०२ परोक्तवक्रव्याप्तिलक्षणभङ्गः

एतेन– मण्युक्तानि– अव्यभिचरितः सम्बन्ध इत्यस्य ..

अथ परोक्तवक्रव्याप्तिलक्षणभङ्गः ॥ २ ॥

तर्कताण्डवम्

एतेन–

मण्युक्तानि– अव्यभिचरितः सम्बन्ध इत्यस्य विवरणरूपाणि तत्राप्यत्यन्ताभावगर्भाणि, तत्रापि धूमजातीयस्य वह्निजातीयेन व्याप्तिरिति मताश्रितानि, १. प्रतियोग्यसमानाधिकरणयत्समानाधि-करणात्यन्ताभावप्रतियोगितावच्छेदकानवच्छिन्नं यत्तेन समं सामानाधिकरण्यं व्याप्तिरित्यादीनि, तथा अत्यन्ताभावगर्भेष्वेव समानाधिकरणयोरेव धूमाग्निव्यक्तिविशेषयोर्व्याप्तिरिति मताश्रितानि २. प्रतियोग्यसमानाधिकरणयत्समानाधिकरणात्यन्ताभावप्रतियोगि यन्न भवति तेन समं सामानाधिकरण्यं व्याप्तिरित्यादीनि, तथा प्रतियोग्यसमानाधिकरणेति विशेषणादानाल्लघून्यन्योन्याभावगर्भाणि ३. यत्सनाधिकरणान्योन्याभावप्रतियोगितावच्छेदकं यन्न भवति तेन समं तस्य सामानाधिकरण्यं व्याप्तिरित्यादीनि, ४. तथा यत्समानाधिकरणान्योन्याभावप्रतियोगि यद्वन्न भवति तेन समं तस्य सामानाधिकरण्यं व्याप्तिरित्यादीनि ।

अनौपाधिकसम्बन्ध इत्यस्य विवरणरूपाणि, तत्रापि साध्य-व्यापकेषु साधनाव्यापकत्वनिषेधपर्यवसितानि, ५. यावन्तः साध्य-समानाधिकरणात्यन्ताभावाप्रतियोगिनस् तत्प्रतियोगिकात्यन्ताभावा-सामानाधिकरण्यं व्याप्तिरित्यादीनि, तथा साधनाव्यापकेषु साध्य-व्यापकत्वनिषेधपर्यवसितानि ६. यावन्तः साधनसमानाधि-करणात्यन्ताभावप्रतियोगिनस् तत्प्रतियोगिकात्यन्ताभावसमानाधि-करणसाध्यसामानाधिकरण्यं व्याप्तिरित्यादीनि ।

तथा स्वाभाविकसम्बन्धो व्याप्तिरित्यस्य विवरणरूपाणि ७. यत्सामानाधिकरण्यावच्छेदकरूपवत्त्वं यस्य तस्य सा व्याप्ति-रित्यादीनि च; साध्यसाधनसामानाधिकरण्यशिरस्कानि वक्राणि व्याप्तिलक्षणानि– निरस्तानि ॥

न्यायदीपा

मण्युक्तानीति । वक्राणि व्याप्तिलक्षणानि निरस्तानीति वक्ष्यमाणेनान्वयः । तानि चाव्यभिचरितसम्बन्धानौपाधिकसम्बन्धस्वाभाविक-सम्बन्धविवरणरूपतया त्रैराश्येन निष्कृष्यावान्तरभेदपूर्वमनुवदति । अव्यभिचरितः सम्बन्ध इत्यस्येत्यादिना । तत्रापि तद्विवरणरूपेष्वपि । तत्राप्यत्यन्ताभावगर्भेष्वपीत्यर्थः । धूमजातीयस्य वह्निजातीयेनेति । पर्वतीयवह्निनेव महानसादिस्थवह्निनापीत्येवं समानाधिकरणव्यधिकरण-सर्वधूमवह्निव्यक्तिसाधारणव्याप्तिलक्षणानीत्यर्थः ॥

