यच्चोक्तं मणौ– चित्रगुमानयेत्यादिबहुव्रीहौ..
७४. अथ बहुव्रीहौ लक्षणाभङ्गः ।
तर्कताण्डवं
यच्चोक्तं मणौ–
चित्रगुमानयेत्यादिबहुव्रीहौ चित्रगोपदार्थयोरन्वयबोधानन्तरं गोपदं स्वज्ञाप्यचित्रगोसम्बन्धिनस्तत्स्वामिनो लक्षकम् । चित्रपदं तु गवान्वितस्वार्थबोधकतया मुख्यार्थमेव । न तु पदद्वये एका अनेका वा लक्षणा । उक्तरीत्यैकनिष्ठैकलक्षणयैवोपपत्तेः ।
न्यायदीपः
एवं तत्पुरुषे लक्षणापक्षं समुदायशक्तिपक्षं वृत्तिं विनान्वयप्रकारतया सम्बन्धभानपक्षं च निरस्य योगवृत्तिमुक्त्वा बहुव्रीहौ योगरूढिवृत्तिं समर्थय-मानो लक्षणावादानन्तरं मण्युक्तं लक्षणापक्षमनूद्य निराह ॥ यच्चोक्तमिति ॥ तन्नेत्यन्वयः । मणौ बहुव्रीहिचिन्तानन्तरं तत्पुरुषचिन्तनेपीह सोपा-नारोहणन्यायेन योगवृत्तिस्थलचिन्तानन्तरं योगरूढिवृत्तिस्थलचिन्तना-द्व्यत्यासः ।
मुख्यार्थसम्बन्धलाभायोक्तम् ॥ चित्रगोपदार्थयोरन्वयबोधानन्तर-मिति ॥ चित्रपदार्थगोपदार्थयोरभेदरूपान्वयबोधानन्तरमित्यर्थः । लक्षणा-बीजं मुख्यसम्बन्धमाह ॥ स्वज्ञाप्येत्यादि ॥
सम्बन्धश्च स्वस्वामिभाव इत्याह ॥ तत्स्वामिन इति ॥ पदद्वय इति ॥ समुदाय इत्यर्थः ॥ अनेकावेति ॥ चित्रपदार्थस्यापि परम्परया चित्रगोस्वामिसम्बन्धाच्चित्रपदेपि लक्षणा नेत्यर्थः ।
तर्कताण्डवं
न च स्वामिनि समुदायशक्तिः । उक्तलक्षणयैवोपपत्त्या समुदाय-शक्तौ मानाभावात् । अनन्यलभ्ये हि शक्तिः ।
न्यायदीपः
ननु– अनन्यलभ्य एव शक्तिर्न तूक्तदिशा लक्षणादिलभ्य इति यथा तथा लक्षणावृत्तिरप्यनन्यलभ्य एव स्वामी चेह वृत्तिं विनाऽपि लभ्योऽ-स्त्वित्यत आह ॥ न चेति ॥ पदार्थसंसर्गत्वेन वा विग्रहस्थ षष्ठ्यन्तय-च्छब्देन वा स्वामिनो लाभः स्यात् । न चतद्द्वयमपि युक्तमित्यर्थः ।
तर्कताण्डवं
न च स्वामी चित्रगोपदार्थयोः संसर्गः । येन वृत्तिं विनापि भासेत ।
नापि स्वामी चित्रा गावो यस्येति विग्रहस्थयच्छब्दार्थः । षष्ठ्यन्तेन तेनानयनकर्मत्वेनानुपस्थापनात् ।
न्यायदीपः
॥ अनुपस्थापनादिति ॥ स्वस्वामिभावादिसम्बन्ध एव षष्ठीशेष इति सूत्रेण षष्ठीविधानेन कर्मत्वादिबोधने सामर्थ्याभावादिति भावः ।
तर्कताण्डवं
