोः पक्षयोरभेदमाशङ्कय स्वारसिकत्वा-धेयत्वाभ्यां भेदं साधयति– यद्यपीत्यादिना । फलत इति । हेतुमति साध्याभावशङ्कायां साध्याभाववति हेतुसत्त्वरूपव्यभिचारस्य फलितत्वा-दित्यर्थः । तन्निमित्तकेति । बहुशः सहचरितयोरपि यत्क्वचिद्व्यभिचारदर्शनं तेन निमित्तेनात्रापि धूमादौ तथेति ज्ञायमानेत्यर्थः । आधेया बलादुत्पाद्या । स्वरसवाहिन्याः परामर्शरूपविशेषदर्शननिरस्तत्वादिति भावः । द्विविधापि शङ्का तर्केण निरस्यत इति । केवलान्वयिसाध्यके साध्याभावाप्रसिद्धेरेवं शङ्काया एवानुदयात्तत्र तर्कस्योपयोगासम्भवो न शङ्क्यः । सर्वस्य व्यतिरेकिधर्मत्वेन सिद्धान्ते केवलान्वयिनोऽभावादिति भावः ॥

निरासे को हेतुरित्यतो न मणिकण्ठोक्तदिशा जात्या, किंतु विरोधि-विषयत्वेनेति भावेनाह– अन्यथोपपत्तीति । साध्येन विना या उपपत्तिः सम्भवस् तद्विषयेत्यर्थः । पक्षतदितरसाधारण्येन वा पक्ष एव वेति भावः । विषयकृतेति । अन्यथोपपत्त्यन्यथानुपपत्तिरूपविषयकृतेत्यर्थः । विरोधिविषयकत्वमात्रेण कथं निवर्तकतेत्यत आह– तर्कस्येति । तर्कस्य शङ्कापर्यन्तत्वाच्छङ्काया व्याघातपर्यन्तत्वाद्व्याघातपर्यन्ततयेत्युक्तम् । शङ्का च प्रतिप्रमाणाभासश्च ताभ्यामित्यर्थः । अनुमितिकरणेति । व्याप्तिविशिष्ट-लिङ्गज्ञानरूपकरणेत्यर्थः । व्यभिचारशङ्कानिवृत्तौ व्याप्तिनिश्चयसम्भवादिति भावः । फलेति । अनुमितिरूपफलोपकारकत्वात् । उपकारकत्वं प्रतिबन्धकनिवर्तकत्वम् । एतदेवेति । उक्तपक्षद्वयमेव । प्रमाणान्तरेति । लिङ्गपरामर्शरूपप्रमाणान्तरेत्यर्थः ॥

नन्वत्र वाक्ये द्वितीयपक्ष एव प्रतिभाति न त्वाद्य इत्यत आह– अपीति । प्रमाणान्तरेत्यस्य प्रत्यक्षादिकमर्थमुपेत्याह– यद्वेति । क्वचिदित्यनुवादः । प्रत्यक्षादाविति व्याख्या । अनुग्राहकपदमस्मिन्पक्षे युक्तमित्याह– तत्रेति । प्रत्यक्षशब्दयोरित्यर्थः । प्रमाणान्तरपदस्यानु-मानस्येत्यर्थमुपेत्य प्रकारान्तरेण पद्धत्यर्थमाह– यद्वा क्वचिद्व्यभिचार-स्येति । क्वचिदित्यस्य शङ्कायामित्यन्वयः । सधूमो निरग्निकोऽस्त्विति व्यभिचारशङ्कायामित्यर्थः । द्वितीयपक्षानुरोधेनाह– प्रतिप्रमाणस्य वेति । क्वचिदित्यस्यार्थमुक्त्वाऽनुग्राहक इत्यस्यार्थमाह– करणेति । परामर्शरूप-करणेत्यर्थः । सहकारितया प्रतिबन्धकनिवर्तकतयेत्यर्थः । उक्तरीत्येति । करणनिष्पादनेन वेत्यादिनोक्तरीत्येत्यर्थः । स्वातन्त्र्यं व्यनक्ति– अद्रिरिति । साधनेति । अद्रिरग्रिमान्धूमवत्त्वादित्यादिप्रकारं विनैवेत्यर्थः ॥

नन्वग्निमान्धूमवत्त्वादिति विधिमुखेनासाधयित्वा कथं निषेधमुखेनैव साधनमित्यत आह–– न हीति । इत्यर्थ इति । १अपिशब्दात्पद्धति-वाक्यस्येत्यादिवाक्यव्याख्यावसर इति भावः । उक्तं चेति । प्रमाणलक्षण-टीकायामात्माश्रये२ योज्यम् । अनुग्राहको भवतीति । शङ्कानिवृत्तिद्वारेति भावः । प्रागुक्ताद्यान्त्यपक्षद्वयाभिप्रायेण क्रमेणाह– व्याप्तिप्रमायामिति । इति प्रमायां वेति । ननु धूमवत्त्वादिसाधनानुमानफलभूतामग्निमत्त्वादिप्रमामेव विपर्यये पर्यवसानमुखेन जनयतस्तर्कस्य कथं प्रामाण्यमित्याशङ्कां सदृष्टान्तं परिहरन्नुपसंहरति– तस्मादिति ॥

यद्वोक्तदिशा प्रमाणानुग्राहकस्य कथं प्रामाण्यम् । तथात्वेऽनुग्राहकत्वमेव न स्यादित्याशङ्कां सदृष्टान्तं निरस्यन्नुपसंहरति– तस्मादिति । उक्तरीत्या प्रमाजनकत्वादित्यर्थः । शङ्कानिवर्तकत्वान्यथानुपपत्त्या च तर्कस्य प्रामाण्यमित्याह– साधकं हीति । अप्रामाण्ये बाधकं चाह– तर्कज्ञान-स्येति ॥

॥ इति स्वमते तर्कस्योपयोगः ॥ १७ ॥