यच्चोक्तं वार्तिके– श्रुत्यादिषूत्तरोत्तरस्य पूर्वपूर्वानुमापकत्वेनैव प्रामाण्यम्
८१. अथ भट्टोक्तश्रुत्यादिबलाबलबीजभङ्गः
तर्कताण्डवं
यच्चोक्तं वार्तिके–
श्रुत्यादिषूत्तरोत्तरस्य पूर्वपूर्वानुमापकत्वेनैव प्रामाण्यम् । न स्वतः । एतच्च दूषणावसर एव स्पष्टयिष्यते ।
एवं च श्रुतेर्निरपेक्षत्वात्साक्षादेव प्रामाण्यम् । लिङ्गस्य तु श्रुतिमात्रकल्पनापेक्षत्वादेकान्तरितम् । वाक्यस्य तु लिङ्गश्रुतिकल्पना-पेक्षत्वाद्द्व्यन्तरितम् । प्रकरणस्य तु वाक्यलिङ्गश्रुतिकल्पनापेक्षत्वा-र्त्र्यन्तरितम् । स्थानस्य तु प्रकरणवाक्यलिङ्गश्रुतिकल्पनापेक्षत्वाच् चतुरन्तरितम् । समाख्यायास्तु स्थानप्रकरणवाक्यलिङ्गश्रुतिकल्पना-पेक्षत्वात् पञ्चान्तरितमिति विप्रकर्षात्परदौर्बल्यम् ।
तदुक्तम्–
‘‘एकद्वित्रिचतुःपञ्चश्रुत्यन्तरितकारितम् ।
श्रुत्यर्थं प्रतिवैषम्यं लिङ्गादीनामपीष्यते’’ इति ।
न्यायदीपः
एवं श्रुत्यादिलक्षणं पराभिमतं निरस्येदानीं ‘‘श्रुतिलिङ्गवाक्यप्रकरण-स्थानसमाख्यानां समवाये परदौर्बल्यं, अर्थविप्रकर्षात्’’ इति तृतीयाध्याय-तृतीयपादीयसूत्रे श्रुत्यादिबलाबलबीजमपि परोक्तमनूद्य निरस्यति ॥ यच्चेति ॥ इति विप्रकर्षात्परदौर्बल्यमित्यनेनान्वयः ।
कथमनुमापकत्वमित्यत आह ॥ एतच्चेति ॥ साक्षादेव ॥ प्रमाणान्तरकल्पनां विनैव । प्रामाण्यं शेषशेषिभावप्रमितिजनकत्वमित्यर्थः ।
॥ लिङ्गस्येति ॥ सामर्थ्यरूपलिङ्गस्य । एकान्तरितमित्यादौ प्रामाण्य-मित्यनुषङ्गः ॥ लिङ्गश्रुतीति ॥ पूर्वं लिङ्गकल्पना, पश्चाच्छुतिकल्पनेत्येवं रूपेणेत्यर्थः । एवमग्रेपि ।
॥ प्रकरणस्य ॥ इतिकर्तव्यताकाङ्क्षारूपस्य । स्थानस्य तुल्यदेशत्व-रूपस्य समाख्याया यौगिकसञ्ज्ञारूपाया लिङ्गवाक्यादिविप्रकर्षोक्तिप्रस्तावे वार्तिकोक्तं संवादयति ॥ तदुक्तमिति ॥ श्रुत्यन्तरयाकारितम् ॥ श्रुतिव्यवधानकारितं वैषम्यमित्यर्थः ।
तर्कताण्डवम्
एवं चैन्द्र्या गार्हपत्यमुपतिष्ठत इत्यत्र गार्हपत्यमितिद्वितीयाश्रुत्या ‘‘कदाचनस्तरीरसि नेन्द्र’’ इतिमन्त्रस्येन्द्रप्रकाशनसामर्थ्यरूपलिङ्ग-बाधेनगार्हपत्ये विनियोगः ।
न्यायदीपः
एतेषां परदौर्बल्योक्तेः फलं वदन्नुदाहरणं दर्शयति ॥ एवं चेत्यादिना ॥ ऐन्द्र्या ॥ इन्द्रप्रतिपादकया गार्हपत्याख्यमग्निमुपतिष्ठते स्तौति प्रकाशयतीत्यर्थः ॥ कदाचनेति ॥ यद्यपि भाष्ये–
‘‘निवेशनः सङ्गमनो वसूनां विश्वारूपाभिचष्टे शचीभिः ।
देव इव सविता सत्यधर्मेन्द्रो न तस्थौ’’
इति मन्त्र एवोदाहृतः । तथापि तत्रेन्द्रशब्दस्य दूरे श्रवणाद् अस्मिन्मन्त्रे प्रथमं श्रवणेनेन्द्रत्वस्याल्पवाक्योक्त्या सुज्ञानत्वात्केषाञ्चि-त्कादाचनस्तरीरसीतीतिवार्तिकोक्तेरस्याप्यग्निहोत्रप्रकरणे महोपस्थाने पाठा-च्चायमेव मन्त्र उदाहृतः ॥ विनियोग इति ॥ मन्त्रस्थेन्द्रपदस्य गौणता-श्रयणेन गार्हपत्यप्रकाशनशेषत्वमित्यर्थः ।
तर्कताण्डवं
तथा ‘‘स्योनं ते सदनं कृणोमि घृतस्य धारया सुषेवं कल्पयामि तस्मिन् सीदामृते प्रतितिष्ठ व्रीहीणां १मेेदसुमनस्यमान’’ इति स्योनं ते मन्त्रे पूर्वोत्तरभागयोः प्रत्येकमनुष्ठेयसदनासादनप्रकाशन-सामर्थ्यरूपलिङ्गेन समभिव्याहाररूपवाक्यबाधाद्विभज्य विनियोगः ॥
न्यायदीपः
श्रुतिलिङ्गविरोधे उदाहरणमुक्त्वा लिङ्गवाक्ययोर्विरोधे उदाहरणमाह ॥ तथास्योनमिति ॥ तथेति समुच्चये । विनियोग इत्यनेनान्वयः ।
हे व्रीहिणा२म्मेदेति पुरोडाशद्रव्यसम्बोधनम् । ते तव स्योनं सुखकरं सदनमाश्रयं कृणोमि करोमि घृतस्य धारया सुषेवं सुखसेव्यं कल्पयामि तस्मिन् तादृशे सदने अमृते सीद उपविश सुमनस्यमानः सन् प्रतितिष्ठ प्रतिष्ठितो भवेति दर्शपूर्णमासप्रकरणस्थमन्त्रस्यार्थः ॥
