१० तर्कस्यानुमानान्तर्भावः

अनुमानं द्विविधं साधनानुमानं दूषणानुमानं चेति

अथ तर्कस्यानुमानान्तर्भावः ॥ १६ ॥

तर्कताण्डवम्

अनुमानं द्विविधं साधनानुमानं दूषणानुमानं चेति । तत्राद्यमद्रि-रग्निमान् धूमवत्त्वादित्यादि । द्वितीयमपि द्वेधा दुष्टत्वप्रमितिसाधनं तर्कश्चेति । तत्राद्यं नेदं स्वसाध्यसाधकम् असिद्धत्वादित्यादि । द्वितीयं यदि निरग्निकः स्यात् तर्हि निर्धूमः स्यादित्यादि । अस्य दूषणानु-मानत्वं च परोक्तनिरग्निकत्वादिप्रतिक्षेपरूपत्वात् ॥

तत्र केचित्– व्याप्यारोपेण व्यापकारोपस् तर्कः । स च प्रमाणानुग्राहक एव । न तु प्रमाणमित्याहुः । तन्न । बाष्पे धूमभ्रम-जन्यभ्रमरूपानुमितावतिव्याप्तेः ॥

नापि व्याप्यारोपे व्यापकप्रसञ्जनं तर्कः । प्रसञ्जनस्य तर्कत्वे आत्माश्रयात् । आरोपत्वे उक्तदोषात् ॥

न च व्यापकाभाववत्तया ज्ञाते व्याप्यारोपाद्व्यापकारोपस्तर्कः । एवं चानुमित्याभासे नातिव्याप्तिर् व्यापकाभाववत्तया ज्ञातेऽनु-मित्यनुदयात् । तर्कस्तु व्यापकीभूतनिर्धूमत्वाभाववत्तया ज्ञात एव भवतीति वाच्यम् । यत्राशङ्खं शङ्खतयावगम्य पीतोयं शङ्खो न शुक्ल इति प्रत्यक्षभ्रमानन्तरं शङ्खत्वाच्छुक्ल इत्यनुमिनोति तस्यामनु-मितावतिव्याप्तेः ॥

अथ ज्ञात इत्यस्यावधृत इत्यर्थः । शुक्लत्वानुमितौ तु न शुक्लत्वा-भावस्यावधारणम् । शुक्लत्वाभावग्राहकप्रत्यक्षस्यान्यथासिद्धिमुपजीव्यै-वानुमितिप्रवृत्तिरिति चेन्न । तर्केऽपि निर्धूमत्वरूपव्यापका-भावस्यावधृतत्वेन निर्धूमत्वारोपस्यासम्भवात् । आहार्योऽयमारोपः । स च बाधितेऽपि भवतीति चेन्न । पुरुषत्वाभावनिश्चयानन्तरं प्रत्यक्षा-दाहार्यव्याप्यकरचरणाद्यारोपाज्जन्ये प्रत्यक्षे आहार्यपुरुषारोपेऽतिव्याप्तेः ॥

नापि वर्धमानोक्तरीत्या अव्यवस्थिताभ्युपगम्यमानकोट्युपाधिका- निष्टसत्त्वप्रतिसन्धानं तर्कः । निरग्निकत्वस्याव्यवस्थितत्वं हि संशयो विपर्ययो वा न द्वयमपि । यद्यर्थशिरस्कनिरग्निकत्वज्ञानं प्रमेति वक्ष्यमाणत्वात् । एवं प्रतिसन्धानमपि संशयो विपर्ययो वा न द्वयमपि । तर्हि स्यादित्यर्थशिरस्कनिर्धूमत्वज्ञानं प्रमेति वक्ष्यमाणत्वात् ॥

तस्मात्तर्कोऽनुमानविशेष एव । व्याप्तिबलेन गमकत्वात् । संशयोत्तरप्रत्यक्षं व्याप्तिबलेन गमकमपि न व्याप्तिज्ञानकरणकम् ॥

मन्मते त्वङ्गीकृतेन साध्याभावेन सहानङ्गीकृतस्य साधनाभावस्य व्यापकत्वप्रमा वा साध्याभावाङ्गीकारनिमित्तका साधनाभावस्याङ्गी-कर्तव्यत्वप्रमा वा तर्क्यतेऽनेनेति व्युत्पत्त्या तर्कः । तत्करणिका साधनस्य साध्येन सह व्याप्त्यनुमितिस्तु तर्कणमिति व्युत्पत्त्या तर्कः ॥

एतदेवाभिप्रेत्य पद्धतौ कस्यचिदर्थस्याङ्गीकारेऽर्थान्तरापादनं तर्क इति, प्रमाणलक्षणटीकायां च व्याप्याङ्गीकारेऽनिष्टव्यापकप्रसञ्जनं तर्क इत्युक्तम् । स्पष्टयिष्यते चैतदनुपदमेव ॥

न्यायदीपः

‘‘तर्काप्रतिष्ठानादप्यन्यथानुमेयमि’’ति ब्रह्मसूत्रे सूचितं तर्कस्यानु-मानान्तर्भावं वक्तुं पुनर्द्विविधं साधनानुमानं दूषणानुमानं चेत्यादिपद्धत्युक्तं विवृण्वान आह– अनुमानमिति । ननु परोक्तनिरासकस्यैव दूषणानुमानत्वेन तर्कस्य कथं तथात्वमित्यत आह– अस्येति । स्वमते तर्कस्वरूपमग्रे लिलक्षयिषुः परोक्ततर्कलक्षणान्यनूद्य निराह– अत्र केचिदित्यादिना । तार्किकादय इत्यर्थः ॥ व्याप्यारोप इति ॥ निमित्तसप्तमीयम् ॥

