०१ स्वमते व्याप्तिनिरूपणम्

अथ ‘‘तन्मुख्यं ज्ञानशब्दयोः’’ इत्यनुप्रमाणेषु ..

॥ श्रीः ॥

श्री व्यासतीर्थयतिविरचितं

**तृतीयपरिच्छेदः **

व्याप्तिवादः

अथ स्वमते व्याप्तिनिरूपणम्

॥ श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मकलक्ष्मीहयग्रीवाय नमः ॥

व्याप्तिवादः ॥ १ ॥

तर्कताण्डवम्

अथ स्वमते व्याप्तिनिरूपणम् ॥ १ ॥

अथ ‘‘तन्मुख्यं ज्ञानशब्दयोः’’ इत्यनुप्रमाणेषु वेदरूपशब्दः प्रधानमित्युक्तत्वात्तदनुग्राहकमनुमानमुच्यते ॥

निर्दोषोपपत्तिरनुमानम्१ । उपपत्तिर्व्याप्यम् । निर्दोषत्वेन विशेषणान्नासिद्धादावतिव्याप्तिः । उक्तं हि पद्धतौ ‘उपपत्तिर्युक्तिर्लिङ्गं व्याप्यमिति पर्याय’’ इति । अत्रोपपत्तिर्व्याप्यमित्येतावतैव पूर्तावपि युक्तिलिङ्गग्रहणं भगवत्पादैः, ‘‘अनुमा युक्तिरेवोक्ता’’ इति ‘‘लिङ्गं हेतुः’’ इति चोक्तत्वेन तद्विरोध इति शङ्कानिरासाय । प्रमाणलक्षण-टीकायान्तु– ‘‘साहचर्येणार्थगमकं लिङ्गम्’’ इति साहचर्यनियमरूप-व्याप्तौ नियमांशत्यागेन साहचर्यमात्रमुक्तम् । तदावश्यकनिर्दोष-ग्रहणादेव साधारणादौ नातिव्याप्तिरित्यभिप्रेत्य ॥

न्यायदीपाख्या व्याख्या

सत्तर्कसहिता वेदाः प्राहुर्यं पूर्णसद्गुणम् ।

धर्माराध्यं देवतेड्यं वन्दे तं कमलापतिम् ॥

पूर्वेण सङ्गतिं दर्शयन्नुत्तरार्थमाह– अथेति । सपरिकरं शब्द- प्रमाणस्वरूपनिरूपणानन्तरमनुमानप्रमाणं सपरिकरम् अस्मिन्परिच्छेदे कथ्यते । किं कारणम् । तदनुग्राहकं हेतुगर्भमिदम् । शब्दप्रमाणानु-ग्राहकत्वादुच्यत इत्यर्थः । तदनन्तरं कुतः । वेदरूपः शब्दः प्रधान-मित्युक्तत्वात् । प्रधानोक्त्यनन्तरमेवानुग्राहकोक्तेरवसरादित्यर्थः । यद्वा प्रमाणान्तरानुग्राहकमनुक्त्वा वेदानुग्राहकोक्तिः कुत इत्यतो वेदरूपः शब्दः प्रधानमित्युक्तत्वादिति । ‘‘याथार्थ्यमेव मानत्वं तन्मुख्यं ज्ञानशब्दयोः’’ इति युक्तिपादीयानुव्याख्याने ‘‘याथार्थ्यमेव प्रामाण्यं तन्मुख्यं ज्ञानशब्दयोः’’ इति ब्रह्मतर्के च । तद्याथार्थ्यं ज्ञाने केवलप्रमाणे वेदरूपप्रमाणे च मुख्य-मित्यस्य तात्पर्यं प्रधानमित्युक्तत्वादिति । वेदानुग्राहकत्वं च वेदे आरोपितानि यानि अप्रामाण्यकारणानि अनृतव्याघातपुनरुक्त्यशक्यार्थाभि-धायित्वगुरूपायबोधकत्वार्थबोधोपायशून्यत्वादीनि तत्सर्वनिरासेन प्रामाण्य-स्थिरीकरणं, तथा वेदबोध्येऽर्थे आरोपितान्यथाकारशङ्कानिरासेन तद्बोध्य-धर्मदेवब्रह्मस्वरूपस्थिरीकरणम् ॥

