०३ खण्डनोक्तव्याप्तिनिश्चयानुपपत्तिभङ्गः

व्याप्तिग्रहोपायस्तु पदशक्तिप्रस्तावे दर्शितः ..

अथ खण्डनोक्तव्याप्तिनिश्चयानुपपत्तिभङ्गः ॥ ३ ॥

तर्कताण्डवं

व्याप्तिग्रहोपायस्तु पदशक्तिप्रस्तावे दर्शितः ।

ननु तर्कं विना व्याप्त्यग्रहात्तर्कस्य च व्याप्तिधीसापेक्षत्वा-दनवस्थेति चेत् । अत्र केचित्–यत्राप्तवाक्येन व्याप्तिधीर्न तत्र तर्कापेक्षा । न च तत्र आप्तिनिश्चयोऽनुमानादेवेति वाच्यम् । पित्रादौ स्वतः सिद्धश्रद्धयाऽनाप्तत्वशङ्कानुदयात् । प्रात्यक्षिकी व्याप्तिधी-परम्पराप्यन्ततोऽत्रैव विश्राम्यतीत्याहुः ॥

अपि चानादिसिद्धकार्यकारणभावमूलाः केचन तर्काः । न चात्र देहात्मत्वादाविव बाधोऽस्तीति न तत्र तर्कान्तरापेक्षा ।

किञ्च यत्रापि जन्मान्तरानुभूतव्याप्तिस्मृतिर्हेतुर् न तत्र तर्कापेक्षा । इतरापिव्याप्तिधीरन्ततोऽत्रैव पर्यवस्यतीत्यस्तु ।

किञ्च या निर्दोषश्रुत्या निर्दोषज्ञानरूपसाक्षिणा वा सिद्धा व्याप्तिर्न तत्र तर्कापेक्षा । अन्यापि व्याप्तिधीरत्रैव विश्राम्यतीति नानवस्था । उक्तं हि–

‘‘न परीक्षानवस्था स्यात्साक्षिसिद्धे त्वसंशयात्’’ इति ॥

न्यायदीपा

नन्वस्तु भवदुक्तैवानुपपत्तिरूपा व्याप्तिर्न तु परोक्ता । तद्ग्रहोपायस्तु न सम्भवति । अनुगतजातेर्निरासेन सामान्यप्रत्यासत्तेरभावादित्यत आह– व्याप्तीति । सादृश्यादिना तद्ग्रहस्योपपादितत्वादिति भावः । खण्डनोक्तां व्याप्तिग्रहानुपपत्तिं निरसितुमाशङ्कते– नन्विति । तर्कं विना व्याप्त्य-ग्रहादिति । अनिष्टप्रसञ्जनरूपतर्काभावे व्यभिचारादिशङ्कया प्रतिबन्धेन व्याप्त्यनिश्चयादित्यर्थः । अत्रैव विश्राम्यतीति । आप्तवाक्यजन्यव्याप्ति-धियामेवेत्यर्थः । अत्रारुचिबीजं तु श्रद्धया सिद्धत्वेऽपि न्यायतोऽनुपपादि-तत्वे न्यायासाध्ये निःशङ्कप्रवृत्तेरयोगात् तदर्थं न्यायानुसन्धाने स्यादेवा-नवस्थेत्येवं ज्ञेयम् ।

अनादीति । अनादिसिद्धत्वेन ज्ञाता निःशङ्कमवगम्यमाना ये कार्य-कारणभावास् तन्मूलाः केचन तर्का बीजाभावे अङ्कुराभाव इत्यादय इत्यर्थः । देहात्मत्वादाविति । तत्र युक्त्यादिबाधो यथा न तथाऽनादि-सिद्धकार्यकारणभावमूलतर्केष्वस्तीति न तत्र तर्कापेक्षेत्यर्थः ॥

नन्वयं पक्षः मणावेव कार्यकारणभावादेरनादिसिद्धत्वेऽपि तत्र प्रमाणानु-सरणेऽनुमान एव पर्यवसानादनवस्थैवेति दूषित इत्यतः पक्षान्तरमाह– किञ्चेति । यस्तर्को व्याप्त्यनुभवमूलकस्तत्र तर्कान्तरापेक्षायामपि व्याप्तिस्मृतिमूलतर्के न तर्कान्तरापेक्षेति नानवस्थेत्यर्थः । हेतुरिति । तर्कस्येति योज्यम् । व्याप्त्यनुभवमूलतर्के का गतिरित्यत आह– इतरा-पीति ॥ अनुभवरूपव्याप्तिधीरपीत्यर्थः । नन्वयमपि पक्षः स्तन्यपाना-दावनवस्थोद्धारेऽपि वह्निधूमयोर्व्याप्तौ गृह्यमाणायामनवस्थेति पक्षधरादौ दूषित इति चेन्न । अन्ततोऽप्यत्रैव सर्वापि व्याप्तिधीः पर्यवस्यतीत्युक्त-त्वेनादोषत्वात् ॥

