अत्र मुख्यवृत्तित्रये पङ्कजादिशब्देषु रूढेर्योगाच्च योगरूढिः प्रबला
७१. अथ रूढ्यादिवृत्तित्रयस्य बलाबलनिर्णयः ।
तर्कताण्डवम्
अत्र मुख्यवृत्तित्रये पङ्कजादिशब्देषु रूढेर्योगाच्च योगरूढिः प्रबला । रूढार्थस्य पद्मशब्देनापि, यौगिकार्थस्य च कर्दमजातशब्देनापि, प्रतीतिसम्भवेनाप्तप्रयुक्तानामवयवानां समुदायस्य च सार्थक्यायो-भयानुग्रहकस्यौचित्यात् ।
अत एव लोके निरुपपदेन पङ्कजशब्देनोत्सर्गतो जलकमलस्यैव धीः । न तु स्थलकमलस्य । न वा कुमुदस्य । एवं वेदेपि ब्रह्मादि-शब्दैर्न रूढिमात्राज्जीवादेर्धीः । नारायणादिशब्दैरपि न योगमात्राद-बयनवस्तुमात्रस्य ।
न्यायदीपः
एवमस्य शब्दस्य वृत्तिस्त्रेधेत्यादिना प्रकरणदशकेन विभागलक्षण-परीक्षाभिर्वृत्तिस्वरूपाणि निर्धार्येदानीं बलाबलं निरूपयितुं मुख्यवृत्तीनां ताव-त्तदाह ॥ अत्रेति ॥ प्राङ्निरूपितमुख्यामुख्यवृत्तिमध्ये यन्मुख्यवृत्तित्रयं तस्मिन्नित्यर्थः । पङ्कजमानयेत्यादौ रूढितः स्थलकमलस्य योगात्कुमुदादे-र्योगरूढितो जलकमलस्य ग्रहणप्रसक्तौ कस्य ग्रहणमित्यत आह ॥ रूढे-र्योगाच्चेति ॥
प्राबल्ये हेतुमाह ॥ रूढार्थस्येति ॥ वेदेपीति ॥ ‘‘तद्विजिज्ञासस्व, तद् ब्रह्म’’ इत्यादौ, श्रुतब्रह्मशब्दादेः ‘‘अथ कस्मादुच्यते ब्रह्मेति । बृहन्तो ह्यस्मिन्गुणाः’’ इत्यादिश्रुत्या, ‘‘तदेव ब्रह्म परमं’’ इत्यादिश्रुत्या च योगरूढैर्र्ब्रह्मादिशब्दैरित्यर्थः । व्यक्तमेतज्जन्माधिकरणचन्द्रिकायाम् ।
आदिपदेन ‘‘आत्मा वारे द्रष्टव्यः’’ इत्यादावात्मादिशब्दग्रहः । तथान्तराकाशप्राणाद्यधिकरणोदाहरणभूतेन्द्रमित्राग्न्याकाशप्राणादिशब्दानां च ग्रहः । तेषामपि देवादौ रूढिमात्राद्विष्णौ योगरूढिमत्त्वात् । रूढितो योगरूढेः प्राबल्ये उदाहरणमुक्त्वा योगात्तत्प्राबल्ये आह ॥ नारायणेति ॥
‘‘अपो नारा इति प्रोक्ता आपौ वै नरसूनवः ।
अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः’’
इति स्मृत्या ‘‘विष्णुर्नारायणः कृष्ण’’ इत्यभिधानेनच विष्णौ योगरूढे-र्नारायणादिशब्दैः ‘‘नारायणं महाज्ञेयं’’ इत्यादौ जलाश्रयमात्रवस्तुनो न प्रतीतिः किन्तु विष्णोरेवेत्यर्थः ।
तर्कताण्डवं
रूढियोगयोस्तु योगाद्रूढिः प्रबलेति तया योगस्य अपहारः । यथा वर्षासु रथकारोऽग्नीनादधीतेत्यत्र रथकारशब्दो सङ्करजातौ रूढ्या रथकर्तरि ।