अनुमानसामान्यलक्षणं प्रमाणलक्षणे भगवत्पादोक्तमेवाह– निर्दोषेति ॥ अनुमेत्यनुमानमुच्यते । निष्क्रान्ता दोषेभ्यः निर्दोषा सा च सा उपपत्तिश्च निर्दोषोपपत्तिः । उपपत्तिदोषाश्च स्वमते अनुमानदोषोक्तिवादे व्यक्ताः । अत्रोपपत्तिपदम् अर्थवादोपपत्ती चेत्यादाविव हेत्वाभासविविक्तयुक्तिपरं चेन् निर्दोषेति व्यर्थमित्यत आह– उपपत्तिर्व्याप्यमिति ॥

ननु लक्षणटीकायामुपपत्तिर्लिङ्गमित्युक्तम् । अत्र तूच्यते व्याप्यमिति । तत्कथमित्यतः पर्यायत्वान्न दोष इति भावेनाह– उक्तं हीति । चतुर्णां शब्दानामुक्तेः कृत्यमाह– अत्रेति । पूर्ताविति । तावतैव निर्दोषपदसार्थक्यस्य लक्षणोक्तेर्वा सम्भवादिति भावः । ‘अनुमा युक्तिरेव’ इति युक्तिपादीयानु-व्याख्याने, ‘लिङ्गं हेतुः’ इति मिथ्यात्वानुमानखण्डने चोक्तत्वादित्यर्थः ॥

ननु व्याप्यं नाम व्याप्तेः कर्म । व्याप्तिश्च साहचर्यनियम इति वाच्यम् । तथा च लक्षणटीकाविरोध एव । तत्रोपपत्तिर्लिङ्गमित्युक्त्वा साहचर्येणार्थगमकं लिङ्गमित्येवोक्तेरित्यतो नियमांशोऽभिप्रेत एव तत्फलस्य विशेषणान्तर-लभ्यत्वात्तदनुक्तिरिति भावेन विरोधं निराह– प्रमाणलक्षणटीकायां त्विति । साधारणेति । साधारणानैकान्तिकहेत्वाभासादावित्यर्थः ॥

तर्कताण्डवम्

अविनाभावो व्याप्तिः ॥

नन्वविनाभावः, साध्येन विना साधनस्याभावो वा, साध्येना-विना साध्यसाहित्येन साधनस्य भावो वा । नाद्यः । केवलान्वयिनि साध्याभावाप्रसिद्ध्याऽव्याप्तेः । अस्य व्यतिरेकव्याप्तित्वेन त्वन्मतेऽनु- मानानङ्गत्वाच्च । न द्वितीयः । साध्यसाहित्यस्य व्यभिचारिण्यपि सत्त्वात् । साध्यसाहित्यनियमोऽभिप्रेतश्चेन् नियमस्य निरुच्यमान-व्याप्तिरूपत्वेनात्माश्रयात् । अधोदेशनदीपूरोर्ध्वदेशवृष्ट्योर्देशतः कालतो वा साहित्यासंभवाच्च । एतेन साहचर्यनियमो वाऽनौपाधिकसम्बन्धो वा स्वाभाविकसम्बन्धो वा साध्याभाववदवृत्तित्वं वा व्याप्तिरिति निरस्तम् । व्यधिकरणयोः पूरवृष्ट्योर्देशतः कालतो वा साहचर्यस्य सम्बन्धस्य चाभावात् । नदीपूरस्य वृष्टिरूपसाध्याभाववदधो-देशवृत्तित्वाच्चेति ॥

