०४ उपाधेर्दूषकताबीजम्

उपाधिश्चानुमानप्रवृत्तेः प्राग्व्याप्तिग्रहवेलायामव्याप्तेरेवोन्नायकः

अथोपाधेर्दूषकताबीजम् ॥ १० ॥

तर्कताण्डवम्

उपाधिश्चानुमानप्रवृत्तेः प्राग्व्याप्तिग्रहवेलायामव्याप्तेरेवोन्नायकः । साध्यव्यापकं परित्यजतो हेतोः साध्यपरित्यागस्यावश्यकत्वात् । साध्यपरित्यागस्यैवाव्याप्तित्वात् । न तु तदा सत्प्रतिपक्षस्य । पक्षे साध्योपसंहारात्प्राक् सत्प्रतिपक्षस्यानवसरात् । तदुत्तरकालं तु प्रतिपक्षस्यैवोन्नायकः । हेतोः साध्यपरित्यागो हि पक्षादन्यत्र वा पक्ष एव वा । नाद्यः । स्फुटे व्यभिचारे सति तदर्थमुपाध्यप्रतीक्ष-णात् । द्वितीये साध्यव्यापकव्यावृत्तिः पक्षे साध्यमपि व्यावर्तयतीति प्रतिपक्षोन्नायकतैव ॥

ननु– तदाप्यव्याप्त्युन्नायक एवास्तु । उपाधिव्यावृत्त्या साध्यरहिते पक्षे वर्तमानस्य हेतोर्व्यभिचारावश्यंभावादिति चेन्न । तथात्वे बाध-प्रतिरोधयोरपि व्यभिचारोन्नायकत्वापातात् । तत्र ताभ्यामेवानुमाने दुष्टे किं तदुपजीविना व्यभिचारेणेति चेत्तर्ह्यत्रापि व्यापकव्यावृत्तिरूप-प्रतिपक्षेणैवानुमाने दुष्टे किं तदुपजीविना व्यभिचारेण ॥

न चोपाध्यभावस्य प्रतिपक्षत्वेन दोषत्वे उपाधेर्दोषत्वं न स्यान् न हि यत्र यदभावो दोषस्तत्र सोपि दोष इति वाच्यम् । उपाधेः स्वव्यावृत्तिमुखेनैव दोषतया स्वरूपेणादोषत्वात् । अन्यथा व्यभिचारोन्नयनपक्षेऽपि चोद्यं दुष्परिहरम् ॥

न चैवं सत्प्रतिपक्षे उपाध्युद्भावनं न स्यात् । वैयर्थ्यादिति वाच्यम् । स्वपक्षसाधनार्थमेकं परपक्षसाधनप्रतिरोधार्थमपरमिति सार्थक्यात् । अन्याय्यो ह्येकेन बहूनां प्रतिरोधः ॥ उक्तं च–

‘‘द्विविधं बलवत्त्वं च बहुत्वाच्च स्वभावतः’’ ॥ इति ।

सिद्धं चैतल्लोकशास्त्रयोः । उक्तं हि प्रमाणतोऽर्थप्रतिपत्तौ’’ इति न्यायभाष्यव्याख्यानावसरे न्यायवार्तिकेऽपि ‘‘प्रमाणेन प्रमाणाभ्यां प्रमाणैरिति संप्लवो गम्यत’’ इति । न्यायटीकायां च ‘‘दार्ढ्यार्थक-परस्परसंवादरूपसंप्लवावसर’’ इति ॥

एतेन शतमप्यन्धानां न पश्यतीति निरस्तम् ॥ न च बाधोन्नीत-पक्षेतरत्वोपाधेर्दोषत्वं न स्यात् । प्रतिपक्षेऽसाधारण्यादिति वाच्यम् । तत्रोपाधिव्यतिरेकरूपहेतोरनुकूलतर्कसनाथत्वेनासाधारण्यस्यादोषत्वात् ॥