यथा वा मण्डपं पश्येत्यत्र गृहविशेषे रूढ्या मण्डपानकर्तरि योगस्य ।
न्यायदीपः
एवं रूढेर्योगाच्च योगरूढेर्बलवत्त्वमुपपाद्य योगाद्रूढेस्तदाह ॥ रूढि-योगयोस्त्विति ॥ वर्षासु ॥ वर्षर्तौ । शब्दस्वाभाव्यात् स्त्रीलिङ्गं बहुवचनं च ॥ सङ्करजाताविति ॥
‘‘शूद्रायां करभो वैश्यान्महिष्यो विट्स्त्रियां नृपात् ।
रथकारस्तु माहिष्यात्करभ्यां यस्य सम्भवः’’
इत्युक्तसङ्करजातावित्यर्थः ॥ योगस्येति ॥ अपहार इत्यनुषङ्गः । एवमग्रेपि । अत एव षष्ठे ‘‘वचनाद् रथकारस्याधानम्’’ इत्याद्यपादीयो-पान्त्याधिकरणे रथकर्तृत्वयोगेन त्रैवर्णिकपरत्वं रथकारशब्दस्याशङ्क्य रूढ्या सङ्करजातिपरत्वमुक्तमिति भावः ॥ मण्डपानेति ॥ मण्डं घनीभूत-दधिखण्डविशेषं पिबतीति व्युत्पत्तेरिति भावः ।
तर्कताण्डवं
ननु–
रूढेः प्राबल्यं न तावत्समुदायात्परया विभक्त्या स्वार्थस्य कर्मत्वादेः समुदायार्थे बोधनादवयवार्थे त्वबोधनादिति युक्तम् । यौगिकार्थे प्रकरणादिसत्त्वेपि तया तत्र तदबोधनप्रसङ्गात् । रूढाव-खण्डसमुदायादिव योगेपि सखण्डसमुदायात्परत्वस्य सत्त्वाच्च ।
न्यायदीपः
योगाद्रूढेः प्राबल्यमुपजीव्यत्वादिनेत्युपपादयिष्यन् प्रकारान्तरेण प्रसक्तप्राबल्येहेतुचतुष्टयं पूर्वपक्षिमुखेनानूद्य निराचष्टे ॥ नन्वित्यादिना उच्यत ॥ इति पर्यन्तेन ॥ यौगिकार्थेति ॥ यौगिकार्थग्राहकप्रकरण-लिङ्गाप्तवाक्यादिसत्त्वेपि तया समुदायात्परया विभक्त्या कर्मत्वकर्तृत्वाद्यबोध-प्रसङ्गात् । अवयवार्थे तदबोधनादिति त्वयोक्तत्वात् । न चेष्टापत्तिः । अनुभवविरोधादिति भावः ।
यदि समुदायात्परविभक्त्या स्वार्थभूतकर्मत्वादेर्बोधनमवयवार्थेन स्यात् तर्हि केवलयौगिकस्थले प्रोक्षणीरासादयेत्यादावपि विभक्त्यर्थकर्मत्वादेरन्वयो न स्यात् । तत्रापि विभक्तेः समुदायात्परत्वात् । ननु चाखण्डसमुदायात्पर-विभक्तिरेवावयवार्थे स्वार्थं न बोधयति रथकारमानयेत्यादौ प्रोक्षणीरित्यादि-सखण्डसमुदायात्परा तु बोधयत्येवेति चेन्न । तत्र प्रकरणादिनाऽवयवार्थ-विवक्षायामप्यबोधनापातादित्युक्तत्वात् ।
तर्कताण्डवम्
अन्यथा पाचकमानय पङ्कजमानयेत्यादौ कर्मत्वादेर् यौगिकार्था-न्वयो न स्यात् ।