तत्र किं व्याप्यभ्रमजन्यव्यापकभ्रमस्तर्क इत्यभिमतं, तन्निमित्तक-व्यापकप्रसञ्जनं वा, व्यापकाभाववत्तया ज्ञाते व्याप्यारोपनिमित्तकव्यापकभ्रमो वा, व्यापकाभाववत्तयाऽवधृते व्याप्यारोपनिमित्तकव्यापकारोपो वा, तादृशव्यापकाहार्यारोपो वा, अव्यवस्थिताभ्युपगम्यमानकोट्युपाधिका-निष्टत्वप्रतिसन्धानं वेति षट्कल्पान् क्रमेण मणिकण्ठोक्तदिशा निराह– बाष्प इत्यादिना । शङ्खत्वलिङ्गजन्यानुमितेर्व्याप्यज्ञानस्य चारोपत्वसिद्ध्यर्थमाह– अशङ्खं शङ्खतयाऽवगम्येति । व्यापकाभाववत्तयाऽवगत इत्यंशोपपादनाय पीतोऽयमित्यादि । अन्यथासिद्धिमौपाधिकभ्रमत्वम् । निर्धूमत्वेति । निर्धूमत्वरूपं यद्वह्न्यभावव्यापकं तदभावस्य धूमसत्त्वस्यावधृतत्वेनेत्यर्थः । तथा चासम्भवि लक्षणमिति भावः । आहार्यो बुद्धिपूर्वकः । वक्ष्य-माणत्वादिति । ननु तर्कस्येत्यादिना, कथं तस्य प्रामाण्यमित्यादिना वा, ग्रन्थेनेत्यर्थः । व्याप्तिबलेनेति । आपाद्यापादकयोर्व्याप्तिबलेन साध्यसाधनयोरविनाभावगमकत्वादनुमानविशेष एवेत्यर्थः । विलक्षण-प्रकारत्वाद्विशेषपदप्रयोगः ॥

नन्वेवं यत्र स्थाणुर्वा पुरुषो वेति संशयानन्तरं पुरुषत्वव्याप्यकरादि-मानयमिति विशेषदर्शने सति पुरुष एवेति प्रत्यक्षं तदप्यनुमानं प्रसज्यते इत्यत आह– संशयेति । अत्र प्रत्यक्षपदेन व्याप्यदर्शनं पुरुष एवेति फलीभूतं प्रत्यक्षं च गृह्यते । तत्राद्यं यत्र करादि तत्र पुरुषत्वमिति व्याप्ति-बलेन पुरुषत्वगमकमपि पुरुषत्वप्रत्यक्षं न व्याप्तिज्ञानकरणकं किं तु चक्षुरादिकरणकमेव । अतो न तस्या१नुमानत्वमिति भावः । साध्याभावेन निरग्निकत्वादिरूपेण निधूमत्वादिरूपसाधनाभावस्य व्यापकत्वप्रमा तर्क इत्युच्यते । करणव्युत्पत्त्यैवेत्याह– तर्क्यतेऽनेनेतीति । आपादकस्या-सिद्धिनिरासायोक्तम् अङ्गीकृतेनेति । इष्टापत्तिनिवृत्त्यर्थम् अनङ्गीकृतस्ये-त्युक्तम् । यदि घट उपेयते तर्हि पटोऽप्यङ्गीकार्य इत्यादावतिव्याप्तिवारणाय साध्याभावसाधनाभावपदोक्तिः । स किं प्रति करणमित्यत आह– तत्करणिकेति । तर्कणमिति व्युत्पत्त्येति । भावव्युत्पत्त्येत्यर्थः । एतदेवेति । पद्धतावापादनमित्यस्य लक्षणटीकायां प्रसञ्जनमित्यस्य च साधनाभावस्य व्यापकत्वप्रमैवेत्यर्थ इति भावः । एतच्चोपलक्षणम् । व्याप्याङ्गीकारेऽनिष्टव्यापकप्रसञ्जनमिति तत्त्वनिर्णये चेत्यपि ध्येयम् ॥

कथं व्याप्त्यनुमितिजनकत्वमस्य तर्कस्येत्यतो वा कथं व्याप्याङ्गी-कारेणानिष्टस्य व्यापकत्वप्रमाप्रकार इत्यतो वाऽऽह– स्पष्टयिष्यत इति । कथं तस्य प्रामाण्यमित्यादिग्रन्थेन कृतशङ्कानिवृत्त्यर्थमुपोद्घातोक्त्यनन्तरमत्र च निरग्निकत्वप्रमेत्यादिग्रन्थेनेत्यर्थः ।

तर्कताण्डवं

ननु तर्कस्यानुमानत्वे आपादकं निरग्निकत्वं लिङ्गम् आपाद्यं निर्धूमत्वं लिङ्गीति वाच्यम् । तथा च हेतोरसिद्धिर्बाधोऽपसिद्धान्तश्च । सिद्धान्तिना पक्षे निरग्निकत्वनिर्धूमत्वयोरस्वीकारात् । धूमस्य प्रतीतत्वाच्चेति चेन्न ॥

साधनरूपस्यैव लिङ्गस्य असिद्धिर्दोषो न त्वापादकरूपस्य । आपादकत्वव्याघातात् । यद्ध्यापादकं तत्पराभ्युपगतमेव भवति ॥

अत एव व्याप्यस्य १पक्षनिष्ठत्वे पराभ्युपगमनिमित्तकज्ञानविषय-व्यतिरेकज्ञानभञ्जनीयत्वमापादकत्वम् । कुलीरस्येवापादकस्य स्वप्रसूत- युक्त्या प्रतिहतत्वादित्याहुः । भज्यते हि निरग्निकत्वं स्वाभ्युप-गमनिमित्तकज्ञानं प्रति विषयस्य निर्धूमत्वस्य व्यतिरेकरूपस-धूमत्वस्य ज्ञानेन । कथमन्यथा न चायं निर्धूमस् तस्मान्न निरग्निक इति २विषयविपर्ययावसानम् । तदभावे तर्क एवाभासः स्यात् । न चात्र निरग्निकत्वं साधनत्वेनोपात्तम् । तथात्वे हि यदीति स्यादिति च न स्यात् । किं तु निरग्निकत्वादिति स्यात् ॥