न च क्षितिद्व्यणुकादिपक्षकेश्वरानुमाने पक्षैकदेशवर्तिनोऽ-नणुत्वस्योपाधित्वं न स्यात् । तद्व्यतिरेकस्य भागासिद्धेरिति वाच्यम् । तत्रोपाधिरहितपक्षैकदेशस्यैव पक्षीकरणात् । तावतापीश्वरानुमानो-द्देशधीविरोधित्वेन प्रतिपक्षत्वोपपत्तेः । न चान्धकारो द्रव्यं स्वातन्त्र्येण प्रतीयमानत्वादित्यत्राश्रावणत्वस्य, पर्वतो धूमवा-न्वह्निमत्त्वादित्यत्रार्द्रेन्धनादेश्चोपाधित्वं न स्यात् । तद्व्यतिरेकस्य पक्षैकदेशेऽप्यभावादिति वाच्यम् । व्यभिचारोन्नयनपक्षेऽपि शब्दे तप्तायःपिण्डे च व्यभिचारस्य स्फुटतयोपाध्यनपेक्षणात् । शब्दादेरपि पक्षत्वेन व्यभिचारस्यास्फुटत्वं चोपाधिव्यतिरेकेणापि तत्रैव साध्या-भावः साध्यताम् ॥

न च स श्यामो मित्रातनयत्वादित्यत्र शाकपाकजत्वादेः संदिग्धोपाधेर्दोषत्वं न स्यात् । तद्व्यतिरेकस्य सन्दिग्धत्वेन प्रतिपक्षा-सम्भवादिति वाच्यम् । पाक्षिकसिद्ध्यादिनापि सत्प्रतिपक्षफलस्य संदेहस्य सिद्धेः । संशयाङ्गत्वमेव च समबलत्वम् ॥

न च पक्षे साध्यसन्देहोऽनुमानाङ्गत्वादुपाधिं विनापि सिद्ध इति वाच्यम् । पक्षे व्यभिचारसन्देहस्यापि तं विनापि सिद्धेः । उपाध्यायत्तो व्यभिचारसन्देहस्तं विना नेति चेत्तदायत्तः साध्यसन्देहोऽपि तं विना नेति समम् ॥

किंच त्वयैवोपाध्याभासो नाना । असाधारणविपर्ययः, अप्रसिद्ध-साध्यविपर्ययः बाधितसाध्यविपर्यय इत्यादिरूपेणेतिवदतोपाधेः प्रतिपक्षोन्नायकत्वं स्वीकृतम् । असाधारण्याप्रसिद्धविशेषणत्व-बाधादीनामनुमानदोषत्वात् ॥

किञ्च वह्निरूपो हेतुर् धूमरूपसाध्यव्यभिचारी तद्व्यापकार्द्रेन्धन-रूपोपाध्यभाववद्वृत्तित्वादिति त्वदीयं व्यभिचारानुमानमेव पक्षे साध्याभावसाधकत्वात्प्रतिपक्षः । न ह्यत्रानुमीयमानो व्यभिचारः पक्षादन्यत्र पर्यवसानयोग्यः । यत्र महानसादौ हेतुसाध्ययोः सत्त्वं तत्र व्यभिचारस्य बाधितत्वात् । यत्र चायोगोलकादौ हेतुसाध्ययोः सत्त्वासत्त्वे तस्योपस्थितौ व्यभिचारस्य स्पष्टत्वेनोपाध्यनपेक्षणात् । अनुपस्थितौ च तत्रापर्यवसानात् ॥

तस्मात्परिशेषान्निश्चितहेतुकत्वेन सन्दिग्धसाध्यकत्वेन चोपस्थिते पक्ष एव साध्याभावं ज्ञात्वा तत्र हेतोः सत्त्वं ज्ञेयमिति व्यभिचारानु-मितिः पूर्वं पक्षे साध्याभावं स्पृशन्ती कथं न प्रतिपक्षः । नचैव-मुपाध्यभावस्य हेतुताहतिः । उपाध्यभाववद्वृत्तित्वादिति हेतुशरीरे उपाध्यभावप्रवेशात् ॥