नापि– रूढौ शाब्दानुभवकारणीभूता वर्णसमुदायगोचरा स्मृति-रेकेति शीघ्रा । एकशक्त्याधारवर्णेष्वेकैव स्मृतिरिति फलबलेन कल्पनात्; योगे तु अनेकशक्त्याधारा अनेकावयवगोचरा तु नानेति विलम्बितेति रूढेः प्राबल्यमिति युक्तम् । समुदायगोचराया एव स्मृतेरवयवगोचरत्वात् ।
अत एव शाब्दानुभवेतिकर्तव्यताभूता समुदायनिष्ठैकशक्तिस्मृतिः शीघ्रा । अवयवनिष्ठनानाशक्तिस्मृतिस्तु विलम्बितेति रूढेः प्राबल्य-मिति निरस्तम् । समुदायशक्तिस्मारकवर्णसमुदायगोचराया एवोप-स्थितेरवयवविषयतया तज्जन्याया अवयवनिष्ठनानाशक्तिसमूहालम्बन-स्मृतेर् विलम्बायोगात् । प्रत्युतसमुदायज्ञानस्यावयवज्ञानपूर्वकत्वा दवयवैरेव पूर्वं शीघ्रं स्वशक्तिस्मारणं युक्तम् ।
अत एवैकशक्तिस्मृतिजन्या समुदायार्थस्मृतिरेकेति शीघ्रा । अनेकशक्तिस्मृतिजन्यावयवार्थस्मृतिर्नानेति विलम्बितेति परास्तम् । पदं न स्मारकमित्युक्तत्वात् । स्मारकत्वेप्यवयवनिष्ठशक्तिस्मृताव-विलम्बस्योक्तत्वाच्च ।
तस्माच्चतुर्धापि न रूढेर्योगात्प्राबल्यमिति ।
न्यायदीपः
विपक्षे बाधकं चाह ॥ अन्यथेति ॥ सखण्डसमुदायात्परयापि विभक्त्या अवयवार्थे स्वार्थाबोध इत्यर्थः ॥ नापीति ॥ युक्तमित्यन्वयः । स्मृतिरेकेत्येतद्व्यनक्ति ॥ एकशक्तीति ॥ फलेति ॥ शाब्दानुभवरूप-फलबलेनेत्यर्थः ।
॥ समुदायगोचराया एवेति ॥ तथाचैकत्वात्स्मृतेः कथं शीघ्रत्व-विलम्बितत्ववैषम्यमिति भावः ।
अत एवेत्युक्तं व्यनक्ति ॥ समुदायेति ॥ तज्जन्याया इति ॥ अवयवविषयोपस्थितिजन्याया इत्यर्थः ॥ अवयवैरिति ॥ स्मृतिविषय-भूतैरित्यर्थः ।
॥ चतुर्धापीति ॥ विभक्त्यर्थस्य समुदायार्थबोधनेन, वर्णसमुदायगोचर-स्मृतेः शीघ्रत्वेन, शक्तिस्मृतेः शीघ्रत्वेन, पदार्थस्मृतेः शीघ्रत्वेन, वा चतुर्धापीत्यर्थः ।
तर्कताण्डवम्
उच्यते । अवयवे रूढिं विना समुदाये योगासम्भवेनोपजीव्यत्वाद् रूढेः प्राबल्यं, शीघ्रत्वाच्च । १तथाहि । रूढार्थानुभवो वर्णानुभवश्च वर्णश्रवणमात्राद्भवतीति शीघ्रः ।
२अखण्डत्वेन परस्परान्वयनिरपेक्षस्य तस्य विभक्त्यर्थान्वयः क्रियान्वयोपि शीघ्रः । यौगिकार्थानुभवस्तूपपदधातुप्रत्ययविभागज्ञान-पूर्वक इति विलम्बितः । तेषां परस्परान्वयज्ञानपूर्वकः क्रियान्वयोपि विलम्बितः ।
