०७ लक्षणादेरभिधातो भेदसमर्थनम्

ननु गङ्गाशब्दस्य पूर इव तीरेपि..

६६. अथ लक्षणादेरभिधातो भेदसमर्थनम् ।

तर्कताण्डवं

ननु गङ्गाशब्दस्य पूर इव तीरेपि, सिंहशब्दस्य च सिंह इव माणवकेपि शब्दान्तरे कप्ता शक्तिरेवास्तु । किं लक्षणाकल्पने-नेत्यक्षादिशब्दवन्नानार्थतैवेति चेन्न । तीरादिशक्तौ प्रमाणस्य मध्यम-वृद्धव्यवहारदर्शनादेरभावेप्यनुसंहितलक्षणान्यायस्य पुंसो गङ्गादिशब्देन तीरादि प्रतीतेः ।

न्यायदीपः

पूर्वायोगे परग्रह इत्यस्य सुधोक्तदिशा अमुख्यवृत्तिसत्त्वोपपादन-परत्वरूपमर्थान्तरं मत्वा सुधोक्तिं साधयिष्यन्नाक्षिपति ॥ नन्विति ॥ यद्यप्येतन्मणिकृतैव लक्षणावादे आशङ्क्य निरस्तम् । तथापि तदुक्तयुक्ति-मरोचमानो व्युत्पादनार्थमाधिकयुक्तिविवक्षार्थं च पुनरत्रोपक्षिप्तवानित्यदोषः ॥ शब्दान्तर इति ॥ तीरमाणवकादिशब्दान्तरे नानार्थकाक्षादिशब्दान्तर इति वार्थः ।

तर्ह्यनेकार्थत्वं गङ्गादिशब्दस्य स्यादित्यतोस्तु तदित्याह ॥ अक्षादीति ॥ मध्यमेति ॥ तद्व्यवहारस्यैव शक्तिग्राहकत्वादिति भावः । दर्शनादे-रित्यादिपदेन प्रागुक्तव्याकरणोपमानकोशादिग्रहः ॥ अनुसंहितेति ॥ लक्षणास्थले यो न्यायो मुख्यार्थबाधादिस्तदनुसन्धानवतः पुंस इत्यर्थः ।

तर्कताण्डवं

न च घोषादिपदसमभिव्याहार एव तत्र प्रमाणमिति वाच्यम् । इन्द्रियस्य रूपादिनेव गङ्गाशब्दस्य तीरेण कप्तात् परम्परासम्बन्धादेव बोधकत्वोपपत्तौ समभिव्याहारस्य साक्षात्सम्बन्धरूपशक्त्यकल्पक-त्वात् । अन्यस्मिन् शब्दे कप्तादपि स्वस्मिन्कप्तस्यान्तरङ्गत्वात् । अक्षादिशब्दार्थास्तु नान्योन्यं सम्बद्धाः ।

न्यायदीपः

ननूक्तस्थले गङ्गापदात्तीरधीर्घोषपदसमभिव्याहारादेव पदान्तरसमभि-व्याहारेण पदाज्जायमानार्थधीश्च शक्त्यैवेत्याशङ्क्य निराह ॥ न चेति ॥ न तु लक्षणान्यायानुसन्धानमित्येवकारार्थः ।

॥ इन्द्रियस्य रूपादिनैवेति ॥ संयुक्तसमवायरूपपरम्परासम्बन्धाद्यथा बोधकत्वं तथा शक्यसम्बन्धरूपकप्तपरम्परासम्बन्धादेव बोधकत्वोपपत्ता-वित्यर्थः ।

शब्दान्तरे कप्तशक्तिरेवास्त्वित्युक्तस्योत्तरमाह ॥ अन्यस्मिन्निति ॥ स्वस्मिन् गङ्गाशब्द इत्यर्थः । शक्यसम्बन्धस्य कप्तत्वादिति भावः ।