एवं साध्यरूपस्यैव लिङ्गिनो बाधो दोषः । नत्वापाद्यरूपस्य आपाद्यत्वव्याघातात् । यद्ध्यापाद्यं तदनिष्टमेव । प्रमाणबाध एवानिष्टत्वम् । अत एवापादकाभिमतभञ्जकज्ञानविषयव्यतिरेक-प्रतियोगित्वमापाद्यत्वमित्याहुः । न चात्र निर्धूमत्वं साध्यम् । तथात्वे हि तर्हीति स्यादिति च न स्यात् । किं तु निर्धूमोऽयमिति स्यात् । न च निर्धूमोऽयमिति ज्ञानस्य यावान्विषयस्तावानेव तर्हि निर्धूमः स्यादित्यस्यापि विषयः । अधिकस्य तर्हि स्यादिति शब्दयोरर्थस्याप्युल्लेखात् ॥

अत एव नापसिद्धान्तोऽपि । स हि सिद्धान्तविरुद्धस्य साधने नत्वापादने । तस्मात्प्रसङ्गरूपानुमानेऽसिद्धिबाधापसिद्धान्ता भूषणान्येव । न तु दूषणानि ॥

अत एवोक्तसाधनानुमानवैधर्म्यादेवास्य प्रसङ्गानुमानत्वम् । दृश्यते च साधनानुमानेष्वपि केवलान्वयिकेवलव्यतिरेक्यन्वयव्यतिरेकिषु अन्योन्यं वैधर्म्यम् । तेष्ववान्तरवैधर्म्येपि व्याप्तिबलेन गमकत्वा-दनुमानत्वं चैतत्तर्केऽपि समम् ॥

न्यायदीपः

‘प्रसङ्गार्थतया प्रोक्ता न सिद्धान्तस्य दूषकाः’ । इत्यादिभक्तिपादीयानु-व्याख्यानसुधयोरुक्तं विवृण्वान आक्षिपति– नन्विति । असिद्ध्यपसिद्धान्तौ व्यनक्ति– सिद्धान्तिनेति । अनुमानप्रयोक्त्रेत्यर्थः । बाधं व्यनक्ति– धूमस्येति । अत एवेति । पराभ्युपगतस्यापादकत्वादेवेत्यर्थः । व्याप्यस्य निरग्निकत्वादिरूपव्याप्यस्य पर्वतादिनिष्ठत्वेन यः पराभ्युपगमस् तन्निमित्तकं यज्ज्ञानं निर्धूमत्वज्ञानं तद्विषयत्वस्य निर्धूमत्वादेर्यो व्यतिरेकः धूमवत्त्वं तज्ज्ञानेन भञ्जनीयत्वं यत्तदेवापादकत्वमित्यर्थः । कुत इत्यत आह– कुलीरस्येवेति । कुलीरस्य जलजन्तुविशेषस्य यथा स्वोत्पन्नापत्यहतत्वं तथैवापादकस्यापि स्वोत्पन्ननिर्धूमत्वाभ्युपगमरूपयुक्तिप्रतिहतत्वादित्यर्थः । आहुस्तार्किका इत्यर्थः । उक्तज्ञानभञ्जनीयत्वं व्यनक्ति– भज्यते हीति । तदभावे विपर्यये पर्यवसानाभाव इत्यर्थः ॥

‘‘व्याप्तिस्तर्काप्रतिहतिरवसानं विपर्यये ।

अनिष्टाननुकूलत्वमिति तर्काङ्गपञ्चकम् ॥’’

इत्युक्ताङ्गपञ्चकमध्ये एकाङ्गविकलत्वादाभासः स्यादित्यर्थः ।

असिद्धिं निरस्य बाधं निराह– एवमिति । अत एवेति । प्रमाण-बाधितस्यैवापाद्यत्वादेवेत्यर्थः । आपादकाभिमतं यन्निरग्निकत्वं तद्भञ्जकभूतं यज्ज्ञानं सधूमत्वज्ञानं तद्विषयो यो व्यतिरेकः सधूमत्वं तत्प्रतियोगित्व-मित्यर्थः । यद्व्यतिरेकज्ञानेनापादकं भज्यते तत्त्वमापाद्यत्वम् । भज्यते हि निर्धूमत्वव्यतिरेकसधूमत्वज्ञानेन निरग्निकत्वम् । न चायं निर्धूमस् तस्मान्न निरग्निक इति विपर्यये पर्यवसानात् । अन्यथा तर्कस्याभासत्वापत्तेरिति भावः । ननु निर्धूमत्वसाधने कथं न बाध इत्यत आह– न चात्रेति ॥

अपसिद्धान्तदोषं च प्रागुक्तं निराह– अत एवेति । निर्धूमोऽय-मित्यसाधनादेवेत्यर्थः । ननु साधनानुमानवैलक्षण्यात्कथमस्यानुमानतेत्यत आह– अत एवेति । तस्य विवरणम् उक्ताद् यदि तर्ह्यादिशिरस्कत्वादि-रूपाद्वैधर्म्यादिति । वैधर्म्यमिति । विपक्षशून्यत्वसपक्षशून्यत्व-तदुभयवत्त्वादिरूपं वैधर्म्यमित्यर्थः ॥

‘‘सर्वेषु केषुचिद्वापि सपक्षेषु कृतान्वयि ।

विपक्षशून्यं पक्षस्य व्यापकं केवलान्वयि’’ ॥

इत्यादेरिति भावः । एतेनापादकस्यासिद्धिरदूषणमित्यादि पद्धतिवाक्यं विवृतं ध्येयम् । अनुमानसामान्यलक्षणोपेतत्वात्केवलान्वय्यादिकमनुमान-मेवेत्याशङ्कामनूद्य साम्यमाह– तेष्विति ।