ननु– दूष्यानुमानस्य तर्कानुग्रहे उपाधिर्न साध्यव्यापकः । उपाधेस्तदनुग्रहे त्वनुमानस्य बाध एवेति कदा प्रतिपक्षावसर इति चेत् । यदैकत्रानु१कूलतर्कानवतारस्तदेत्यवेहि । अन्यथा प्रतिपक्ष-मात्रोच्छेदः । न हि प्रतिपक्षो यावज्जीवं प्रतिपक्षः । यस्य हि यदानुकूलतर्कावतारः स तदा बाधकोऽन्यस्तु बाध्य एव भवति ॥

प्रतिपक्षप्रयोगोऽपि– शुद्धसाध्यव्यापके वैधीहिंसा नाधर्मसाधन-मनिषिद्धत्वादिति, अवच्छिन्नसाध्यव्यापके तु वायुर् द्रव्यत्वे सति स्पार्शनत्वेन हीनोऽचाक्षुषत्वादाकाशवदिति, समवायः सम्बन्धत्वे सति समवेतत्वेन हीनोऽकृतकत्वादाकाशवदिति, अवच्छिन्नसाध्य-व्यापकोऽपि शुद्धसाध्य१ एवोपाधिरिति, चतुर्थपक्षे वायुः स्पार्शनो न द्रव्यत्वे सत्यचाक्षुषत्वादाकाशवदित्येव कर्तव्यः । न तु सर्वत्रापि विमतं व्याप्यरहितं व्यापकरहितत्वादिति सामान्येन । २व्यापक-रहितत्वस्यानिर्धारितत्वेनासिद्धेः । वह्निमानयं तद्व्याप्यवत्त्वादिति सामान्येन प्रयोगप्रसङ्गाच्च । न च द्वितीयतृतीययोः साध्यविशेषण-वैयर्थ्यम् । शब्दो न स्पर्शवद्विशेषगुणो ऽयावद्द्रव्यभावित्वा-दित्यादाविव व्यभिचारपरिहारार्थत्वात् ॥

ननु– विपक्षे बाधकतर्कज्ञाने उपाधेरनवतारस् तदज्ञाने तत एव व्याप्तिग्रहप्रतिबन्धात् किमुपाधिनेत्युपाधिचिन्ता वृथैवेति चेन्मैवम् । तर्काज्ञानदशायामुपाधिप्रसङ्गात् । न हि विपक्षे बाधकतर्कज्ञानं व्याप्तिधीहेतुः । व्यभिचारशङ्काभावे तर्कानपेक्षणात् । येन तदज्ञानं व्याप्तिधीप्रतिबन्धकं स्यात् । किंतु विपक्षे बाधकतर्काभावज्ञानम् । न च तर्काज्ञानदशायां तर्काभावज्ञाननियमः । अनियतसामग्रीकत्वात् ॥

तस्मादुपाधिर्विप्रतिपत्तितः प्रागव्याप्तेरुन्नायकः । अनन्तरं तु प्रतिपक्षस्य । एवं च अनुव्याख्याने–

‘साध्यव्यापकवैलोम्यमव्याप्तिः साधनस्य च’

इत्युपाधेरव्याप्त्यन्तर्भावस्योक्तत्वात् प्रमाणलक्षणे तु स एवोपाधिदोषोऽपीति प्रतिरोधान्तर्भावस्योक्तत्वाद्विरोध इति निरस्तम् । दशाभेदेनोभयसम्भवात् ॥

अत एव सुधायामव्याप्तिः साधनस्य चेत्यनुव्याख्यानस्थचशब्देन प्रतिरोधोऽपि संगृहीत इत्युक्तम् । एतदेवाभिप्रेत्य पद्धतौ उपाधिर्विप्रति-पत्तेः प्रागव्याप्त्युन्नायकः विप्रतिपत्युत्तरकालं प्रतिपक्षोन्नायको भवती-त्युक्तम् । यत्तु प्रमाणलक्षणटीकायां स एवेति मूलस्थैवकारस्य व्यभिचारवारकत्वेन व्याख्यानं तदपि विप्रतिपत्यनन्तरं तद्व्यव-च्छेदकत्वपरमिति न तद्विरोधोऽपीति ॥