न च लक्षकत्वे लक्षणीयपदलिङ्गत्वं न स्यात्, लाक्षणिकस्य गङ्गादिपदस्य लक्षणीयपदलिङ्गाग्राहकत्वनियमादिति वाच्यम् । बहुव्रीहेर्नियतविशेषणपदत्वेन नियमतो विशेष्यपदलिङ्गत्वोपपत्तेः । अनियतलिङ्गत्वे सति विशेषणपदत्वमेव हि विशेष्यपदलिङ्गत्वे तन्त्रम् । न तु शक्तत्वे सतीत्यपि । गौरवात् । दण्डीत्यादिवाक्यस्य अशक्तस्यापि विशेष्यपदलिङ्गत्वदर्शनाच्च । तस्माद् बहुव्रीहावन्यपदार्थे लक्षणैवेति ।
तन्न । अन्यपदार्थे समुदायशक्त्यभावे हि केशाकेशीत्यादिबहुव्रीहौ केशग्रहणप्रहरणकर्मव्यतिहारपूर्वकयुद्धरूपस्यान्यपदार्थस्यैकेनैव केश-शब्देन लक्षणासम्भवेनेतरवैयर्थ्यं स्यात् ॥
न्यायदीपः
बाधकमाशङ्क्य निराह ॥ न च लक्षकत्व इति ॥ गोपदस्येति शेषः । नियतविशेषणपदत्वेनेति बहुव्रीहिः । पदसमुदायस्यान्यपदार्थवाचिपदं प्रति विशेषणपदत्वनियमादित्यर्थः ॥ दण्डीत्यादि वाक्यस्येति ॥ तार्किकमते प्रकृतिप्रत्ययसमभिव्याहारस्य वाक्यरूपत्वाद्वाक्ये वृत्तेरनङ्गीकारा-द्वाक्यस्य अशक्तस्येत्युक्तम् ।
॥ विशेष्यपदलिङ्गत्वेति ॥ दण्डिगृहं दण्डी पुरुषः दण्डिनीस्त्रीति-दर्शनादित्यर्थः ॥ तस्मादिति ॥ अनन्यलभ्यत्वाभावेन शक्तेरयोगात् । लक्षणैवोत्तरपदस्येति योज्यम् । न तु लक्षणाद्वयं समुदायशक्तिर्वेत्यर्थः । योगमग्रे साधयिष्यन् रूढिं तावद्विपक्षबाधकोक्त्या साधयति ॥ अन्यपदार्थ इति ॥ केशेषु केशेषु गृहीत्वेदं युद्धं प्रवर्तितमिति विग्रहे ‘‘तत्र तेनेदमिति सरूपे’’ इति बहुव्रीहिः । ‘‘इच्कर्मव्यतिहार’’ इति समासान्त इच् प्रत्ययः । ‘‘अन्येषामपि दृश्यत’’ इति पूर्वपदस्य दीर्घः । ‘‘तिष्ठद्गुप्रभृती-निच’’ इत्यव्ययत्वे केशाकेशीति रूपम् ।
तर्कताण्डवं
किं च विग्रहस्थयत्पदाक्षिप्ततच्छब्देनैवान्यपदार्थो मुख्यतयो-च्यताम् । किं लक्षणया ।
न च तच्छब्दाध्याहारादपि वरं श्रुतस्य गोशब्दस्यैव लक्षणेति वाच्यम् । आकाङ्क्षाद्यननुसन्धानेपि यच्छब्दाद् व्याप्तिबलेनैव तच्छब्दोपस्थित्याध्याहाराभावात् । तच्छब्दश्च चित्रगुमिति द्वितीयोक्तकर्मत्वान्वयार्थमविभक्तिकमेव कल्प्यते । न तु द्वितीयान्तः । तथात्वे तत्समानाधिकरणस्य गोशब्दस्यापि स्वामि-परत्वापातात् ॥
न च तच्छब्दोक्तस्वामिनः कथं गोशब्दात्परद्वितीयोक्त-कर्मत्वान्वयः, सुब्विभक्तेः प्रकृत्यर्थगतस्वार्थाभिधायित्वनियमादिति वाच्यम् ।
तिङ्विभक्त्याक्षिप्तकर्तृगतसङ्ख्यावाचित्वाय सुबिति विशेषणवद् बहुव्रीहिप्रकृतिकविभक्तेर्विग्रहस्मारिततच्छब्दार्थगतसङ्ख्यावाचित्वाया-बहुव्रीहित्यपि विशेषणस्य युक्तत्वात् ।