प्रतियोगीति । प्रतियोग्यसमानादिकरणः यच्छब्दनिर्दिष्टसाधनधूमादि-रूपसमानाधिकरणो योऽत्यन्ताभावः घटाद्यत्यन्ताभावस् तत्प्रतियोगिताया-मवच्छेदकं घटत्वादिकं तदनवच्छिन्नं तेनाव्यावर्त्तितं यद्वह्न्यादि तेन येन केनापि सह तस्य धूमादेः सामानाधिकरण्यं संयोगसम्बन्धेनैकाधिकरणवृत्तित्वं धूमादेर्वह्न्यादिना व्याप्तिरित्यर्थः । १महानसादिवह्नेः पर्वतीयधूमसमानाधि-करणात्यन्ताभावप्रतियोगित्वेऽपि तत्प्रतियोगिता न वह्नित्वेनावच्छिद्यते । धूमवति वह्निर्नास्तीत्यप्रतीतेः । अनवच्छेदकवह्नित्वेनावच्छिन्नमहानसीय-वह्निसामानाधिकरण्यस्य पर्वतीयधूमे अभावेऽपि पर्वतीयवह्निरपि महानसीयवह्निरिव वह्नित्वेनावच्छिन्न इति तत्सामानाधिकरण्यमादाय व्यधिकरणधूमवह्न्योरपि व्याप्तिरिति भावः । अत्र यद्यपि पर्वतीयधूम-समानाधिकरणात्यन्ताभावप्रतियोगिता महानसीयवह्निनिष्ठा महानसवह्नित्वेना-वच्छिद्यते । पर्वते महानसवह्निर्नास्तीति प्रतीतेः । तथा च न सर्वधूमस्य सर्वेण वह्निना व्याप्तिः सिध्यति । तथापि प्रतियोगितानवच्छेदकावच्छिन्नं यदिति नञ्व्यत्यासेन पक्षधराद्युक्तदिशा व्याख्येयम् । एवं यत्समानाधि-करणेत्यत्रापि यदवच्छिन्नेत्यपि ध्येयम् । तेनायं धूमवान् वह्निमत्त्वादिति व्यभिचारिणि यत्किञ्चिन्महानसादिनिष्ठवह्निसमानाधिकरणात्यन्ताभाव-प्रतियोगितानवच्छेदकधूमत्वावच्छिन्नसामानाधिकरण्यस्य सत्त्वाद्व्याप्यता-पत्तिर्नेति ध्येयम् । धूमत्वस्य चायोगोलकीयवह्निसमानाधिकरणतादृशाभाव-प्रतियोगितावच्छेदकत्वात् । एवं तेनेत्यत्र तदवच्छिन्नेन समं तदवच्छिन्न-स्येत्यपि व्याख्येयम् । अत एवादिपदप्रयोग एवंरूपाणां टीकाकृदाद्यु-त्प्रेक्षितानां परिग्रहाय कृतः । अत्रावच्छेदकत्वं प्रतियोगितानधिकदेशवृत्तित्वं विशेषणताविशेषो वा । न त्ववच्छित्तिप्रत्ययजनकत्वम् । जनकत्वस्य नियमगर्भतया आत्माश्रयापत्तेरिति । अत्र संयोगादिसाध्यकद्रव्यत्वादिनिष्ठ-व्याप्तावव्याप्तिवारणाय प्रतियोग्यसमानाधिकरणेत्यभावविशेषणमिति रुचिदत्तादिः । अयं कपिसंयोगी एतद्वृक्षत्वादित्यस्योपसंग्रहायेत्याहतुः पक्षधरशिरोमणी ॥

समानाधिकरणयोरिति । पर्वतीयधूमस्य पर्वतीयवह्निना महानसादिनिष्ठधूमस्य तत्तन्निष्ठवह्निनेवेत्येवंरूपेणेत्यर्थः । प्रतियोगीति । प्रतियोग्यसमानाधिकरणपर्वतीयधूमादिसमानाधिकरणो योऽत्यन्ताभाव, घटाद्यत्यन्ताभावः, तत्प्रतियोगि यन्न भवति, पर्वतीयवह्न्यादिर्न भवति, तेन समं सामानाधिकरण्यं पर्वतीयधूमस्य व्याप्तिः । एवं महानसादिधूमस्यापि ध्येयम् । घटो गन्धवान्पृथिवीत्वादित्यादिनिष्ठव्याप्तावव्याप्तेर् गन्धव्यक्तीनां प्रत्याश्रयं भिन्नत्वेन सर्वस्यापि गन्धस्य पृथिवीत्वसमानाधिकरणात्यन्ताभाव-प्रतियोगित्वादित्यत आदिपदप्रयोगः । तेन प्रतियोग्यसमानाधिकरण-यत्समानाधिकरणात्यन्ताभावप्रतियोगितावच्छेदकं यन्न भवति तदवच्छिन्न-सामानाधिकरण्यमित्यादि टीकाकाराद्युत्प्रेक्षितग्रहः । एवमग्रेऽपि ।

अत्यन्ताभावस्याव्याप्यवृत्तित्वेऽप्यन्योन्याभावस्य व्याप्यवृत्तित्वेन संयोगसाध्यकद्रव्यत्वादिनिष्ठव्याप्तावव्याप्त्यनापत्तेरिति विशेषणत्यागा-ल्लघूनीत्युक्तम् । समानाधिकरणयोरेव व्याप्तिरिति मताश्रितानीत्यप्यनुकृष्यते । यत्समानाधिकरणेत्यादि । यदिति साधनं धूमादि । तत्समानाधिकरणो योऽन्योन्याभावः घटाद्यन्योन्याभावः, न तु वह्निमदन्योन्याभावः, धूमवान्घटादिर्नेतिवद्वह्निमान्नेत्यप्रतीतेः । तत्प्रतियोगितावच्छेदकं यन्न भवति, वह्निर्न भवति । किं तु घटत्वादिकमेव । तेन वह्निना समं धूमस्य सामानाधिकरण्यं व्याप्तिरित्यर्थः । अस्य लक्षणस्य मणावनुक्तत्वेऽपि अत्यन्ताभावगर्भलक्षणे अवच्छेदकघटितस्योक्त्या अन्योन्याभावगर्भ-लक्षणेऽप्युक्तप्रायतया तदभिप्रेतत्वादुपन्यासः ॥

मणौ कण्ठोक्तमाह– तथा यदिति । यद्वा यत्समानाधिकरणा-न्योन्याभावप्रतियोगि यद्वन्न भवति तेन समं तस्य सामानाधिकरण्यं वा स्वसमानाधिकरणान्योन्याभावप्रतियोगि यद्वन्न भवति तत्कत्त्वं वेति मण्युक्तलक्षणद्वयस्यापौनरुक्त्याय परिष्कारपूर्वम् एवं द्वेधानुवादो बोध्यः । आदिपदेन यत्समानाधिकरणान्योन्याभावप्रतियोगितावच्छेदकं यदवच्छिन्नं न भवति तदवच्छिन्नेन येन यस्य सामानाधिकरण्यं तयोर्व्याप्तिरित्येवंरूपाणां सम्भावितानां ग्रहः ।