न्यायदीपः

उपाधेः किंत्वेन दूषकत्वमित्यतः ‘साध्यव्यापकवैलोम्य’मिति युक्तिपादीयानुव्याख्यानसुधोक्तिं विवृण्वान आह– उपाधिश्चेति । प्रागित्यस्य विवरणं व्याप्तिग्रहेत्यादि । उपस्थित इति शेषः । अव्याप्तेर्व्याप्त्यभावस्य हेतुत्वेनाभिमतं, हिंसात्वं पापसाधनत्वाव्याप्यं तद्व्यापकनिषिद्धत्वाव्याप्यत्वा-दित्येवंरूपेणोन्नायक इत्यर्थः । तद्व्यापकाव्याप्यत्वे तदव्याप्यत्वं कुत इत्यत सुधोक्तमेवाह– साध्येति । साध्यमपरित्यजतस्तद्व्यापकपरित्यागस्यायोगादिति भावः । तावता साध्यत्यागोन्नायकत्वमेव प्राप्तं न त्वव्याप्त्युन्नायकत्व मित्यत आह– साध्यपरित्यागस्यैवेति ॥

एतेनानौपाधिकसम्बन्धस्य व्याप्तित्वात्सोपाधिकत्वे लक्षणाभावादव्याप्ति-रित्युपपादनं निरस्तम् । व्याप्तिज्ञानाधीनमुपाधिज्ञानं तदधीनं च निरुपाधि-कत्वज्ञानं तदायत्तं च व्याप्तिज्ञानमिति चक्रकप्रसङ्गेन तस्य व्याप्तिलक्षणत्वा-योगात् ॥

एवकारव्यावर्त्यमाह– न त्विति । तदुत्तरेति । अनुमानप्रवृत्त्युत्तरकालं त्वित्यर्थः । उपस्थितोपाधिश्चेत्यनुकर्षः । न तु व्याप्त्यभावादेरित्येव-कारार्थः । प्रतिपक्षोन्नयनप्रकारश्च प्रतिपक्षप्रयोगोऽपीत्यादिनाग्रे व्यक्तः ॥

ननु साध्यव्यापकं परित्यजतो हेतोः साध्यपरित्यागस्यावश्यकत्वे साध्यव्यभिचार एव प्राप्तः कथं प्रतिपक्षतेत्यतोऽन्यत्र साध्यपरित्यागे हि तथा, पक्ष एव साध्यपरित्यागे तु प्रतिपक्षतैवेति भावेनान्यत्र परित्यागपक्षं दूषयन्नाह– हेतोः साध्यपरित्यागो हीति । उपाध्युपस्थितिस्थल इति योज्यम् । व्याप्त्यभावोन्नायकत्वं कथमित्यत आह– उपाधीति । परमुखेनैव समाधिं वाचयित्वा सम इत्याह– तत्र ताभ्यामिति ॥

ननूपाध्यभावस्य प्रतिपक्षत्वेन दोषत्वे सत्युपाधेरदोषत्वापत्तिः, प्रतिपक्षे उपाध्यनुद्भावनापत्तिः, बाधोन्नीतपक्षेतरस्योपाधित्वानापत्तिः पक्षैकदेश-वर्तिनोऽनुपाधितापत्तिः, पक्षेऽविद्यमानव्यतिरेकप्रतियोगिन उपाधितानापत्तिः, सन्दिग्धोपाधेरदोषत्वापत्तिः, प्रतिपक्षोद्भावनानवसरः, इति दोषसप्तक-भावात्कथं प्रतिपक्षोन्नायकत्वमित्यत आद्यं निराह– न चोपाध्यभाव-स्येति । चोद्यं दुष्परिहरमिति । उपाध्यभावस्य साध्यव्यभिचारोन्नायकत्वेन दूषकत्वे उपाधिर्दोषो न स्यादिति चोद्यस्य तत्रापि तुल्यत्वादिति भावः । द्वितीयमाशङ्क्य निराह– न चैवमिति । वैयर्थ्यादिति । उपाधिः प्रतिपक्षत्वेन दूषक इति वक्तव्यं वादिना प्रागुपन्यस्तहेतोरेव प्रतिपक्षस्य सत्त्वेन पुनरुपाध्यभावरूपप्रतिपक्षस्य कृत्याभावादिति भावः । पूर्वं प्रयुक्तहेतोः पश्चादुक्तोपाध्यभावरूपहेतोश्च द्वयोरपि सार्थक्यमाह– स्वपक्षेति । बहूनामिति । अनेकस्येत्यर्थः । उक्तं चेति । विष्णुतत्त्वनिर्णयोदाहृत-ब्रह्मतर्कस्मृतावित्यर्थः । लोके प्रसिद्धमिति तदनुक्त्वा शास्त्रे दर्शयति– उक्तं हीति ॥