॥ पूर्वोत्तरभागयोरिति ॥ कल्पयाम्यन्तः पूर्वभागस् तस्मिन्नित्यादि-रुत्तरभाग इति ज्ञेयम् । तत्र हि पूर्वोत्तरभागसमभिव्याहारबलेनैकवाक्यताव-गमात्कथञ्चिदर्थमुपेत्य कृत्स्नस्य वाक्यस्य सदनकरणे प्रतिष्ठापने च विनियोगे प्राप्ते लिङ्गवाक्यविरोधाधिकरणसिद्धान्तमनुवदति ॥ प्रत्येकमिति ॥ प्रत्येकं सदनादिप्रकाशनसामर्थ्यरूपलिङ्गेनेत्यन्वयः ।
अनुष्ठेयेति सदनासादनयोर्विशेषणम् प्रकाशन वैयर्थ्यशङ्कानिरासाया-नुष्ठानार्थसूचनायोक्तम् ॥ विभज्येति ॥ सदनप्रकाशनसमर्थस्य कल्पया-म्यन्तस्य सदनकरणे तस्मिन्नित्यादेरासादनप्रकाशनसमर्थस्यासादनकरणे विनियोग इत्यर्थः ।
तर्कताण्डवं
तथा ‘‘इन्द्राग्नी इदं हविरजुषेताम्’’ इत्यत्रेदं हविरित्यादे-रिन्द्राग्नीपदसमभिव्याहाररूपव•क्येन दर्शपूर्णमासप्रकरणबाधात् ‘‘अग्नीषोमाविदं हविः’’ इति श्रुतपूर्णमासीयाग्नीषोमपदानन्वयः ॥
न्यायदीपः
वाक्यप्रकरणयोर्विरोधे उदाहरणमाह ॥ इन्द्राग्नी इति ॥ इन्द्राग्नी इदं हविरजुषेतामिति दर्शपौर्णमासिके सूक्तभेदे इन्द्राग्नी इति देवतापदं लिङ्गाद्दर्श एव प्रयोक्तव्यमिति स्थिते समभिव्याहारेण तदेकवाक्यभूतम् इदं हविरजुषेता-मित्यादिकं प्रकरणाविशेषादग्नीषोमाविति पौर्णमासीदेवतावाचिपदेनाप्यन्वीय पर्वद्वये प्रयोक्तव्यमुतेन्द्राग्नीपदैकवाक्यत्वात्तद्द्वदेव दर्श एव प्रयोक्तव्यमिति सन्देहे प्रकरणाविशेषादेकवाक्यताभङ्गेन पर्वद्वयेपि प्रयोक्तव्यमिति प्राप्ते वाक्यप्रकरणविरोधाधिकरणसिद्धान्तमाह ॥ इदं हविरित्यादेरिति ॥
तर्कताण्डवं
तथा राजसूयप्रकरणस्थस्याभिषेचनीयसन्निहितस्य देवनादेः प्रकरणेन सन्निधिरूपस्थान बाधाद्राजसूयान्वयः । तथा शोधन मन्त्रस्य सान्नाय्यपात्रसन्निधिरूपस्थानेन पौरोडाशिकमितिसमाख्या-प्राप्तपुरोडाशपात्रान्वयबाधात्सान्नाय्यपात्रान्वय इति ।
न्यायदीपः
स्थानप्रकरणयोर्विरोधे उदाहरणमाह ॥ तथा राजेति ॥ राजसूये बहवः पश्विष्टिसोमयागाः समप्रधानतया पठिताः । तत्राभिषेचनीयाख्यसोमयागस्य सन्निधौ विदेवनादयः केचनाम्नातास् ते किमभिषेचनीयमात्राङ्गमुत सर्व-राजसूयाङ्गमिति सन्देहे सन्निधिविशेषादभिषेचनीयमात्राङ्गत्वे प्राप्ते सिद्धान्तः ॥ राजसूयप्रकरणस्थस्येत्यादि ॥ स्थानसमाख्याविरोधे उदाहरणम् ।
॥ तथाशोधनेति ॥ पौरोडाशिकसमाख्याते दर्शपूर्णमासकाण्डे सान्नाय्यपात्रशुन्धनक्रमे पठितः शुन्धध्वमिति मन्त्रः किं पुरोडाशपात्राङ्गमुत सान्नाय्यपात्राङ्गमिति संशये समाख्यावशात् पुरोडाशपात्राङ्गमिति प्राप्ते सिद्धान्तः ॥ शोधनमन्त्रस्येति ॥ इतिपदस्य इतिदौर्बल्यं यच्चोक्तमिति पूर्वेणान्वयः ।
तर्कताण्डवं
तत्र तावल्लिङ्गस्य श्रुतिकल्पकत्वमयुक्तम् । तथाहि । न ताव-ल्लिङ्गस्याशब्दत्वेनाज्ञापकत्वाज्ज्ञापकतया श्रुति कल्पनम् । लिङ्गस्य स्वरूपेणाज्ञापकत्वेप्यन्यथानुपपद्यमानतया प्रमाणभूतां श्रुतिं प्रतीव प्रमेयभूतं विनियोगं प्रत्यपि ज्ञापकत्वसम्भवात् । न हि लिङ्गं विनियोजकश्रुतिं विना नोपपद्यते, विनियोगं तु विनोपपद्यत इति सम्भवति । न हि–
‘‘सिद्धे सामान्यसम्बन्धे सिद्धे प्रकरणान्वये ।
करणीयान्वये सिद्धे पश्चाल्लिङ्गं प्रमापकम्’’ ।
इति न्यायेन लिङ्गविनियोगात्पूर्वमेव प्रकरणान्वितस्य दृष्टार्थस्य मन्त्रस्य या शक्तिः सा शक्यस्य द्वारान्वयं विनोपपद्यते ॥
न्यायदीपः
लिङ्गस्य श्रुतिकल्पनन्तावद् बर्हिर्देवसदनं दामीतिमन्त्रस्थं लवन प्रकाशनसामर्थ्यरूपं लिङ्गं बर्हिरितिमन्त्रेण बर्हिर्लुनुयादितिश्रुतिमनुमाय लवनशेषत्वं मन्त्रस्य बोधयतीति वाच्यम् । तत्र तत्कल्पनं किं स्वस्याबोध-कत्वाद् बोधकत्वे वा स्वस्य प्रामाण्यसिद्ध्यर्थं मूलभूतत्वेन वा धर्मस्य-शब्दमूलकत्वेन धर्मबोधकशब्दरूपत्वेन वा आकाङ्क्षापूर्त्यर्थं वा आद्य आह ॥ न तावदित्यादिना ॥ अन्यथानुपपद्यमानतयेति ॥ धूमस्येवेति भावः ।