अनौपाधिकेति ॥ धूमवह्न्यादिसम्बन्धस्यानौपाधिकत्वं हि उपाधेस्तत्राभावे भवति साध्यव्यापकसाधनाव्यापकरूपोपाध्यभावश्च साध्य-व्यापकानां साधनव्यापकत्वेन१ वा साधनाव्यापकानां साध्याव्यापकत्वेन वेति द्वेधेति हृदि कृत्वा पक्षधराद्युक्तरीत्याऽऽह– तत्रापीति । अप्रतियोगिन इत्यन्तस्य साध्यव्यापका इत्यर्थः । प्रमेयत्वाभिधेयत्वादय इति भावः । तत्प्रतियोगिकेत्यादेस्तद्व्याप्यत्वमित्यर्थः । धूमादिहेतोरिति योज्यम् । साध्यव्यापकव्याप्यत्वमनौपाधिकत्वमित्येवोक्तावात्माश्रयापत्तेरेवमुक्तिः । एवमग्रेऽपि । व्यभिचारिणि हेतावतिव्याप्तिनिरासाय यावदित्यत्रोत्तरत्र चेति ज्ञेयम् । यावन्त इति । अत्रापि प्रतियोगिन इत्यन्तस्य साधनाव्यापका इत्यर्थः । तत्प्रतियोगिकेत्यादेस्तदव्यापकं यत्साध्यमित्यर्थः । मणौ पश्चादुक्तस्य पूर्वमनुवादः पूर्वमुक्तस्य पश्चादनुवादस्तु साध्यव्यापकत्वस्य भावरूपतया पूर्वभावित्वाच्च पश्चात्तनसाधनाव्यापकत्वाभाव एव पूर्वं वाच्य इत्यभिप्राय इत्येके । बोधसौकर्यायेत्यपरे । पश्चात्तनस्य तत्प्रतियोगिता-कात्यन्ताभावसमानाधिकरणसाध्यसामानाधिकरण्यपर्यन्तं वक्तव्यत्वादिति ।

यत्सामानाधिकरण्येति । यत्सम्बन्धितावच्छेदकरूपवत्त्वं यस्येत्येव मणिपाठस्तथापि यथाश्रुतघटकारणतालक्षणतत्सम्बन्धितावच्छेद-कदण्डत्वावच्छिन्ने दण्डे घटव्याप्यतापत्तिदोषात् तद्व्याख्यात्रुक्तदिशा यत्सामानाधिकरण्येत्युक्तम् । धूमे वह्निसामानाधिकरण्यावच्छेदकं रूपं धूमत्वं तद्वत्त्वं धूमस्य व्याप्तिरित्यर्थः । यत्सामानाधिकरण्यं यस्य तस्य सा व्याप्तिरित्युक्तौ व्यभिचारिणोऽपि व्याप्यतापत्तेरवच्छेदकेत्युक्तम् । चर्चितमेतल्लक्षणमीश्वरस्यानुमानिकत्वभङ्गे कार्यहेतोः प्रतिपक्षोक्तिप्रस्तावे ॥

तर्कताण्डवम्

उक्तासु वक्ष्यमाणासु च सकललोकसिद्धासु व्यधिकरण-साध्यसाधनव्याप्तिषु आत्माश्रयान्योन्याश्रयचक्रकाश्रयानवस्था-व्याघाताद्यापादकतर्काङ्गभूतासु सामानाधिकरण्यरहितापाद्यापादक-व्याप्तिषु व्यतिरेकव्याप्तिषु चाव्याप्तेः । त्वयाऽपि व्याप्तित्वेनास्वीकृते नीलधूमस्य वह्निसामानाधिकरण्ये अतिव्याप्तेश्च । न हि नीलधूमवति वह्न्यत्यन्ताभावः ॥

किं च महानसीयवह्नेः पर्वतीयधूमसमानाधिकरणात्यन्ताभाव-प्रतियोगितावच्छेदकेन महानसीयवह्नित्वेनावच्छिन्नत्वादसम्भवः । प्रतियोगितानवच्छेदकावच्छिन्नेति नञ्व्यत्यासे च धूमरूपसाध्यस्यापि वह्निसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकेन प्रमेयत्वेना-वच्छिन्नत्वात् तत्समानाधिकरणवह्निरपि धूमव्याप्यः स्यात् ॥

किञ्च यस्य यदत्यन्ताभावासमानाधिकरणत्वे सति येन सामानाधिकरण्यं तेन तस्य सा व्याप्तिरित्येवास्तु । लाघवात् । न च केवलान्वयिनि साध्यात्यन्ताभावस्याप्रसिद्ध्याऽव्याप्तिः । अत्यन्ता- भावस्याभावादेव तत्सामानाधिकरण्याभावस्य शुक्तिरूप्यतादात्म्या-भावस्येव सुतरां सिद्धेः । उक्तं चैतद्योग्यताप्रस्तावे ॥