विदुषेव कथ्यत इत्यत्रेवार्थे सदृशे विद्वत्प्रातिपदिकात् पर-तृतीयोक्तकर्तृत्वान्वयस्य नानुयाजेषु ए यजामहं करोतीत्यत्र व्यस्त-नञर्थेनुयाजव्यतिरिक्तेऽनुयाजप्रातिपदिकात् परसप्तम्युक्ताधारत्वा-न्वयस्य च दर्शनाच्च । विग्रहस्मरणनैयत्ये च मानमुक्तं तत्पुरुष-प्रस्तावे ।
न्यायदीपः
यत्तु नापीत्यादिनोक्तं तन्निराह ॥ किं चेति ॥ तच्छब्देनैवेति ॥ तथा च वक्ष्यमाणदिशा नयनकर्मत्वान्वयः सुशक इति भावः ॥ अकाङ्क्षा-दीति ॥ इषेत्वेत्यादौ छिनत्तीत्यादेरिवाकाङ्क्षायोग्यताद्यनुसन्धाने हि तादृशपदस्याध्याहारः । न चेह तथेति भावः ।
ननु– तमिति तच्छब्दान्वये चित्रगुमिति कर्मत्वान्वयो न स्यादित्यत आह ॥ तच्छब्दश्चेति ॥ सुब्विभक्तेरिति ॥ तिङि्वभक्तेराक्षिप्तकर्तृगत-सङ्ख्यावाचित्वेन तत्राव्यभिचाराय सुबिति विशेषणम् ॥ आक्षिप्तेति ॥ आख्यातवाच्यकृत्याक्षिप्तेत्यर्थः ।
क्वाप्येवं नोपलब्धमित्यत आह ॥ विदुषेवेति ॥ विद्वत्सदृशेन कथ्यत इत्यर्थस्य तत्राभिमतत्वादिवार्थे सदृश इत्याद्युक्तम् ।
वैदिकोदाहरणं चाह ॥ नानुयाजेष्विति ॥ यजति ए यजमहं करोति नानुयाजेष्वितिवाक्ये नञः पर्युदासत्वाश्रयणेनानुयाजव्यतिरिक्तेषु यजतिषु ये यजामहं करोतीत्यर्थस्य दशमान्त्यपादीयाद्याधिकरणे निर्णीतत्वादिति भावः ॥ व्यस्तेति ॥ समस्तत्वे अननुयाजेष्विति स्यादिति भावः ।
समासश्रवणसमये विग्रहस्मरणनियमाभावात्कथं तच्छब्देन स्वामिन उक्तिरित्यत आह ॥ विग्रहे इति ॥ उक्तमिति ॥ समासश्रवणकाल इत्यादिना ग्रन्थेनेति भावः ।
तर्कताण्डवं
केचित्तु– बहुव्रीहौ चित्राणां गवां स्वामीत्येव विग्रहो न तु चित्रा गावो यस्येति । तथात्वे षष्ठीनिर्दिष्टस्य स्वामिनो राज्ञः पुरुषमित्यत्रे-वोपसर्जनत्वेन क्रियानन्वयप्रसङ्गात् । तथा च विग्रहस्थस्मृतस्वामि-पदेनैव तद्धीरिति न तत्र लक्षणेत्याहुः ॥
वस्तुतस्तु बहुव्रीहौ चित्रायां गवि योगोऽन्यपदार्थे रूढिरिति पङ्कजादिवद्योगरूढिः । चित्रगुसमुदायस्य अन्यपदार्थे उत्सर्गतस्तात्पर्य-नियमात् । तस्य च शक्तिव्याप्यत्वात् । न हि गङ्गापदस्य तीरे तन्नियमः ।
न्यायदीपः
॥ केचित्विति ॥ अत्रारुचिबीजं तु सर्वसिद्धव्युत्पत्तिविरोधाच्चित्रगुर्गोष्ठ इत्यादावयोगाच्च तच्छब्देन प्राधान्यावगत्या क्रियान्वयसम्भवाच्च नैवं कल्पनेति ज्ञेयम् ।