नन्वनेकहेतोर्न दार्ढ्यापादकत्वमित्येतन्निराह– एतेनेति । प्रमाण-संप्लवस्याङ्गीकारादित्युक्तत्वेनेत्यर्थः । तृतीयं निराह– न च बाधेति । वह्निरनुष्णः पदार्थत्वादित्यादाववह्नित्वादेः । चतुर्थमाशङ्क्य निराह– न च क्षितीति । क्षितिद्व्यणुकादिकं सकर्तृकमित्यनुमान इत्यर्थः । पक्षैकदेशस्येति । द्व्यणुकादिकं विकर्तृकम् अणुत्वादित्येवं रूपेणेत्यर्थः । ईश्वरेति । ईश्वरानुमाने उद्देश्या या धीः सर्वकर्तृविषयिणी तद्विरोधित्वे-नेत्यर्थः । पञ्चमं पक्षमनूद्य निराह– न चान्धकार इति । मीमांसकानुमाने नैयायिकोक्त१श्रावणत्वादेरित्यर्थः । व्यभिचारोन्नयनपक्षेऽपीत्यपिपदेन न केवलमस्मत्पक्षे किं तु त्वत्पक्षेऽप्युपाधिर्नापेक्षितो ऽस्पष्टव्यभिचारस्थले एव व्यभिचारानुमानायोपाध्यपेक्षितो ऽस्पष्टव्यभिचारस्थले एव व्यभिचारानु-मानायोपाध्यपेक्षेति भावः । तथा च तत्रोपाधेरेवाभावेन न तत्र प्रतिपक्षो-द्भावनं येनासिद्धिदोषः स्यादिति भावः । तत्रैवेति । शब्द एव । तथा च तत्र व्यभिचारः सुज्ञान इति भावः ॥

षष्ठमाशङ्क्य निराह– न च स श्याम इति । गर्भस्थ इत्यर्थः । सन्दिग्धेति । साधनाव्यापकत्वसन्देहेन सन्दिग्धेत्यर्थः । समबलत्वाभावे कथं प्रतिपक्षतेत्यत आह– संशयेति । प्रतिबन्द्योत्तरमाह– पक्षे व्यभिचारसन्देहस्येति । तेनैवोत्तरं वाचयित्वा सममित्याह– उपाधीति । परसम्मतं चैतदित्याह– किं च त्वयैवेति । मणिकृतैवेत्यर्थः । असाधार-णेति । असाधारणो विपर्ययोऽभावो यस्येति बहुव्रीहिः । एवमग्रेऽप्युपाधि-रन्यपदार्थः । यथाऽन्वयव्यतिरेकिणि साध्ये बाधोन्नीतान्यपक्षेतरः । अप्रसिद्धेति । केवलान्वयिनि साध्ये पक्षेतरादिः । बाधितेति । वह्निरनुष्णस्तेजस्त्वादित्यत्राकृतकत्वम् । पक्षाव्यावर्तकविपर्ययो यथा क्षित्यादिकं सकर्तृकं कार्यत्वादित्यत्राणुव्यतिरिक्तत्वमित्यादिरूपेणे-त्युपाधिवादान्ते वदतेत्यर्थः । स्वीकृतमित्यत्र हेतुः । असाधारण्येति । तद्ग्रन्थव्याख्यातृभिरपि सत्प्रतिपक्षोन्नायकतापक्षमवलम्ब्यैव तदाभासाना-हेत्यवतारितत्वाच्चेत्यपि ध्येयम् ॥