तर्कताण्डवं

नन्वेवं बाधादेरदोषत्वे कथं तस्य प्रामाण्यमिति चेच्छ्रुणु । सधूमोऽपि निरग्निकोऽस्त्विति शङ्का हि द्वेधा सम्भवति । निरग्निकत्वं प्रति निर्धूमत्वे व्यापकत्वस्यैवाभावेन वा सत्यपि व्यापकत्वे पक्षे निर्धूमत्वस्यापि सत्त्वेन वा ॥

तत्राद्यो निर्धूमत्वस्य व्यापकत्वप्रदर्शकेन यदि निरग्निकस्तर्हि निर्धूम इत्यनेन निरस्यते । यदि गवयो गोसदृशस्तर्हि गौरपि गवय-सदृशी यदि जीवन्गृहे नास्ति तर्हि बहिरस्ति, यदि धूमस्तर्हि वह्निरित्यादौ यदितर्ह्योः स्वसमभिव्याहृतपदार्थेऽन्यथानुपपत्ति-रूपव्याप्तिबोधकत्वस्य व्युत्पत्तिसिद्धत्वात् ॥

अत एव सुधायां यदीदं तर्हीदमित्येव व्याप्तिग्रह उक्तः । यदि-युक्तेन स्याच्छब्देन तु स्वसमभिव्याहृतनिरग्निकत्वस्य पक्षे पराभ्युप-गममात्रं बोध्यते । तर्हियुक्तेनापि स्याच्छब्देन निर्धूमत्वस्य पक्षेऽ-निष्टत्वं बोध्यते । विपर्यये पर्यवसानपर्यन्ते तर्के तथैव व्युत्पत्तेः ॥

तेनैव स्याच्छब्देन द्वितीयोऽपि निरस्तः । यद्यतिथिरागच्छेत्तर्हि भोजयितव्य इति तु विपर्ययपर्यवसानाभावात्सम्भावनामात्रं न तु तर्क इति तवापि संमतम् । अत्र च निरग्निकत्वं प्रति निर्धूमत्वस्य व्यापकत्वं लिङ्गम् । तज्ज्ञानं करणम् । निरग्निकत्वाभावं प्रति निर्धूमत्वाभावस्य व्याप्यत्वं लिङ्गि तज्ज्ञानं फलम् । द्वयमपि प्रमारूपमेव । कारणाभावे कार्याभावनियमात् । व्यापकाभावस्य व्याप्याभावं प्रति व्याप्यत्वाच्च ॥

अत एव प्रसङ्गांशेनैव निर्धूमत्वाभावस्य निरग्निकत्वाभावेन व्याप्तेः सिद्धत्वादेव विपर्यये पर्यवसाने न चायं निर्धूम इत्यनेन तस्य पक्षधर्मतामात्रं प्रदर्श्य तस्मान्न निरग्निक इत्यनेन साध्यमुक्तम् । न तु त्वयाशङ्कितं पक्षे निरग्निकत्वज्ञानं करणम् । नापि पक्षे निर्धूमत्वज्ञानं फलम् । येन द्वयोरप्यप्रमात्वं स्यात् ॥

असिद्ध्याद्युक्तिस्तु निरग्निकत्वं प्रति निर्धूमत्वस्य च व्यापकत्व-प्रदर्शनार्थं तर्कवाक्येनोपात्ते ये निरग्निकत्वनिर्धूमत्वरूपे व्याप्यव्यापके तदभिप्राया ॥

तस्माद्यद्याद्यर्थालिङ्गितस्यार्थस्याबाधान्न तर्कस्याप्रामाण्यम् ॥

एतदेवाभिप्रेत्य सुधायां–यद्यलङ्कृतस्य निरग्निकत्वादेरसिद्धत्वं नास्तीति, तथासति यदीति स्यादिति च न स्यादिति चोक्तम् । अयं पक्षः, प्रसङ्गरूपानुमाने च न साध्यवदापाद्यस्य प्रमाणविरोधादि दूषणमिति प्रमाणलक्षणटीकायां प्रसङ्गरूपानुमाने बाधापसिद्धान्तयोर-दूषणत्वादिति सुधायां चोक्तः ॥

एतदेवाभिप्रेत्योक्तमनुव्याख्याने–

प्रसङ्गार्थतया प्रोक्ता न सिद्धान्तस्य दूषकाः ॥ इति ।

प्रसङ्गो ऽनुग्राह्यानुमानाङ्गभूतान्वयव्याप्तिलिङ्गभूतायाः परा-निष्टाया व्यतिरेकव्याप्तेः प्रदर्शनम् । तदर्थतया तत्प्रयोजनकतया ह्रदादिनिष्ठा निरग्निकत्वनिर्धूमत्वादयः प्रोक्ता न तु पक्षनिष्ठतया प्रोक्ताः । तस्मान्न सिद्धान्तस्य दूषका इत्यर्थः ॥

न्यायदीपः

कथमिति । निर्धूमत्वज्ञानरूपफलस्य बाधितविषयकस्याप्रमात्वा-न्निरग्निकत्वज्ञानस्य च करणत्वादप्रमाजनकस्यासिद्धविषयस्य स्वयं भ्रमरूपस्य च प्रमाकरणत्वरूपं प्रामाण्यं कथमित्यर्थः ॥

नैवं फलकरणभावः । किं त्वन्यथैव । तत्र च फलीभूतं करणभूतं द्वयमपि ज्ञानं प्रमारूपमेवेति लक्षणटीकापद्धतिसुधानुसारेण त्रेधा परिहारम् अत्र च निरग्निकत्वमित्यादिना विवक्षुरुपोद्धातमाह– श्रुण्वित्यादिना । तर्कः शङ्कावधिरित्युक्तत्वेन तस्य शङ्कानिवर्तकत्वादिति शङ्का हीत्युक्तम् । तर्कनिवर्त्या शङ्केत्यर्थः । कथमित्यत आह– यदीति । गृह्यमाणगतसादृश्य-ज्ञानात्स्मर्यमाणगतसादृश्यज्ञानमुपमानमिति शाबरोपमानस्योदाहरणम् । यदि गवय इति । जीवित्वे सत्त्वे गृहेऽसत्त्वमनुपपद्यमानं बहिः सत्त्वं कल्पयती-त्यर्थापत्तिप्रमाणस्योदाहरणम्– यदि जीवन्निति । प्रसिद्धानुमानस्योदाहरणम्– यदि धूम इति । आदिपदेन यदि चैत्रमैत्रयोरन्यतरत्वे सति यद्ययं चैत्रस्तर्ह्यन्यो मैत्र इत्यादिग्रहः । अत एवेति । यद्यादिशिरस्कस्थले व्याप्तिबोधकत्वस्य व्युत्पत्तिसिद्धत्वादेव ॥