नन्वेवं समुदायरूढ्यङ्गीकारेऽवयवार्थानुभवविरोध इत्यत आह ॥ वस्तुतस्त्विति ॥ रूढौ हेतुमाह ॥ चित्रगुसमुदायस्येति ॥ विशेषणत्व-स्थले गव्यपि तात्पर्यदर्शनादुत्सर्गत इत्युक्तम् ।
शक्तिव्याप्यत्वं व्यभिचाराभावेन व्यनक्ति ॥ नहीति ॥ समासस्थगो-शब्दस्यैवान्यपदार्थतात्पर्यनियमेन तत्र शक्तिकल्पनमभ्रान्त्वा तात्पर्य-नियमादित्यस्य व्यभिचारमाशङ्क्य निराह ॥ न चेति ॥ न नियम इति ॥ अन्यपदार्थे तात्पर्यनियमोनेत्यर्थः ।
तर्कताण्डवं
न च गोशब्दस्य गामानयेत्यादौ गव्यपितात्पर्यान्न नियमः, गुशब्दश्चैकदेशविकृतोपि गोशब्द एव, अन्यथा स्वामिमात्रं भासेत न तु गोस्वामीति वाच्यम् । व्यधिकरणत्वात् । न हि गोशब्दस्यान्य-पदार्थे तात्पर्यनियमेन तस्य तत्र शक्तिमलक्षकत्वं वा ब्रूमः । येनैवं शङ्क्येत । किन्तु समुदायस्यान्यपदार्थे तन्नियमेन तत्र शक्तिम् ।
न च समुदायस्थगोशब्दस्य निरूढलक्षणयैवान्यपदार्थधीसम्भवेन समुदायशक्तौ मानं नेति वाच्यम् । तात्पर्यप्रयोगप्रतीतानां नियमे सत्यप्यस्वरसनिरूढलक्षणया स्वरसाभिधापलापे पटशब्दस्य व्यक्तौ, मण्डपादिशब्दसमुदायस्थपादिशब्दस्य गृहविशेषे, पङ्कजशब्द-समुदायस्थजशब्दस्यापि पद्मे तया तदपलापापातात् ।
न्यायदीपः
ननु– गोशब्दस्य तथात्वेपि गुशब्दे किमायातमित्यत आह ॥ गुशब्दश्चेति ॥ ‘‘गोस्त्रियोरुपसर्जनस्य’’ इति सूत्रेणौकारस्य उकाररूप-ह्रस्वादेशे गुशब्दनिष्पत्तेरौकाररूपैकदेशेन उकारात्मना विकृतोपि ‘‘एकदेश-विकृतमनन्यवद्भवति’’ इति न्यायेन गोशब्द एवायमित्यर्थः ।
॥ अन्यथेति ॥ गोशब्दादन्यत्व इत्यर्थः ॥ लक्षकत्वं वेति ॥ वा शब्द उपमायाम् । यथा गङ्गेशादिर्लक्षकत्वं ब्रूते न तथावयं शक्तिं ब्रूम इत्यर्थः । अलक्षकत्वमितिपाठे तु न क्लेशः ॥ किं तु समुदायस्येति ॥ तथा च न दोष इति भावः ।
समुदायस्यान्वयपदार्थे तात्पर्यनियमोपि न शक्तिकल्पक इति भावेनाशङ्क्य निराह ॥ न चेति ॥ तयेति ॥ निरूढलक्षणया समुदाय-शक्त्यपलापप्रसङ्गादित्यर्थः ।
तर्कताण्डवं
किञ्च–
लक्षणाया निरूढत्वं न तावन्मञ्चाः क्रोशन्तीत्यादिवत् प्रयोजना-नपेक्षत्वं प्रयोगप्राचुर्यं वा । तथात्वेपि तद्वदेव मुख्यार्थानुपपत्त्यनु-सन्धानसापेक्षत्वापातात् । न चेष्टापत्तिः । चित्रगुः, व्यूढोरस्कः, द्विमूर्धः, व्याघ्रपात्, प्रज्ञुः, सज्ज्ञुः, इत्यादौ यत्र बहुव्रीहिलिङ्गमस्ति तत्र गवादिरूपमुख्यार्थानुपपत्त्यननुसन्धानेप्यन्यपदार्थप्रतीतेः ।