पक्षान्तरं चाह– किंच येति । श्रुत्येति । ब्राह्मणो न हन्तव्यः गौर् न पदा स्पृष्टव्येत्यादौ यो ब्राह्मणः स न हन्तव्य इत्यादिव्याप्तिः श्रुतिसिद्धा । यज्जलपानं तत्सुखसाधनमित्यादिव्याप्तिः साक्षिसिद्धा । श्रुत्याद्यन्यस्थलीय-व्याप्तिधीः कथमित्यत आह– अन्यापीति । उक्तं हीति । ज्ञानपादीयानु-व्याख्याने । परीक्षा नाम तर्क एव ॥

तर्कताण्डवम्

अपि च न तर्कः साक्षाद्व्याप्तिग्राहकः । भूयोदर्शनव्यभिचारा-दर्शनसहकृतप्रत्यक्षेणैव तद्ग्रहात् । या तु व्याप्तिग्राहिणः प्रत्यक्षस्य भूयोदर्शनव्यभिचारादर्शनोपाध्य भावनिश्चयाः सहकारिण इति पद्धतौ उपाध्यभावनिश्चयस्य सहकारित्वोक्तिः सा उपाधिशङ्कास्थलाभिप्राया न तु सार्वत्रिकाभिप्राया । अन्यथोपाध्यभावनिश्चयस्य व्याप्तिसापेक्ष-तर्काधीनत्वेनानवस्थापातात् । पद्धतावेव तर्कस्य क्वाचित्कत्वोक्तेश्च । पार्थिवत्वलोहलेख्यत्वयोस्तु वज्र एव व्यभिचारदर्शनात्तदग्रहः । उक्तं हि–

‘‘अदृष्टे व्यभिचारे तु साधकं तदिति स्फुटम् ।

ज्ञायते साक्षिणैवाद्धा मानबाधे न तद्भवेत्’’ ॥

इति । किंतु व्यभिचारशङ्कानिवृत्तिद्वारा । शङ्का तु क्वाचित्कैव । सा च क्वाचित्केन तर्केण निरस्यत इति न तत्र तर्कापेक्षा ।

न्यायदीपा

सर्वव्याप्तिधियस्तत्रैव पर्यवसाने विवादिनं प्रति भूयोदर्शनवादे मणौ सिद्धान्तितं पक्षमुपेत्याह– अपि चेति । न साक्षाद्व्याप्तिग्राहक इत्यस्य किंत्वित्यनेनान्वयः । किं तर्हि साक्षाद्व्याप्तिग्राहकमित्यत आह– भूयोदर्शनेति । बहुषु स्थलेषु साध्यसाधनयोः सहचारदर्शनेत्यर्थः । व्यभिचारेति । हेतोः साध्याभावसम्बन्धादर्शनेत्यर्थः । प्रत्यक्षेण चक्षुरादिना । नन्वेवं यत्पार्थिवं तल्लोहलेख्यमिति बहुषु स्थलेषु सहचार-दर्शनाद्व्यभिचारादर्शनाच्च व्याप्तिग्रहः स्यादित्यत आह– पार्थिवत्वेति । वज्रे–वज्रमणौ । उक्तं हीति । भक्तिपादीयानुव्याख्याने व्यभिचारादर्शनादि-सहकृतं प्रत्यक्षं व्याप्तिनिश्चायकमित्येतदुक्तमित्यर्थः । तुरवधारणे । तल्लिङ्गं धूमादिकं वह्न्यादिसाध्यव्यभिचारेऽद्धा सर्वथाप्यदृष्ट एव सति तस्य वह्नेः साधकं व्याप्यं न तु व्यभिचारदर्शने, प्रमाणबाधे तु साधकं न भवेदित्यर्थः । शङ्कानिवृत्तिद्वारेति । तर्को व्याप्तिग्राहक इत्यनुकर्षः ।

तर्कताण्डवं

ननु तर्कानवतारे विशेषादर्शनस्य सर्वत्र सत्त्वात्–

‘‘सर्वत्र शङ्कया भाव्यं नियामकमपश्यताम्’’

इति न्यायेन शङ्का सार्वत्रिकी स्यादिति चेन्न । किमियं शङ्का स्वार्थानुमाने स्यात् परार्थानुमाने वा । आद्येऽपि स्वारसिकी वा आधेया वा ।

नाद्यः । एवं शङ्कायां चार्वाकस्य प्रत्यक्षेऽपि करचरणादि-विशेषदर्शने, औतिनोऽपि वेदनिर्दोषत्वज्ञाने, उपक्रमादिलिङ्गानां तात्पर्याव्यभिचारज्ञाने च स्वार्थव्यभिचारशङ्कापातात् । शङ्काविषयक-ज्ञानेऽपि स्वार्थस्य व्यभिचारशङ्कया त्वदुक्तव्यभिचारशङ्काया एव सिद्ध्यापत्तेश्च ।

यदि च तत्र त्रिचतुरकक्ष्यानन्तरं कोटिस्मरणाद्यभावान्न शङ्का तर्हीहापि न विशेषादर्शनमात्रं संशयसामग्री । किंतु कोटिस्मरणादि-सहितम् । तथा च कतिपयकक्ष्यानन्तरं कुत्रचित्कोट्यस्मरणस्य कुत्रचिदुत्कटविषयान्तरसंचारस्य कुत्रचिज्जिज्ञासाभावस्य कुत्रचित्–