उच्यते । यद्देशकालसम्बद्धस्य यस्या, यद्देशकालसम्बद्धेन येन विनाऽनुपपत्तिस्तस्य, तेन, सा व्याप्तिः । अनुपपत्तेर्व्याप्तित्वं च– प्रमाणलक्षणे परिशेषोऽर्थापत्तिरनुमानमित्यविशेष इत्यर्थापत्तिरिवानु-मानमप्यावश्यकानुपपत्त्यैव गमकमित्युक्तत्वात्, उपमानेपि न हि स्वसदृशेनासदृशं क्वच्चिद्दृष्टमित्यनेन गवयनिष्ठगोसादृश्यस्य गोनिष्ठगवय-सादृश्यं विनानुपपत्तेरेवोक्तत्वात्, पद्धतौ च निर्दोषोपपत्तिरनुमेति प्रमाणलक्षणस्थोपपत्तिशब्दो न पर्यायान्तरमात्रं किं तु साध्ये सत्युप-पद्यते अन्यथा तु नेत्युपपत्तिरिति भावेनोपपत्तिर्व्याप्यमिति व्याख्या-तत्वात्, प्रमाणलक्षणटीकायामपि जीवनवत्त्वे सति गृहे असत्त्वरूपे व्याप्ये अनुपपद्यमानार्थप्रमितिरर्थापत्तिरित्यनुपपद्यमानपदयोगात् परिशेषादेरनुमानत्वानङ्गीकारे धूमोऽप्यनुपपत्त्या गमयन्नानुमानं स्यादिति चोक्तत्वात्, सुधायां च ‘अनुमा युक्तिरेवोक्ता’ इत्यनु-व्याख्यानस्थयुक्तिशब्दस्य युज्यते एवेति युक्तिरिति व्याख्यातत्वाच्च, भाष्यकाराद्यभिप्रेतमेव ॥

न्यायदीपा

ननु व्याप्तेः कर्म व्याप्यमिति व्याप्यस्वरूपं व्याप्तिज्ञानाधीनज्ञानमिति का व्याप्तिरिति जिज्ञासायां पद्धत्युक्तलक्षणमाह– अविनाभाव इति ॥ तत्परिष्कर्तुं व्याप्तिवादपूर्वपक्षे मण्याद्युक्तिदिशाऽऽक्षिपति– नन्विति ॥ नञो व्यत्यासेनान्वयमुपेत्याद्यः कल्पः । यथाश्रुतान्वयमुपेत्य द्वितीयः । फलितार्थमाह– साध्यसाहित्येनेति । केवलान्वयिनीति । शब्दोऽभिधेयः ज्ञेयत्वाद् गुणत्वाद् इत्यादिकेवलान्वयिसाध्यकहेतावित्यर्थः ॥ साध्या-दीति ॥ साध्यसाधनाभावेत्यर्थः ।

सिद्धान्तिनो मते सर्वस्य व्यतिरेकित्वादभावाप्रसिद्धिर्नेत्यरुचेराह– अस्येति । साध्येन विनाऽभाव इत्यस्य साध्याभावे साधनाभाव इत्यर्थकतया अस्य व्यतिरेकव्याप्तित्वात् । सिद्धान्ते च व्यतिरेकवादे वक्ष्यमाण-दिशाऽनुमानानङ्गत्वाच्चेत्यर्थः । त्वन्मते सिद्धान्तिनो मते ॥

‘‘अविनाभावो व्याप्तिः साहचर्यनियम इति यावत्’’ इति पद्धत्युक्तेराह– साध्यसाहित्येति । आत्माश्रयात्– ज्ञप्ताविति भावः ।

अधोदेशनदीपूरोर्ध्वदेशवृष्ट्योरिति । तयोरपि लिङ्गलिङ्गिभावदर्शनाद् भिन्नदेशत्वाद्भिन्नकालत्वाच्चेति भावः । एतेनेति । भिन्नदेशकालव्याप्य-व्यापकभावापन्नपूरवृष्टिस्थलीयव्याप्तावव्याप्तत्वेनेत्यर्थः । साहचर्यनियम इति ॥ पूर्वमविनाभाव इत्यस्याभिप्रेतत्वमुपेत्य साहित्यनियमो दूषितोऽत्र तु पृथग्व्याप्तिलक्षणत्वेन साक्षादुक्तत्वमुपेत्य पुनरुपन्यास इति न पुनरुक्तिदोषः ॥