न्यायदीपा

अव्याप्त्यतिव्याप्त्यसम्भवैः सर्वलक्षणानि निराह– उक्तास्विति । ऊर्ध्वदेशवृष्ट्यधोदेशनदीपूरादिनिष्ठव्याप्तिषु । वक्ष्यमाणास्विति । व्यधिकरणा- सिद्धेरदोषत्वोक्तिप्रस्तावे वक्ष्यमाणास्वित्यर्थः । अतिव्याप्तेश्चेति । नीलधूमादिनिष्ठवह्निसामानाधिकरण्ये त्वदभिमताव्यभिचरितसम्बन्धत्वा-नौपाधिकसम्बन्धत्वस्वाभाविकसम्बन्धत्वानां सत्त्वादिति भावः । तदेव व्यनक्ति– न हीति । अत्यन्ताभाव इत्युपलक्षणम् । वह्निमदन्योन्याभावो न हीत्यपि ध्येयम् । नीलधूमनिष्ठवह्निसामानाधिकरण्ये न्यूनवृत्तित्वेन गुरुत्वेन च नीलधूमत्वस्यानवच्छेदकत्वेऽपि धूमत्वस्यावच्छेदकत्वेन वह्नि-सामानाधि-करण्यावच्छेदकरूपवत्त्वस्यापि तत्र सत्त्वात् । ननु धूमत्वावच्छिन्न-वह्निसामानाधिकरण्यं नीलधूमनिष्ठमपि व्याप्तित्वेनोपेयते । नीलधूमत्वावच्छिन्ने सामानाधिकरण्यमेव व्याप्तित्वेन नोपेयते । अवच्छेदकान्तरोपपन्न-व्याप्यताश्रयवृत्तित्वेन नीलधूमत्वस्यानवच्छेदकत्वादिति चेत् । अस्त्वेवं तथापि लक्षणान्तरे अतिव्याप्तेरनिवारणात् ॥

ननु यथाश्रुते प्रतियोग्यसमानाधिकरणेत्यादिलक्षणेऽपि नीलधूम-समानाधिकरणात्यन्ताभाव१प्रतियोगितायां तुषजन्यादिवह्निविशेषत्वेना-वच्छिन्नत्वान्नातिव्याप्तिरिति मन्वानं प्रत्याह– किञ्चेति । अवच्छिन्न-त्वादिति । तथा च तादृशाभावप्रतियोगितावच्छेदकानवच्छिन्नेन सामानाधि-करण्यं नास्ति । किंतु अवच्छिन्नेनैव तदस्तीति भावः । ननु महानसीयवह्ने-स्तादृशधर्मावच्छिन्नत्वेऽपि पर्वतीयवह्नेर्महानसीयवह्नित्वेनानवच्छिन्नत्वात् तत्सामानाधिकरण्यमादाय पर्वतीयधूमस्य व्याप्यता स्यादेवेति चेन्न । पर्वतीयधूमा२समानाधिकरणात्यन्ताभावप्रतियोगितावच्छेदकावच्छिन्नवह्नि-सामानाधिकरण्यमेव महानसीयधूमस्य, तथा महानसीयधूमसमानाधिकरणा-भावप्रतियोगितावच्छेदकं पर्वतीयवह्नित्वमिति तदवच्छिन्नवह्निसामानाधि-करण्यमेव पर्वतीयधूमस्येत्येवं सर्वधूमेष्विति, न क्वाप्युक्तरूपाभाव-प्रतियोगितावच्छेदकानवच्छिन्नसामानाधिकरण्यं धूमस्य लभ्यत इत्यसम्भव इति तात्पर्यात् । नञ्व्यत्यासेन प्रतियोगितानवच्छेदकावच्छिन्नत्वमर्थ इति पक्षधरोक्तमनूद्य निराह– प्रतियोगितेति । धूमरूपसाध्यस्येति । धूमाख्यसाध्यस्येत्यर्थः । अयं धूमवान् वह्निमत्त्वादिति व्यभिचारिप्रयोगे हेतुभूतवह्निसमानाधिकरणात्यन्ताभावप्रतियोगितायां न प्रमेयत्वमवच्छेदकं वह्निमति प्रमेयं नास्तीत्यप्रतीतेः । तथा च तदवच्छिन्नधूमरूपसाध्य-सामानाधिकरण्यं वह्नेरप्यस्तीति सोऽपि व्याप्यः स्यादित्यर्थः ॥

ननु प्रमेयत्वेन रूपेण धूमादिसाध्यव्याप्यता वह्नेरस्त्येव । अयं प्रमेयवान् वह्निमत्त्वादित्येवं रूपत्वात्तस्य । प्रमेयत्वपदेन प्रमेयधूमत्व-विवक्षायामवच्छेदकत्वस्येहानतिप्रसक्तवृत्तित्वरूपत्वेन प्रमेयधूमत्वस्यापि उक्तरूपाभावप्रतियोगितावच्छेदकत्वात् । महानसीयादिवह्निविशेषमादाय प्रमेयधूमत्वस्योक्तरूपाभावप्रतियोगितानवच्छेदकत्वेऽपि यदित्यत्र यद-वच्छिन्नेति विवक्षायामयोगोलकीयवह्निमादाय वह्नित्वावच्छिन्नसमानाधिकरणा-त्यन्ताभावप्रतियोगितावच्छेदकत्वं प्रमेयधूमत्वेऽप्यस्तीत्युक्तप्रतियोगिता-नवच्छेदकावच्छिन्नसामानाधिकरण्यं व्यभिचारिणि वह्नौ नास्तीति वक्तारं प्रत्याह– किं च यस्येति । यस्य धूमादेः । यदत्यन्तेति । वह्न्या-द्यत्यन्ताभावेत्यर्थः । येन वह्न्यादिना । सामानाधिकरण्यं यस्येत्यनुकर्षः । तस्य धूमादेः । तेन वह्न्यादिना । व्याप्तिरित्यर्थः । लाघवादिति । अनव-च्छेदकावच्छिन्नेत्यादिविशेषणादानाद् अव्यभिचरितसामानाधिकरण्यरूप-त्वादस्येति भावः । न च प्रतियोग्यसमानाधिकरणेत्यनुक्तौ संयोग-साध्यकहेतुनिष्ठव्याप्तावव्याप्तिः । संयोगस्य व्याप्यवृत्तित्वेन तदभावस्या-प्यैकाधिकरण्याभावादिति भावः ॥

