०१ परोक्तपक्षलक्षणभङ्गः

तत्र न तावत्सन्दिग्धसाध्यधर्मा धर्मी पक्षः

अथ पक्षतावादः ॥ २ ॥

अथ परोक्तपक्षलक्षणभङ्गः ॥ ५ ॥

तर्कताण्डवम्

अथ पक्षता निरूप्यते ।

तत्र न तावत्सन्दिग्धसाध्यधर्मा धर्मी पक्षः । अनुमितिकाले सन्देहस्यासत्त्वेन विशेषणत्वायोगात् । उपलक्षणत्वेऽतिप्रसङ्गात् । असन्देहेऽपि सामग्रीबलादनुमितिदर्शनाच्च ॥

नापि साधकमानाभावो यत्र स पक्षः । श्रोतव्यो मन्तव्य इत्यादौ साधके सत्यपि पक्षत्वदर्शनात् । विपक्षस्यापि तत्प्रसङ्गाच्च ॥

नापि बाधकमानाभावो यत्र स पक्षः । सपक्षस्यापि तत्प्रसङ्गात् ॥

नाप्यभावद्वयं यत्र स पक्षः । मन्तव्य इत्यादौ तदभावेऽपि पक्षत्वात् ॥

नापि साध्यवत्तया सिषाधयिषाविषयो यः स पक्षः । अनिच्छायामप्यनुमिति दर्शनात् ॥

ननु सिषाधयिषाविरहसहकृतसाधकमानाभावो यत्र स पक्षः । एवं च मन्तव्य इत्यत्र सिषाधयिषाविरहरूपविशेषणाभावाद् घनगर्जितेन मेघानुमाने साधकमानरूपविशेष्याभावात् सिषाधयिषोः पुंसो धूमानुमाने उभयाभावाद्विशिष्टाभावोऽनुगत इति तत्र तत्र पक्षता युक्ता । यत्र तु सिषाधयिषाविरहयुते स्पष्टदृष्टे घटादौ विशेषणं विशेष्यं चास्ति न तत्र पक्षतेति चेन्न । असिषाधयिषोर्धूमानुमाने घनगर्जितेन मेघानुमाने चानुमितेः पूर्वं लिङ्गपरामर्शरूपसाधकमानस्य सत्त्वेना-पक्षत्वापातात् ॥

न्यायदीपा

एवमनुमानलक्षणं तदङ्गव्याप्तिस्वरूपं तन्निश्चयोपायमुक्त्वा तत्र बाधकं च निरस्येदानीमनुमानसहकारिसंपत्तिरूपावसरप्राप्ता पक्षता निरूप्यत इत्याह– अथेति । यद्वाऽनुमानस्य द्वयं सामर्थ्यं व्याप्तिः समुचितदेशवृत्तित्वं च । तत्रान्त्यमपि द्वेधा । पक्षधर्मतारूपा तदन्यरूपा चेति । कयोश्चित्समान-देशकालयोः कयोश्चिद्भिन्नदेशकालयोरित्यादिपद्धत्युक्तेः । तथा च क्वाचित्क-पक्षधर्मतासापेक्षत्वात्सा निरूप्यत इत्याह– अथेति । तत्र पक्षतानिरूपणे कार्ये सतीत्यर्थः । सन्दिग्धसाध्यधर्मेति । साध्यधर्मेत्येवोक्तौ सपक्षस्यापि पक्षतापातात्सन्दिग्धेत्युक्तम् । धर्मिपदं स्पष्टार्थमित्येके । प्रामाणिकत्व-कथनायेत्यन्ये । साधनेऽतिव्याप्तिवारणाय धर्मिपदं धर्मित्वं च साध्यापेक्षया ध्येयमिति प्रेक्षावन्तः ॥

अत्र सन्दिग्धं च तत् साध्यं च सन्दिग्धसाध्यं सन्दिग्धसाध्यं धर्मो यस्येति बहुव्रीहौ सति ‘धर्मादनिच्केवलात्’ इत्यनिच्प्रत्ययः । तत्र हि केवलादिति न धर्मविशेषणं किंतु बहुव्रीह्याक्षिप्तपूर्वपदस्य विशेषणम् । तेन पूर्वपदीभवतः केवलादन्यनिरपेक्षात्परो यो धर्मशब्दस्तदन्तादित्यर्थो भवति । तथा च १सन्दिग्धसाध्यपदस्य बहुव्रीहौ पूर्वपदीभवतोऽन्यनिरपेक्षत्वा-द्भवत्यनिजिति ध्येयम् । एतच्च धातुवृत्तौ व्यक्तम् । उक्तविग्रहपक्षे कैवल्यस्य धर्मविशेषणत्वेऽप्यस्ति प्रत्ययप्राप्तिरित्यप्याहुः ॥

