०३ मण्युक्तोपाधिलक्षणभङ्गः

मणौ तु– पर्यवसितसाध्यव्यापकत्वे सति साधनाव्यापक उपाधिः

अथ मण्युक्तोपाधिलक्षणभङ्गः ॥ ९ ॥

तर्कताण्डवम्

मणौ तु– पर्यवसितसाध्यव्यापकत्वे सति साधनाव्यापक उपाधिः । यद्धर्मावच्छेदेन साध्यं प्रसिद्धं तत्पर्यवसितं स च धर्मः क्वचित्साधनमेव क्वचिद्द्रव्यत्वादिः क्वचिन्महानसत्वादिः । एवं च वह्निना धूमे साध्ये वस्तुगत्या महानसत्वाद्यवच्छिन्नप्रसिद्धिकस्य धूमस्य व्यापक आर्द्रेन्धनादिर्धूमरूपशुद्धसाध्य एवोपाधिरिति नाव्याप्तिरित्युक्तम् ।

तन्न । धूमेन वह्निसाधनेऽपि महानसत्वाद्यवच्छिन्नप्रसिद्धिक-वह्निव्यापकस्य व्यञ्जनवत्त्वादेर्वह्निरूपशुद्धसाध्य एवोपाधित्वापातात् । यदि च वह्निप्रसिद्धिं प्रति महानसत्त्वं न्यूनवृत्तीति नावच्छेदकं तर्हि स्पार्शनत्वप्रसिद्धिं प्रत्यपि द्रव्यत्वं न्यूनवृत्तीति नावच्छेदकं स्यात् ॥

अत्र केचिदाहुः– यद्धर्मावच्छिन्नेत्यत्रावच्छेदको धर्मः साधन-व्यापकीभूतो विवक्षितः महानसत्त्वं च साधनस्य धूमस्य न व्यापकमिति न वह्नौ साध्ये व्यञ्जनवत्त्वमुपाधिः । पक्षधर्मो द्रव्यत्वादिस्तु प्रत्यक्षस्पर्शाश्रयत्वादिसाधनव्यापक एव । अभेदेऽपि व्यापकत्वसत्त्वेन साधनमपि स्वव्यापकमेव । आर्द्रेन्धनादिरपि साधनीभूतवह्निव्यापकं यत्प्रमेयत्वादिकं तदवच्छिन्नधूमरूप-साध्यव्यापक एवेति । तन्न । आर्द्रेन्धनादौ वस्तुगत्या तदुक्तस्य प्रमेयत्वाद्यवच्छिन्नसाध्यव्यापकत्वस्य सत्त्वेऽपि धूमरूपशुद्धसाध्य-व्यापकत्वज्ञानमात्रेणोपाधिव्यवहारादनुमितिप्रतिबन्धनाच्च ॥

किंचैवं स श्यामो मित्रापुष्टत्वादित्यादौ मित्रातनयत्वा-वच्छिन्नश्यामत्वव्यापकं शाकपाकजत्वमुपाधिर्न स्यात् । अवच्छेद-कस्य मित्रातनयत्वस्य मित्रापुष्टकोकिलादावसत्त्वेन साधना-व्यापकत्वात् ॥

एवं वायुः स्पार्शनः प्रमेयत्वादित्यादौ द्रव्यत्वावच्छिन्नसाध्य-व्यापकं साधनस्य प्रमेयत्वस्य चाव्यापकं चाक्षुषत्वमुपाधिर्न स्यात् । तत्र द्रव्यत्वस्य प्रमेयत्वरूपसाधनव्यापकत्वाभावात् ॥

न चात्रायमनुपाधिः । प्रमेयत्वरूपहेतोः स्पार्शनत्वरूपसाध्य-विशेषणीभूतद्रव्यत्वव्यभिचारित्वेन प्रमेयत्वं स्पार्शनत्वरूपविशेष्य-व्यभिचारि विशेषणाव्यभिचारित्वे सति विशिष्टव्यापकव्यभिचारि-त्वादिति व्यभिचारसाधकहेतुविशेषणस्य द्रव्यत्वविशेषणाव्यभिचारि-त्वस्यासिद्धेरिति वाच्यम् । न ह्युपाध्याहितव्यभिचारे त्वदुक्तमेव लिङ्गम् । प्रमेयत्वं स्पार्शनत्वव्यभिचारि द्रव्ये स्पार्शनत्वव्यापकोद्भूत-रूपवत्त्वव्यभिचारित्वाद् द्रव्यत्ववदित्यपि व्यभिचारानुमानसम्भ-वात् । अत्र च द्रव्य इति विशेषणं महत्वसमानाधिकरणोद्भूतस्पर्शवत्वे व्यभिचारवारणार्थम् । त्वन्मतेऽपि द्रव्यत्वाव्यभिचारित्वे सतीति विशेषणमेतदर्थमेव । त्वन्मते च व्यभिचार उपाधिनियतः ॥