‘‘यत्त्वादौ श्रद्धया सिद्धं पुनर्न्यायेन साधितम्’’

इति न्यायेन स्वारसिकविश्वासस्यावश्यकत्वान्न सर्वत्र शङ्का । न हि कश्चिदपि यावज्जीवं कोटिस्मरणधारायामेव व्याप्रियमाणोऽनु-भूयते । न चाविरलग्ना शङ्काधाराऽनुभूयते । येन फलबलात्कोटि-स्मरणादिधाराया अविच्छेदः कल्प्येत । अन्यथा प्रत्यक्षेऽपि विशेष-दर्शनधारायां वेदेऽपि वेदनिर्दोषत्वज्ञानधारायां च व्याप्रियेत । उक्तं हि–

यावच्छक्तिपरीक्षायामुपजीव्यस्य बाधने ।

दोषो नाशोधिते दोष उपजीव्यत्वमस्त्वलम् ॥ इति ।

न्यायदीपा

विशेषादर्शनस्य व्यभिचारिव्यावृत्तविशेषादर्शनस्य सर्वत्र सत्त्वादित्यस्य शङ्का सार्वत्रिकी स्यादित्यन्वयः । व्याघातावधिराशङ्केति वक्ष्यमाणोदयनवाक्यं वक्ष्यमाणाद्व्याघातावधित्वाच्छङ्काया इति भक्तिपादीयछललक्षणोक्तिप्रस्तावगत-सुधावाक्यं हृदि कृत्वा व्याघातभिया एवं शङ्का न कार्येति भावेन व्याख्यात-माह– एवं शङ्कायामिति । एवं सर्वत्र शङ्कायाम् । अनुमानाप्रामाण्यवादी चार्वाक एवेति चार्वाकस्येत्युक्तम् । सर्वखण्डनवादी मण्डनमिश्रोऽप्यद्वैत-वादीत्यद्वैतिनोऽपीत्युक्तम् । अनेन स्वक्रियाविरोध उपपादितः ॥

परमुखेन समाधिं वाचयित्वा समं प्रकृतेऽपीत्याह– यदीति । फलबलादिति । शङ्कारूपफलबलादित्यर्थः । अन्यथेति । शङ्काभावेऽपि परंपराकल्पन इत्यर्थः । उक्तं हीति । विश्वासादिना प्रमाणत्वेन सिद्धस्य शङ्कानास्पदत्वं ज्ञानपादीयानुव्याख्याने उक्तमित्यर्थः । परीक्षायां सत्यां प्रमाणत्वेन निश्चितस्येति शेषः । अशोधिते । तर्कादिना अप्रमाणादविवक्ते । उपजीवकेन बाधेऽपि न दोषः । ननु उपजीव्यं कथं बाध्यमित्यत आह– उपजीव्यत्वमस्त्वलमिति । उपजीव्यत्वमात्रमप्रयोजकमिति भावः ।

तर्कताण्डवं

द्वितीयेऽपि स्वार्थानुमाने शङ्काधायकं न तावत्प्रतिवादिवाक्यम् । अतिप्रसङ्गात् । तस्य तदानुपस्थितेश्च । नाप्युपाधिशङ्का । तस्या अप्युक्तन्यायेन सर्वत्रासम्भवात् । क्वाचित्क्यास्तु क्वाचित्केनैव तर्केण निरासात् । निरासस्त्त्वेवम्– धूमस्याग्निना सम्बन्धे उपाधिरैन्द्रियि-कश्चेदुपलभ्येत । न चोपलभ्यते । अतीन्द्रियोऽपि प्रमाणान्तरवेद्यः स्यात् । न च तत्प्रमाणमुपलभ्यत इति । अत एव पद्धतौ ‘‘सोऽयं क्वचित् प्रमाणान्तारानुग्राहको भवति’’ इति तर्कस्य क्वाचित्कत्व-मेवोक्तम् । प्रमाणेनानुपलभ्यमानोऽपि कश्चिदुपाधिर्भविष्यतीति निर्बीजा, शङ्कापिशाची तु प्रामाणिकत्वेन त्वदभिमतेऽप्यद्वैतादौ बाधकसहस्रम् अप्रामाणिकत्वेन त्वदभिमतेऽपि द्वैतादौ साधकसहस्रं निर्दोषत्वेन त्वदभिमते त्वद्द्वाक्ये दोषसहस्रं च भविष्यतीत्याद्यति-प्रसङ्गहेतुत्वात् सप्तमरसादिशङ्कासमाना न व्याप्तिनिश्चयोत्पत्ति-प्रतिबन्धिका । नाप्युत्पन्नस्य व्याप्तिनिश्चयस्य कार्यप्रतिबन्धिका । उत्पन्नेन निश्चयेनैव शङ्कोत्पत्तिप्रतिबन्धात् । न हि ग्राह्यसंशयमात्रं तन्निश्चयप्रतिबन्धकम् । न चोत्पन्नस्य व्याप्तिनिश्चयस्य बलव-द्बाधकमस्ति । येनौत्सर्गिकं प्रामाण्यमपोद्येत । उक्तं हि–