रोहिण्युदय आसन्नः कृत्तिकाभ्युदिता यतः ।

इत्युक्ते साधनं नो किं न ह्याज्ञैवात्र साधिका ॥

इति भक्तिपादीयानुव्याख्यानव्याख्यानसुधायां यदीत्येव व्याप्तिग्रह उक्त इत्यर्थः । नन्वेवमापाद्यापादकस्थले स्याच्छब्दद्वयं व्यर्थम् । कृत्या-भावादित्यत आह– यदियुक्तेनेति । यदिशब्दयुक्तेनेत्यर्थः । तेनैवेति । तर्हीतिशब्दयुक्तेन स्याच्छब्देन निर्धूमत्वस्य पक्षे सत्त्वमिति पक्षोऽपि निरस्त इत्यर्थः ॥

नन्वेवं तर्हि भोजयितव्य इत्यादावप्यनिष्टबोधः स्यात् । स्यात्पर्यायस्य तव्यप्रत्ययस्य सत्त्वादित्यत आह– यद्यतिथिरिति । सम्भावनामात्र-मिति । योग्यतामात्रमित्यर्थः । तवापीति । तथैव मणिकण्ठोक्तेरिति भावः । अस्त्वेवं तावता कथं प्रामाण्यमित्यत आह– अत्र चेति । लिङ्गीति । अनुमेयं वस्त्वित्यर्थः । द्वयमपीति । लिङ्गज्ञानं लिङ्गिज्ञानं चेति द्वयमित्यर्थः ॥

ननु कथं लिङ्गज्ञानस्य प्रमात्वं तस्यासिद्धत्वात् । न च यदि निरग्निकस्तर्हि निर्धूम इत्यनेनाव्यापकत्वशङ्का निरस्यत इति वाच्यम् । हेत्वभावादित्यत आह– कारणेति । अग्निरूपकारणाभावे कार्याभाव-नियमात् । यदि निरग्निक इत्यादिना सा शङ्का निरस्यत इति निर्धूमत्वस्य व्यापकत्वरूपं लिङ्गं नासिद्धमिति भावः । ननु तावता व्याप्यत्वरूपलिङ्गिनो ज्ञानं प्रमेति कुतो व्याप्यत्वस्यासिद्धेरित्यत आह– व्यापकाभावस्येति । निर्धूमत्वाभावस्य निरग्निकत्वरूपव्याप्यस्याभावं प्रतीत्यर्थः । तत्र ज्ञापकमाह– अत एवेति ॥

ननु यद्येवमसिद्धिबाधादिकमाशङ्क्य तर्के न दोष इत्युक्तं तत्कथ-मुक्तरीत्याऽसिद्ध्यादेरभावादित्यत आह– असिद्ध्याद्युक्तिस्त्विति । सुधायामिति । भक्तिपादीयसुधायामित्यर्थः । उक्तमिति । भक्तिपादीयानु-व्याख्याने । स्वोक्तपक्षानुगुणतयाऽर्थमाह– प्रसङ्ग इत्यादिना ।

तर्कताण्डवं

यत्तु सुधायां प्रसङ्गो ऽङ्गीकर्तव्यतया ज्ञापनमिति व्याख्यानं तद् वक्ष्यमाणतृतीयपक्षस्थत्वात्तदभिप्रायम् । यद्वाऽऽपादकरूपलिङ्गस्य निरग्निकत्वस्य पक्षे पराभ्युपगतत्वमेव पक्षसम्बन्ध इति नासिद्धिः ॥

युक्तं चैतत् । यक्षानुरूपबलिन्यायेन लिङ्गिनो निर्धूमत्वस्यापि पक्षेऽभ्युपगमनीयत्वस्यैव पक्षसम्बन्धत्वात् । धूमरसादेः पक्षे संयुक्तत्वसमवेतत्वादिना ज्ञातस्यैवाग्निरूपादिसाधकतया तत्र संयोग-समवायादेरिव निरग्निकत्वस्यापि पक्षे पराभ्युपगतत्वेन ज्ञातस्यैवा-पादकतयाऽभ्युपगमस्यैव संबन्धताया उचितत्वात् ॥

दृश्यते च कृत्तिकोदयाधोदेशनदीपूरादिरूपसाधनानुमानस्यापि रोहिण्युदयोर्ध्वदेशादिरूपपक्षेऽभावेपि पक्षनिष्ठसाध्यसमानकालीनत्व-पक्षनिरूप्याधोदेशस्थत्वादिःत्वन्मते ज्ञानत्वादिरूप१प्रमेयत्वादेरपि पक्षीभूतशब्देन स्वरूपप्रत्यासन्नज्ञानसमवेतत्वादिश्च परंपरासम्बन्धः ॥

अस्मिन्पक्षे तर्कस्य प्रामाण्यं निरग्निकत्वनिर्धूमत्वयोः पक्षेऽभ्युप-गतत्वाभ्युपगमनीयत्वरूपेण सत्त्वात्तेन च रूपेण तद्विषययो-र्निरग्निकत्वनिर्धूमत्वज्ञानरूपयोः करणफलयोः प्रमात्वाद्युक्तम् ॥ अयं च पक्षः पराभ्युपगममात्रस्य तत्र सिद्धिपदार्थत्वादिति पद्धत्युक्तः ।