नापि– घटं करोतीत्यादाविव मुख्यार्थस्य गोमच्छशब्दस्य कदाप्यप्रयोगो निरूढत्वम्; तत्र हि सिद्धे कारकत्वयोग्ये कृतिविषये घटावयवे कृत्युद्देश्यघटवाचको घटशब्द एव लक्षणया प्रयुज्यते, न तु वाचको घटावयवशब्द इति वाच्यम् । तद्वदेवानुपपत्ति-सापेक्षत्वापातात् । इह च चित्रगोस्वामीति वाचकस्यापि प्रयोगाच्च ॥
नापि– मुख्यार्थस्य तात्पर्यस्य चानुपपत्तिमनपेक्ष्य बहुव्रीहि-स्थत्वमात्रेण ज्ञातत्वं वा मुख्यार्थानुपपत्तिमनपेक्ष्य बहुव्रीहिस्थत्व-मात्रेण १ज्ञानतात्पर्यकत्वं वा लक्षणाया निरूढत्वम् । गोशब्दाद्गो-रनुपस्थितौ तस्याश्चित्रान्वयासिद्धेः ।
उपस्थितौ तस्य वा तत्र तात्पर्यस्य वा त्यागहेत्वनुपपत्त्य-ननुसन्धाने तन्मूललक्षणाव्याहतेः । अन्यथा पङ्कजशब्दस्थजशब्दस्यापि पद्मे निरूढलक्षणा स्यादित्युक्तम् ।
न्यायदीपः
एवं निरूढलक्षणेति पक्षमतिप्रसङ्गेन निरस्य विकल्पमुखेनापि निरसितुं हृदि पञ्चधा विकल्प्य क्रमेण निराह ॥ किञ्चेत्यादिना इत्युक्तमित्यन्तेन ॥ चित्रगुरिति ॥ ‘‘गोस्त्रियोरुपसर्जनस्य’’ इति समासान्तो ह्रस्वः ।
॥ व्यूढोरस्क इति ॥ ‘‘उरप्रभृतिभ्यः कप्’’ इति कप्रत्ययः समासान्तः ॥ द्विमूर्ध इति ॥ ‘‘द्वित्रिभ्यां ष मूर्ध्नः’’ इति षः प्रत्ययः ॥ व्याघ्र-पादिति ॥ व्याघ्रस्य पादाविव पादौ यस्य सः । ‘‘पादस्य लोपोऽहस्त्या-दिभ्यः’’ इत्यन्तलोपः ।
॥ प्रज्ञुः सज्ज्ञुरिति ॥ प्रकृष्टं जानु यस्य सः प्रज्ञुः । सम्यग्जानु यस्य सज्ज्ञुः ‘‘प्रसम्भ्यां जानुनो ज्ञुः’’ इति जानुशब्दस्य ज्ञुरादेशः ॥ बहुव्रीहिलिङ्गमिति ॥ ह्रस्वत्वादिकम् ॥ इत्यादाविति ॥ तत्र यथा घटावयवं करोतीति कदाप्यप्रयोग एवं गोमच्छब्दस्येत्यर्थः ।
घटं करोतीत्यादाविवेत्युक्तं व्यनक्ति ॥ तत्र हीति ॥ अनुपपत्तीति ॥ तत्र यथा कृत्युद्देशे घटे कृतिविषयत्वमनुपपन्नमित्यनुसन्धानेन घटावयवं प्रत्येति । एवं चित्रगुमित्यादावपि चित्रगवानयनाद्यनुपपत्त्यनुसन्धानेनान्य-पदार्थधीः स्यादित्यर्थः ।
मुख्यशब्दान्तराप्रयोगोऽसिद्ध इत्याह ॥ इहेति ॥ बहुव्रीहिस्थत्व-मात्रेणेत्युक्तमात्रपदव्यावर्त्यविवरणम् ॥ मुख्यार्थस्येत्यादि ॥ पक्षद्वयेपि मुख्यार्थानुपपत्तिमनपेक्ष्येति लक्षणावादिना न वक्तुं युक्तमित्याह ॥ गोशब्दादिति ॥