अक्षादिशब्दवन्नानार्थतेत्युक्तं तन्निराह ॥ अक्षादिति ॥ अन्योन्य-सम्बन्धत्वे हि प्रवाहसम्बद्धतीरे गङ्गाशब्दस्येवाक्षादिशब्दस्यापि क्वचिच्छक्तिस् तत्सम्बद्धे चार्थे लक्षणेति स्यान् न चैवमित्यर्थः । यद्यपि दिङ्नेत्रघृणिभू-जलादीनामस्ति संयोगः सम्बन्धः । तथापि तत्र कस्य शक्तता कस्य शक्यसम्बद्धतेति विनिगमकाभावात्सर्वस्य शक्ततैवेति भावः ।

तर्कताण्डवं

किं च तीराद्यनन्तैः सह कप्तपूररूपैकशक्यसम्बन्धेषु वृत्तित्व-रूपधर्ममात्रकल्पनं लघु ।

तेष्वनन्ताः शब्दनिष्ठाः शक्तिरूपा धर्मिणस्तद्ग्राहका वृद्धव्यवहारा-स्तद्ग्रहास् तत्स्मृतयश्चेत्यनेककल्पना गुर्वी ।

मणौ तु तीराद्यनन्तेषु शक्यसम्बन्धस्त्वेकः शक्तयस्त्वनन्ता इति लाघवमुक्तम् ।

तन्न । शक्यसम्बन्धानामपि संयोगादित्वेनानन्तत्वात् । सम्बन्ध-त्वेनैक्ये तु शक्तित्वेनैक्यमिति समम् । प्रत्युत त्वन्मते ईश्वरेच्छारूपा शक्तिः स्वरूपेणैवैका, शक्यसम्बन्धास्तु स्वरूपेणैव नानेति विपरीतं लाघवम् ॥

न्यायदीपः

लाघवयुक्त्या च लक्षणैव युक्तेत्याह ॥ किञ्चेति ॥ पूररूपेति ॥ पूरादिरूपेत्यर्थः । नद्यां घोष इत्यत्र पूरसम्बन्धस्तीरे मञ्चाः क्रोशन्तीत्यत्र मञ्चसम्बन्धः पुरुषे मार्गाश्चलन्तीत्यत्र मार्गसम्बन्धः प्राणिष्वित्यादि-रूपसम्बन्धेष्वित्यर्थः ।

॥ तेष्विति ॥ तीरादिषु विषय इत्यर्थः ॥ उक्तमिति ॥ लक्षणावाद उक्तमित्यर्थः ।

॥ संयोगादित्वेनेति ॥ यत्र गुण्यादिपदेन गुणादेर्लक्षणा तत्र लक्ष्येण सम्बन्धस्य समवायत्वेन विषयेण विषयिणो लक्षणास्थले स्वरूपसम्बन्ध-त्वेनेत्यादिरादिपदार्थः ।

तर्कताण्डवं

किं च तीरमात्रशक्तावतिप्रसङ्गेन गङ्गातीरे शक्तेर्वक्तव्यतया नागृहीतविशेषणान्यायेन तीरार्थे प्रयोगेपि पूरशक्तिरावश्यकी ।

अपि च गङ्गाशब्दस्यानेकार्थत्वेऽनुपपत्तिपुरस्सरं तीरधीर्न स्यात् । न ह्यक्षादिशब्देषु तथाधीः । गङ्गां पश्येत्यादौ तीरं पूरं वेति सन्देहश्च स्यात् । अक्षान्यस्येत्यादौ तद्दर्शनात् । गां पश्येत्यादावपि सास्नादि-मद्व्यक्तौ बाणादौ च शक्तिस्मृतावस्त्येव सन्देहादिः ।