अथवा यदि निरग्निकः स्यादित्यस्य यदि निरग्निकत्वाङ्गीकार इत्यर्थः । तथाङ्गीकारश्च सिद्ध एव । अन्यथा तर्कस्याप्यनुत्थानात् । एवं तर्हि निर्धूमः स्यादित्यस्य निर्धूमत्वेनाङ्गीकर्तव्य इत्यर्थः । आपादनं हि अङ्गीकर्तव्यतया ज्ञापनम् । न पुनः सद्भावप्रतिपादनम् । यदि विषं भक्षयिष्यसि तर्हि मरिष्यसीत्यादिवत् । नचानङ्गीकारे स्वक्रियाविरोधादिरूपाङ्गीकारयोग्यता बाधिता ॥

एवं च पर्वतो निर्धूमत्वेनाङ्गीकर्तव्यः निरग्निकत्वेनाङ्गीकृतत्वात् ह्रदवद् इत्यनुमानमेव तर्क इति साधनानुमान इव तर्केऽप्यसिद्ध्यादिकं दोष एवेति न तर्कस्य साधनानुमानाद्वैषम्यमपि ॥

अत्र च द्वितीये पक्षे निरग्निकत्वमेव लिङ्गम् । अभ्युपगमस्तु तस्य पक्षेण सम्बन्धः । तृतीये त्वभ्युपगम एव लिङ्गमिति भेदः ॥

अयमपि पक्ष ‘‘आपादनं नामाङ्गीकर्तव्यतया ज्ञापनम् । न तत्प्रमाणविरुद्धम्’’ इत्यादिसुधायामेवोक्तः ॥

न्यायदीपः

वक्ष्यमाणेति । अथवेत्यादिना वक्ष्यमाणेत्यर्थः । बाधासिद्धी प्रकारान्तरेण निराकुर्वन् परोक्तरीत्या निरग्निकत्वनिर्धूमत्वज्ञानयोः करणत्व-फलत्वेऽभ्युपेत्य तर्कस्य प्रामाण्यमाह– यद्वेति । यक्षानुरूपेति । यक्षस्योग्रत्वे तदनुरोधबलिर् अत्युग्रत्वे अतिबलिर् मृदुत्वे अल्पबलिरिति न्यायेनेत्यर्थः । धूमेति । धूमश्च रसश्च तदादेरित्यर्थः । एवमग्निश्च रूपं च तदादेर् अग्निरूपादेः साधकतयेत्यर्थः । यथाक्रममन्वयः ॥

ननु संयोगसमवायाभ्यामन्यस्य कथं पक्षधर्मताघटकसम्बन्धत्वं क्वाप्यदर्शनादित्यत आह– दृश्यते चेति । कृत्तिकोदयश्चाधोदेशनदीपूरश्च तदादिरूपस्येत्यर्थः । रोहिण्युदय आसन्नः कृत्तिकाया उदितत्वात्, ऊर्ध्वदेशो वृष्टिमान् अधोदेशे नदीपूरवत्त्वाद् इत्यादिरूपानुमानस्येत्यर्थः । पक्षेति । रोहिण्युदयरूपपक्षनिष्ठासन्नत्वरूपसाध्यसमानकालीनत्वरूपः पक्षसम्बन्धः कृत्तिकोदयरूपलिङ्गस्य दृश्यते । ऊर्ध्वदेशरूपपक्षनिरूप्योयो अधोदेशस् तत्स्थत्वरूपपक्षसम्बन्धो नदीपूरस्य दृश्यते । अन्यथा न्यायमते तयोरपक्षधर्मताकत्वेन ताभ्यां रोहिण्युदयासत्त्याद्यनुमित्यनुदयापातः । न चेष्टापत्तिः । अनुभवविरोधादिति भावः । त्वन्मत इति । न्यायमते शब्दोऽभिधेयो ज्ञेयत्वादित्यत्र ज्ञेयत्वं नाम शब्दस्य परम्परासम्बन्धेन ज्ञानत्वमेव । प्रमेयत्वं च प्रमात्वमेव । न ततोऽन्यत् । तथा च तस्य पक्षधर्मताघटकः ज्ञानस्यार्थस्य च स्वरूपसम्बन्धः ज्ञानादिना च ज्ञानत्वादेः समवाय इति परम्परासम्बन्धो दृश्यत इत्यनुकर्षः । प्रामाण्यमिति । युक्तमित्यन्वयः । प्रसङ्गार्थतयेत्यत्र सुधोक्तिमनुरुध्याह–अथवेति । नन्वङ्गीकर्तव्यताज्ञापनेपि कथं बाधितत्वनिरास इत्यत आह– न चेति । निर्धूमत्वस्याङ्गीकर्तव्यता ह्यङ्गीकारयोग्यता स्वक्रियाविरोधरूपा, धूमरूप-कार्यमङ्गीकृत्याग्निरूपकारणाभावाङ्गीकारे कार्योद्देशेन कारणे प्रवृत्तिरूप-स्वक्रियाविरोध इत्येतन्निर्धूमत्वमङ्गीकार्यमिति भङ्ग्यन्तरेणोच्यते । तथा च सा न प्रमाणबाधितेत्यर्थः । यद्वाऽङ्गीकर्तव्यताज्ञापनं कथमनिष्टम् । अनिष्टस्यैवापाद्यत्वादित्यत आह– न चेति । पूर्वं धूमोऽस्त्वित्युक्तत्वेन निर्धूमत्वाङ्गीकारे स्वक्रियाविरोधरूपाङ्गीकारायोग्यता न च बाधिता । येनानिष्टापादनं न स्यादित्यर्थः ॥