किञ्च व्यञ्जनवत्त्वादेरपि महानसत्वाद्यवच्छिन्नवह्निव्यापकत्वेन तत्रोपाधित्वेऽपि न दोष इत्युक्तत्वात्तद्व्यावृत्त्यर्थं साधनव्यापकत्व-विशेषणं व्यर्थम् ॥

अथ मतम्–

तद्धर्मावच्छिन्नसाध्यव्यापकत्वे सति तद्धर्मावच्छिन्नसाधना-व्यापकत्वं वा, यत्र साधनाव्यापकत्वं तद्वृत्तिधर्मावच्छिन्न-साध्यव्यापकत्वं वा, स्वानधिकरणीभूतसाधनाधिकरणवृत्तिधर्मा-वच्छिन्नसाध्यव्यापकत्वं वोपाधित्वम् ॥

एवं च धूमानुमाने व्यञ्जनवत्त्वादिकं नोपाधिः । तस्य महा-नसत्वाद्यवच्छिन्नवह्निं प्रतीव तदवच्छिन्नधूमं प्रत्यपि व्यापकत्वेन तद्धर्मावच्छिन्नसाधनाव्यापकत्वाभावात् । व्यञ्जनवत्त्वस्य यत्र पर्वते धूमरूपसाधनाव्यापकत्वं तदवृत्तिमहानसत्वाद्यवच्छिन्नवह्नि-व्यापकत्वेऽपि तद्वृत्तिपर्वतत्वाद्यवच्छिन्नवह्न्यव्यापकत्वात् । व्यञ्जन-वत्त्वानधिकरणीभूते धूमरूपसाधनाधिकरणे पर्वते वर्तमानो यः पर्वतत्वादिस्तदवच्छिन्नवह्न्यव्यापकत्वाच्च । तस्माद्व्यञ्जनवत्त्वादौ नातिव्याप्तिः ॥

नाप्यव्याप्तिः । उद्भूतरूपवत्त्वादेर्द्रव्यत्वाद्यवच्छिन्नस्पार्शनत्व-रूपसाध्यं प्रति व्यापकत्वेऽप्यूष्मादौ व्यभिचारेण द्रव्यत्वावच्छिन्न-प्रत्यक्षस्पर्शाश्रयत्वरूपं साधनं प्रत्यव्यापकत्वात् । यत्रोष्मादौ साधनाव्यापकत्वं तद्वृत्तिद्रव्यत्वरूपधर्मावच्छिन्नसाध्यव्यापकत्वात् । उद्भूतरूपानधिकरणे प्रत्यक्षस्पर्शाश्रयत्वरूपसाधनाधिकरणे ऊष्मणि वर्तमानद्रव्यत्वावच्छिन्नसाध्यव्यापकत्वाच्चेति ॥

उच्यते–

घटः पृथिवी द्रव्यत्वादित्यत्र घटान्यत्वावच्छिन्नपृथिवीत्वव्यापके पक्ष एव साधनाव्यापके घटावृत्तिगुणवत्त्वरूपोपाधावुक्तलक्षणान्य-व्याप्तानि । घटावृत्तिगुणवत्त्वस्य घटान्यत्वावच्छिन्नपृथिवीत्वं प्रतीव तदवच्छिन्नद्रव्यत्वं प्रत्यपि व्यापकत्वात् । १घटात्मपक्षे साधना-व्यापकस्य तस्य घटवृत्तिना घटत्वेन वा द्रव्यत्वादिना वाऽवच्छिन्न-पृथिवीत्वव्यापकत्वाभावात् । स्वानधिकरणीभूते द्रव्यत्वरूप-साधनाधिकरणे घटे वर्तमानघटत्वादिधर्मावच्छिन्नसाध्यव्यापकत्वा-भावाच्च ॥