असत्त्वेनेति । परामर्शात्पूर्वं लिङ्गदर्शनव्याप्तिस्मरणादिना तस्य नाशादिति भावः । अतिप्रसङ्गादिति । सिद्धिदशायामपि पक्षतापत्तेरिति भावः । व्यतिरेकव्यभिचारं चाह– असंदेहेऽपीति । घनगर्जितादिस्थल इति भावः । यत्रेति । यन्निष्ठसाध्यविषये । यद्वा साध्यसाधकमानाभावो यत्र पर्वतादिप्रदेशे स इत्यर्थः । एवमग्रेऽपि । श्रोतव्यो गुरूपदेशेन ज्ञातव्यो मन्तव्यो युक्त्यनुसन्धानरूपमननोत्पन्नानुमितिरूपज्ञानेन विषयीकर्तव्य इत्यर्थः । साधके सतीति । श्रवणशब्दितम् उपदेशजन्यं यज्ज्ञानं तस्मि-न्सत्येव तत्समानविषयश्रवणानन्तरभाविमननरूपानुमानेन श्रवणविषयार्थानु-मित्यनुदयेन मननवैयर्थ्यापत्तेरिति भावः । विपक्षस्येति । साध्याभाववतः । तत्र साध्याभावसाधकस्यैव सत्त्वेन साध्यसाधकस्याभावात् । अनेन सपक्ष-स्यापीत्येतदपि व्याख्यातप्रायम् । तदभावेऽपीति । श्रवणादिरूपसाधकस्यैव तत्र सत्त्वेनाभावद्वयाभावेपि पक्षतासत्त्वादित्यर्थः । नापि साध्येति । साध्यवत्त्वेन साधयितुमिच्छा साध्यवत्तया सिषाधयिषा तद्विषय इत्यर्थः । अनिष्टाया अनिष्टविषयायाः । इच्छां प्रत्यविषयीभूतपदार्थविषयाया इत्यर्थः ॥

मणिकृता सिद्धान्तितमपि लक्षणमाशङ्कते– नन्विति । मण्युक्तविवरणपूर्वकं प्रागुक्तदोषा नेत्याह– एवं चेति । एवं पक्षलक्षणे सतीत्यर्थः । सिषाधयिषोरित्येतत्सिषाधयिषाविरहरूपविशेषणाभावो-पपादनायोक्तम् । उभयेति । साधकमानस्य सिषाधयिषाविरहस्य चाभावादित्यर्थः । एवमव्याप्तिं निरस्यातिव्याप्तिं च निराह– यत्र त्विति । विशेषणमिति । सिषाधयिषाविरहः प्रत्यक्षरूपसाधकमानं चास्तीत्यर्थः । असिषाधयिषोरिति । एतच्च सिषाधयिषाविरहरूपविशेषणसद्भावायोक्तम् । एवं च तत्र विशेषणविशेष्ययोर्द्वयोरपि सत्त्वेनान्यतराभावेन वोभयाभावेन वा न विशिष्टाभावस्तत्रास्तीत्यव्याप्तिरिति भावः ॥

तर्कताण्डवम्

अथ मतम्–

सिषाधयिषाविरहसहकृतसिद्ध्यभावो यत्र स पक्षः । अनुमितेः पूर्वं च साधकमानसत्वेऽपि न साध्यस्य सिद्धिरस्तीति तत्र पक्षता युक्ता ॥

ननु एवं सति संशयानन्तरप्रत्यक्षस्थले पक्षता स्यात् । तत्र पुरुषत्वसिद्धिरूपविशेष्याभावेन विशिष्टाभावसम्भवात् । तस्मा-त्सिषाधयिषाविरहसहकृतसिद्धितत्करणान्यान्यत्वावच्छिन्नाभावो यत्र स एव च पक्षः । एवं च संशयानन्तरप्रत्यक्षस्थले च सिद्धेरभावेऽपि पुरुषत्वव्याप्यकरचरणादिरूपसिद्धिकरणस्य सत्त्वान्न पक्षता । धूमानुमाने तु पक्षता युक्ता । करणशब्देनानुमितिजनकपरामर्शेतर-तत्करणस्याभिप्रेतत्वादिति चेन्न । तत्र पक्षताया इष्टत्वात् ॥