एतेनेत्युक्तं व्यनक्ति– व्यधिकरणयोरिति ॥ समानदेशकालभिन्न-देशकालसर्वव्याप्यनिष्ठव्याप्तिं निरूपयति– यद्देशेति ॥ येन विनेति ॥ केवलान्वयिन्यव्याप्तिस्तूद्धरिष्यत इति भावः । इयं च सर्वसाधारणीति स्वयमेवोपपादयिष्यति । अनुपपत्तिस्वरूपं चानुपपत्तिश्चासम्भव इत्यादिना स्वयमेव वक्ष्यति । अनुपपत्तेर्व्याप्तित्वं चेति । भाष्यकाराद्यभिप्रेत-मेवेत्यन्वयः । अविशेषशब्दार्थं टीकोक्तरीत्याऽऽह– अर्थापत्तिरिवेत्यादि ॥ उपमानेऽपीति ॥ शबरोपमानस्यानुमानान्तर्भावोक्तिप्रस्तावेऽपीत्यर्थः ॥

पद्धतावुपपत्तिर्युक्तिर्लिङ्गं व्याप्यमिति शब्दाः पर्याया इत्युक्तेर्ग्रन्थान्तरा-विरोध एकोऽभिप्राय उक्तः । अभिप्रायान्तरमपि प्रकृतोपयोगायाह– पद्धतौ चेति । प्रमाणलक्षणाख्यग्रन्थ१गतस्य निर्दोषोपपत्तिरनुमेत्येतदेव पद्धता-वुपन्यस्य व्याप्यमिति व्याख्यानात्प्रमाणलक्षणस्थेत्युक्तम् । एतच्च मूलाकार-सम्मतमेतदिति ज्ञापनार्थम् ।

तर्कताण्डवं

यत्तु विमतो गौर्गवयसदृशः गवयगतसादृश्यप्रतियोगित्वादिति प्रमाणलक्षणटीकायां हेतुसाध्ययोः सामानाधिकरण्यसंपादनं तत्परमत-माश्रित्य । अत एव तत्रैव ‘‘इति प्रयोगसम्भवात्’’ इत्युक्तम् । अत एव पद्धतौ च असौ गौरेतद्गवयसदृशो ऽस्य गवयस्य तद्गोसदृश-त्वादिति वैयधिकरण्येनैव प्रयुक्तम् । अत एव सुधायां–

‘रोहिण्युदय आसन्नः कृत्तिकाभ्युदिता यत’

इत्यनुव्याख्यानोक्ते व्यधिकरणप्रयोगे कालादिपक्षीकारेणैकाधि-करण्यमाशङ्क्यैवं प्रयोगविपरिणामे प्रमाणं नेत्युक्तम् ॥

अनुपपत्तिश्चाघटनं१ प्रमाणविरोध इति यावत् । उक्तं हि प्रमाण-लक्षणटीकायां ‘‘अनुपपत्तिश्चासम्भव’’ इति ॥

या तु– परेण व्याप्त्या गमकमनुमानम्, अनुपपत्त्या गमिकाऽर्था-पत्तिरित्यनुमानार्थापत्त्योर्भेदे शङ्किते तं प्रति टीकाकारीया, केनचिद्विना कस्यचिदनुपपत्तिर्हि तयोर्व्याप्तिं विना नोपपद्यत इत्यनुपपत्ति-व्याप्त्योर्भेदोक्तिः, साऽनुपपत्तिनियामकोर्ध्वाधरीभावकार्यकारणभावा-द्यभिप्राया । नियतसामानाधिकरण्यानौपाधिकसम्बन्धादिरूप-पराभिमतव्याप्त्यभिप्राया वेति न टीकाविरोधः ॥

इयमेव च व्याप्तिः साध्येन विना साधनस्याभावोऽनुपपत्तिरिति भावेनाविनाभाव इति साहचर्यनियम इति चोच्यते । यस्यानुपपत्तिः स व्याप्तः । येन विनानुपपत्तिः स व्यापकः ॥