ननु विनियोगरूपार्थेन लिङ्गस्य तेन विनानुपपद्यमानत्वरूपव्याप्तिर्ना-स्तीत्यत आह ॥ न हि लिङ्गमिति ॥ परोक्तन्यायेनैव लिङ्गस्य विनियोग-रूपार्थेन व्याप्तिमुपपादयति ॥ न हीति ॥ उपपद्यत इत्यनेनान्वयः ।
तत्र वार्तिकोक्तन्यायमाह ॥ सिद्ध इति ॥ कारणीयेति ॥ ज्योतिष्टोमादिरूपस्वर्गसाधनीयान्वये च सिद्धे सतीत्यर्थः ॥ शक्येति ॥ लवनरूपशक्यद्वारेत्यर्थः ।
तर्कताण्डवं
नापि स्मृतेरिव लिङ्गस्य प्रामाण्याय मूलत्वेन श्रुतिकल्पनम् । स्मरणपौरुषेयवाक्ययोर्ग्रहणमूलप्रमाणसापेक्षत्वेपि वैदिकस्य लिङ्गस्य विनियोजकश्रुताविव विनियोगेऽनन्यापेक्षमेव प्रमापकत्वात् । न हि श्रुतो दृष्टो वा धूमो वह्निग्राहकं शब्दं प्रत्यक्षं वा कल्पयित्वा तत्र प्रमाणम् । वह्निप्रश्नोत्तरेधूमोस्तीति वाक्येपि धूमेनोक्तेन श्रोता स्वयमेव वह्निं ज्ञास्यतीति विवक्षितत्वद्दृष्टधूम इव श्रुतधूम एव वह्नौ मानं न त्वनुमितो वह्निरस्तीति शब्दः । अत एव तत्र धूमः श्रुतो वह्निस्तु तेनानुमित इत्येवानुभवः । अत एव यत्र धूमस्तत्राग्निरित्यगृहीतव्याप्तेः पुंसो धूमोस्तीति वाक्याद्वह्न्यप्रतीतिः ॥
किञ्चैवं सति मूलिना मूलस्यानुवादकत्वायोगान्मन्त्राधिकरणोक्तं लिङ्गेन तदर्थशास्त्रस्यानुवादकत्वमयुक्तं स्यात् ॥
न्यायदीपः
द्वितीयं निराह ॥ नापि स्मृतेरिवेति ॥ मन्वादिस्मृतेरिवेत्यर्थः ॥ स्मरणपौरुषेयवाक्ययोरिति ॥ स्मरणं मन्वादिस्मृतिः । पौरुषेयवाक्यपदेन लौकिकवाक्यग्रहः ॥ ग्रहणेति ॥ अर्थं गृहीत्त्वैव स्मरणादेः करणादर्थग्रहणे यन्मूलप्रमाणं तत्सापेक्षत्वेपीत्यर्थः । यद्वा स्मृतिस्मरणशब्दाभ्यां संस्कार-जन्यज्ञानग्रहः । ग्रहणञ्च मूलप्रमाणं चेतिविग्रहः । यथाक्रममन्वयः । अनन्यापेक्षत्वं व्यनक्ति ॥ न हीति ॥
ननु– वह्निरस्तिकिमिति पृच्छन्तं प्रति प्रयुक्ते धूमोस्तीति वाक्ये वह्निरस्तीतिशब्दकल्पकत्वमस्तीत्यत आह ॥ वह्निप्रश्नेति ॥ अत एवेति ॥ धूमस्यैव लिङ्गतया लिङ्गिज्ञापकत्वादेवेत्यर्थः ।
॥ अत एवेति ॥ व्याप्तिज्ञानबलेनैव वह्निज्ञानस्य १जायमानत्वादे-वेत्यर्थः । मूलत्वेन श्रुतिकल्पने बाधकं चाह ॥ किञ्चैवं सतीति ॥ स्वप्रामाण्यार्थं लिङ्गस्य मूलत्वेन श्रुतिकल्पने सतीत्यर्थः ॥ अयोगादिति ॥ हेतोरयुक्तंस्यादित्यनेनान्वयः ।
॥ मन्त्रेति ॥ आद्यस्य द्वितीयपादे ‘‘तदर्थशास्त्राद्’’ इत्यन्ति-माधिकरणे ‘‘इमामगृभ्णन् रशनामृतस्येत्यश्वाभिधानीमदत्त’’ इति ब्राह्मण-वाक्यरूपं शास्त्रं मन्त्रस्यलिङ्गप्राप्ताश्वरशनादावशेषत्वं यत्तद्रूपार्थप्रतिपादक-मिति तच्छास्त्रस्यानुवादकत्वं तदर्थशास्त्रादिति पूर्वपक्षसूत्रेणोक्त्वा सिद्धान्ते परिसङ्ख्येतिसूत्रेण गर्दभरशनां नादद्यादित्यर्थपरत्वं ब्राह्मणरूपतदर्थ-शास्त्रस्योक्तं तदयुक्तं स्यादित्यर्थः ।
तर्कताण्डवं
नापि– धर्मस्य शब्दमूलत्वादेव बोधककल्पनेति वार्तिकोक्तं युक्तम् । शाब्दलिङ्गगम्यत्वेपि शब्दमूलत्वाहानेः । अन्यथा लिङ्गान्तरेणेव वैदिकलिङ्गेनापि गम्ये धर्मे शब्दः २कल्प्येत ॥
नापि– द्वारमित्यादिवत्किञ्चिद्वाक्यमिह साकाङ्क्षम् । येन तत्पूरणाय श्रुतिः कल्प्येत । बर्हिर्देवसदनं दामीत्यादेर् लिङ्गविनियोज्य-मन्त्रस्य बर्हिर्लुनातीत्यादेः र्लवनादिविधिवाक्यस्य च परिपूर्णत्वात् ।
अत्रोक्तं राणककर्त्रा–
‘‘ शेषो लिङ्गादिगम्योपि न विधिग्रहणादृते ।
अनुष्ठेयो न चाशब्दो विधिनान्वयमर्हति ॥
विध्यन्वयाय तेनास्य कल्प्या लिङ्गादिभिः श्रुतिः ।
प्रयोगवचनस्यैकदेशः सा च भविष्यति ॥
अतः प्रयोगवाक्यस्य पूरणायेह कल्प्यते ।
लिङ्गादिभिः श्रुतिः साच विरोधे नावकल्प्यते’’ । इति ।