न चैवं तत्रानुमितिरेव स्यान्न तु प्रत्यक्षम् । अनुमितिसामग्य्रा बलवत्त्वात् । अन्यथा धूमानुमानेऽपि लिङ्गपरामर्शानन्तरं तदनु-व्यवसाय एव स्यान्न त्वनुमितिरिति वाच्यम् । संशयानन्तर-प्रत्यक्षस्थले विषकलितयोर्व्याप्तिपक्षधर्मताज्ञानयोः सत्त्वेऽपि लिङ्गपरामर्शाभावात् । साक्षात्करोमीत्यनुव्यवसायेन समानविषये फलबलेन प्रत्यक्षसामग्य्राः प्राबल्यकल्पनाच्च ॥

ननु तथात्वे तत्रानुमित्सायां सत्यामप्यनुमितिर्न स्यात् । अनुमित्सयापि हि पक्षतैव संपाद्या । त्वया च पक्षतायां सत्यामपि प्रत्यक्षसामग्री बलवतीति कल्पनादिति चेन्न । उभयत्र पक्षतायां सत्यामपि फलबलेनानुमित्सा प्रबलप्रत्यक्षसामग्रीरूपप्रतिबन्धक-विरोध्युत्तम्भिका । तथा१ चानुमित्सायाः पक्षतासंपादकत्वाभावेऽपि प्रतिबन्धकप्रत्यक्षसामग्य्रामुत्तेजकत्वात् । त्वयाऽपि हि सिद्धिरूप-प्रतिबन्धकविरोध्युत्तम्भकत्वेनैव सिषाधयिषा पक्षतायां प्रवेशिता ॥

तस्मात्सिषाधयिषाविरहसहकृतसिद्ध्यभावो यत्र स पक्ष इति चेत् ॥

न्यायदीपा

पक्षधराद्युक्तविवक्षामाशङ्कते– अथ मतमित्यादिना मैवमित्यन्तेन । संशयानन्तरेति । स्थाणुर्वा पुरुषो वेति संशयानन्तरं पुरुषत्वव्याप्यकरादि-रूपविशेषदर्शनानन्तरं पुरुष एवायमिति जायमानप्रत्यक्षस्थल इत्यर्थः । संशयानन्तरप्रत्यक्षस्थे दोषपरिहाराय यज्ञपतिनोक्तसमाधिं पक्षधराद्युक्तदोषेण पूर्वपक्षिमुखेनैव निरसितुमाह– तस्मात्सिषाधयिषेति । सिद्धितत्करणा-न्यतरत्वावच्छिन्नेत्यस्य निष्कर्षेणार्थो अन्यान्यत्वेति । सिद्धितत्करणाभ्यां यदन्यज् जगत् तदन्यत् सिद्धिस्तत्करणं च तत्त्वेनेत्यर्थः । अनुगत्यर्थ-मन्यान्यत्वावच्छिन्नेत्युक्तम् । अन्यान्यत्वावच्छिन्नप्रतियोगिताकाभाव इत्यर्थः । प्रागुक्तदोषं निराह– एवं चेति । नन्वेवं धूमादिस्थलेऽप्युक्तदिशा लिङ्गपरामर्शसत्त्वात्पक्षता न स्यादित्यत आह– धूमेति । परामर्शेति । एवं चेदपि संशयोत्तरप्रत्यक्षस्थले पुरुषत्वव्याप्यकरादिदर्शनरूपपरामर्श-सत्त्वेऽपि तदितरप्रत्यक्षरूपसिद्धिकरणस्यापि सत्त्वान्न तत्र पक्षतापत्तिरिति भावः ॥