गोरूपार्थस्योपास्थितिर्नास्त्युतास्ति आद्य आह ॥ गोरिति ॥ अन्त्य आह ॥ उपस्थिताविति ॥ गोशब्दादित्यनुषङ्गः ॥ उक्तमिति ॥ तात्पर्यप्रयोगप्रतीतानां नियमे सत्यपीत्यादिग्रन्थेनेति भावः ।
तर्कताण्डवं
ननु– तथापि यदवयवरूपमनेकं पदं न तदन्यपदार्थवृत्ति । यश्चान्यपदार्थवृत्तिः समुदायः नासावनेकः । ततश्च ‘‘अनेकमन्य-पदार्थ’’ इति सूत्रं कथमिति चेन्न । समुदायस्याप्यनेकावयव-गर्भितत्वात् । अवयवस्यापि परम्परयाऽन्यपदार्थबोधकत्वात् ।
न हि चित्रगोपदयोरभावे चित्रगोस्वामिलाभः । त्वन्मतेपि गोपदमेव लक्षणयान्यपदार्थवृत्ति । चित्रपदं तु परम्परया तद्बोधक-मात्रम् ।
न च तर्हि चित्रपदेपि लक्षणास्त्विति वाच्यम् । पङ्कजादा-विवावयवयोः समुदायस्य च मुख्यवृत्तिसम्भव उभयलक्षणायोगात् । सूत्रोक्तमन्यत्वं च समासारम्भक१वर्तिपदार्थापेक्षयेति समुदायोऽन्य-पदार्थवृत्तिरेव ।
किञ्च त्वन्मते चित्रगुमित्यत्र चित्रपदस्येव चित्रगोस्वामीत्यत्र स्वामिपदे सत्यपि चित्रगोपदयोः परम्परया विशिष्टस्वामिबोधोप-युक्तत्वेनान्यपदार्थवृत्तित्वाद् बहुव्रीहिसञ्ज्ञायां चित्रगुस्वामीति स्यात् । अस्माकं तु तत्र समुदायो नान्यपदार्थवृत्तिरिति न तत्सञ्ज्ञा ।
तस्माद् बहुव्रीहाववयवार्थपूर्वकान्यपदार्थप्रतीतेः पङ्कजादि-वद्योगरूढिरेव ॥
न्यायदीपः
एवमुक्तदिशा अन्यपदार्थे समासपदस्य शक्तत्वेपि सूत्रमयुक्तं प्राप्नोतीति शङ्कते ॥ नन्विति ॥ अनेकमिति ॥ अन्यपदार्थे वर्तमानमनेकं सुबन्तं समस्यते स समासो बहुव्रीहिरिति सूत्रार्थः । यदवयवरूपमित्यादिना प्रागुक्तपक्षद्वयेपि सूत्रं युक्तमिति भावेनाह ॥ समुदायस्यापीति ॥ तवापि सममेतदित्याह ॥ त्वन्मतेपीति ॥
नन्वेवं चित्रपदस्याप्यन्यपदार्थलक्षकत्वमस्तु । एवं चानेकमन्यपदार्थ इति स्वरसमापद्यत इति पदद्वयलक्षणामतमाशङ्क्य निराह ॥ न च तर्हीति ॥ सूत्रस्वारस्यस्यानुसर्तव्यत्वपक्ष इत्यर्थः ।
ननु समुदायस्य शक्तत्वे शक्यस्य स्वार्थत्वेन कथमन्यपदार्थ इत्युक्ति-रित्यत आह ॥ सूत्रोक्तमिति ॥ तत्पुरुषस्थलेपि षष्ठ्यन्तस्यान्यपदार्थे लक्षणाङ्गीकारेण बहुव्रीहिसञ्ज्ञापत्त्या रूपविकारप्रसङ्ग इत्याह ॥ किञ्चेति ॥