किंचार्द्रेन्धनाद्युपाधौ धूमत्वावच्छिन्नसाध्यव्यापकत्वे सति वह्नित्वावच्छिन्नसाधनाव्यापकत्वमात्रेणोपाधिव्यवहारादनुमिति- प्रतिबन्धाच्च नेदमुपाधित्वम् । त्वयापि ह्यनेनैव हेतुद्वयेन व्यतिरेकिधर्मत्वादेरुपाधित्वं निरस्तम् ॥

अपि च व्यञ्जनवत्त्वादेरपि महानसत्वाद्यवच्छिन्नवह्निव्यापकत्वे-नोपाधित्वेऽपि न दोष इत्युक्तत्वात्तद्व्यावृत्त्यर्थं त्रेधा विशेषणं व्यर्थमेव ॥

अन्ये तु पर्यवसितसाध्यव्यापकत्वे सति साधनाव्यापक एवोपाधिः । यद्धर्मावच्छेदेन साध्यं प्रसिद्धं तदेव पर्यवसितम् । नचैवं व्यञ्जनवत्त्वादिरपि वह्निरूपशुद्धसाध्य एवोपाधिः स्यादिति वाच्यम् । साधनाव्यापकपदेन सकलसाध्यस्य यद्व्यापकं तद्रहितेऽधिकरणे साधनपरित्यागस्य विवक्षितत्वात् । तस्य च तत्राभावात् । न हि व्यञ्जनवत्त्वेन धूमः सकलवह्निव्यापकरहिते परित्यज्यते । धूमस्य सदनुमानत्वेन धूमवति यत्किञ्चिद्वह्निसत्त्वेन तत्र वह्निव्यापकस्यावश्य-कत्वात् । शुद्धसाध्यव्यापकेऽवच्छिन्नसाध्यव्यापके चोपाधौ विवक्षितं साधनाव्यापकत्वमस्त्येव । आर्द्रेन्धनेन सकलधूमव्यापकरहिते तप्तायःपिण्डे वह्नेः परित्यक्तत्वात् । चाक्षुषत्वेन च सकलानि द्रव्यगुणादिगतानि यानि स्पार्शनत्वानि तद्व्यापकानि यान्युद्भूत-रूपाधिकरणत्वोद्भूतरूपसमानाधिकरणत्वादीनि तद्रहिते वायौ प्रत्यक्षस्पर्शाश्रयत्वस्य त्यक्तत्वादित्याहुः ॥

तदपि न । उक्तकुसृष्टियुक्तसाधनाव्यापकत्वाद्यज्ञानेऽपि निषिद्ध-त्वादावुपाधिपदप्रयोगादनुमितिबन्धनाच्च । १विशेषणवैयर्थ्यस्योक्त-त्वाच्च । एवं कुसृष्ट्यन्तराण्यपि दूष्याणि ॥

एतेन– यद्व्यभिचारित्वेन साधनस्य साध्यव्यभिचारित्वं स उपाधिः । एवं चावच्छिन्नसाध्यव्यापकः शुद्धसाध्यं प्रत्यव्यापकोऽपि तत्रोपाधिः । उपाधिव्यभिचारप्रयुक्तव्यभिचारस्य शुद्धसाध्येऽपि सत्त्वात् । इयांस्तु भेदः । शुद्धसाध्यव्यापकः शुद्धसाध्य एवोपाधिः । अवच्छिन्नसाध्यव्यापकस्तु शुद्धेऽवच्छिन्ने चोपाधिः । तद्व्यभिचार-प्रयोजकव्यभिचारनिरूपत्वादिति मण्युक्तं लक्षणान्तरमपि निरस्तम् । साध्यव्यभिचारोन्नायकत्वस्योपाधिशरीरानुप्रवेशे उपाधिर्व्यभिचारो-न्नायक इति सिद्धान्तविरोधात् ॥

किंच यद्व्यभिचारत्वेनेत्यनेनोपाधिव्यभिचारस्य किं साध्य-व्यभिचारानुमिति जनकत्वमभिप्रेतं किं वा जनकत्वप्रयोजक-रूपवत्त्वम् । नाद्यः । व्यभिचाराननुमिति दशायामनुपाधितापातात् । पर्वत आकाशवान् धूमादित्यत्र घटस्योपाधितापाताच्च । शक्यते हि घटव्यभिचारेणाकाशव्यभिचारोऽनुमातुम् । त्वन्मते आकाशा-त्यन्ताभावस्य केवलान्वयित्वेन वृत्तिमतः सर्वस्याप्याका-शव्यभिचारित्वात् ॥