सदुपरागेणासदेव तादात्म्यं भातीति मतावष्टम्भेनाह– शुक्तिरूप्य-तादात्म्येति । एतदिति । अप्रामाणिकस्याप्यभावप्रतियोगित्वम् ।

तर्कताण्डवं

किञ्चात्राधिकरणं देश एव वा काल एव वा उभयं वा उभयानुगत- मधिकरणसामान्यं वा । नाद्यः । कालिक्यां गोत्वाश्वत्वव्याप्ताव-व्याप्तेः । अस्ति हि तयोरपि यदा गोत्वं तदाऽश्वत्वमिति व्याप्तिः । न द्वितीयः । दैशिक्यां पाकपाकजरूपादिव्याप्तावव्याप्तेः । अस्ति हि तयोरपि यत्र पाकजं रूपं तत्र पाक इति व्याप्तिः । न तृतीयः । अस्य रूपरसादिव्याप्तितोऽन्यत्र सर्वत्राव्याप्तेः । न चतुर्थः । गोत्वरूपहेतुं प्रति देशरूपाधिकरणे गव्यश्वत्वाभावेन तद्व्याप्ताव-व्याप्तेः । दैशिक्यां व्याप्तौ देशोऽधिकरणं कालिक्यां काल इति चेन् न । अननुगमात् । व्याप्तेरिदानीमेव निरुच्यमानत्वेनात्माश्रयाच्च । कृत्तिकोदयरोहिण्युदयासत्त्योरपि कालतः सामानाधिकरण्यसत्त्वेन तत्र वैयधिकरण्योक्त्ययोगाच्च । मदुक्तरीत्याऽनुगमसम्भवाच्च ॥

किञ्च त्वन्मतेऽपि नित्यद्रव्याणां निरधिकरणत्वात्तेषां यदाऽऽ-काशस् तदा नित्यद्रव्यमिति व्याप्तिर्न स्यात् ॥

ननु काल आकाशादेरधिकरणम् । आकाशः सदाऽस्तीत्यबाधित-प्रतीतेरिति चेत् । तर्हि गगनात्यन्ताभावः केवलान्वयी न स्यात् । किं च सर्वत्राकाश इत्यपि प्रतीतेर्देशोऽप्याकाशाधिकरणं स्यात् ॥

ननु स्वरूपसम्बन्धेनाकाशः सदा सर्वत्रास्ति समवायवृत्त्या तु नास्तीति तया वृत्त्या गगनात्यन्ताभावः केवलान्वयीति चेत् । तर्हि रूपादिकं प्रमेयत्वादिकं च संयोगवृत्या कुत्रापि नेति, तया वृत्या रूपादेः प्रमेयत्वादेश्चात्यन्ताभावोऽपि केवलान्वयी स्यात् । गगना-त्यन्ताभावोऽपि स्वरूपसम्बन्धेनैव सर्वत्रास्ति न तु संयोगादिवृत्त्येति गगनात्यन्ताभावात्यन्ताभावरूपं गगनमपि केवलान्वयि स्यात् ॥

अपि च प्रतियोग्यसमानाधिकरणेति विशेषणं व्यर्थम् । संयोग-तदत्यन्ताभावयोर्भिन्नावयववृत्तित्वस्यान्यत्रोक्तत्वात् ॥

किञ्च प्रतियोगित्वस्य त्वन्मते स्वरूपसम्बन्धरूपत्वात्तस्य च व्याप्तिरूपनियमगर्भितविशिष्टप्रतीतिजनकत्वगर्भितत्वादात्माश्रयः ॥

अपि चैवं समानाधिकरणसाध्यसाधनव्यक्तिविशेषयोरेव व्याप्ति-रिति मते पृथवीत्वस्य गन्धं प्रति व्याप्यत्वं न स्यात् । सर्वस्यापि गन्धस्य प्रत्येकं पृथिवीत्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वात् । न हि पृथिवीत्वमिवैकैव गन्धव्यक्तिः सर्वपृथिवीनिष्ठा ॥

अपि च गोत्वस्य गोव्यक्तिं प्रति कालिकी व्याप्तिः स्यात् । गोत्ववति प्रलयकाले गोव्यक्तिध्वंसस्य सत्त्वेऽपि गोव्यक्त्यत्यन्ता-भावाभावात् । एवं पृथिवीत्वस्य गन्धेन सह कालिकी व्याप्तिः स्यात् । गन्धोत्पत्तेः प्राग्गन्धाभावस्य सत्त्वेऽपि गन्धात्यन्ताभावाभावात् ।