तत्र ब्रूमः । विध्यनन्वितस्याननुष्ठेयत्वादशाब्दस्य च विध्यनन्वयानुष्ठेयस्य मन्त्रस्य विध्यन्वयः शाब्दत्वं चास्तु । शाब्देन सामान्यसम्बन्धेन कल्प्यमानस्य बर्हिर्मन्त्रलवनयोः शेषशेषिभाव रूपान्वयस्य कथं शाब्दत्वम् । अन्वयस्य अननुष्ठेयत्वात् । स्वयमेवान्वयरूपत्वेन विध्यनन्वितरूपत्वाच्च ॥
न्यायदीपः
तृतीयं निराह ॥ नापि धर्मस्येति ॥ शाब्देति ॥ शब्दसम्बन्धि-सामर्थ्यरूपलिङ्गगम्यत्वेपीत्यर्थः ॥ अन्यथेति ॥ वैदिकलिङ्गस्य लौकिक-१लिङ्गगम्यस्येव शाब्दत्वानङ्गीकारे इत्यर्थः । चतुर्थं निराह ॥ नापि द्वारमिति ॥ श्रुतिरिति ॥ बर्हिर्देवसदनन्दामीतिमन्त्रेणलुनुयादिति तृतीयान्तविनियोजकश्रुतिः कल्प्येत्यर्थः ।
साकाङ्क्षं नेत्येतद्व्यनक्ति ॥ बर्हिरिति ॥ बर्हिर्मन्त्रस्य इदङ्कृत्वेदङ्कृत्वे-दङ्कर्तव्यमित्येवंरूपसङ्ग्राहकप्रयोगवचनस्य साकाङ्क्षत्वादाकाङ्क्षापूरणाय लिङ्गेन श्रुतिकल्पनमितिवार्तिकव्याख्यानकृदुक्तमनुवदति ॥ अत्रोक्तं राणककृतेति ॥ नचाशाब्द इति ॥ शब्दाप्रतिपाद्यो विधिनान्वयं नार्हतीत्यर्थः ॥ तेनेति ॥ लिङ्गगम्यस्याशाब्दतया विध्यनन्वितस्याननुष्ठेयत्वहेतुनास्य शेषस्य मन्त्रादेर्विध्यन्वयायेत्यर्थः ।
॥ श्रुतिरिति ॥ बर्हिर्मन्त्रेणेत्यादितृतीयान्तशब्दः कल्प्य इत्यर्थः । प्रयोगवचनस्य लवनं कृत्वेत्यादिरूपस्य बर्हिरितिमन्त्रेण लवनङ्कृत्वेत्यादि-रूपेणैकदेश इत्यर्थः ॥ विरोध इति ॥ लिङ्गादेः प्रबलश्रुत्यादिविरोधे सति लिङ्गादिना स्वानुगुणश्रुतिकल्पनं न सम्भवतीत्यर्थः ।
लिङ्गादिगम्यशेषस्यानुष्ठानप्रयोजकविध्यन्वयकारणशाब्दत्वलाभाय लिङ्गादिना श्रुतिकल्पनाङ्गीकारेपि न शेषशेषिभावस्य श्रुतिसिद्धत्वमागतमिति दूषयति ॥ विध्यनन्वितस्येत्यादिना ॥ अनुष्ठेयस्येति ॥ उच्चारणक्रिया-रूपानुष्ठानविषयस्येत्यर्थः ।
॥ विध्यन्वय इति ॥ बर्हिर्लुनातीति विध्यन्वयः ॥ शाब्दत्वमिति ॥ मन्त्रलिङ्गकल्पितशब्दबोध्यत्वं चास्त्वित्यर्थः । किं तर्हीत्यत आह ॥ शाब्देनेति ॥ बर्हिर्मन्त्रलिङ्गकल्पितशब्देन सामान्यसम्बन्धेवगतेपि तेन कथं विशेषस्य शाब्दत्वमित्यर्थः ।
तर्कताण्डवं
यदि च श्रुता१न्वयानुपपत्त्या शब्दं प्रकल्प्य तेनार्थः प्रमातव्य इति निर्बन्धस् तर्हि दृष्टानुमितान्यथानुपपत्त्यापि दर्शनादिकं प्रकल्प्य ते नार्थः प्रमीयेत ।
तथा च नित्यानुमेयश्रुतिवन्नित्यानुमेयं प्रत्यक्षादिकमपि कल्प्येत । चतुर्दशपौर्णमास्यामित्यादिलिङ्गदर्शनमपि विद्वद्वाक्यमनुवादकमिति श्रुतिकल्पकं स्यात् ।
द्वैतीयं गुणप्रक्रियादिभेदप्रमाणमपि आमिक्षा२वाजिनौ यागौ भिन्नावित्यादिश्रुतिकल्पकं स्यात् ।
अग्निहोत्रं जुहोति यवागूं पचतीत्यत्रापि सामर्थ्यं यवागूं पक्त्वाग्नि-होत्रं जुहुयादिति नित्या१नुवादश्रुतिकल्पकं स्यात् ।
तत्र तत्तन्न्यायानुगृहीततत्तद्द्वाक्यस्य प्रमाणत्वे चात्रापि लिङ्गानुगृहीतप्रयोगचोदनैव प्रमाणमस्तु ।
एतेन– स्वर्गकामो यजेतेत्यादावपि अपूर्वं कृत्वेत्यादिशब्दकल्पना परोक्ता परास्ता ।
न्यायदीपः
ननु कल्प्यमानोपि शब्दः शेषशेषिभावबोधकस्तृतीयान्तादिरेव कल्प्यत इति चेन्न । अन्वयस्य अननुष्ठेयत्वेन तस्य शाब्दत्वकल्पकाभावात्तृतीयादि-श्रुत्या शेषत्वादिमात्रप्रतीतावपि लवनशेषत्वस्य वाक्यगम्यत्वेन श्रौतत्वा-भावाच्चेति भावः ।
विपक्षे बाधकेनापि श्रुतिकल्पनं निराह ॥ यदि चेति ॥ बर्हिर्देवसदनं दामीति मन्त्रे श्रुतान्वयानुपपत्तीत्यर्थः ॥ अर्थ इति ॥ अनेन मन्त्रेण लवनं कर्तव्यमित्यादिरूपोर्थ इत्यर्थः ।
॥ दृष्टेति ॥ दिवाऽभुञ्जानस्य पीनत्वान्यथानुपपत्त्या धूमादिनानुमित-वह्न्याद्यन्यथानुपपत्त्या च रात्रिभोजनवह्नि२सामग््रयादिकं प्रत्यक्षमनुमानं वा मध्ये कल्पयित्वा तेन तत्प्रमातव्यं स्यादित्यर्थः । अस्तु को दोष इत्यत आह ॥ तथा चेति ॥