॥ चित्रगोस्वामीति ॥ चित्राणां गवां स्वामीति विग्रहे चित्रगव-स्वामीति वा चित्रगवीस्वामीति वा भाव्यमिति न शङ्क्यम् । समासान्त-विधेरनित्यत्वादिति ज्ञेयम् ॥ चित्रगोपदयोरिति ॥ चित्रपदस्य चित्रत्व-विशिष्टगोरूपार्थद्वारातत्स्वामिबोधोपयुक्तत्वमिव गोपदस्यापि गोरूपार्थोप-स्थितिद्वारा तत्सम्बन्धिलक्षकत्वाच् चित्रगोपदयोः परम्परयेत्युक्तम् । १पदद्वयस्य समुदायस्येत्यर्थः ॥ विशिष्टेति ॥ चित्रगोसम्बन्धित्व-विशिष्टेत्यर्थः । इतरव्यावृत्तेति वार्थः ।
॥ बहुव्रीहीति ॥ ‘‘अनेकमन्यपदार्थ’’ इति बहुव्रीहिसञ्ज्ञायां ‘‘गोस्त्रियोरुपसर्जनस्य’’ इति ह्रस्वत्वे चित्रगुस्वामीति स्यादित्यर्थः ॥ नान्यपदार्थवृत्तिरितीति ॥ तत्पुरुषे लक्षणानङ्गीकारादिति भावः ॥ सुधायामपीति ॥ आनुमानिक पादे वृत्तिनिरूपणप्रस्तावे ‘‘योगो यथा’’ इत्युपक्रम्य ‘‘कुम्भकारः, औपगवः, राजपुरुषः’’ इति कृत्तद्धितसमासाना-मुदाहरणस्थले तत्पुरुष एवोदाहृत इत्यर्थः ।
तर्कताण्डवं
सुधायामपि राजपुरुष इति तत्पुरुष एव योग उक्तः । न तु बहुव्रीहौ । कृत्तद्धितसमासेत्युत्तरवाक्यस्थसमासशब्दोपीतरसमासपर इति बहुव्रीहौ योगरूढिस्वीकारे न सुधाविरोधः ।
यद्वा बहुव्रीहौ समासान्तानां कबादीनामेवान्यपदार्थे शक्तिः, न तु समुदायस्य । तस्य तु योग एवेति न तद्विरोधः । यत्र न समा-सान्तस्तत्रापि चित्रगुरुद्गन्धिरित्यादौ ह्रस्वादिविकारोस्त्येव । भवति च विकारेणाप्यर्थभेद उपोमन्यायेत्यादावुपशब्दस्थाकारस्यौकाररूपेण विकारेण ।
उक्तं हि कर्मनिर्णंये– ‘‘ओ अतिशय’’ इति सूत्रमिति ।
यत्र विकारोपि न तत्रापि ह्यर्थपरः स्वरविशेषोऽस्त्येव । ‘‘मन्त्रो हीन’’ इति श्रुतौ वर्णहीनस्येव स्वरहीनस्याप्यवाचकत्वोक्तेः । भ्रातृव्यादिपदे स्वरविशेषेणैव सपत्नाद्यर्थप्रतीतेश्च । इन्द्रशत्रुरिति पदे स्वरेणैवान्यपदार्थोक्तेश्च ॥
तस्माद् बहुव्रीहौ शक्तिरेव ।
न्यायदीपः
नन्वेवं तत्रैव ‘‘नैते यौगिकाः किं नाम, रूढा एव, कृत्तद्धिता-समासकरणं तु व्युत्पादनार्थम्’’ इति चोद्यं कृत्वा केवलयौगिकत्वस्य समासमात्रे समर्थनेन तद्विरोध इत्यत आह ॥ कृत्तद्धितेति ॥
सुधास्वारस्यानुरोधेन समासमात्रस्य यौगिकत्वमुपेत्य बहुव्रीहावन्यपदार्थे शक्तिं प्रकारान्तरेणाह ॥ यद्वेति ॥ कबादीनामिति ॥ ‘‘उरःप्रभृतिभ्यः कप्’’ इत्यादिनोक्तकप्प््रात्ययादीनामित्यर्थः ॥ नतदिति ॥ सुधाविरोध इत्यर्थः ।