एवं च शीघ्रया रूढ्या प्रतिबन्धाद्वा शीघ्रोपस्थितेन रूढार्थे-नान्वितस्य पदान्तरस्य यौगिकार्थे नैराकाङ्क्ष्याद्वानन्वयः ॥
यद्यपि समुदायोपस्थितिरेवावयवगोचरा तथापि सा वर्णत्वरे-फत्वादिनैव तद्गोचरा । सा च न यौगिकार्थानुभवहेतुः । या तु यौगिकार्थानुभवहेतुरूपपदत्वादिनोपस्थितिः सा विलम्बिता । पङ्कजादौ त्वविरोधादवयवार्थेपि प्रयोगप्राचुर्येणप्रतिबध्यत्वे तन्त्रस्य तदप्राचुर्य-स्याभावाच्च न रूढ्या तदपहारः ।
न्यायदीपः
‘‘रूढिमेव समाश्रित्य विभज्यार्थान्यथाक्रमम् ।
विशेषगुणपूर्त्यर्थं विष्णौ योगार्थमानयेत्’’ ।
इति ऋग्भाष्योक्तिं हृदि कृत्वाह ॥ अवयवे रूढिं विनेति ॥ अवयवस्यापि यौगिकत्वे तदवयवस्याप्येवमित्यनवस्थापातेन पूर्वपूर्वयोगा-सिद्ध्योत्तरोत्तरयोगासिद्धेर्मूलक्षतेः । ‘‘अनवस्थानिवृत्त्यर्थं यौगिके रूढिकल्पन’’ इति कर्मनिर्णयोक्तेरिति भावः । वाक्ये पदात्पदार्थस्मृतेरन-भ्युपगमाद्रूढार्थानुभव इत्युक्तम् ।
॥ परस्परेति ॥ अवयवार्थानामन्योन्यान्वयनिरपेक्षस्येत्यर्थः ॥ तस्येति ॥ रूढार्थस्येत्यर्थः ॥ उपपदेति ॥ कुम्भकारेत्यादौ कुम्भाद्युपपदं पाचकेत्यादौ पचिधात्वकप्रत्ययविभागः, यद्वा पङ्कजशब्दादौ १पङ्कजाद्युपपद-जनिधातुडप्रत्ययानां विभागस् तज्ज्ञानपूर्वक इत्यर्थः ।
ननु– उपपदादिज्ञानपूर्वकत्वेन योगे विलम्बोक्तिरयुक्ता समुदायोप-स्थितिरेवावयवोपस्थितिरित्युक्तत्वादिति प्रागुक्तचोद्यमनूद्य निराह ॥ यद्यपीति ॥
नन्वेवं योगरूढिस्थलेपि रूढ्या योगापहारः स्यात् । तथाच पङ्कज-पदाज्जलकमलधीर्न स्यात् । इत्यत आह ॥ पङ्कजादौ त्विति ॥ तदप्राचुर्यस्येति ॥ प्रयोगाप्राचुर्यस्येत्यर्थः ।
तर्कताण्डवम्
अपहारोपि न यौगिकार्थास्मृतिः । स्मारकसम्बन्धस्य शक्ते रूढ इव यौगिकेपि सत्त्वात् । नापि प्रथममस्मृतिः । पङ्कजादावपि रूढ्या योगाप हारापातात् । स्मारकत्वस्य निरासाच्च ।
नापि मण्युक्तान्वयबोधबहिर्भावः । भ्रमरूपस्यप्यन्वयबोधस्याभावे रथकाराधिकरणपूर्वपक्षानुदयापातात् ।
नापि प्रमारूपतद् बहिर्भावः । अनाप्तवाक्ये रूढस्यापि तद्बहि-र्भावेन तस्याप्यपहारापातात् ॥
किन्तु तात्पर्यविषयबहिर्भावः । तस्मान्मण्डपं पश्येत्यादौ निरवरकाशप्रकरणादेरभावे रूढ्या योगापहारः । भावे तु योगग्रहः । मण्डपं भोजयेत्यादौ रूढस्यायोग्यत्वाद्योगग्रहः ॥