अथ मतमिति शङ्कितैव निराह– तत्रेति । संशयोत्तरप्रत्यक्षस्थले । तथा च तदर्थं सिद्धितत्करणान्यान्यत्वेत्यादि न वक्तव्यमिति भावः । एतेन तत्र पक्षताविरहदर्शनात्पक्षतासत्त्वस्य तत्र केनाप्यकथनादिति मणिकण्ठोक्तं नादर्तव्यमित्युक्तं भवति । तदनुव्यवसाय इति । परामर्शोत्पत्त्यनन्तरं परामर्शानुव्यवसायं प्रतिबध्यानुमितेरेवोत्पादोऽभ्युपगतोऽनुमितिसामग्य्रा बलवत्त्वयुक्तिमाश्रित्य तन्न स्याद् इत्यर्थः । एतच्च ज्ञानस्य बुभुत्सित-ग्राह्यत्वमतमाश्रित्योक्तम् । अबुभुत्सितग्राह्यत्वे तु स्यादेवानुव्यवसाय इति ध्येयम् । परामर्शस्य चरमकारणत्वं च स्वस्य ज्ञातैकसत्त्वेन स्वप्रत्यक्ष-जनकत्वेनेति ध्येयम् । न त्वनुमितिरिति । अनुव्यवसायेन परामर्श-नाशेनानुमितिकारणाभावादिति भावः । विशकलितयोरिति । करादिः पुरुषत्वव्याप्यः । अयं च करादिमानित्येव तत्र धीर्न तु पुरुषत्वव्याप्य-करादिमानयमिति धीरित्यनुमितिसामग्य्रभावादेव नानुमितिर्न तु पक्षता-विरहादिति भावः । तत्राप्यस्ति परामर्श इति वादिनं प्रत्याह– साक्षादिति । समाने विषय इति । एवं च परामर्शेऽनुव्यवसायमजनयित्वानुमितिजनकत्वं युक्तम् । समाने विषये प्रत्यक्षसामग्य्रा बलवत्त्वेऽपि भिन्ने विषयेऽनुमिति सामग्रीबलवत्त्वसम्भवादिति भावः । तथात्व इति । संशयोत्तरप्रत्यक्षस्थले पक्षतासत्त्वेऽपि प्रत्यक्षसामग्रीप्राबल्येन प्रत्यक्षस्यैवोत्पादाङ्गीकारे सतीत्यर्थः । तत्र संशयोत्तरप्रत्यक्षस्थले । अनुमित्सा सिषाधयिषापदेनात्राभिमता । न तु सिद्धिसामान्येच्छा । श्रवणानन्तरभाविनो मननस्यानुदयापत्तेरिति भावेनानु-मित्सापदप्रयोगः । अनुमित्सयापि हीति । सिषाधयिषाविरहरूप-विशेषणस्याभावप्रयुक्तविशिष्टाभावसम्पादनद्वारा विशिष्टाभावरूपपक्षतैव सम्पाद्येत्यर्थः । त्वया चेति । संशयोत्तरप्रत्यक्षस्थले पक्षताऽस्तीति वादिना चेत्यर्थः । उभयत्रेति । धूमानुमाने संशयोत्तरप्रत्यक्षस्थले चेत्यर्थः । फलेति । अनुमिनोमीत्यनुभवसिद्धानुमितिरूपफलबलेनेत्यर्थः । अनुमित्सा विरोध्युत्तम्भिकेत्यन्वयः । अनुमितिप्रतिबन्धकस्य यद्विरोधि तदुत्तम्भिके-त्यर्थः । कल्पनादिति । अनुमित्सादशायाम् अनुमितिर्न स्यादिति दोषो नेति योज्यम् । परस्यापि सम्मतमेतदित्याह– त्वयापीति । यज्ञपति-नापीत्यर्थः । सिषाधयिषाविरहसहकृतसिद्धीत्यादिवदता सिषाधयिषाविरहे सति सिद्धिः प्रतिबन्धिका तस्यां तु सत्यां नेति कृत्वा तादृशसिद्ध्याद्यभावः पक्षतेत्युक्तत्वादिति भावः ॥

नन्वेवमनुमित्साविरहसहकृतप्रत्यक्षसामग्य्रा बलवत्त्वेनानुमिति-प्रतिबन्धकत्वे तादृशसामग्य्रभावस् तादृशसिद्ध्यभावश्च द्वयमप्यनुमितौ कारणमिति विनिगमकाभावात्पक्षतात्वमुभयोरप्यस्त्विति चेन्न । द्वयोः कारणत्वाविशेषेऽपि लाघवात्सिद्ध्यभाव एव पक्षतारूपपक्षपदप्रवृत्ति-निमित्तम् । न त्वधिकम् । गौरवात् । किञ्चान्यान्यत्वावच्छिन्नाभावत्वेन न जनकत्वम् । मण्यादिस्थलेऽपि मन्त्रान्यान्याभावत्वेनापि हेतुतापत्त्या प्रतिबन्धकाभावकूटः कारणमिति सिद्धान्तभङ्गापत्तेः । तृणाद्यन्यान्यत्वेनापि हेतुतापत्त्या कार्यवैजात्यासिद्धिप्रसङ्गादित्याद्यभिप्रायेण ‘‘अथ मतमि’’-त्यादिशङ्किता स्वमतमुपसंहरति– तस्मादिति ।