अस्मिन्पक्षे प्रामाण्यमुपपादयितुं तत्स्वरूपमवधारयति– एवं चेति । अङ्गीकारार्थत्वे सतीत्यर्थः । असिद्ध्यादिकं दोष एवेति । यत्र व्यापका-भावस्य परेणानङ्गीकारेऽप्यङ्गीकृतत्वादिदमङ्गीकर्तव्यमित्युच्यते तादृशस्थल एव । तादृशस्य प्रामाण्यमस्माभिर्नोपेयत एव । यत्र पुनरङ्गीकारो व्यापका-भावस्य सिद्धस्तादृशस्यैवासिद्ध्यादिशून्यस्य प्रामाण्यमुपेयत इति भावः ॥

ननु यद्वेत्युक्तद्वितीयपक्षेऽपि पराभ्युपगमेनैवासिद्ध्यादिपरिहारात्तृतीयस्य ततः को भेद इत्यत आह– अत्र चेति । अयमपि तृतीयोऽपि । सुधायां भक्तिपादीयसुधायाम् ।

तर्कताण्डवं

या तु–

स्वन्यायैः साधनं कार्यं परन्यायैश्च दूषणम् । इत्यनुव्याख्याने, स्वसिद्धैः साधनं परसिद्धैर्दूषणमतो न दूषणेऽपसिद्धान्तादीति प्रमाणलक्षणे च, साधनदूषणानुमानयोर्व्यवस्थोक्तिः सा न तृतीय-पक्षे । तत्र प्रसङ्गानुमानस्य साधनानुमानादवैषम्यस्योक्तत्वात् । किंत्वितरपक्षयोः । आद्योक्ताया असिद्ध्याद्यदोषताया, द्वितीयोक्ताया अभ्युपगमस्यैव सिद्धितायाश्च साधनानुमाने क्वाप्यदर्शनात् ॥

यद्वा तृतीयोक्ताया अभ्युपगमायोग्याभ्युपगमस्य लिङ्गताया अपि साधनानुमाने क्वाप्यदर्शनाद् व्यवस्थोक्तिः पक्षत्रयसाधारणीति ज्ञेयम् ॥

एतेन विपर्ययपर्यवसानरूपानुमाननिरपेक्षस्य तर्कस्य न प्रामाण्य-मिति निबन्धादावुदयनाद्युक्तं निरस्तम् । तन्निरपेक्षस्यैव प्रसङ्गस्य प्रामाण्योपपादनात् ॥

या तु अनिष्टापादनं विपर्यये पर्यवसानं चोभयं मिलितमेवानुमिति साधनं भवतीति तर्कस्य प्रामाण्यमिति पद्धतिः, सा निर्धूमतयाङ्गी-कर्तव्यतासाधनस्य सिद्धसाधनताशङ्कानिरासार्थं, स्यादित्यनेन बोधित-प्रमाणविरोधोपपादनार्थं च तर्कस्याङ्गभूतविपर्ययपर्यवसानसापेक्षत्व-मात्रेण वा धूमस्य वह्निव्याप्तिप्रमायाम् अङ्गीकर्तव्यताप्रमायां च निरपेक्षत्वेऽपि तदुद्देश्यायां न निरग्निक इति प्रमायां पर्यवसानसापेक्ष-त्वेन वेति ज्ञेयम् ॥

किं च तर्करूपं हि ज्ञानं न तावत्संशयः । एककोटिकत्वात् । नापि विपर्ययः । निरस्तत्वात् । तस्मात्प्रमाणमेव ॥

किं च तर्कज्ञानस्याप्रमाणत्वे तर्कवाक्यमसदुत्तरं स्यात् । यदि विषं भक्षयिष्यसि तर्हि मरिष्यसीत्याद्याप्तवाक्यं, यदि हरिश्चन्द्रोऽनृतं ब्रूयात्तर्ह्यग्निरपि शीतः स्यादित्यादिस्मृतिश्चाप्रमाणं स्यात् । अनुभव-विरोधश्च स्यात् । यद्याद्यर्थशिरस्कस्य तर्कस्य बाधाननुभवात् ॥

किञ्च अप्रमात्वेनानाशङ्किते धूमरूपविशेषस्य साक्षात्कारे सति कथं निर्धूमत्वस्यारोपः ॥

न च तर्कस्य प्रतिमायां नारायणबुद्धिवदाहार्यारोपरूपत्वाद्विशेष-दर्शनं न विरोधीति वाच्यम् । तस्य फलानुसन्धानसापेक्षत्वाद्व्याप्ति-ज्ञाननिरपेक्षत्वाच्च । तर्कस्य फलानुसन्धाननिरपेक्षत्वात् । व्याप्तिज्ञान-सापेक्षत्वाच्च । प्रतिमायां नारायणध्यानस्येव पर्वते निर्धूमत्वध्यानस्या-ननुभवाच्च ॥

न्यायदीपः

ननु तर्केऽप्यसिद्ध्यादेर्दोषत्वे तददोषत्वोक्तिर्विरुद्धेत्यत आह– या त्विति । इत्यनुव्याख्यान इति । भक्तिपादीये । अत इत्यादि ग्रन्थकारवाक्यं, स्वसिद्धेरित्यादिवाक्यद्वयाभिप्रायविवरणम् । व्यवस्थेति । स्वसिद्धत्वपरसिद्धत्वरूपव्यवस्थेत्यर्थः । इतरयोः पक्षयोरेव व्यवस्थेत्युक्तं व्यनक्ति– आद्येति । अभ्युपगमायोग्येति । निरग्निकत्वस्याभ्युपगमायोग्यस्य योऽभ्युपगमस्तस्य लिङ्गताया इत्यर्थः । एतेनेति । एवं त्रेधा प्रामाण्योपपादनेनेत्यर्थः । तदेव व्यनक्ति– तन्निरपेक्षस्यैवेति । एवं हि पद्धतिविरोध इत्यतो द्वेधा समाधिमाह– या त्विति । सेत्यन्वयः ॥