॥ उपोमन्यायेति ॥ ‘‘उपोमन्यायमन्यव उपेहि विश्वघ’’ इति मन्त्रे उपमन्यायेति वाच्ये उपोमन्यायेत्युक्तिरोकाररूपविकारविशेषेणाति-शयार्थलाभायेत्येतत् कर्मनिर्णये भगवत्पादैरुक्तमित्यर्थः । विकारेणेत्यनन्तर-मर्थभेद इत्यनुषङ्गः ।
॥ सूत्रमिति ॥ महाव्याकरणसूत्रमित्यर्थः । कथं स्वरविशेषस्यार्थ-विशेषपरत्वमित्यत आह ॥ मन्त्र इति ॥
‘‘मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह ।
स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोपराधात्’’ ।
इति श्रुतावित्यर्थः ॥ भ्रातृव्यादीति ॥ ‘‘व्यन्सपत्न’’ इतिसूत्रे भ्रातृशब्दात्सपत्नेर्थे व्यन्प्रत्ययो भवतीत्युक्ततया व्यन्प्रत्ययस्य नकारे-त्सञ्ज्ञकत्वेन ‘‘ञिनित्यादिर्नित्यमिति’’ विहितेनाद्युदात्तस्वरेण ‘‘परास्य भ्रातृव्यो भवती’’त्यादौ शत्रुरित्यर्थप्रतीतेः । अन्यथा ‘‘तु भ्रातुर्व्यच्चेति स्वरेण सहोदरपुत्र इत्येव प्रतीतेरिति भावः ।
॥ इन्द्रेति ॥ ‘‘इन्द्रशत्रुर्वर्धस्व’’ इत्यत्रेन्द्रस्य शत्रुः शातयिता इति तत्पुरुषो वा, इन्द्र एव शत्रुः शातयिता यस्येति बहुव्रीहिर्वेति सन्देहे तत्पुरुषज्ञापकस्य ‘‘समासस्ये’’ति सूत्रविहितान्तोदात्तस्वरस्याभावेन ‘‘बहुव्रीहौ प्रकृत्या पूर्वपदं’’ इत्युक्तपूर्वपदप्रकृतिस्वरेण बहुव्रीहित्वावगमके-नान्यपदार्थोक्तेरित्यर्थः ॥ शक्तिरेवेति ॥ अन्यपदार्थविषय इति योज्यम् ।
तर्कताण्डवम्
अत एव श्रुतौ ‘‘तद्यदस्येदं विश्वं मित्रमासीद्यदिदं किञ्च तस्माद्विश्वामित्रस्तस्माद्विश्वामित्र इत्याचक्षते । एतमेव सन्तम्’’ इति बहुव्रीहौ विश्वामित्रशब्दे, स्मृतौ च ‘‘अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः’’ इति नारायणपदे । सूत्रे चादृश्यत्वादिगुणकशब्दे भगवति मुख्यतैवोक्ता ।
॥ इति बहुव्रीहौ लक्षणाभङ्गः ॥ ७४ ॥
न्यायदीपः
॥ तदिति ॥ यद्यस्मात्तत्प्रसिद्धमिदं विश्वमस्य प्रकृतप्राणनाम्नो भगवतो मित्रमासीत् तस्मादित्यैतरेयश्रुतावित्यर्थः । बहुव्रीहौ मुख्यतैवोक्तेत्यन्वयः ॥ ता इति ॥ आप इत्यर्थः ।
‘‘आपो नारा इति प्रोक्ता आपो वै नरसूनवः’’ ।
इति पूर्वशेषे अपां प्रकृतत्वात्, विश्वं मित्रं यस्य नारा अयनं यस्येति विग्रहसूचनात्, सूत्रे कप्प््रात्ययप्रयोगाद् बहुव्रीहावित्युक्तम् । समन्वय सूत्रत्वात्सूत्रे मुख्यतावगम्य इति भावः ।
**॥ इति बहुव्रीहौ लक्षणाभङ्गः ॥ ७४ ॥ **