उत्सर्गतोऽपि यत्प्राप्तमपवादविवर्जितम् ।

व्यभिचार्यपवादेन मानमेव भविष्यति ॥

इति । उक्तं च खण्डनेऽपि–

‘‘अत्यन्तासत्यपि ज्ञानमर्थे शब्दः करोति हि ।

अबाधात्तु प्रमामत्र स्वतःप्रामाण्यनिश्चलाम्’’ ॥

इति । कथं च प्रत्यक्षसिद्धे अन्नादौ निःशङ्कस्य प्रत्यक्षसिद्धायां व्याप्तौ शङ्का । उक्तं च– व्याप्तिप्रत्यक्षस्यापि सहकारिसामर्थ्या-त्प्रत्यभिज्ञावदतीतादिविषयकत्वमिति । वाचयिष्यते च परमुखेनैव व्याप्तिधीकाले व्यभिचार१व्यावृत्तविशेषदर्शनमप्यस्तीति ॥

न्यायदीपा

द्वितीयेऽपीति । स्वार्थानुमाने आहितशङ्का भवतीति पक्षेऽपीत्यर्थः । अतिप्रसङ्गादिति । प्रत्यक्षेऽपि करचरणादिविशेषदर्शन इत्युक्तस्थलेष्वपि प्रतिवादिवाक्याच्छङ्काप्रसङ्गादित्यर्थः । उपाधिशङ्केति । शङ्काधायिकेत्यनुकर्षः । उक्तेति । कोटिस्मरणाद्यभावादित्यादिनोक्तन्यायेनेत्यर्थः । अत एवेति । क्वाचित्कोपाधिस्थल एव तर्कानुसरणादित्यर्थः । त्वदभिमतेति । खण्डनकारं प्रत्युच्यते । न व्याप्तिनिश्चयोत्पत्तिप्रतिबन्धिकेत्येतद्व्यनक्ति– न हीति । तथात्वे संशयोत्तरप्रत्यक्षस्यानुमित्यादेश्चानुदयापातादिति भावः । उक्तं हीति । बलवद्बाधकाभावे प्रमाणमेवेत्येतद्भक्तिपादीयानुव्याख्याने उक्तमित्यर्थः । अपवादेन व्यभिचार्यपि मानमेवेत्यर्थः । स्वतः प्रामाण्यनिश्चलां प्रमां शब्दः करोतीत्यन्वयः ॥

ननु २प्रत्यक्षे शङ्कानुदयेऽप्यन्यव्याप्तौ सा भविष्यति । परिचित-प्रत्यक्षस्थेषु हेतोः साध्य३व्यभिचारज्ञानेऽप्यतीतादौ तच्छङ्कया सा स्यादेवेत्यत आह– उक्तं चेति । यद्वा सन्निकृष्टकतिपयधूमादिव्यक्ति-व्याप्तिग्रहेऽप्यतीतादिव्यक्तिषु तद्ग्रहोपायाभावात्कथं सर्वत्र व्याप्तिग्रह इत्यत आह– उक्तं चेति । शक्तिव्याप्त्यादिग्रहसमर्थनवादे । एवमियता ग्रन्थेन तर्कानवतारे विशेषादर्शनस्य सर्वत्र सत्त्वादित्यादिना पूर्वपक्षिणोक्तं विशेषा-दर्शनमभ्युपेत्य स्वार्थानुमाने स्वारसिकाहितशङ्कयोः स्वव्याघातप्रसङ्गेनानुत्पाद उक्तः । अधुना नास्त्येव विशेषादर्शनमित्याह– वाचयिष्यते चेति । अत्रैव भङ्गे किञ्च व्यभिचारिव्यावृत्तविशेषस्यादर्शन इत्यादिग्रन्थेनेति भावः ॥

तर्कताण्डवं

नाप्यनुमानप्रामाण्यवादिना तदप्रामाण्यवादिनं प्रति प्रयुक्ते परार्थानुमाने शङ्का । तत्र प्रतिवादिना मयेदं साध्यं व्यभिचरिष्यतीति सर्वत्र शङ्कोत्थापनादिति द्वितीयः । १तथापि तृप्त्यर्थं भोजने परबोध-नार्थं शब्दोच्चारणे एवं तत्तत्कार्योद्देशेन तत्तत्कारणे च प्रवृत्तिरूप-स्वक्रियाव्याघातेन शङ्कानुदयात् । अत्र–

‘‘शङ्का चेदनुमास्त्येव न चेच्छङ्का ततस्तराम् ।

व्याघातावधिराशङ्का तर्कः शङ्कावधिर्मतः’’ ॥

इत्युदयनोक्तदूषणार्थं चार्वाकभूषणार्थं चोक्तं खण्डने–

‘‘व्याघातो यदि शङ्कास्ति न चेच्छङ्का ततस्तराम् ।

व्याघातावधिराशङ्का तर्कः शङ्कावधिः कुतः’’ ॥

इति । अस्यार्थः । यदि व्याघातस् तर्हि शङ्काऽस्त्येव । व्याघातो हि स्वक्रियायाः शङ्कया सह विरोधः । तथा च शङ्का प्रतियोगितया व्याघातनिरूपकत्वेन तन्निर्वाहिकेति कथं शङ्कां विना व्याघातः । न चेद्व्याघातस्तदा निवर्तकाभावात्सुतरां शङ्कास्त्येवेति ।