तर्कताण्डवम्

मैवम् । सत्यां सिद्धौ असत्यामपि सिषाधयिषायामनुमिति-दर्शनात् । दृश्यते ह्यसंदिहानस्यापि आप्तवाक्याद्वह्निं निश्चितवतोऽपि गिरिशिखरे अभ्रंलिहां धूमरेखां पश्यतो दैवाद्व्याप्तिस्मरणे सति अननु-मित्सोरनुमितिः । न हि सामग्री प्रेक्षावती । येन मया कर्तव्यमन्येन कृतमिति पर्यालोच्योदासीत । अनुभवानुसारेण हि लक्षणं कल्प्यम् । न तु स्वकल्पितलक्षणरक्षणार्थमनुभवपीडा । अस्ति चात्र न केवलं वह्निः श्रुतः किं त्वनुमितोऽपीत्यनुभवः । अत्रानुमित्साकल्पने च घनगर्जितेन मेघानुमानेऽपि सा कल्प्यताम् । योग्यानुपलब्धि-बाधश्चोभयत्रापि समः । न च छिन्ने छिदान्तरमिव परिच्छिन्ने परिच्छेदान्तरमशक्यम् । चैत्रेण ज्ञातेऽर्थे मैत्रस्य, चैत्रस्यैव कालन्तरे ज्ञानान्तरस्य, तदानीमपि प्रत्यक्षसिद्धे शाब्दज्ञानान्तरस्य, प्रत्यक्ष-धारावाहिज्ञानान्तरस्य, शब्दलिङ्गाभ्यां निश्चितेऽप्यर्थे सामग्रीव-शाच्छाब्दलैङ्गिकज्ञानान्तरस्य, दर्शनात् ॥

किञ्च मणिमन्त्रादिवत्सिद्धेः प्रतिबन्धकत्वे सिद्धे विशिष्टाभावस्य कारणत्वं सिद्ध्येत् । न च तदस्ति । सिद्धेर्बाधवत्साक्षाद्विरोधि-विषयत्वाभावात् । व्यभिचारज्ञानवद्धेतुविघटकत्वस्याप्यभावात् । मण्यादिवदन्वयव्यतिरेकयोरप्यभावात् ॥

अपि च यदि विरोध्यविषयिण्यपि सिद्धिः सिषाधयिषाविरह-रूपसहकारिसंपत्त्या समानविषयानुमितिप्रतिबन्धिका तर्हि लिङ्गज्ञान-मप्युपाधिज्ञानसहकृतं साक्षादेव लिङ्गपरामर्शप्रतिबन्धकं स्यात् । न तु व्यभिचारधीद्वारा ॥

न च सिद्धेरविरोधित्वेऽनुमितिधारा न विच्छिद्येतेति वाच्यम् । लिङ्गपरामर्शस्य शाब्दधीकारणीभूतज्ञानवद्द्विक्षणावस्थायित्वेनानुमिति-धाराहेत्वभावात् । लिङ्गोपहितलैङ्गिकभानपक्षस्य निरासात् ॥

न च लिङ्गपरामर्शस्य स्थितिक्षणे चैका तन्नाशक्षणे चान्ये-त्यनुमितिद्वयं नियमेन स्यात् तद्धेतोः सत्त्वादिति वाच्यम् । क्वचिदुत्कटविषयान्तरजिज्ञासया प्रतिबन्धसम्भवेन नियमहेत्वभावात् । कदाचिदनुमितिद्वयापादने च हेतुसत्त्वेनेष्टापत्तेः । कथं हि विज्ञातं भवता कदाप्यनुमितिद्वयं नास्तीति । अनुमिनोमीत्यनुव्यवसायस्य द्वितीयाभावाविषयकत्वात् । सिद्धसाधनं तु परार्थानुमान एव दोषो न स्वार्थानुमाने इति वक्ष्यते ॥

१तस्मात्पक्षता दुर्निरूपेति ॥

न्यायदीपा

इदमपि लक्षणमव्याप्तमिति भावेन–

‘‘असिद्धसाधने दोषः को व्याप्तिर्यदि विद्यते’’ ।

इति भक्तिपादीयानुव्याख्यानसुधोक्तं हृदि कृत्वा निराह– सत्या-मित्यादिना । तत्र विशेषणविशेष्ययोर्द्वयोरपि सत्त्वेनान्यतराभावप्रयुक्त-स्योभयाभावनिमित्तकस्य वा विशिष्टाभावस्याभावादव्याप्तिरिति भावः । न च पक्षतैव नेति वाच्यम् । अनुमितिरूपफलदर्शनेन तत्र पक्षताया आवश्य-कत्वादित्याह– दृश्यते हीति । अनुभव एव नास्तीत्यत आह– अस्ति चेति ॥