किंचानुमितिजनकत्वमित्यत्रानुमितिः किं भ्रमसाधारणी विवक्षिता प्रमारूपैव वा । आद्ये धूमेन वह्न्यनुमाने घट उपाधिः स्यात् । सम्भवति हि घटव्यभिचारित्वेन धूमस्य भ्रमरूपा वह्निव्यभिचारानुमितिः । द्वितीये वह्निना धूमानुमाने हृदत्वमुपाधिः स्यात् । हृदत्वव्यभिचारित्वेन लिङ्गेनोत्पन्नाया अपि वह्नेर्धूम-व्यभिचारानुमितेर्विषयसत्त्वेन प्रमात्वात् ॥

अन्त्येऽप्युपाधिव्यभिचारस्य साध्यव्यभिचारं प्रति प्रयोजकत्वं किं स्वस्य साध्यव्यभिचारव्याप्यत्वं साधनस्य साध्यव्यापक-व्यभिचारत्वमेव वा । नाद्यः । वायुः स्पार्शनः प्रत्यक्षस्पर्शाश्रयत्वा-दित्यत्रोद्भूतरूपवत्त्वोपाधिव्यभिचारस्य शुद्धसाध्यव्यभिचारित्व व्याप्यत्वाभावेन लक्षणस्याव्याप्तेः । महत्वसमानाधिकरणोद्भूत-स्पर्शवत्त्वस्योद्भूतरूपवत्त्वव्यभिचारित्वेऽपि स्पार्शनत्व व्यभिचारित्वा- भावात् ॥

द्वितीये त्वस्मदुक्तलक्षण एवान्तर्भावः स्यात् । अस्माभिरपि साध्यव्यापकत्वे सति साधनाव्यापक उपाधिरित्यनेन साध्यव्यापका-व्याप्यत्वमेव हेतोः सोपाधिकत्वमित्यभिप्रेतत्वात् । उक्तं ह्यनु-व्याख्याने ‘‘साध्यव्यापक वैलोम्यमव्याप्तिः साधनस्य चेति’’ । साधनस्य यत्साध्यव्यापकवैलोम्यं साध्यव्यापकाव्याप्यत्वं साऽव्याप्तिरित्यर्थः । तस्मात्परोक्तलक्षणान्ययुक्तानि ॥

न्यायदीपः

मणौ त्विति । इत्युक्तमित्यन्वयः । पक्षधर्मताबललभ्यत्वं चेत्पर्य-वसितत्वं तदा प्रागुक्तो दोष इत्यत आह– यद्धर्मेति । एतच्च सर्वसङ्ग्राहक-मित्याह– स चेति । साध्यप्रसिद्ध्यवच्छेदकीभूतो धर्म इत्यर्थः । ध्वंसो विनाशी जन्यत्वादित्यादौ भावत्वाद्युपाधिस्थले साधनमित्यर्थः । वायुर्बहि-रिन्द्रियप्रत्यक्षः प्रमेयत्वादित्यादौ रूपवत्त्वाद्युपाधौ द्रव्यत्वादिः, अयं धूमवा-न्वह्निमत्त्वादित्यादौ व्यञ्जनवत्त्वाद्युपाधौ महानसत्वादीत्यादिः । दूषणसौकर्या-योपाधावुक्तरूपमुपपादयति– एवं चेति । एवमेव साधनाद्यवच्छिन्नस्थलेऽपि ध्येयमिति भावः । धूमेनेति । पर्वतोऽग्निमान्धूमवत्त्वादिति सदनुमानेऽ-पीत्यर्थः ॥

ननु– साध्यप्रसिद्ध्यवच्छेदकधर्मे यावत्त्वं विवक्षितम् अतो व्यञ्जन-वत्त्वादौ नातिव्याप्तिरिति चेन्न । वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वा-दित्यत्रोद्भूतरूपवत्त्वस्यानुपाधितापत्तेः । साध्यप्रसिद्ध्यवच्छेदकप्रमेय-त्वाद्यवच्छिन्नप्रत्यक्षत्वाव्यापकत्वात् । अतो यत्किञ्चित्त्वमेव वाच्यम् । तथाचोक्तदोष एवेति भावः । यदि चेति । यद्धर्मावच्छेदेनेत्यत्र साध्य-प्रसिद्ध्यन्यूनानधिकदेशवृत्तिधर्मस्यैवावाच्छेदक धर्मपदेन विवक्षितत्वादिति भावः । स्पार्शनत्वेति । वायुः स्पार्शनो ऽनुद्भूतरूपानधिकरणत्वे सति प्रत्यक्षस्पर्शाश्रयत्वादित्यत्र चाक्षुषत्वाद्युपाधावित्यर्थः । न्यूनवृत्तीति । स्पर्शगुणेऽपि स्पार्शनत्वसत्त्वेऽपि द्रव्यत्वाभावादिति भावः ॥