न चात्यन्ताभावपदेन विरोध्यभावमात्रं विवक्षितम्, ध्वंस-प्रागभावौ च कालतः प्रतियोगिविरुद्धाविति वाच्यम् । तथात्वे प्रतियोग्यसमानाधिकरणपदवैयर्थ्यात् । न च गोव्यक्तेः क्वचिदत्यन्ता-भावस्तावदस्ति । स च सर्वाधारे कालेऽप्यस्तीति वाच्यम् । तथात्वे हि गोत्वस्याश्वत्वं प्रत्यपि कालिकी व्याप्तिर्न स्यात् । क्वचिद्देशे सतोऽश्वत्वाभावस्यापि काले सत्त्वात् ॥

न्यायदीपा

रूपरसादिव्याप्तितोऽन्यत्रेति । कृत्तिकोदयरोहिण्युदयनदीपूरवृष्ट्यादि-गोत्वाश्वत्व(पाक)पाकजरूपादिस्थले च सर्वत्रेत्यर्थः । गोत्वरूपेति । अयमश्वत्ववान् गोत्ववत्त्वाद् इत्यादिहेतावित्यर्थः । गत्यन्तराभावादेव-माश्रयते इत्यत आह– मदुक्तेति । यद्देशकालसम्बन्धस्य यस्येत्यादिना पूर्ववादे मदुक्तरीत्येत्यर्थः ॥

सामानाधिकरण्यघटितव्याप्तिलक्षणेषु स्थलान्तरेऽव्याप्तिमाह– किञ्चेति ॥ केवलान्वय्यभावप्रतियोगित्वं सदा सर्वत्र सत्त्वं च सम्बन्धभेदेन युक्तमित्या-शङ्क्य प्रतिबन्द्या निराह– नन्वित्यादिना । अन्यत्रेति । चन्द्रिकायां तत्त्वविवेकादिप्रकरणे वैशेषिकाधिकरणसुधायां चेत्यर्थः । व्याप्तिरूपनियम-गर्भितेति जनकत्वविशेषणम् । नियतपूर्ववृत्तित्वरूपत्वाज् जनकत्वस्येति भावः ॥

प्रथमलक्षणं निरस्य द्वितीयलक्षणं च निराह– अपि चैवमिति । ननु तादृशात्यन्ताभावप्रतियोगितावच्छेदकं यन्न भवति तदवच्छिन्नसामानाधि-करण्यं लक्षणार्थः । भवति च गन्धत्वमनवच्छेदकं पृथिवी गन्धवती नेत्य-प्रतीतेरिति चेत्तर्हि पूर्वलक्षणाभेद एव । कथञ्चिद्भेदाभिमाने तु तुष्यतु दुर्जन इति न्यायेन दोषान्तरमाह– अपि च गोत्वस्येति ॥

पक्षधराद्युक्तमनूद्य निराह– न चात्यन्ताभावेति । कालत इति । एककाले । वैयर्थ्यादिति । संयोगात्यन्ताभावस्य संयोगाविरुद्धत्वेन यत्समानाधिकरणप्रतियोगिविरोध्यभावप्रतियोगितानवच्छेदकेत्याद्युक्तौ संयोग-साध्यकद्रव्यत्वादिनिष्ठव्याप्तावव्याप्त्यनापत्तेरिति भावः । यदुक्तं गोत्वस्य गोव्यक्तिं प्रतीत्यादि तन्न । तस्य गोव्यक्त्यन्तराभावसमानाधिकरण-त्वादित्याशङ्क्य निराह– न च गोव्यक्तेरिति । कालिकीति । यदा गोत्वं तदाऽश्वत्वमिति कालिकीत्यर्थः । तद्व्यनक्ति– क्वचिदिति । यत्तु तदाश्व-त्वात्यन्ताभावस्य काले सत्त्वेऽपि तस्य प्रतियोगिसमानाधिकरणत्वात् प्रतियोगिव्यधिकरणपदेन तन्निरास इति । तन्न । येन हि सम्बन्धेनेत्यादि-वक्ष्यमाणदिशा तस्यापि प्रतियोगिव्यधिकरणत्वा१द्व्यक्त्यन्ताभावस्यापि व्यक्तिदशायां प्रतियोगिसमानाधिकरणत्वेनोक्तदोषापरिहाराच्च ॥

तर्कताण्डवं

किञ्च धूमोऽपि वह्निव्याप्यो न स्यात् । वह्नेः समवायवृत्त्या धूमसमानाधिकरणात्यन्ताभावप्रतियोगित्वात् ॥

न च साध्यस्य व्याप्तिशरीरान्तर्गतया वृत्त्या साधनसमानाधि-करणात्यन्ताभावाप्रतियोगित्वं विवक्षितम्, धूमाग्न्योश्च संयोगवृत्त्यैव व्याप्तिरिति वाच्यम् । व्याप्तेरिदानीमेव निरुच्यमानत्वेनात्माश्रयात् ॥

न च समवायवृत्त्या वह्न्यत्यन्ताभावस्य संयोगवृत्त्या वह्नि-समानाधिकरणतया प्रतियोगिव्यधिकरणपदेनैव तन्निरास इति वाच्यम् । येन हि सम्बन्धेन यत्र हि प्रतियोगिनो २भावस् तेनैव सम्बन्धेन तत्र प्रतियोगिनोऽवृत्तिरेव हि प्रतियोगिवैय्यधिकरण्यम् । अन्यथा काले सर्वाभावानां प्रतियोगिसमानाधिकरणतया प्रतियोगि-व्यधिकरणासिद्धेः ॥