इयं च व्याप्तिः प्रसिद्धेषु धूमाद्यनुमानेषु अधोदेशे नदीपूराद्यनु-मानेष्वर्थापत्त्यादिरूपानुमानेषु आत्माश्रयान्योन्याश्रयचक्रकानवस्था-व्याघतापादकेषु तर्केषु केवलव्यतिरेकिषु केवलान्वयिषु च सर्वत्रानुगता आवश्यकी च । अन्यथाऽप्रयोजकत्वापातात् । हेतुरस्तु साध्यं मास्त्वित्येवाव्याप्तेः शङ्क्यमानत्वात् । न चात्माश्रयत्वादिकमापाद्यम् आपादकसमानाधिकरणत्वेन क्वचित्प्रमितम् । तथात्वेऽनिष्टत्वायोगात् । उक्तं च टीकाकारैः । न हि कुत्राप्यात्माश्रयादिकं प्रमाणसिद्धमिति ॥

न्यायदीपा

नन्वेवं शाबरोक्तप्रमाणान्तर्भावप्रस्तावे गौर्गवयसदृशी गवयस्य गोसदृश-त्वादिति प्रयोगे वैयधिकरण्यमाशङ्क्य सामानाधिकरण्येन प्रयोगोक्तिः कथम् । तया व्यधिकरणस्य गमकता नेति प्रतीतेरित्यत आह– यत्त्विति ॥ इत्यनुव्याख्यानेति भक्तिपादीयानुव्याख्यानोक्तेः ॥

एवमनुपपत्तेर्व्याप्तित्वे संमतिमुक्त्वा तत्स्वरूपमिदानीमाह– अनुपपत्ति-श्चेति ॥ येन विना यस्य सत्ता प्रमाणविरुद्धा सा तेन तस्य व्याप्तिरित्यर्थः । १उपपत्तेश्च व्याप्त्यपेक्षा सर्वथाऽङ्गीकार्येति प्रमाणलक्षणवाक्यटीकोक्तिविरोधं निराह– या त्विति ॥ पराभिमतेति ॥ न त्वनुपपत्तिरूपव्याप्त्यभि-प्रायेत्यर्थः । नन्वेवं ‘अविनाभावो व्याप्तिः । साहचर्यनियम इति यावत्’ इति पद्धत्युक्तिविरोध इत्यत आह– इयमेवेति ॥

नन्वनुपपत्तिर्व्याप्तिरिति पक्षे कथं व्याप्यव्यापकव्यवस्थेत्यत आह– यस्येति । अनौपाधिकसम्बन्धादिरूपव्याप्तिं हित्वैतदुपादाने को विशेष इत्यत आह– इयं चेति । केवलान्वयिषु चेति पररीत्या । सिद्धान्ते सर्वस्य व्यतिरेकित्वात् । यद्वा देशकालरूपकेवलान्वयिसाध्यकहेत्व-पेक्षयैतदुक्तिः । एकसादृश्यसम्बन्धिधर्मसाध्यकहेत्वभिप्राया वैतदुक्तिः। आवश्यकी चेत्युक्तं व्यनक्ति– अन्यथेति । अप्रयोजकतेति । व्याप्य-त्वेनाभिमतस्येति योज्यम् । इयमेव व्याप्तिर्युक्तेत्येतद्व्यतिरेकमुखेनाप्युप-पादयति– हेतुरिति ॥

नन्वात्माश्रयादौ मण्याद्युक्तसामानाधिकरण्यघटितव्याप्तिरेवास्तु किमनयेत्यत आह– न चेति । उक्तं चेति । प्रमाणलक्षणटीकाया-मात्माश्रयान्योन्याश्रयेत्यादिवाक्यव्याख्यानावसरे ।

तर्कताण्डवं

ननु धूमस्यानुपपत्तिः किं वह्निसामान्यं विना किं वा पर्वतीयवह्निं विना । नाद्यः । तया पर्वतीयवह्न्यसिद्धेः । नान्त्यः । पर्वतीय-वह्न्यसिद्धौ तेन विनानुपपत्तेर्दुर्ज्ञानत्वात् । सिद्धौ च तस्या एवानुमिति रूपफलत्वेन तत्कारणत्वायोगाद् इति । उक्तं हि खण्डने– यतोऽन्यत्वं तत्सिद्धेरग्रे तदसिद्धेरिति इति चेत् । धूमस्य सामानाधिकरण्यमपि किं वह्निसामान्येन किं वा पर्वतीयवह्निनेति विकल्प्य तद्दूषणयोः साम्यात् ॥