केचिदिति । यज्ञपत्यादय इत्यर्थः । ननु ध्वंसो विनाशी जन्यत्वा-दित्यादौ साधनावच्छिन्नसाध्यव्यापकं भावत्वमुपाधिर्न स्यात् । साधनस्य साधनाव्यापकत्वादित्यत आह– अभेदेऽपीति । साधनवन्निष्ठात्यन्ताभावा-प्रतियोगित्वरूपव्यापकत्वस्य साध्यादेरिव साधनस्यापि१ साधनवति साधनात्यन्ताभावाभावादिति भावः ॥

ननु शुद्धसाध्यव्यापकत्वज्ञानमात्रेणानुमितिप्रतिबन्धादौ सत्यप्युक्तलक्षणं सङ्ग्राहकमात्रमित्यतो न सङ्ग्राहकमप्येतदव्यापकत्वादित्याह– किञ्चेति । न चात्रायमनुपाधिरिति । न चेत्यस्य वाच्यमित्यनेनान्वयः । कुतोऽय-मनुपाधिरिति चेत् हेतोः साध्यव्यभिचारित्वोन्नायकत्वेनोपाधेर्दूषकत्वमिति मते शुद्धसाध्यव्यभिचारानुमानासम्भवादित्याह– प्रमेयत्वेति । विशेषणा-व्यभिचारित्वे सतीति । द्रव्यत्वरूपविशेषणेत्यर्थः । महत्वसमानाधि-करणोद्भूतस्पर्शत्वे व्यभिचारवारणाय सत्यन्तम् । विशेषणाव्यभिचारित्वे सतीत्यस्यार्थनिर्देशो द्रव्यत्वाव्यभिचारित्वे सतीति । विशेषणमिति ॥

ननु २मित्रापुत्रत्वप्रमेयत्वादिहेतावुपाधेरेव३मस्त्वित्यत आह– त्वन्मते चेति । इत्युक्तत्वादिति । स्वाभिमतोपाधिलक्षणोक्तिप्रस्तावे व्यञ्जन-वत्त्वादिरपि महानसत्वाद्यवच्छिन्नवह्निरूपसाध्यव्यापकत्वात्तत्रोपाधि-रेवेत्यादिना ग्रन्थेनोक्तत्वादित्यर्थः ॥

पूर्वोक्तदोषनिरासाय यज्ञपतिनैवोत्प्रेक्षितपक्षान्तराण्याशङ्कते– अथ मतमिति । यद्धर्मेति । येन धर्मेण साध्यव्यापकत्वं तेनैव धर्मेण साधना-व्यापकत्वमाद्यलक्षणार्थः । स्वेति व्यञ्जनवत्त्वादिरुपाधिरुच्यते । स्वस्या-नधिकरणीभूतं यत्साधनाधिकरणं तद्वृत्तीत्यर्थः । स्वानधिकरणह्रदवृत्तिह्रद-महानसान्यतरत्वावच्छिन्नव्यापकमेव व्यञ्जनवत्त्वमिति तत्रातिव्याप्तिनिरासाय साधनाधिकरणेति । एतच्च लक्षणत्रयं धूमेन वह्निसाधनस्थले व्यञ्जन-वत्त्वाद्युपाधौ नास्तीति नातिव्याप्तिरिति तावत्क्रमेणोपपादयति एवं चेति । एवं रूपेण विवक्षायां सत्यामित्यर्थः । नाप्यव्याप्तिरिति । वायुः स्पार्शनः प्रत्यक्षस्पर्शाश्रयत्वादित्यादौ द्रव्यत्वावच्छिन्नसाध्यव्यापकोद्भूतरूपवत्त्वा-द्युपाधावव्याप्तिर्नास्तीत्यर्थः । क्रमेण तत्र लक्षणत्रयसत्त्वं व्यनक्ति– उद्भूतेत्यादिना । ऊष्मादौ व्यभिचारेणेति । ऊष्मतप्तवारिस्थवह्न्यादौ प्रत्यक्षस्पर्शाश्रयत्वे सत्यप्युद्भूतरूपवत्त्वाभावादिति भावः ॥