अत्र ब्रूमः । किमनुमानप्रामाण्येऽपि व्याप्तिनिश्चयो न सम्भवतीत्युच्यते किं वाऽनुमानमात्रमप्रमाणमिति । नाद्यः ।

‘‘र्ओ चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत्’’ ।

इति न्यायेन ममेष्टसिद्धेः । न ह्यहमुपेये अनुमानप्रामाण्ये सिद्धेऽ-प्युपायविशेषेऽभिनिविष्टोऽस्मि । व्यभिचारिणापि साध्यसिद्धिप्रसङ्गाच्च । स्थापनायां विरक्तस्यापि तव दृष्टप्रकारत्यागेनादृष्टेन प्रकारान्तरेणानु-मानप्रामाण्यसाधनापाताच्च । व्याप्तिसापेक्षेण तर्केणानवस्था-पादनायोगाच्च । प्रमाणतर्काभ्यां व्यवहर्तव्यमिति समयबन्धायोगाच्च । व्याप्तेरनिश्चये शब्दशक्तेरप्यनिश्चयेनाद्वैतश्रुतेरबोधकत्वापाताच्च । लक्षणाया अप्यभिधामूलकत्वात् ॥

नान्त्यः । परकीयशङ्कादेरप्यनुमेयतया तच्छङ्कानिवृत्त्यर्थं तव वाक्यप्रयोगायोगात् । अनुमानाप्रामाण्यस्यापि प्रत्यक्षाद्यसिद्धत्वेन तत्रानुमानस्यैव प्रमाणयितव्यत्वाच्च । अनुमानाप्रामाण्ये कालान्तरादे-रप्यसिद्ध्या तत्र व्यभिचारशङ्कायोगाच्च । प्रवर्तकनिवर्तकयोरिष्टानिष्ट-साधनत्वयोरप्यनुमेयत्वेन तव कुत्रापि प्रवृत्तिनिवृत्त्ययोगाच्च । औते षड्विधतात्पर्यलिङ्गानां प्रपञ्चमिथ्यात्वानुभूतिस्वप्रकाशत्वादौ दृश्यमानत्वानुभूतित्वादिलिङ्गानां चोक्त्ययोगाच्च । संदिग्धानैकान्तिके व्यावहारिकप्रामाण्यस्याभावात् । विश्वमिथ्यात्वादेरव्यावहारि-कत्वाच्च । प्रत्यक्षशब्दाभ्यामिव लिङ्गेनापि ज्ञानोत्पत्तेरुत्पन्नज्ञानस्य बाधाभावेन प्रामाण्यनिश्चयस्य तदधीननिष्कम्पप्रवृत्तेः प्रवृत्तिसामर्थ्यस्य चानुभवेनानुमाने विशेषापराधाभावाच्च ॥ अन्यथानुमानमेव प्रमाणं न तु प्रत्यक्षादीति । प्रत्यक्षेऽपि नेत्रमेव प्रमाणं न तु श्रोत्रादि, वेदेऽपि द्वैतवाक्यमेव प्रमाणं न त्वद्वैतवाक्यमिति च स्यात् ॥

एतेनानुमानात्सम्भावनामात्रेण प्रवृत्त्यादिकं संवादाच्च प्रामाण्याभि-मान इति निरस्तम् । अनुमानाज्ज्ञानं जायते तच्च संवादीति वदता त्वयैव तत्प्रामाण्योपगमात् । १सम्भावनात्वेनापि कोट्यन्तरोल्लेखा-पाताच्च । निष्कम्पप्रवृत्त्यनुपपत्तेश्च । एवंविधस्य पारिभाषिक-सम्भावनात्वस्य मयाऽभ्युपगमाच्च । प्रत्यक्षादिनापि सम्भावनामात्र-मित्यापाताच्च । औत्सर्गिकाऽबाधः क्वाचित्कबाधश्चोभयत्रापि समः ॥

न्यायदीपा

परार्थानुमाने वेति प्राग्विकल्पितं द्वितीयपक्षं विवृण्वन्नेव निराह– नापीति । द्वितीय इत्यन्वयः । मया चार्वाकेण खण्डनकारेण वा । स्वक्रियाव्याघातेन व्याघातो विरोधो हानिर्वा । यदि सर्वत्र शङ्का त्वयोत्थाप्यते तर्हि भोजनमपि तृप्तिं व्यभिचरिष्यति, शब्दोच्चारणमपि परबोधं व्यभिचरिष्यतीति भोजनादौ न प्रवृत्तिः स्यात् । अस्ति च सा । अतो न सर्वत्र शङ्का कार्येत्यर्थः ।