श्रुतिकल्पनापक्षे बाधकान्तरं चाह ॥ चतुर्दशेति ॥ आग्नेयाग्नी-षोमीयोपांशुयाजप्रयाजपञ्चकानुयाजत्रिकाज्यभागद्वयवैमृधपुरोडाशाहुतिभेदेन चतुर्दशपौर्णमास्यां वैमृधराहित्येन त्रयोदशामावास्यायामिति लिङ्गदर्शनात् ‘‘य एवं विद्वान् पौर्णमासीं यजते य एवं विद्वानमावास्यां यजत’’ इति विद्व-द्वाक्यद्वयं नापूर्वकर्मविधायकं, किं त्वाग्नेयादित्रिकानुवादकमिति लिङ्गदर्शना-च्चेति द्वितीये पौर्णमास्यधिकरणगुणसूत्रेणोच्यत इति तत्रापि श्रुतिकल्पकं १स्यादित्यर्थः ।
बाधकान्तरमाह ॥ द्वैतीयमिति ॥ द्वितीयाध्यायसम्बन्धि यद् आमिक्षावाजिनरूपगुणभेदरूपं कर्मभेदप्रमाणं प्रक्रियाशब्दितप्रकरणभेदरूपं नित्याग्निहोत्रमासाग्निहोत्रभेदप्रमाणम् अथैषज्योतिरित्यादिनामधेयभेदादिरूपमपि प्रमाणं श्रुतिकल्पनाद्वारा कर्मभेदे प्रमाणं स्यादित्यर्थः ।
पञ्चमाध्याये कर्मणां क्रमे श्रुत्यर्थपाठादीनि यानि प्रमाणान्युक्तानि तन्मध्यगतार्थशब्दितसामर्थ्यरूपमपि प्रमाणं श्रुतिकल्पकं स्यादित्याह ॥ अग्निहोत्रमिति ॥
परमुखेन समाधिं वाचयित्वा सममित्याह ॥ तत्रेति ॥ लिङ्गदर्शन-गुणभेदादिप्रमाणस्थे लिङ्गदर्शनादिरूपन्यायानुगृहीतविद्वद्वाक्यादेरित्यर्थः ॥ लिङ्गेति ॥ मन्त्रलिङ्गानुगृहीतेत्यर्थः ॥ एतेनेति ॥ न्यायानुगृहीत-वाक्यस्यैव प्रमाणत्वकथनेन । स्वर्गकामाधिकरणसिद्धान्तन्यायानुगृहीतस्य यजेत स्वर्गकाम इति वाक्यस्य वा प्रयोगवाक्यस्य वा प्रमाणत्वोपपत्त्या शब्दकल्पनावैयर्थ्यादिति भावः ।
तर्कताण्डवम्
एवं च यत्र वाक्यं साकाङ्क्षं तत्र शाब्द्या आकाङ्क्षायाः शब्देनैव पूरणीयत्वाच्छब्दाध्याहारः । यत्र तु निराकाङ्क्षेण वाक्येनार्थे उक्ते तदुपपादनायार्थः कल्प्यते न तत्र शब्दकल्पना । न तु प्रभाकरमत इव साकाङ्क्षस्थलेप्यर्थाध्याहारः । न वा भाट्टमत इव निराकाङ्क्षस्थलेपि शब्दकल्पना । उपपादितं चैतत्पूर्वत्र ।
अत एव टीकायां– लिङ्गस्यानुमापकतयार्थबोधकत्वादित्यर्थ-कल्पकत्वमेवोक्तम् ॥
अपि च लिङ्गकल्प्या श्रुतिर् न तावत्प्रत्यक्षा । त्वयैव–
‘‘यथैव पाठः प्रतिपत्त्युपायस्तथैव सामर्थ्यमपि श्रुतीनाम् ।
तेनैव चैता न समामनन्ति सहस्रभागं तु समामनेयुः’’ ॥
इति कदाप्यनाम्नानोक्तेः । नापि नित्यानुमेया । स्मृतिकल्प्य-श्रुतेरपि तथात्वापत्तेः ।
न्यायदीपः
ननु– यदि मन्त्रलिङ्गादिना शेषशेषिभावरूपार्थस्यैव कल्पनं न तु शब्दस्य तर्हि द्वारमित्यादौ शब्दाध्याहारसमर्थनं प्राक्तनं विरुध्येयेत्यतो व्यवस्थामाह ॥ एवं चेति ॥ लिङ्गस्थले शब्दकल्पनस्य दुष्टत्वे सतीत्यर्थः ॥ यत्रेति ॥ द्वारमित्यादौ ॥ यत्र त्विति ॥ मन्त्रादौ ॥ पूर्वत्रेति ॥ शब्दाध्याहारसमर्थनवादे ।
॥ अत एवेति ॥ लिङ्गस्थले शब्दकल्पनस्यासम्मतत्वादेवेत्यर्थः ॥ टीकायामिति ॥ ‘‘शब्दादेव’’ इत्यधिकरणटीकायामित्यर्थः । प्रत्यक्षत्वाप्रत्यक्षत्वाभ्यां च श्रुतिकल्पनमयुक्तमित्याह ॥ अपि चेति ॥ तेनैवेति ॥ मन्त्रादिरूपश्रुतिगतसामर्थ्यरूपलिङ्गस्यापि प्रतिपत्त्युपायत्व-कारणेनैव । एताः श्रुतीर् न समामनन्ति न पठन्ति अध्येतार इत्यर्थः ।
॥ तथात्वापत्तेरिति ॥ न चेष्टापत्तिः । ‘‘धर्मस्य शब्दमूलत्वाद्’’ इति स्मृतिनयादौ नित्यानुमेयश्रुतिमूलत्वस्य स्मृतीनामपाकरणादिति भावः ।
तर्कताण्डवं
किञ्च– वक्ष्यमाणरीत्या श्रुतिमात्रस्य शेषत्वादि मात्रबोधकत्वा-त्तद्विशेषं प्रति बोधकत्वानुपपत्तेर्लिङ्गाद् बर्हिरिति मन्त्रेण लुनुयादिति वाक्यमेव कल्प्यमिति वाक्यादपि लिङ्गं विप्रकृष्टं सत्ततोपि दुर्बलं स्यात् ।
न्यायदीपः
शब्दकल्पनापक्षे वाक्याल्लिङ्गस्य प्राबल्यहानिरिति बाधकान्तरं चाह ॥ किञ्चेति ॥ वक्ष्यमाणेति ॥ उत्तरभङ्गे ॥ श्रुतिमात्रस्येति ॥ पदान्तरसमभिव्याहारविनाकृतस्यानेन मन्त्रेणेत्यादितृतीयान्तशब्दस्येत्यर्थः । तद्विशेषं– लवनादिशेषत्वरूपम् ।