नन्वेवमपि गन्धप्रागभावावच्छिन्नो घटो गन्धवान्पृथिवीत्वादिति साध्या-व्यभिचारिणि हेतौ गन्धप्रागभावकालीनत्वावच्छिन्नसाध्यव्यापके गन्ध-प्रागभावकालीनत्वावच्छिन्नपृथिवीत्ववति पक्षे साधनाव्यापके तत्कालीन-रूपवत्त्वाद्युपाधावतिव्याप्तिरेवेति चेन्न । यद्धर्मवति साध्यव्यापकत्वं तद्धर्मवति साधनाव्यापकत्वमित्यस्याभिमतत्वात् ॥

उक्तोपाधिश्च न तथा । तद्धर्मवतिपक्षे साधनाव्यापकत्वात् । न चैवं स श्यामो मित्रातनय(पुष्ट)त्वादित्यत्र नरत्वावच्छिन्नश्यामत्वव्यापकं पुष्टहंसादौ साधनाव्यापकं शाकपाकजत्वमुपाधिर्न स्यात्, नरत्ववति साध्यव्यापकस्य तस्य तद्वति साधनाव्यापकत्वाभावान् मित्रापुष्टस्य नरस्य सर्वस्यैव शाकपाकजत्वादिति वाच्यम् । नरहंसान्यतरत्वादिकमादाय तत्राप्युक्तलक्षणसत्त्वादिति मन्यन्ते । उक्तलक्षणान्यव्याप्तानीत्युक्तम् । तत्र लक्षणत्रयासत्त्वं क्रमेण व्यनक्ति– घटावृत्ति गुणवत्त्वस्येत्यादिना । घटान्यत्वेति । घटान्यस्मिन्पृथिवीत्ववति द्रव्यत्ववति च घटावृत्तिगुण-वत्त्वसत्त्वेन यद्धर्मेण साध्यव्यापकत्वं तद्धर्मेण साधना व्यापकत्वाभावा-दाद्यमनव्याप्तम् । घटवृत्तिनेत्येतद्द्रव्यत्वादिना वेत्यत्राप्यन्वेति ॥

न चायमुपाधिरेव न भवति शुद्धसाध्यव्यभिचारानुन्नायकत्वात् । येनाव्याप्तिर्दोषायेति वाच्यम् । द्रव्यत्वं पृथिवीत्वव्यभिचारि द्रव्यत्वपटत्व-प्रमेयत्वानीति प्रतीतिविशेष्यत्वे सति घटावृत्तिगुणवत्त्वव्यभिचारित्वात् प्रमेयत्वादिवदित्यादिक्रमेण तत्सम्भवात् । अत्र द्रव्यत्वेति स्वरूपासिद्धि-वारणाय । न च व्यभिचारावारकत्वेन वैयर्थ्यम् । त्रितयगोचरप्रतीति-विशेष्यत्वे व्यर्थत्वशङ्कानवकाशात् । व्यर्थविशेष्यत्वशङ्कानिरासाय पटत्वेति । एवं च पटत्व एव व्यभिचारवारणाय विशेष्यमिति ज्ञेयम् । व्याप्तिग्रहस्थानार्थं प्रमेयत्वेत्युक्तम् । घटत्वे व्यभिचारवारणाय सत्यन्तम् ॥

अङ्गीकृत्याप्यनुपाधित्वं दोषान्तरमाह– किञ्चेति । त्वयापीति । उक्तलक्षणत्रयवादिनापीत्यर्थः । इत्युक्तत्वादिति । स्वाभिमतोपाधि-लक्षणप्रस्तावे । त्रिधेति । तद्धर्मेति, तद्वृत्तीति, स्वानधिकरणीभूतेति, त्रिधेत्यर्थः । तत्राभावादित्युक्तं व्यनक्ति– न हीति । अतिव्याप्तिं निरस्याव्याप्तिं च निराह– शुद्धेति । एवं कुसृष्ट्यन्तराणीति । तथा हि– साध्यव्यापकत्वे सति साध्यसमानाधिकरणत्वे सति वा साध्यव्यभिचारि-साधनाव्यापकत्वमुपाधिलक्षणम् । अत्र निरधिकरणे साध्यविरुद्धे सर्वदोषाधि-व्यवहारविधुरेऽतिव्याप्तिवारणाय सत्यन्तम् । व्यञ्जनवत्त्वादेर्धूमादि हेतावुपाधित्वप्रसङ्गवारणाय साध्यव्यभिचारीति विशेषणमित्यादि । तदप्येतेनैव निरस्तम् । एतदज्ञानेऽप्युपाधिव्यवहारादनुमितिप्रतिबन्धाच्चेत्युक्तहेतुभ्यः ॥