आद्यपक्षद्वयानुरोधेनाह– धूमस्य वह्निव्याप्तिप्रमायां वेति । अथवे-त्युक्तान्त्यपक्षानुरोधेनाह– अङ्गीकर्तव्यताप्रमायां वेति । तदुद्देश्याया-मिति । व्याप्तिप्रमाङ्गीकर्तव्यताप्रमाभ्यामुद्देश्यायां तयोः फलभूतायामित्यर्थः ॥

तर्कः प्रमाणं न चेदप्रमाणं स्यात् । उभयबहिर्भावायोगात् । अप्रामाण्यं च संशयत्वेन विपर्ययत्वेन । न द्वयमप्यतोऽप्रामाण्यायोगात्प्रामाण्यमेव युक्तमिति परिशेषेणापि प्रामाण्यमाह– किं चेति । विपक्षबाधकेनापि तर्कस्य प्रामाण्यमाह– किं च तर्कज्ञानस्येति ॥

न केवलमतिप्रसङ्गभयात्तर्कस्याभ्रमत्वमुपेयं किं तु विशेषदर्शनरूपविरोधि-सत्त्वेऽ१प्युपपन्नत्वान्न भ्रमत्वं तस्योपेतुं शक्यमित्याह– किं चाप्रमात्वे-नेति । अप्रमात्वकोटिकशङ्काशून्ये व्याप्यदर्शने सतीत्यर्थः । कथं निर्धूम-त्वारोप इति । किंत्वस्मदुक्तदिशा प्रमारूप एव वाच्य इति भावः । आहार्यत्वात्सम्भवतीत्याशङ्क्य निराह– न चेति । फलेति । अदृष्ट-फलेत्यर्थः । प्रतिमायां नारायण२रूपबुद्धिर्ध्यानरूपा । न ह्येवं प्रकृत इत्याह– प्रतिमायामिति ।

तर्कताण्डवम्

एतेन– तर्कः संशयात्प्रच्युतो निर्णयं चाप्राप्त इत्युदयनोक्तम्, अव्यवस्थितनिरग्निकत्वाभ्युपगमोपाधिकानिष्टप्रतिसन्धानरूपत्वात्तर्क-ज्ञानस्याप्रामाण्यमिति वर्धमानाद्युक्तं; तर्कः सन्देहविपर्ययप्रमा-विजातीयं ज्ञानान्तरं सा च जातिस् तर्कयामि न तु निश्चिनोमि इत्यनुव्यवसायसाक्षिकेति मणिकण्ठोक्तं च निरस्तम् । यद्यर्थशिरस्के प्रमाणत्वस्योक्तत्वात् ॥

किं च तर्कत्वस्य जातित्वे तर्कस्य त्वदङ्गीकृतं संशयनिवर्तकत्वं न स्यात् । ज्ञानस्य विरोधिविषयत्वेनैव निर्वतकत्वात् ॥

किञ्च जात्यैव निवर्तकत्वेऽनुमानानुग्राहकस्तर्को निरग्निकत्वानु-मानस्य च प्रतिबन्धिकामपि शङ्कां निवर्तयेत् । जातेः साधारण्यात् । न हि गौः किञ्चित्प्रत्यगौर्भवति । न च मण्यादिवत्प्रतिनियत-प्रतिबन्धकत्वम् । तत्रोद्देशदाहत्वस्येवात्र शङ्कात्वस्यैव प्रतिबध्यता-वच्छेदकत्वं चेदुक्तातिप्रसङ्गात् । तर्कविषयविरोधिविषयशङ्कात्वस्य तथात्वे तर्कस्यापि क्लृप्तेन शङ्काविषयविरोधिविषयत्वेनैव प्रतिबन्धक-ताया न्याय्यत्वात् । अन्यथा व्याघातत्वादिकमपि जातिः स्यात् ॥

तस्मात्तर्कः प्रमाणमेव । तत्रापि व्याप्तिसापेक्षत्वेन शाब्दत्व-प्रत्यक्षत्वयोरसम्भवेन परिशेषादनुमानमेव । परार्थे तर्के वादिवाक्या-पेक्षा तु परार्थानुमान इव व्याप्त्यादिस्मारकत्वेन । न त्वागमत्वेनेति ॥

न्यायदीपः

उदयनोक्तं वर्धमानाद्युक्तमित्यनयोरपि निरस्तमित्यनेनान्वयः । अव्यवस्थितेति । अप्रमीयमाणेत्यर्थः । सन्देहेति । संशयविपर्ययप्रमाभ्यः विजातीयमित्यर्थः । उक्तत्वादिति । श्रुण्वित्यादिना ग्रन्थेनेति भावः । मणिकण्ठपक्षे दोषान्तराण्याह– किं च तर्कत्वस्येति । संशयेति । व्यभिचारसंशयेत्यर्थः ॥

ननु तर्करूपज्ञानस्य जात्यैव संशयनिवर्तकत्वमस्त्विति वक्तारं प्रत्याह– किंचेति । ननु जात्यैव निवर्तकत्वेऽपि मण्यादिकं जात्या प्रतिबन्धकमपि यथा दाहस्यैव न त्वन्यस्य एवं तत्तदीयतर्कस्तत्तदीयशङ्कानिवर्तको न सर्वसाधारण इत्याशङ्क्य निराह– न च मण्यादीति । तर्कविषय-विरोधीति । शङ्का व्यभिचारविषयिणी, तर्कस्त्वव्यभिचारविषय इति विरोधिविषयशङ्कात्वस्येत्युक्तम् । व्याघातत्वेति । स्वक्रियाविरोधत्वादिक-मित्यर्थः । तर्को ह्यनुमानवत्स्वार्थपरार्थभेदेन द्विविधः । स्वस्योत्पन्न-शङ्कानिवर्तकः स्वार्थः परस्य शङ्कानिवृत्तये प्रयुक्तः परार्थः । तत्र तर्कप्रयोक्तृ-वाक्यसापेक्षत्वात्तर्करूपज्ञानस्य शाब्दत्वं कुतो नेत्यत आह– परार्थ इति ॥

॥ इति तर्कस्यानुमानान्तर्भावः ॥ १६ ॥