॥ विप्रकृष्टमिति ॥ यथा प्रकरणं वाक्यकल्पनाद्वारार्थबोधकमिति श्रुतिलिङ्गरूपद्व्यन्तरितप्रामाण्यकवाक्यापेक्षया विप्रकृष्टमित्युच्यते तथा लिङ्गमपि वाक्यकल्पनाद्वारकप्रामाण्यकत्वात्ततोपि विप्रकृष्टं स्यात् । तथा च लिङ्गेन वाक्यबाधोक्तिरयुक्ता स्यादिति भावः ।
तर्कताण्डवं
यच्चोक्तं– बर्हिर्देवसदनं दामीत्यादौ कर्मसमवेतार्थप्रकाशकदा-मिपदादितरेषां तत्समभिव्याहृतानां देवसदनमित्यादिपदानां कर्म-समवेतलवनप्रकाशने स्वतोऽसामर्थ्यात् तत्समभिव्याहाररूपा-द्वाक्यात्स्वार्थमुपसर्जनीकृत्य स्वार्थविशिष्टलवनप्रकाशनसामर्थ्यं कल्पयित्वा श्रुतिः कल्पनीयेति ।
तन्न । यथा हि लवनमप्रकाशकपदसमभिव्याहारात् सामर्थ्यं कल्प्यते । तथा लाघवाय लवने विनियुक्तपदसमभिव्याहाराल्लवने विनियोग एव वा विनियोजकश्रुतिरेव वा किं न कल्प्यते ।
न्यायदीपः
एवं लिङ्गस्य श्रुतिकल्पकत्वं निरस्य वाक्यस्य लिङ्गकल्पनाद्वारा श्रुतिकल्पकत्वेन शेषशेषिभावे प्रमाणत्वं लिङ्गकल्पकत्वप्रकारं–
‘‘वाचकैरेकवाक्यत्वादिह तद्वाचिनां सताम् ।
कल्पयित्वाभिधाशक्तिं श्रुतिःपश्चात्प्रकल्प्यते’’ ।
इति वार्तिकरीत्या विवृण्वन्निराह ॥ यच्चोक्तमिति ॥
॥ दामिपदादिति ॥ तस्य दाप् लवन इति धाुतरूपतया लुना-मीत्यर्थकत्त्वेन कर्मसमवेतलवनरूपार्थकत्वादन्येषां पदानां तदभावादित्यर्थः । उपसर्जनीकृत्य विशेषणीकृत्य । देवसदनभूतबर्हिर्लवनमित्येवं स्वार्थविशिष्ट-लवनप्रकाशनसामर्थ्यरूपं लिङ्गं कल्पयित्वा अनेन मन्त्रेण लुनीयादिति श्रुतिः कल्प्येत्यर्थः ॥ पदेति ॥ दामीतिपदेत्यर्थः । सामर्थ्यमितरपदानामित्यर्थः ॥ लवनेविनियोग एव वेति ॥ मन्त्रस्थपदानामिति योज्यम् । श्रुति-रेवेत्येवकारेण लिङ्गं व्यावर्त्यते ।
तर्कताण्डवं
यदि त्वसमर्थस्य विनियोगासम्भवाद्विनियोगः सामर्थ्यपूर्वक-स्तर्ह्यैन्द्र्या अपि विनियोगः सामर्थ्यपूर्वकः स्यात् । तत्र श्रौतविनि-योगात्पश्चात्सामर्थ्यकल्पनेऽत्रापि तथैवास्तु ।
इयांस्तु भेदः । श्रुतिः शब्दरूपतया स्वरूपेणैव अन्वयबोधिका । समभिव्याहाररूपं वाक्यं त्वनुपपद्यमानतयेति । अन्यथा स्वतोऽ-समर्थस्य सामर्थ्यकल्पनं विनियोगाधीन मैन्द्र्यां दृष्टमितीहापि विनियोगात्पूर्वं सामर्थ्यकल्पनापि न स्यात् ।
न्यायदीपः
‘‘श्रुत्यादिना समर्थस्य विनियोगोऽवकल्प्यत’’ इति वार्तिकोक्तमनूद्य निराह ॥ यदि त्विति ॥ विनियोगेति ॥ शेषत्वावगत्यसम्भवादित्यर्थः ।
॥ ऐन्द्र्या अपीति ॥ ‘‘ऐन्द्र्या गार्हपत्यमुपतिष्ठत’’ इति श्रौत-विनियोगोपि इन्द्रप्रतिपादकऋचो गार्हपत्यप्रकाशनसामर्थ्यपूर्वकः स्यात् । तथाच–
‘‘न श्रुतेर्विनियोक्तृत्वं लिङ्गाधीनं प्रतीयते ।
विज्ञाते विनियोगे तु तद्वशाच्छक्तिनिर्णयः’’ ।
इति वार्तिकोक्त्या श्रुतिः साक्षाद्विनियोजिकेति मतभङ्ग इति भावः ॥ अत्रापीति ॥ समभिव्याहाररूपवाक्यस्थलेपि दामीत्यादिपदसमभि-व्याहारेण विनियोगस्य वा विनियोजकश्रुतेर्वा कल्पनानन्तरमेव समभि-व्याहृतपदानां सामर्थ्यकल्पनमित्यस्तु । तथा च वाक्यस्य द्व्यन्तरितं प्रामाण्यमितिमतभङ्ग इति भावः ।
नन्वेकशब्दसमुदायरूपवाक्यस्य कथं श्रुतितुल्यतोच्यत इत्यत आह ॥ इयांस्त्विति ॥ अनुपपद्यमानतयेति ॥ विनियोगेन वा विनियोजक-श्रुत्या वा विनेति भावः ॥ अन्यथेति ॥ एतावद्भेदमात्रेण वाक्यस्य श्रुति-वैषम्य इत्यर्थः ॥ इहापि ॥ समभिव्याहाररूपवाक्यस्थलेपीत्यर्थः ।
तर्कताण्डवं
किञ्चायं दण्डोस्ति गामानयेत्यादिवाक्ये दण्डस्य वाक्येना-नयनान्वय इति ते मतम् । न चेयं प्रक्रिया तत्र सम्भवति । दण्डस्यानयने सामर्थ्यस्य कप्तत्वात् ॥
न्यायदीपः