एवं व्याघातावधिराशङ्केत्येतद्धृदिकृत्वा व्याघातदण्डभयेन सर्वत्र शङ्का नोत्पत्तुमर्हतीत्युक्तम् । तस्य खण्डनोक्तं दोषमुद्धर्तुमाह– अत्रेति । व्याघातभयाच्छङ्का नोदेतुमर्हतीत्युक्तप्रमेये खण्डने उक्तमित्यर्थः । शङ्का चेदिति । कालान्तरे देशान्तरे वा अयं हेतुः साध्यं व्यभिचरिष्यतीति शङ्का चेदुत्पन्ना तदाऽनुमानं प्रमाणमस्त्येव । अनुमानं विना कालान्तर-देशान्तरयोरनुपस्थितेः । न चेदेवं शङ्का तदा सुतरां निःसन्देहमनुमानं प्रमाणमस्त्येव । नन्वनुमानं प्रमाणं शङ्का तु कथं निवर्त्येति सुहृद्भावेन पृच्छन्तं प्रत्याह– तर्कः शङ्कावधिर्मतः । यावच्छङ्कं तर्कप्रवृत्त्या तर्केण सा निवर्तनीयेति । ननु तर्केऽपि व्याप्तेरावश्यकत्वात्तत्रापि शङ्कायां तर्कान्तरान्वेषणेऽनवस्थेति चेत्तत्रोत्तरं– व्याघातावधिराशङ्केति । आशङ्का परम्परा जायमाना सती क्वचिद्विश्राम्यति । यत्र शङ्कायां क्रियमाणायां स्वक्रियाव्याघातादिर्भवति तत्र न शङ्कोत्पत्तुमर्हतीति तृतीयपरिच्छेदे कुसुमाञ्जल्युक्त श्लोकार्थः ।

दुर्गमार्थत्वाद्दूषणसौकर्यार्थमाह– अस्यार्थ इति । तथा च शङ्केति । तन्निर्वाहिकेत्यन्वयः । व्याघातनिर्वाहिकेत्यर्थः । कथं– प्रतियोगितयेत्यादि । एवं च व्याघातावधिराशङ्केति तर्कः शङ्कावधिरिति च कुत इत्युत्तरार्धस्य स्पष्टत्वादर्थो नोक्तः ॥ व्याप्तिनिश्चयो न सम्भवतीति ॥ तत्सम्भवस्य तर्काधीनत्वात् तर्कस्य व्याप्तिसापेक्षत्वेनानवस्थापत्त्यानुत्थानादिति भावः । र्ओ चेदिति ।

‘‘इष्टस्यार्थस्य संसिद्धौ को विद्वान् यत्नमाचरेत्’’

इति वाक्यशेषः । अयं च श्लोकः शाबरभाष्यादावुक्तः । ननु तर्काधीनव्याप्तिनिश्चयहेतुकं प्रामाण्यं न प्राप्तमेवेत्यत आह– न हीति । अनुमानप्रामाण्यं स्वीकुर्वता व्याप्तिनिश्चयसम्भवोऽवश्यं वाच्योऽन्यथाति-प्रसङ्गादिति भावेनाह– व्यभिचारिणापीति । अनुमानप्रामाण्यस्वीकारस्त-वायुक्त इत्याह– स्थापनायामिति । कश्चिदपि मम स्थाप्यः पक्षो नेति वदतः खण्डनकारस्येत्यर्थः । अनुमानप्रामाण्यमुपेत्य व्याप्तिनिश्चयखण्डनं स्वव्याहतमित्याह– व्याप्तिसापेक्षेणेति । अनुमानस्येव तर्कस्यापि व्याप्तिनिश्चयं विनैव साधकत्वसम्भवादिति भावः । यद्वा तत्प्रामाण्य-निर्वाहकोपायान्तराभावात् । अस्मदुक्तनिर्वाहस्यैव त्वयापि वाच्यत्वा-त्तद्दूषणोक्तिरयुक्तेत्याह– व्याप्तीति । व्याप्तिसापेक्षत्वेन तर्कस्य खण्डनं व्याहतमित्याह– प्रमाणेति । परमार्थाद्वैतदृष्ट्या नास्ति समयबन्धादिव्यवहार इत्यत आह– व्याप्तेरिति । यद्वा व्याप्तिनिश्चयो न सम्भवतीत्येतत्स्व-व्याहतमित्याह– व्याप्तेरिति । केवलव्यतिरेकिणाऽन्वयव्यतिरेकिणा वा प्रमाणलक्षणटीकाद्युक्तदिशा शक्तेर्ग्राह्यत्वादिति भावः । यद्वा वृद्धव्यवहारा-दावापोद्वापाभ्यां शक्तिग्रहाद्व्याप्तिनिश्चयोऽपेक्षित इति भावः । लक्षणया-द्वैतज्ञानमस्तु किं शक्तिग्रहणेनेत्यत आह– लक्षणाया इति । मुख्यार्थ-सम्बन्धपूर्वकत्वाल्लक्षणाया इति भावः ॥