किंच प्रतियोगिव्यधिकरणपदेन यत्किञ्चित्प्रतियोगिव्यधिकरणत्वं विवक्षितं यावत्प्रतियोगिव्यधिकरणत्वम् । नाद्यः । अयं संयोग-विशेषाभाववान् द्रव्यत्वादिति सदनुमानेऽव्याप्तेः । साध्याभावरूपस्य संयोगस्य स्वप्रतियोगिभूतसंयोगसामान्याभावव्यधिकरणत्वात् । नान्त्यः । अयं संयोगसामान्याभाववान् द्रव्यत्वादित्यसदनुमानेऽति-व्याप्तेः । साध्याभावरूपस्य संयोगस्य संयोगविशेषाभावरूपप्रतियोगि-सामानाधिकरण्येन यावत्प्रतियोगिव्यधिकरणत्वाभावात् ॥

न्यायदीपा

पक्षधराद्युक्तमाशङ्कते– न च साध्यस्येति । ननु मास्तु व्याप्ति-शरीरेत्यादिविवक्षा । अथापि समवायवृत्त्या वह्न्यभावसामानाधिकरण्येन धूमस्याव्याप्यतापत्तिर्नेत्याशङ्क्य निराह– न च समवायेति । प्रतियोगिनोवृत्तिरित्यत्र प्रतियोगिनो अवृत्तिरिति पदविभागः । समवाय-सम्बन्धेन च वह्नेरवर्तनात् प्रागुक्तदोषः सुस्थ एवेति भावः ।

तर्कताण्डवं

यच्चोक्तमन्योन्याभावगर्भलक्षणेषु प्रतियोग्यसमानाधिकरणेति विशेषणत्यागाल्लाघवमिति । तन्न । संयोगात्यन्ताभावस्याव्याप्य-वृत्तित्वेन संयुक्तान्योन्याभावस्यापि तत्त्वावश्यम्भावात् । मूले कपिसंयोगो नेतिवन् मूले वृक्षः कपिसंयुक्तो नेत्यबाधितप्रतीतेः । न चेयं धीः संयोगाभावविषया । घटः पटो नेतिवत्तादात्म्य-निषेधरूपत्वात् । अन्यथाऽन्योन्याभावोच्छेदः स्यात् । विरोधस्य च संयोगतदत्यन्ताभावयोरिवावच्छेदकभेदेन परिहारात् ॥

ननु यः संयोगाभाववान्वृक्षः स एव संयुक्त इति प्रत्यभिज्ञाविरोध इति चेन्न । प्रत्यभिज्ञा हि किमभेदं विधत्ते किं वा भेदं निषेधति । नाद्यः । एतद्वृक्षत्वेन तयोरभेदस्यापि सत्त्वात् । नान्त्यः । मूले संयुक्तो नेति भेदधीविरोधेन तन्निषेधायोगात् । मूले संयुक्तान्योन्या-भावो न चेन्मूले संयुक्तान्योन्याभावात्यन्ताभावरूपो यः संयोग-स्तद्धीश्च स्यात् । त्वन्मतेऽन्योन्याभावात्यन्ताभावस्यान्योन्याभाव-प्रतियोगितावच्छेदकधर्मरूपत्वात् । प्रकृते च संयोगस्य तदवच्छेद-कत्वात् ॥

न्यायदीपा

एवमत्यन्ताभावगर्भलक्षणं निरस्यान्योन्याभावगर्भं च निराह– यच्चोक्त-मिति । अत्यन्ताभावप्रतीतिं दृष्टान्तयति– नेतिवदति । नास्तीतिव-दित्यर्थः । अन्योन्याभावोच्छेद इति । घटः पटो नेत्यादिषु सर्वत्र घटे पटत्वात्यन्ताभावविषयकत्वेनोपपत्तेः सुवचत्वादिति भावः । नन्वेकस्मिन्नेव वृक्षे संयुक्ताभेदः संयुक्तभेदश्च कथं, विरोधादित्यत आह– विरोधस्य चेति ॥ यथाऽग्रावच्छेदेन वृक्षे कपिसंयोगो मूलावच्छेदेन तदत्यन्ताभावः, एवमग्रावच्छेदेन संयुक्तवृक्षाभेदो मूलावच्छेदेन भेद इत्युपपत्तेरित्यर्थः ॥

अन्योन्याभावस्याव्याप्यवृत्तित्वे बाधकमाशङ्कते– नन्विति ॥ तयोरिति ॥ संयोगाभाववत संयुक्तस्य चेत्यर्थः । अन्योन्याभावस्याप्य-व्याप्यवृत्तित्वाभावे बाधकमाह– किञ्च मूल इति ॥

तर्कताण्डवं

किं चानुमितिहेतुः किमत्यन्ताभावादिगर्भाणामुक्तसर्वव्याप्तीनां ज्ञानं किं वा लघ्व्या अन्योन्याभावगर्भाया एव ज्ञानं यद्वा कदाचि-त्कस्यचिज्ज्ञानम् । नाद्यः । एकैकज्ञानेऽप्यनुमितिदर्शनात् । न द्वितीयः । अत्यन्ताभावगर्भव्याप्तिज्ञानेऽप्यनुमितिदर्शनात् । अन्योन्याभावपक्षे लाघवस्य निरासाच्च । न तृतीयः । अननुगमात् ।