वाक्यस्य सामर्थ्यकल्पनपूर्वमन्वयप्रमापकत्वम् अव्याप्तं चेत्याह ॥ किञ्चायमिति ॥ वाक्येनेति ॥ पदान्तरसमभिव्याहाररूपेणेत्यर्थः ॥ इयं प्रक्रियेति ॥ सामर्थ्यकल्पनापूर्वकमन्वयप्रमापकत्वमिति प्रक्रियेत्यर्थः ।
तर्कताण्डवं
यच्चोक्तं स्वार्थे परिपूर्णानामङ्गाङ्गिवाक्यानामुपकार्योपकाराका-काङ्क्षयैकवाक्यत्वं कल्प्यमिति प्रकरणं वाक्यं कल्पयित्वा लिङ्ग-कल्पकमिति ।
तन्न । अर्थभावनाया एकप्रत्ययोपात्तविध्यन्विताया अपि प्रकृत्यर्थेन करणेनान्वयवत्करणेनान्विताया अपि पदान्तरार्थेन भाव्ये-नान्वयवच्छब्दभावनायाः समानप्रत्ययोपात्तार्थभावनारूपभाव्या-न्विताया अपि परस्परान्वितानेकपदात्मकार्थवादोपस्थापितप्राशस्त्या-न्वयवच्च भाव्याद्यन्विताया अप्यर्थभावनाया वाक्यान्तरार्थेनेत्थं भावेनापि विनैव वाक्यकल्पनमाकाङ्क्षादिवशादन्वयोपपत्तेः । प्रयाजा दिकं हि दर्शपूर्णमासभावनाकाङ्क्षितं सन्निहितं योग्यं च आकाङ्क्षादि-रेवान्वयसामग्री ॥
अन्यथा समानपदश्रुत्यापि समानप्रत्ययश्रुतिर्विभक्तिश्रुतिर्वा कल्प्या स्यात् । ऐन्द्र्या गार्हपत्यमितिपदद्वयेन चैकपदश्रुतिः कल्प्या स्यात् । व्युत्पन्नश्च लोके पदार्थयोरिव वाक्यार्थयोरप्यन्वयः ।
न्यायदीपः
एवं लिङ्गवाक्ययोः श्रुतिलिङ्गादिकल्पनाद्वारा प्रामाण्यमित्येतन्निरस्य प्रकरणस्य वाक्यलिङ्गश्रुतिकल्पनाद्वारा प्रमापकत्वम्
‘‘प्रत्यक्षा सङ्गतिर्वाक्ये न तु प्रकरणेस्ति सा ।
आकाङ्क्षातोनुमातव्या तावता विप्रकृष्टता ।’’
इति श्लोकतद्विवरणरूपवार्तिकोक्तमनूद्य निराह ॥ यच्चोक्तमित्यादिना ॥ उपकार्योपकारिकेति ॥ समिधो यजतीत्यादिप्रयाजाद्यङ्गवाक्यानाम् उपकार्याकाङ्क्षया यदाग्नेयादिदर्शपूर्णमासाद्यङ्गिवाक्यानाम् उपकारकाकाङ्क्षयेत्येवं परस्पराकाङ्क्षयेत्यर्थः ।
॥ लिङ्गेति ॥ उपकारकत्वसामर्थ्यरूपलिङ्गकल्पकमित्यर्थः । एतैरुप-कुर्यादिति श्रुतिकल्पनं पश्चादित्यपि योज्यम् । तन्नेत्यस्यार्थभावनाया इत्यादिनान्वयोपपत्तेरित्यन्तेन वाक्येनान्वयः ।
ननु कथमन्यान्वितस्य वाक्यकल्पनां विनान्वय इत्यतो दृष्टान्तानामुक्तिः ॥ अर्थभावनाया इत्यादि ॥
एवं हि परप्रक्रिया । यजेतेत्यत्र ईतेति तिङ्प््रात्ययस्याख्यातत्वं लिङ्त्वं चेतिद्विरूपत्वमास्ति । तिङ्प्रत्ययवाच्या भावना चार्थभावनाशब्दभावनाचेति द्विरूपा । तत्राख्यातत्वेन प्रयत्नापरपर्यायार्थभावनाभिधीयते । लिङ््त्वेन तु प्रवर्तनापरपर्याया विधिशब्दिता शब्दभावनोच्यते । भावनाद्वयमपि फल-करणेतिकर्तव्यतारूपांशत्रयोपेतम् । तत्राद्या स्वर्गादिभाव्यका यागकरणिका प्रयाजादीतिकर्तव्यताका चेतननिष्ठा । द्वितीया तु अर्थभावनाभाव्यका लिङादिवाच्यत्वज्ञानकरणिका प्राशस्त्यरूपेतिकर्तव्यताका लिङादिविधि-प्रत्ययनिष्ठेति । एवं च वाक्यमेतद्व्याख्यातप्रायम् ।
आकाङ्क्षादिवशादित्युक्तं व्यनक्ति ॥ प्रयाजेति ॥ दर्शपूर्णमासकरणक-भावनेत्यर्थः ॥ अन्यथेति ॥ शब्दकल्पनस्यावश्यकत्वे यजेतेत्यत्रैक-पदश्रुत्या यागभावनयोरन्वयबोधस्थेपि यागभावनोभयान्वयबोधकैकप्रत्यय-श्रुतिर्वा एकविभक्तिर्वा कल्प्या स्यात् । ऐन्द्रादिस्थेप्यैन्द्रीगार्हपत्योभयान्वय-बोधकपदश्रुतिः कल्प्या स्यादित्यर्थः ।
नन्वैन्द्रीस्थले पदश्रुतिकल्पनां विना लोकसिद्धव्युत्पत्तिबलादेवान्वय-बोधोपपत्तेर्न तत्र श्रुतिकल्पनेत्यत आह ॥ व्युत्पन्नश्चेति ॥ वाक्यार्थ-योरिति ॥ तथाचाङ्गप्रधानवाक्ययोरन्योन्याकाङ्क्षावशादेवान्वयोपपत्तेर्न वाक्यकल्पना युक्तेति भावः ।
तर्कताण्डवं
किञ्चैन्द्र्या गार्हपत्यमितिवत् प्रयाजादिभिर्दर्शपूर्णमासमुपकुर्यादिति श्रुतिरेव कल्प्यताम् । किं विनियोजकविभक्तिरहितपदसमभिव्याहार-मात्ररूपवाक्यकल्पनापूर्वकलिङ्गकल्पनाक्लेशेन ।