नान्त्य इति । अनुमानमात्रमप्रमाणमिति पक्ष इत्यर्थः । कालान्तरा-देरसिद्ध्येति । पररीत्या कालदेशयोरानुमानिकत्वमुपेत्य इदं दूषणं ध्येयम् । सिद्धान्ते साक्षिसिद्धत्वात् । व्यावहारिकप्रामाण्यमुपेत्य तदुक्तिरित्यत आह– सन्दिग्धेति । कालान्तरादौ साध्यं व्यभिचरिष्यति किमिति शङ्कास्पद इत्यर्थः । तात्त्विकप्रामाण्यमेव दृश्यत्वादिहेतूनाम् उपेयं तद्बोध्यमिथ्यात्वादे-स्तात्त्विकत्वात् । अन्यथा व्यावहारिकप्रमाणसिद्धप्रपञ्चवन्मिथ्यात्वमपि मिथ्यैव स्यादिति भावेनाह– विश्वमिथ्यात्वादेरिति । ज्ञानोत्पत्तेरित्यादि-षष्ठ्यन्तचतुष्टयस्यापि अनुभवेनेत्यन्वयः । नेत्रमिति चक्षुरित्यर्थः । सम्भावनामात्रेणेति । उत्कटकोटिकसन्देहमात्रेणेत्यर्थः । वह्न्याद्यनुमिति-स्थल इति योज्यम् । सम्भावनामात्रेण प्रवृत्तौ सकम्पैव प्रवृत्तिः स्यान् न तु निष्कम्पेत्याह– निष्कम्पेति । ननु मयोपेता सम्भावना निष्कम्प-प्रवृत्तिजनिकैवेत्यत आह– एवमिति । परिभाषामात्रस्यानुमिति-प्रामाण्यापरिपन्थित्वादिति भावः । ननु प्रत्यक्षशब्दयोरुत्सर्गतः सर्वत्राबाध एव । क्वचिदेव शुक्तिरूप्यादौ बाधः । अतो न तत्र सम्भावनामात्रोपगमेन प्रत्यक्षादेरप्रामाण्यापात इत्यत आह– औत्सर्गिकेति । उभयत्रेति । प्रत्यक्षादावनुमाने चेत्यर्थः ।

तर्कताण्डवं

किञ्च व्यभिचारिव्यावृत्तविशेषस्यादर्शने सम्भावनैव कुतः । अन्यथा सन्दिग्धव्यभिचारिण्यपि सा स्यात् । दर्शने तु यद्दर्शनेन तव सम्भावना तद्दर्शनेनैव मम निश्चयोऽस्तु । स विशेषः क इति चेदा-त्मानमेव पृच्छ यस्त्वं दर्शनेन सम्भावितवान् निष्कम्पं प्रवृत्तश्च ॥

यदि तव समकोटिकशङ्कासामग्रीविरहो सम्भावना हेतुः । तर्हि मम समकोटिविषमकोटिकोभयशङ्कासामग्रीविरहो निश्चयहेतुः ॥

यदि च तवान्वेषणेऽपि व्यभिचारादर्शनसहकृतमुपाध्यदर्शनं वा २उपाध्यदर्शनसम्भावना वा यावच्छक्तिपरीक्षा वा सम्भावनाहेतुः । तर्हि ममापि त एव व्याप्तिनिश्चयहेतवः ॥

एवं च यदुक्तं व्याघातो यदीत्यादि तदपराद्धेषोर्धानुष्कस्येव वल्गितमात्रम् । नहि मया निष्पन्नभोजनक्रिया वा क्रियायाः शङ्कया सह विरोधो वा तज्ज्ञानं वा शङ्कानिवर्तकमित्युच्यते । येन क्रियायां सत्यां शङ्कानिवृत्त्या तृप्तिकारणत्वनिर्णयस् तस्मिंश्च सति क्रियेति त्वदुक्तोऽन्योन्याश्रयस् त्वदुक्तविरोधिप्रतियोगिशङ्कावश्यंभावश्च स्यात् । किंतु त्वमपि क्रियामूलभूतेन शङ्काविरुद्धकोट्यालम्बनविशेषदर्शनेन निवृत्तशङ्कः सन् मनसा व्याप्तिं निश्चिनुषे । वाचा तु नेति ब्रूषे । तस्माद्वाङ्मनसविसंवादं कुरुषे । न हि तदर्थं तत्र निष्कम्पं प्रवर्तते तच्च तत्कारणं नेति शङ्कते चेति सम्भवति । तस्मात्त्वद्वचनं मूकोऽहमितिवत्स्वक्रियाविरुद्धमित्येवोच्यते ॥

किंच शङ्कानिवर्तकेन व्याघातेन निवर्त्यायाः शङ्कायाः स्वस्मा-त्पूर्वसत्त्वमेवापेक्ष्यते । तावतैव ध्वंसं प्रतीव प्रतियोगित्वोपपत्तेः । न तु यावत्स्वावस्थानं सहभावः । तथात्वे हि विरोध एव न स्यात् । नहि विशेषदर्शननिवर्त्या शङ्का बाधनिवर्त्या भ्रान्तिर् ब्रह्मज्ञान-निवर्त्याऽविद्या तेजोनिवर्त्यं तिमिरं च निवर्तकसमकालं दृष्टम् । भिन्नकालीना च शङ्का व्याघातेन निवर्तितत्वान्न व्याघातकालेऽस्ति । येन तर्कापेक्षा स्यात् । अन्यथा ब्रह्मज्ञानाद्यनन्तरमप्यविद्यादिकं स्यात् ॥