तदुक्तमनुव्याख्याने– ‘‘पूर्वायोगे परग्रह’’ इति । उपजीव्यत्वेन शीघ्रत्वेन पूर्वस्या रूढेरयोगे परस्य योगस्य ग्रह इत्यर्थः ।
न तु तत्र मीमांसकोक्ता लक्षणा । योगस्यापि शक्तित्वेन मुख्य-त्वात् । समुदायशक्त्यसम्भवेन्तरङ्गक्लप्तावयवशक्तावेव बुध्यवताराच्च । मुख्यार्थबाधाद्यनुसन्धानानपेक्षत्वेन शीघ्रत्वाच्च । लक्षणायाश्चातथात्वात् ।
न्यायदीपः
एवं योगाद्रूढेरुपजीव्यत्वशीघ्रत्वाभ्यां प्राबल्योपपादनेन रूढ्या योगापहार इत्युपपादितम् । तत्रापहारापदार्थं स्वाभिमतं विवक्षुश्चत्वारि पक्षान्तराण्यनूद्य निराह ॥ अपहारोपीति ॥ स्मारकसम्बन्धस्य शक्तेरिति सामानाधिकरण्यम् ।
॥ अस्मृतिरिति ॥ यौगिकार्थस्येति योज्यम् ॥ पङ्कजेति ॥ पङ्कज-मानयेत्यादावपि यौगिकार्थस्य प्रथममस्मृत्या तत्र रूढ्या योगापहारापत्तेः । न चेष्टापत्तिः । जलकमधीविरोधादिति भावः ।
॥ स्मारकत्वस्येति ॥ वाक्ये पदं न स्मारकमिति भाट्टभिमताभि-हितान्वयभङ्गे प्रतिपादितत्वेन रूढेरपि प्रथमं रूढार्थास्मारकत्वाद्रूढे-रप्यपहारापातादिति भावः । अन्वयबोधबहिर्भावः किं भ्रमरूपान्वय-बोधाविषयत्वम् उत प्रमारूपतदविषयत्वम् ।
आद्यमसिद्धमिति भावेनाह ॥ भ्रमेति ॥ रथकारेति वचनाद्रथकारस्या-धानमिति षष्ठाद्यपादीयोपान्त्याधिकरणे रथकारशब्दस्य यौगिकत्वेन रथकर्तृत्रैवर्णिकपरत्वेन पूर्वपक्षकरणादिति भावः ।
द्वितीयेऽतिप्रसङ्गमाह ॥ अनाप्तेति ॥ पङ्कजमस्तीत्याद्यनाप्तवाक्यस्य तार्किकमते बोधकत्वाभावेन तत्र रूढार्थस्य शाब्दबोधाविषयत्वेनेत्यर्थः ।
नन्वेवं रूढेः प्राबल्येन तया योगार्थस्य तात्पर्याविषयत्वरूपापहारे सति जन्माद्यधिकरणादौ तद्विजिज्ञासस्व तद् ब्रह्मेति श्रौतब्रह्मशब्दे रूढजीवत्यागेन यौगिकविष्णुग्रहणं कथमुक्तमित्याशङ्कां परिहरन्नुपसंहरति ॥ तस्मादिति ॥ जन्मादिनये तु निरवकाशलिङ्गादेव यौगिकग्रह इति भावः ॥
॥ तदुक्तमिति ॥ रूढेरुपजीव्यत्वादिना पूर्वभावित्वात्तदसम्भव एव योगग्रहणमित्येतत् पूर्वोदाहृतानुव्याख्याने उक्तमित्यर्थः ॥ न तु तत्रेति ॥ मण्डपं भोजयेत्यादौ रूढ्यर्थगृहविशेषस्यान्वयायोग्यत्वाद्रूढार्थगृहसम्बन्धि-पुरुषज्ञानं लक्षणया मण्डपपदेन जायत इति मीमांसकोक्तं न भवतीत्यर्थः ॥ अतथात्वादिति ॥ उक्तत्रैविध्यवैपरीत्यादित्यर्थः ।