ननु प्राचां रीत्याऽभ्युपेत्य सत्पतिपक्षोत्थापकत्वमुपाधेरेते आभासा निरूपिताः । वस्तुतस्तु व्यभिचारोन्नायकत्वमेव मणिकृत्सिद्धान्त इत्यतो व्यभिचारानुमानमेव प्रतिपक्षरूपं पक्षादन्यत्र व्यभिचारानुमानासम्भवेन पक्ष एव तदनुमानस्यावश्यकत्वादिति भावेनाह– किं चेति । पर्वतो धूमवा-न्वह्निमत्त्वादित्यत्र वह्निरूपहेतुरित्यर्थः । धूमव्यभिचारी धूमाभाववद्वृत्ति-रित्यर्थः । उपाधिव्यभिचारित्वादित्यस्यार्थोक्तिरुपाध्यभाववद्वृत्तित्वादिति । साध्याभावेति । साध्यव्यभिचारीन्यस्य साध्याभाववद्वृत्तीत्यर्थत्वादित्यर्थः । तत्र च वह्नेर्वृत्तिमत्त्वं सिद्धमिति हेतुमति पक्षो साध्याभावसाधन एव पर्यवसानादिति भावः ॥

ननु व्यभिचारानुमाने भवेदेवं पक्षादन्यत्र महानसादावयोगोलकादौ वा तदनुमाने तु न प्रतिपक्षत्वावकाश इत्येतन्निराह ॥ न हीति ॥ सत्वात्वे इति ॥ यथाक्रममन्वयः । कथं न प्रतिपक्ष इति ॥ उपजीव्यत्वात्प्रतिपक्ष एव वाच्य इत्यर्थः । तथापीष्टसिद्धिर्नेत्याशङ्क्य निराह ॥ न चैवमिति ॥ सप्तमं पक्षमाशङ्कते– नन्विति ॥ ‘‘अनुकूलेन तर्केण सनाथे सति साधने । साध्यव्यापकताभङ्गात्पक्षे नोपाधिसम्भवः’ ॥ इत्युक्तेरिति भावः । तदनुग्रहे तु– अनुकूलतर्कानुग्रहे त्वित्यर्थः । बाध एवेति । उपाध्यभावरूपहेतोः प्रबलत्वादिति भावः । अवेहि । जानीहीत्यर्थः ॥ अत्रावेहीत्येकारपाठः साधुः । नत्त्वैकारपाठः । ‘अव इहि’ इति स्थिते ‘आद्गुण’ इति गुणेन भाव्यत्वात् । न च आ इहि एहि, अव एहीति स्थिते ‘वृद्धिरेचीति’ वृद्धौ अवैहीति युक्तम् । आङ्पूर्वस्यागमनार्थत्वेन जानीहीत्येतदर्थकत्वायोगात् । तथापि ‘वृद्धिरेची’त्येतद्बाधित्वा ‘एङि पररूप’मिति पररूपेण भाव्यत्वाच्च । न च एङि पररूपमित्येतद्बाधित्वा ‘एत्येधत्यूठ्स्वि’ति वृद्धिर्भविष्यतीति वाच्यम् । एतद्दृद्धिमपि बाधित्वा ‘ओमाङोश्चेति’ पररूपेणैव भाव्यत्वात् । ‘पुरस्तादपवादा अनन्तरान्विधीन्बाधन्ते नोत्तरा’निति ‘ऐत्येधत्यूठ्स्वि’ति सूत्रवृत्तावेवोक्तत्वेन एत्येधत्यूठ्स्विति सूत्रस्यानन्तरं पठितं ‘एङि पररूप’-मित्येतद्विधिं प्रत्येव बाधकत्वेन तदनन्तरं पठितमोमाङोश्चेत्येतत्प्रत्य-बाधकत्वात् ॥