ननु धूमसामान्यस्य वह्निसामान्येन सामानाधिकरण्यज्ञानं करणम् । वस्तुगत्या पर्वतीयस्य वह्नेर्वह्नित्वेन ज्ञानं फलम् । वह्नेः पर्वतीयत्वसिद्धिस्तु पक्षधर्मताबलादिति चेत्सममनुपपत्तावपि ॥

न चेयं व्यतिरेकव्याप्तिः । केवलान्वयिन्यपि साध्यं विनानुपपत्तेः सद्भावात् । वृष्टिरूपसाध्याभाववत्यधोदेशे पूररूपसाधनाभावस्याभावेन व्यतिरेकव्याप्त्यभावेऽपि पूरे वृष्टिं विनानुपपत्तिदर्शनात् । किं च वह्निं विनानुपपत्तिर्धूमगता । व्यतिरेकव्याप्तिश्च वह्न्यभावगतेति कथं तयोरभेदः । वह्न्यभावस्य धूमाभावेन व्याप्तिरपि धूमाभावं विनानु-पपत्तिरेव । सा च वह्न्यभावेन धूमाभावे साध्ये व्याप्यगतत्वादन्वय-व्याप्तित्वेनैवाङ्गम् । धूमेनैव वह्नौ साध्ये तु धूमानिष्ठत्वान्न साक्षादङ्गम् । न च केवलान्वयिन्यव्याप्तिः । तत्र साध्याभावासत्त्वेनैव साध्याभावे सति साधनस्य १योपपत्तिस् तदभावरूपानुपपत्तेः सत्त्वात् । मन्मते अप्रामाणिकस्यापि निषेधप्रतियोगित्वात् ॥

तथा च रसस्य समानदेशकालेन रूपेण विनेव, पाकजरूपादेः समानदेशेन भिन्नकालेन पाकेन विनैव च, कृत्तिकोदयस्याभिन्नकालया भिन्नदेशया रोहिण्युदयासत्त्या विना, अधोदेशनदीपूरस्य भिन्नदेश-कालोर्ध्वदेशवृष्ट्या विनानुपपत्तिरस्तीति, सामानाधिकरण्य इव वैयधि-करण्येऽप्युक्तरूपा व्याप्तिर्युक्ता । प्रत्युत नदीपूरादौ सामानाधिकरण्य एवोक्तरूपा व्याप्तिरयुक्ता । न ह्यूर्ध्वदेशगतो नदीपूर ऊर्ध्वदेशगतां वृष्टिं विनानुपपन्नः । किं तु ततोऽप्यूर्ध्वदेशगताम् ॥

न्यायदीपा

अस्यां व्याप्तौ बाधकमाशङ्कते– नन्विति । असिद्धौ अज्ञाने सतीत्यर्थः । एवं सिद्धावित्यपि । तत्सिद्धेरग्रे तदसिद्धेरिति । पर्वतीय-वह्निसिद्धेः पूर्वं तद्वह्न्यसिद्धेः । न च सामान्यसिद्ध्या तत्सिद्धिर् यतोऽ-न्यत्वं सामान्यविशेषयोरित्यर्थः । तन्मुखेन समाधिं वाचयितुं प्रतिबन्द्योत्तर-माह– धूमस्येति । यत्तु अस्य व्यतिरेकव्याप्तित्वेन त्वन्मतेऽनुमाना-नङ्गत्वाच्चेति तदाशङ्क्य निराह– न चेयमिति । सामानाधिकरण्य१गर्भा व्यतिरेकव्याप्तिर्न भवतीत्यर्थः ॥