एतेन– ‘व्याघातस्य स्वरूपसतः शङ्कानिवर्तकत्वे शङ्का नित्य-निवृत्ता स्यात् । व्याघातोद्भावनवैयर्थ्यं च स्यात् । ज्ञातस्य निवर्तकत्वे व्याघातरूपाविरोधस्य तदभावव्याप्यत्वात्मकतया व्याप्तिगर्भितत्वेन तज्ज्ञानाय पुनस्तर्कापेक्षा’ इति खण्डनश्लोकस्य व्याख्यानान्तर-मप्यपास्तम् । स्वक्रियामूलभूतविशेषदर्शनमेव शङ्कानिवर्तक-मित्युक्तत्वात् । व्याघातावधित्वाच्छङ्काया इति सुधाया अप्यय-मेवाभिप्रायः ।

केचित्तु– व्यभिचारज्ञानाभावसमानकालीनमन्वयव्यतिरेकानु-विधायित्वज्ञानं शङ्कानिवर्तकं न तु तत्प्रयोज्या क्रिया न च क्रिया-ज्ञानं शङ्कानिवर्तकं येनान्योन्याश्रयः स्याद् इत्याहुः ॥

न्यायदीपा

निष्कम्पं प्रवृत्तश्चेति । यस्त्वमित्यनुकर्षः ॥ परमुखैनैव विशेषस्वरूपं वाचयन् समं ममापीत्याह– यदि तवेति । अपराद्धेषोरिति । अपराद्धः लक्ष्यादन्यत्र गत इषुः शरो यस्य तस्येत्यर्थः । त्वदुक्तदूषणमत्र न लग्नमथापि तद्दुःखेन ‘‘व्याघातो यदि शङ्कास्ति’’ इत्यादि केवलं वल्गन-मेवेत्यर्थः । कथं वल्गनं दूषणमेव कुतो नेत्यत आह– न हीति । निष्पन्नेति । तृप्त्युद्देशेनेति योज्यम् । विरोधः–व्याघातरूपः । शङ्केति । भोजनक्रिया तृप्तिं व्यभिचरिष्यतीत्येवंरूपेत्यर्थः । क्रियायामिति । तृप्त्युद्देशेनेति योज्यम् । शङ्काविरुद्धेति । क्रिया तृप्तिं न व्यभिचरिष्य-तीत्येवंरूपविरुद्धकोटि । वाङ्मनसेति । अचतुरेत्यादिना निपातनात् साधु ॥

शङ्कायाः सत्त्वमुपेत्यापि न दोष इत्याह– किं चेति । विरोध एव न स्यादिति । सहानवस्थानरूपत्वाद्द्विरोधस्येति भावः । ‘‘नाजात एकोऽन्यं हन्ति नाप्यन्याधार’’ इति न्यायेन वध्यघातकस्थले सहावस्थानमावश्यक-मित्यतो देशतस्तथात्वेऽपि न कालतस्तथात्वं किन्तु पौर्वापर्यमेवेति भावेनाह– न हीति । निवर्त्याविद्येत्यत्राविद्येति विभागः ॥

ननु यदाकदाचिच्छङ्कायाः सत्त्वे स्यादेव तन्निवृत्त्यर्थं तर्कापेक्षेत्य-नवस्थापत्तिरेवेत्यत आह– भिन्नेति । इष्टापत्तिरित्यत आह– व्याघातेति । तदभावेति । शङ्काभावव्याप्येत्यर्थः । व्याख्यानान्तरेति । व्याघातो यदि स्वरूपसन् शङ्कानिवर्तकस्तर्हि शङ्का नित्यनिवृत्ता स्याद् इति शेषः । व्याघातस्य स्वरूपसतः सर्वदाभावात् । १न चैतत्स्वरूपसन्निवर्तको न चेत्तज्ज्ञानाय व्याप्तिज्ञानापेक्षायां व्यभिचारशङ्काऽस्त्येवेत्येवं व्याख्यानान्तर-मित्यर्थः । स्वक्रियेति । प्रवृत्त्यादिरूपस्वक्रियेत्यर्थः । उक्तत्वादिति । न हि मयेत्यादिपूर्वग्रन्थेनोक्तत्वादित्यर्थः । सुधाया अपीति । भक्ति-पादीयाद्यनये–

‘‘जातिः स्वव्याहतिर्ज्ञेया छलमर्थान्तरोत्तरम्’’

इत्येतद्व्याख्यानसुधाया अपि न हि मयेत्यादिनोक्त एवाभिप्राय इत्यर्थः ।

अन्वयेति । भोजनादौ सति तृप्त्यादि तदभावे तदभाव इत्यन्वय-व्यतिरेकानुविधायित्वज्ञानमित्यर्थः । अन्योन्येति । प्रागुक्तान्योन्याश्रय इत्यर्थः । अत्रारुचिबीजं तु यत्राप्तवाक्यादिजन्यविशेषदर्शनेन स्वक्रिया तत्रान्वयव्यतिरेकज्ञानाभावात् । अन्वयव्यतिरेकानुविधायित्वज्ञानस्यापि विशेषदर्शनत्वेनास्मदुक्तरीतेरेवानुसर्तव्यत्वात् किमनेनेति ॥

॥ इति खण्डनोक्तव्याप्तिनिश्चयानुपपत्तिभङ्गः ॥ ३ ॥