अनुपपद्यमानज्ञानत्वेन क्रोडीकारे चावश्यकत्वाल्लाघवाच्चानु-पपत्तिरेव व्याप्तिरस्त्विति दिक् ॥

तस्मात्परोक्तव्याप्तिलक्षणानाम् अधोदेशनदीपूरोर्ध्वदेशवृष्ट्यादि-व्याप्तिष्वात्माश्रयादितर्काङ्गव्याप्तिषु व्यतिरेकव्याप्तिषु चाव्याप्तिः, पररीत्या नीलधूमस्य वह्निसामानाधिकरण्येऽतिव्याप्तिः, महानसीयवह्नेः पर्वतीयधूमव्याप्त्यादावभावेनासम्भवः, गौरवम्, अननुगमः, आत्मा-श्रयादिकम्, यदा आकाशस् तदा दिगित्यादिव्याप्तावव्याप्तिः, विशेषण वैय्यर्थ्यम्, आत्माश्रयः, पृथिवीत्वस्य गन्धेन सह व्याप्तावव्याप्तिः, गोत्वस्य गोव्यक्त्या पृथिवीत्वस्य गन्धेन सम्बन्धेऽतिव्याप्तिः, आत्माश्रयः, अन्योन्याभावगर्भलक्षणे परोक्तलाघवायोगः, अननुगम इति चतुर्दश दोषाः ॥

न्यायदीपा

अनुमितिज्ञानपर्यालोचनयाऽप्यस्मदुक्तव्याप्तिज्ञानमेव कारणं न त्वदुक्त-मतोऽपि न त्वदुक्तव्याप्तिलक्षणं युक्तमित्याह– किञ्चानुमितीति ॥ ननु– अत्यन्ताभावगर्भव्याप्तिज्ञानेनानुमितिदृष्टावपि लाघवादन्योन्याभावगर्भ-व्याप्तिज्ञानमेव हेतुः । भूयोदर्शनवादे मणिकृता तथैवोक्तेरित्यत आह– अन्योन्याभावेति । अन्योन्याभावस्याव्याप्यवृत्तित्वोक्त्या प्रतियोग्यसमानाधि-करणेति तत्राप्यवश्यं वाच्यत्वादिति भावः ॥

इति दिगिति । अयं भावः । अनौपाधिकसम्बन्धत्वस्य द्वेधा विवरणं यत्कृतं तत्र साध्यव्यापकव्याप्यत्वपर्यवसितानौपाधिकत्वज्ञानमनुमितिहेतुरुत साधनाव्यापकाव्याप्यसाध्यकत्वपर्यवसितमनौपाधिकत्वज्ञानमथोभयं, कदाचित् किञ्चिज्ज्ञानमिति वा । नाद्यत्रयं युक्तम् । यत्किञ्चिज्ज्ञाना-दप्यनुमितिदर्शनात् । न चतुर्थः । अननुगमात् । किञ्च सर्वत्रापि सामानाधिकरण्यं नाम समानेनाधिकरणेन सम्बन्धः । सम्बन्धत्वं च विशिष्टधीनियामकत्वम् । नियामकत्वं च विशिष्टधीजनकत्वे सत्यविशिष्ट-ज्ञानाजनकत्वम् । जनकत्वं चानन्यथासिद्धनियतपूर्ववृत्तित्वमित्यात्मा-श्रयापत्तिः । न च नियामकत्वं संसर्गविधयैव भासते न तु प्रकारत्वेनातो नात्माश्रय इति युक्तम् । सम्बन्धज्ञानं सम्बन्धविशेष्यकं सम्बन्धविशेषणकं वा व्याप्तिज्ञानहेतुरिति वाच्यम् । अन्यथा सामानाधिकरण्यसन्देह-प्रतिबन्धकत्वानुपपत्तेः । तथा च सम्बन्धत्वं प्रकार एवेत्यवश्यं वाच्यत्वे-नात्माश्रयापरिहारात् । यत्तु विशिष्टधीनियामकत्वरूपसम्बन्धत्वस्य प्रकारत्वेन भानावश्यंभावस्तदापि संयोगत्वादिना रूपेणैव भानमिति । तन्न । तथात्वेऽननुगमापत्तेः । समवायत्वेन भानस्थले समवायत्वस्यापि नित्य-सम्बन्धत्वरूपत्वेनात्माश्रयानिरासाच्च । किञ्चावच्छेदकत्वमप्यवच्छित्ति-प्रत्ययजनकत्वं चेदात्माश्रयाद्यापत्तिः । अन्यूनानतिरिक्तवृत्तित्वं चेद् धूमत्वस्यापि वह्निसामानाधिकरण्यन्यूनवृत्तित्वादन्त्यलक्षणमलक्षणं स्यात् । इत्यादिरूपेण तदभिमतलक्षणानि सर्वाण्यपि दूष्याणीति ॥

तस्मादिति । दोषाणां सम्यगुपपादितत्वादिति वा अपरिहार्यत्वादिति वाऽर्थः । परोक्तवक्रव्याप्तिलक्षणानां चतुर्दशदोषा इत्यनेनान्वयः । उक्तान्दोषान् सङ्ग्रहेणानुवदति– अधोदेशेति । पररीत्येति । सिद्धान्ते तत्रापि व्याप्यत्वाङ्गीकारादिति भावः । इत्येवास्तु लाघवादित्युक्तदोषं तात्पर्यतोऽनुवदति– गौरवमिति ।

॥ इति परोक्तवक्रव्याप्तिलक्षणभङ्गः ॥ २ ॥