ननु समानाधिकरणतया हेतुसाध्यभावङ्गतेषु व्यतिरेकव्याप्तिरियं भविष्यतीति वादिनं प्रत्याह– किं चेति । नन्वस्त्वियं सर्वान्वय्यनुमानेषु । वह्न्यभावादिना धूमाभावाद्यनुमानस्थलेऽन्यैव व्याप्तिर्वाच्येति तदनुगतेयं न भवतीत्यत आह– वह्न्यभावस्येति । इयमेव चेद्धूमानुमानेऽप्यङ्गं कथं न व्यतिरेकव्याप्तिरित्यत आह– धूमेनेति । न साक्षादिति । किं तु व्यभिचारनिरासद्वारैवाङ्गमिति भावः । केवलान्वयिनि साध्याभावाप्रसिद्ध्याऽ-व्याप्तिरित्युक्तदोषं निराह– न च केवलान्वयिनीति । अप्रामाणिक-स्यापीति । यथा चैतत्तथोपपादितं न्यायामृते प्रथमपरिच्छेदे । सर्वत्रानुगतेति प्रागुक्तमुदाहरणनिष्ठतया व्यनक्ति– तथा चेत्यादिना । सामानाधिकरण्य इवेति । यथा तत्र न्यायमते कथंचित्सामानाधिकरण्यं संपाद्य व्याप्तिरुपपाद्यते तथा क्लेशेन विनैव यथास्थितलिङ्गलिङ्गिनोर्वैयधिकरण्ये सत्यपीत्यर्थः ॥

ननु त्वन्मतेऽपि तत्र सामानाधिकरण्यमादायैव व्याप्तिरुच्यतामित्यत आह– प्रत्युतेति ।

तर्कताण्डवं

ननु साध्याभावेनैव सम्बद्धस्य नदीपूरस्य वृष्टिरूपसाध्येन कथं व्याप्तिरिति चेत् साध्याभावेन नियमेन सम्बद्धस्य द्रव्यत्वस्य संयोग-रूपसाध्येन कथं व्याप्तिः । यदि तु तत्र फलबलेन व्याप्तिलक्षणे प्रतियोग्यसमानाधिकरणेति विशेषणाद्व्याप्तिसिद्धिस् तर्ह्यत्रापि फल-बलेनैव व्याप्तेर्लक्षणान्तरस्योक्तत्वात्तत्सिद्धिरिति समम् ॥

ननु वैयधिकरण्ये साध्यस्य देशनियमः कथमिति चेत् । सामानाधिकरण्येऽपि, धूमेन तदधोभाग एव वह्नेः, तुलोन्नमनेन भागान्तर एवावनमनस्य, व्याप्यवृत्तिना द्रव्यत्वेनाव्याप्यवृत्तेः संयोगस्याव्याप्यवृत्तिना संयोगेन व्याप्यवृत्तिद्रव्यत्वस्य, सिद्धिरिति कथं पक्ष एव प्रदेशनियमः । कथं च समानकालत्वेऽपि कादाचित्केन पतनेन स्थायिगुरुत्वस्य, स्थायिना शरीरत्वेन कादाचित्कनाशस्य च, सिद्धिरिति कालनियमः ॥

व्याप्तिस्वभावादिति चेत्समम् । यत्र यदा रसस्तत्र तदा रूपमिति समानदेशकालत्वेनेव, यत्र पाकजं रूपं तत्र पाक इति समानदेशत्व-मात्रेणेव, यदा कृत्तिकोदयस्तदा रोहिण्युदयासत्तिरिति समानकालत्व-मात्रेणेव च, यदा यत्र नदीपूरस्तत्पूर्वकाले तदूर्ध्वदेशे वृष्टिरिति भिन्नदेशकालत्वेनैव व्याप्तिग्रहात् ॥

ननु देशतः कालतश्च वैयधिकरण्ये कथं व्याप्तिग्रहः । यत्रेदं तत्रेदमिति वा यदैवं तदैवमिति वा देशतः कालतो वा सामानाधि-करण्येनैव व्याप्तेर्ग्राह्यत्वादिति चेन्न । यदीदं तर्हीदमित्येवानुपपत्ति-रूपव्याप्तिग्रहस्य सर्वानुगतत्वात् ॥