यदिच प्रयाजादिभिर्दर्शपूर्णमासमुपकुर्यादित्येतदेव वाक्यम् । तर्हीतोन्या श्रुतिर्न कल्प्या । सामर्थ्यं त्वैन्द्र्यामिव श्रौताविनियोगा-नन्तरं कल्प्यताम् । सन्निधानलक्षणस्थानस्य आकाङ्क्षारूपप्रकरणादि-कल्पकत्वमप्ययुक्तम् । क्रमप्रमाणे स्थानेऽव्याप्तेः । समाख्यायास्तु श्रुतिरूपत्वात् स्थानकल्पकत्वमत्यन्तमयुक्तमित्युक्तम् ।
तस्मान्न परोक्तं परदौर्बल्यबीजं युक्तम् ।
न्यायदीपः
अभ्युपेत्याप्यङ्गाङ्गीभावबोधकशब्दकल्पनं परोक्तं निराह ॥ किञ्चै-न्द्र्येति ॥ दर्शपूर्णमासमिति समाहारो वा दर्शेन सहितं पूर्णमासमिति वा विग्रहः ॥ श्रुतिरेवेति ॥ तृतीयान्तादिशब्द एवेत्यर्थः । ननु– प्रकरणा-त्कल्प्यमानं वाक्यमेतदेवेत्यत आह ॥ यदिचेति ॥ श्रुतिर्नकल्प्येति ॥ तथाच प्रकरणस्य त्र्यन्तरितं प्रामाण्यमित्यस्य भङ्ग इति भावः ।
ननु विनियोजकश्रुतिकल्पनस्य सामर्थ्यकल्पनपूर्वकत्वात्कथं प्रागेव श्रुतिकल्पनमित्यत आह ॥ सामर्थ्यं त्विति ॥ स्थानस्यापि परोक्त-चतुरन्तरितप्रामाण्यं निराह ॥ सन्निधानेति ॥ क्रमेति ॥ यथासङ्ख्याम्नान- रूपस्थानप्रमाणेव्याप्तेस् तत्र तथैव प्रमापकत्वोपगमादिति भावः । समाख्यायाः पञ्चान्तरितं परोक्तप्रामाण्यं निराह ॥ समाख्याया इति ॥ इत्युक्तमिति ॥ परोक्तश्रुत्यादिलक्षणभङ्गे ।
तर्कताण्डवं
तदेवं यथा १क्रमप्रमाणेषु देवताप्रमाणेषु तद्धितादिष्वतिदेश-प्रमाणेषु वचननामधेयचोदनालिङ्गेषु चोत्तरोत्तरस्य पूर्वपूर्वकल्पकत्व-नियमाभावेपि परदौर्बल्यम् । सावकाशनिरवकाशादौ च पूर्वस्योत्तर-कल्पकत्वाभावेपि पूर्वदौर्बल्यं तथा टीकोक्तरीत्या लिङ्गादेः श्रुत्यादि-कल्पकताभावेऽपि परदौर्बल्यमिति ।
॥ भट्टोक्तश्रुत्यादिबलाबलबीजभङ्गः ॥ ८१ ॥
न्यायदीपः
किं तर्हि दौर्बल्यबीजमित्यत उपसंहारमुखेन दृष्टान्तपूर्वमाह ॥ तदेवमिति ॥ उक्तदिशा परोक्तस्यायुक्तत्वाट् टीकोक्तरीत्या परदौर्बल्य-मित्यन्वयः । यथेत्यस्य तथेत्यनेनान्वयः ॥ क्रमेति ॥ श्रुत्यर्थपाठ-स्थानमुख्यप्रवृत्तिरूपपञ्चमाध्यायोक्तक्रमबोधकप्रमाणेषु ।
॥ देवेति ॥ तद्धितचतुर्थीमन्त्रवर्णरूपेषु त्रिषु प्रमाणेषु । आग्नेयोष्टा-कपाल इत्यादौ तद्धितस्य पृथिव्यै स्वाहेत्यादौ चतुर्थ्या यदग्नये च प्रजापतये च सायं जुहोतीत्यादौ मन्त्रवर्णस्य देवतायां मानत्वात् । तद्वदिदं कर्तव्य-मित्यतिदेशप्रमाणेषु वचनादिष्वित्यर्थः । वचनं च नामधेयं च चोदनालिङ्गं च तेष्वितिविग्रहः ।
सप्तमेध्याये ‘‘समाने पूर्वत्वादुत्पन्नाधिकारः स्यात्’’ इत्याद्यपादीय-द्वितीयनये इषुनामकैकाहे ज्योतिष्टोमविकारे क्रतौ कांश्चिद्वैशेषिकान् धर्मान्विधायाम्नातेन समानमितरच्छयेनेनेति प्रत्यक्षवचनेन श्येनवैशेषिकाङ्गा-नामिषावतिदेश उक्तः । ‘‘उक्तं क्रियाभिधानं तच्छ्रुतावन्यत्र विधिप्रदेश स्याद्’’ इति तृतीयपादीयाद्यनये मासमग्निहोत्रं जुहोतीत्यत्र नित्याग्नि-होत्रेऽग्निदेवतासद्भावात्कप्तशक्तिकेन तत्सादृश्यविधित्सया कुण्डपायिना-मयनगेकर्मणि प्रयुक्तेनाग्निहोत्रनामधेयेन तस्मिन्कर्मणि नित्याग्निहोत्रधर्माणा-मतिदेश उक्तः ।
इतिकर्तव्यताविधेर्यजतेः पूर्वत्वादिति चतुर्थपादीयाद्यादिनयेषु सौर्यं चरुं निर्वपेद् ब्रह्मवर्चसकाम इत्यादिष्वनुपदिष्टधर्मेषु प्रत्यक्षवचनस्य नाम्नश्च अतिदेशकस्याभावेपि कुतश्चिद्वैदिकात् कर्मणोधर्मप्रमापकं वचनमस्तीत्यानु-मानिकवचनरूपेण चोदकेनातिदेश उक्त इति वचनेत्याद्युक्तम् ।
चोदनाविधिवाक्यं तस्थमौषधद्रव्यकत्वैकदेवताकत्वनिर्वापकत्वादिकं लिङ्गं चोदनालिङ्गम् । तेनैवाग्नेयसौरादेः प्रकृति१विकाराभावावगमात् ॥ टीकोक्तेति ॥ शब्दादेवेत्यत्र टीकोक्तरीत्या दौर्बल्यमित्यर्थः ।
॥ भट्टोक्तश्रुत्यादिबलाबलबीजभङ्गः ॥ ८१ ॥