न चेदं संग्राहकमात्रमुक्तमिति वाच्यम् । अनुमानदूषणार्थं ह्युपाधि-निरूपणम् । अनुमिति प्रतिबन्धकज्ञानविषयतावच्छेदकमुपाधित्वमिह निरूप्यमिति मणावप्युक्तेः । अतस्तादृशस्यैव सर्वसङ्ग्राहकस्य ग्रन्थकृदुक्त-रीत्या त्रेधा वक्तुं शक्यत्वेनान्यादृशस्याप्यनादरणीयत्वात् । एवं साध्य-व्यापकतास्थलातिरिक्ते साधनसमानाधिकरणो यो धर्मस्तदवच्छिन्न-साध्यव्यापकत्वे सति साधनाव्यापकमित्याद्यपि निरस्तमित्यर्थः ॥

यथाश्रुतं मणिवाक्यमनुवदति– यद्व्यभिचारित्वेनेति । अनुमीयत इति शेषः । अव्याप्तिनिरासाय सर्वत्रैतदस्तीति पक्षधराद्युक्तदिशोपपादयति– एवं चेति । वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वादित्यत्रोद्भूतरूपवत्त्वादिः, ध्वंसो विनाशी जन्यत्वादित्यादौ भावत्वादिश्चावच्छिन्नसाध्यव्यापकः । उपाधिव्यभिचारेति । प्रत्यक्षस्पर्शाश्रयत्वं जन्यत्वं वा प्रत्यक्षत्वव्यभिचारि विनाशित्वव्यभिचारि वा द्रव्यत्वादि रूपविशेषणाव्यभिचारित्वे सति तद्विशिष्टप्रत्यक्षत्वादि व्यापकोद्भूतरूपवत्त्वादि व्यभिचारित्वात् । इत्येवं रूपेणोपाधिव्यभिचारप्रयुक्तस्येत्यर्थः । शुद्धावच्छिन्नसाध्यव्यापके सर्वत्रैकरूप्यमेव किमित्यत आह– इयांस्त्विति । इति सिद्धान्तेति । उपाधिरित्युक्ते साध्यव्यभिचारोन्नायक इति प्राप्तत्वेन व्यभिचारोन्नायको-व्यभिचारोन्नायक इत्यस्यासम्भवेन मणिकृत्सिद्धान्तविरोधादित्यर्थः ॥

फलोपधानं योग्यता वेति विकल्प्य निराह– किञ्चेति । अननुमिति-दशायामिति । तदानीमनुमितिरूपफलाभावादिति । तथा चोपाधे-र्नित्यदोषत्वसिद्धान्तभङ्ग इति भावः । ननु साधनस्येत्यत्र साध्य-समानाधिकरणसाधनस्येत्युच्यते । तथा चाकाशसामानाधिकरण्यं धूमे नास्तीति न दोष इति वादिनं प्रत्याह– किञ्चेति । अन्त्येऽपीति । प्रयोजकरूपवत्त्वमिति पक्षेऽपीत्यर्थः । स्वस्योपाधिव्यभिचारस्य । लक्षणस्येति । साध्यव्यभिचारव्याप्यव्यभिचारनिरूपकत्वरूपलक्षणस्योद्भूत-रूपवत्त्वोपाधावव्याप्तेरित्यर्थः । व्याप्यत्वाभावं व्यनक्ति– महत्त्वेति । परमाण्वादिस्पर्शस्याप्रत्यक्षत्वान्महत्वसमानाधिकरणेत्युक्तम् । दीपप्रभादि-स्पर्शस्याप्रत्यक्षत्वादुद्भूतेत्युक्तम् । द्वितीय इति । साधनस्येत्याद्युक्तपक्ष इत्यर्थः । अव्याप्तिर्व्याप्त्यभाव इत्यर्थः ॥

॥ इति मण्युक्तोपाधिलक्षणभङ्गः ॥ ९ ॥