ननु तत्र फलबलेनानुमित्सैव कल्प्यताम् एवं चानुमित्साविरहरूप-विशेषणाभावप्रयुक्तविशिष्टाभावरूपपक्षतासत्त्वान्न दोष इत्यत आह– अत्रेति । घनगर्जितेनेति । एवं च तत्र विशेषणसत्त्वमुपेत्य साधकमानरूपविशेष्या-भावप्रयुक्तविशिष्टाभावोक्त्या पक्षत्वोपपादनमसङ्गतं स्यादिति भावः । तत्रानु-मित्सा २योग्याननुभवबाधितेत्यत आह– योग्येति । इच्छाया योग्यत्वा-त्तदनुपलब्धेर्योग्यानुपलब्धित्वाद्योग्यानुपलब्धीत्युक्तम् । किं परिच्छेदान्तरं कस्यापि नास्तीति अथ परिच्छेत्तुरेव नेति अस्मिन्पक्षेऽपि कालान्तरे नास्त्युत तदा तदेत्यत्रापि प्रमाणान्तरेण नास्ति उत पूर्वपरिच्छेदजनक-प्रमाणेन ३शब्दलिङ्गाभ्यां परिच्छिन्ने पुनस्ताभ्यामेव परिच्छेदान्तरं नेति कल्पान्क्रमेण निराह– चैत्रेण ज्ञात इति ॥

ननूक्तस्थले सर्वत्र फलबलात्प्रतिबन्धकीभूतसिद्धेरुत्तेजकं किञ्चित्परि-कल्पनीयम् । अन्यथा प्रतिबन्धके सति कार्योदयस्य दुर्घटत्वादित्यत आह– किं चेति । प्रतिबन्धकत्वं सिद्धेः किं ग्राह्याभावावगाहित्वेनोत सिद्ध्यन्तर-१विघटकत्वेनान्वयव्यतिरेकाभ्यां वा न त्रयमपीति क्रमेण निराह– सिद्धेर्बाधवदित्यादिना । सिद्धेः प्रतिबन्धकत्वे साधकं नेत्युक्त्वा बाधक-मप्याह– अपि चेति । लिङ्गज्ञानमिति । महानसादौ गृहीतव्याप्तिकस्य पर्वते यल्लिङ्गदर्शनं तदित्यर्थः । सिद्धेरप्रतिबन्धकत्वेऽनुमित्यविच्छेदो वा सिद्धसाधनत्वस्यादोषत्वं वा स्यादित्यत आद्यं बाधकं तावदाशङ्क्य निराह– न चेति । शाब्दबोधस्थले सिद्धेरप्रतिबन्धकत्वेन तत्रापि शाब्दबोध-परम्परापत्तेः । कारणीभूतस्य शब्दगोचरज्ञानस्य विनाशेन कारणाभावान्न शाब्दबोधपरंपरेति चेत्सममिहापीत्याह– लिङ्गपरामर्शस्येति । ज्ञानवज्ज्ञान-स्येव । आत्मलाभरूपजन्मक्षणमप्युपादाय वा विनाशक्षणमप्युपादाय वा द्विक्षणेत्युक्तम् ॥

ननु धूमवत्पर्वतोऽग्निमानित्यनुमित्याकारोपगमेनानुमितिरपि परामर्शरूपे-त्यत आह– लिङ्गेति । २स्वतस्त्वानुमानवादे निरासादित्यर्थः । अनुमिनो-मीत्यनुव्यवसाय एवानुमितिद्वयाभावे मानमित्यत आह– अनुमिनोमीति । द्वितीयं बाधकं निराह– सिद्धसाधनं त्विति । वक्ष्यत इति । स्वमतेऽनु-मानदोषोक्तिवादे । एतेन सिद्ध्यभावस्य पक्षतात्वखण्डनेनैव सिषाधयिषा-विरहसहकृतसाध्यनिश्चयाभावः पक्षतेति शिरोमणिपक्षोऽपि प्रत्युक्तो ध्येयः । पूर्वोक्तदोषाणामत्राप्यनुवृत्तेः । उक्तदोषान्संक्षेपेणानुवदन्पूर्वपक्षमुपसंहरति– तस्मादिति ॥

॥ इति परोक्तपक्षलक्षणभङ्गः ॥ ५ ॥