अत्र च यद्देशकालसम्बद्धस्य हेतोरनुपपत्तिस् तद्देशकाले हेतोरभाव एवासिद्धिः । न तु पक्षेऽभावः । एवं यद्देशकालसम्बद्धस्य हेतोरनुपपत्तिस् तद्देशकालयोरन्यत्रापि भावो व्यभिचारः । न तु साध्याभाववति वृत्तिः । एवमुक्तयोर्देशकालयोरन्यत्रैव वर्तमानो विरुद्धः । न तु नियमेन साध्याभाववति वर्तमान इति न कश्चित्क्षुद्रोपद्रवः ॥

तस्माद्वैयधिकरण्येऽपि व्याप्तिरस्त्येव । तदुक्तं भगवत्पादैः । ‘‘असत्यपि व्याप्तिरस्त्येव’’ इति । सामानाधिकरण्ये असत्यप्यनु-पपत्तिरूपा व्याप्तिरस्त्येवेत्यर्थः । अत एव व्यधिकरणासिद्धिर्न दोष इति वक्ष्यते ॥

न्यायदीपा

यथास्थितलिङ्गलिङ्गिनोर्व्यधिकरणयोर्व्याप्यव्यापकभावे बाधकमाशङ्क्य प्रतिबन्द्योत्तरमाह– नन्वित्यादिना । साध्याभावेनेत्यादि । परमते संयोगस्याव्याप्यवृत्तित्वेन वृक्षः संयोगी द्रव्यत्वादित्यत्र द्रव्यत्वस्य साध्याभावसम्बन्धस्येत्युक्तम् । फलेति । अनुमितिलक्षणफलबलेनेत्यर्थः । प्रतियोगीति । प्रतियोग्यसमानाधिकरणसाध्यप्रतियोगिको योऽभावस् तदसम्बद्धत्वे सति साध्यसामानाधिकरण्यं व्याप्तिरिति विशेषणादित्यर्थः । तथा च संयोगाभावस्य प्रतियोगिसामानाधिकरण्यान्न दोष इति भावः । व्यधिकरणयोर्लिङ्गलिङ्गिभावे बाधकान्तरमाशङ्क्य प्रतिबन्द्या निराह– नन्विति । सामानाधिकरण्येऽपि पक्ष एव प्रदेशनियम इत्यन्वयः । कुत इत्यतोऽन्यत्रान्यथादर्शनादिति भावेनाह– धूमेनेत्यादिना । वह्नेरित्यादि-षष्ठ्यन्तानां सिद्धिरितीत्यनेनान्वयः । इतिशब्दो हेतौ । अत एव पद्धतौ तुलोन्नमनादीनामनेकेषामपि लिङ्गलिङ्गिभावो दर्शितः । ‘व्याप्तिप्रकारमपेक्ष्य लिङ्गस्य लिङ्गिज्ञानजनकत्वनियमात्’ इति पद्धत्युक्तदिशा परेण समाधानं वाचयित्वा सममित्याह– व्याप्तीति । व्याप्तिस्वभावादित्युक्तं व्यनक्ति– यत्र यदेति । व्याप्तिग्रहप्रकारानुपपत्तिमाशङ्क्य समाधत्ते– नन्वित्यादिना ॥

ननु वैयधिकरण्येऽपि व्याप्यव्यापकभावे हेतुतदाभासव्यवस्था न स्यादित्यत आह– अत्र चेति । भिन्नदेशकालयोरपि व्याप्यव्यापकभावपक्ष इत्यर्थः । न तु पक्ष इति । येन नदीपूरादिरसिद्धः स्यादिति भावः । नत्विति । येन नदीपूरादिर्व्यभिचारी स्यादिति ध्येयम् । तद्देशकालयो-रन्यत्रेति । सम्बन्धसामान्ये षष्ठी । ताभ्यामन्यत्रेत्यर्थः । एवमग्रेऽपि । एवमिति समुच्चये । उक्तयोर्यद्देशे यत्कालेऽनुपपत्तिर्हेतोः साध्येन विना तयोरन्यत्र ताभ्यामन्यत्रेत्यर्थः । तदुक्तमिति । प्रमाणलक्षणे । प्रकृतोपयोगाय तस्यार्थमाह– सामानाधिकरण्य इति ॥

॥ इति स्वमते व्याप्तिनिरूपणम् ॥ १ ॥