तर्कताण्डवं
न चात्र योगस्य बाधकमस्ति । प्रबलाया रूढेरयोग्यतया निवृत्तेः । तत्पूर्विकाया लक्षणायाश्चोक्तहेतुभिर् योगाद् दुर्बलत्वाच्च ॥
न च रूढिपूर्वकलक्षणया रूढी रक्ष्यते । रूढ्यबाधे लक्षणाया एवानुदयात् । येन प्रबलरूढ्याश्रयेण लक्षणा प्रबला स्यात् ।
प्रोद्गातॄणामित्यत्राप्युद्ग्रातृशब्दस्योद्गातृप्रस्तोतृप्रतिहर्तृसुब्रह्मण्येषु चतुर्षु अपसुब्रह्मण्येषु त्रिषुवोद्गानकर्तृत्वाद्योग एव । न तु ऋत्विग्विशेषे उद्गातरि योगरूढिः । तत्पूर्विका तेषु लक्षणा । यत्र तु रूढिपूर्वक-लक्षणायां तात्पर्यं निरवकाशमानसिद्धं तत्र योगं बाधित्वा सापि भवत्येव ।
एतदप्युक्तं ‘‘पूर्वायोगे परग्रहः’’ इति । पूर्वंस्या रूढेरयोगे अनन्तरस्य मुख्यवृत्तिरूपस्य योगस्य ग्रहः । न तु लक्षणायाः । योगस्याप्ययोगश्चेत्परस्यामुख्यवृत्तेर्लक्षणाया ग्रह इत्यर्थः ।
॥ रूढ्यादिवृत्तित्रयस्य बलाबलनिर्णयः ॥ ७१ ॥
न्यायदीपः
ननु– मुख्यत्वेपि योगस्य त्यागोस्त्वित्यत आह ॥ न चात्रेति ॥ यद्वा– अत्राप्यस्ति मुख्यार्थबाधतद्योगानुसन्धानमित्यत आह ॥ न चात्रेति ॥ तदेव व्यनक्ति ॥ प्रबलाया इति ॥ उक्तेति ॥ योग-स्यापीत्यादिनोक्तहेतुभिरित्यर्थः ।
ननु– रूढिपूर्वकलक्षणाया रूढ्याश्रयेण बलवत्त्वाद्योगबाधकत्व-मस्त्वित्यत आह ॥ न चेति ॥ रक्ष्यत इत्यन्वयः । कुतो न रक्ष्यत इत्यत आह ॥ रूढीति ॥
नन्वेवमुद्गातृचमसमेकस्य श्रुतिसंयोगादिति तृतीयाध्यायपञ्चमपादीया-ष्टमाधिकरणे प्रैतुहोतुश्चमसः प्रब्रह्मणः प्रोद्गातॄणामित्युदाहृत्योद्गायन्तीत्य-वयवप्रसिद्ध्या गानकारिणामपसुब्रह्मण्यानां त्रयाणां छन्दोगानां चमसभक्षण-मिति पूर्वपक्षयित्वा उत्पूर्वस्य गायतेः समुदायप्रसिद्धिरूपरूढ्या द्वितीय-सामभक्तिविषयत्वेनोद्गातुरेव तद्गातृत्वेन ससुब्रह्मण्यानां चतुर्णां लक्षणेति शाबरभाष्ये स्थापितत्वात् । वार्तिककृता चापसुब्रह्मण्यानां त्रयाणां लक्षणेति स्थापितत्वात् कथमेवमुक्तिरित्यतस्तदुभयोक्तमप्ययुक्तमिति भावेनाह ॥ प्रोद्गातॄणामिति ॥ सापि– लक्षणापीत्यर्थः ।
॥ एतदपीति ॥ रूढेरसम्भवे योगस्यैव ग्रहणं न तु लक्षणाया इत्येतत् । तथा योगस्याप्यसम्भव एव लक्षणेत्येतदपीत्यर्थः ।
॥ रूढ्यादिवृत्तित्रयस्य बलाबलनिर्णयः ॥ ७१ ॥