नचैवं नित्यदोषतानापत्तेरित्यत इष्टापत्तिमुत्तरमाह– न हि प्रतिपक्ष इति । एवं प्रतिपक्षोन्नायकत्वं समर्थ्येदानीं तदुन्नयनप्रकारमाह– प्रतिपक्षेति । शुद्धसाध्यव्यापके इति कर्तव्यो ऽवच्छिन्नसाध्यव्यापके तु इति कर्तव्यः, इत्येवकर्तव्य इति चान्वयः । द्रव्यत्वे सतीति । द्रव्यत्व-विशिष्टस्पार्शनत्वहीन इत्यर्थः । हेतोः पक्षधर्मताबलाद्विशिष्टराहित्यं सिध्यद् विशेषणराहित्ये बाधाद्विशेष्यराहित्यमादाय पर्यवस्यति दृष्टान्तेऽप्येवमेवेति भावः । उत्तरप्रयोगेऽप्येवं ध्येयम् ॥

एवं शुद्धसाध्यव्यापके पक्षधर्मावच्छिन्नसाध्यव्यापके साधनावच्छिन्न-साध्यव्यापके च प्रतिपक्षप्रकारं क्रमेण प्रदर्श्य केचित्त्वित्यादिनोक्तोपाधि-लक्षणेऽपि तं प्रकारमाह– अवच्छिन्नेति । चतुर्थेति । स्वाभिमतोपाधि-लक्षणोक्तिप्रस्तावोक्तचतुर्थपक्ष इत्यर्थः । एवकारः सर्वत्रान्वेतव्य इति भावेन तद्व्यावर्त्यमाह– न तु सर्वत्रापीति । उक्तपक्षचतुष्टयेऽपीत्यर्थः । व्याप्येति । साध्यरूपव्याप्येत्यर्थः । अनिर्धारितत्वेनेति । अनुकूलतर्कादिना निर्धारि-तत्वे सत्युपाध्यभावस्य प्रबलतया बाधकत्वेन प्रतिपक्षत्वायोगात् । अनुकूलतर्कानवतारकाल एवोपाध्यभावस्य प्रतिपक्षतेत्युक्तत्वादिति भावः । व्यभिचारेति । अयावद्द्रव्यभावित्वस्यात्मविशेषगुणे ज्ञानादौ भावेन हेतोर्व्यभिचारनिरासाय स्पर्शवदिति साध्यविशेषणम् । तथा चाक्षुषत्वस्य प्रत्यक्षस्पर्शे सत्त्वेन हेतोर्व्यभिचारवारणायैव द्रव्यत्वे सतीति विशेषणम् । द्वितीयप्रयोगेऽपि अकृतकत्वस्य समवेते जात्यादौ सत्त्वेन व्यभिचारवारणाय सम्बन्धत्वे सतीति विशेषणमित्यर्थः ॥

ननु– तर्काज्ञानमेव व्याप्तिप्रतिबन्धकमस्तु किमुपाधिज्ञानेनेत्यत आह– न हीति । किंत्विति । वाक्ये व्याप्तिधीप्रतिबन्धकमित्यनुकर्षः । ननु तर्काज्ञान एव तर्काभावज्ञानं भवतीति तर्काज्ञानमेव प्रतिबन्धकमित्यागत-मित्युपाधिर्व्यर्थ एवेत्यत आह– न चेति । स एवेति । प्रतिपक्ष एवेत्यर्थः । व्यभिचारवारकत्वेनेति । व्यभिचारस्यैव व्याप्तित्वेन प्रतिपक्ष एवोपाधिदोषो न त्वव्याप्तिरिति प्राप्तत्वाद्विरोध इति शङ्काभिप्रायः । विप्रतिपत्त्यनन्तर-मिति । अनुमानप्रवृत्त्युत्तरकालमव्याप्तिर्नेत्यभिप्राय इत्यर्थः ॥

॥ इत्युपाधेर्दूषकताबीजम् ॥ १० ॥