गङ्गां पश्येत्यादौ तु तीरे वृत्तिज्ञानेऽपि न सन्देह इति विशेषः । अन्यथा शक्तिरूपसाक्षात्सम्बन्धमादाय परम्परासम्बन्धरूपलक्षणापा-लापे; कुठारस्य काष्ठेन, व्रीह्यादिद्रव्यस्य यागेन, श्रोत्रस्य च शब्देन साक्षात्सम्बन्धो दृष्ट इति; हस्तस्य काष्ठेन द्रव्यसंस्कारस्य यागेन चक्षुषो घटरूपेण च स स्यात् । रूढिमादाय योगापलापश्च स्यात् । द्वारशब्दस्यैव द्वारविशिष्टापिधाने च शक्तिकल्पनेनाध्याहारश्च न सिध्येत् ।

न्यायदीपः

प्रकारान्तरेण तीरादौ न शक्तिर्गङ्गादिपदस्येत्याह ॥ किं च तीर-मात्रेति ॥ ‘‘नागृहीतविशेषणा विशेष्येषु बुद्धिरुत्पद्यत’’ इति न्यायेन प्रथमोपस्थितत्वेन तत्र शक्तेरावश्यकत्वे सति शक्यसम्बन्धादेव तीरधी-सम्भवान्न शक्तिकल्पनेति भावः ।

ननु– यथा लक्षणापाक्षे पूरेणोपलक्षणेन व्यावृत्ततीरविशेषस्यान्वयो न तीरान्तरस्य तथा पूरोपलक्षिततीरे शक्तिस्तु न तु तीरे पूरे चेति (चेत्) । गङ्गापदशक्तौ पूरस्य शक्यत्वेन विशेषणत्वे सम्भवति नोपलक्षणत्वं युक्तम् । विशेषणत्वासम्भवे सत्येव उपलक्षणत्वात् । अतः पूरे एव शक्तिः । किं च तीरशक्तावुपलक्षणत्वं पूरस्य न शक्यतावच्छेदकत्वम् । नापि धेनुपदे गोत्वस्येव शक्त्युपाधित्वम् । गौरवादिति भावः ।

लक्षणानुभ्युपगतौ बाधकान्याह ॥ अपि चेति ॥ ननु– गोशब्दस्य नानार्थत्वेपि नास्ति सन्देहजनकत्वमिति तद्वत्स्यादित्यत आह ॥ गां पश्येत्यादावपीति ॥

अन्यथेत्यस्यैव विवरणम् ॥ शक्तिरूपेत्यादि ॥ व्रीह्यादिद्रव्य-स्येत्यस्य ॥ पुरोडाशाज्यादिद्रव्यस्येत्यर्थः । तस्यैव साक्षाद्देवतोद्देशेन द्रव्यत्यागरूपयागान्वयात् ॥ हस्तस्येति ॥ कुठारादिग्राहिण इत्यर्थः ।

॥ द्रव्यसंस्कारस्येति ॥ प्रोक्षणविलापनादेः ॥ स इति ॥ साक्षात्सम्बन्धः ॥ योगेति ॥ अवयवशक्तिरूपयोगस्यावयवार्थद्वारा समुदायार्थबोधकत्वेन परम्परासम्बन्धरूपत्वाद्रूढेः साक्षात् सम्बन्धत्वादिति भावः । योगापलापश्चेत्यनन्तरं कार्य इति शेषः । तेनादायेति साधु ॥ अध्याहारश्चेति ॥ पिधेहिपदाध्याहार इत्यर्थः ।

तर्कताण्डवं

ननु– रूढिरूपैक१विशेषणानुसारिरीत्यैव न शब्दसामान्य-वृत्तिनिर्णयः; किन्तु सर्वविशेषानुसारिरीत्यैवेति चेत् समं प्रकृतेपि ।

यद्यपि येन पुंसा गङ्गायां घोष इति तीर एव प्रथमप्रयोगो गृहीतः । तस्य तत्र शक्तिग्रहोस्ति । तथापि तेन गङ्गायां मत्स्यस् तीरे घोषस् तीरं न गङ्गा इत्याद्युत्तरबहुप्रयोगदर्शनात्सभ्रम एव । पूर्वं मम तीरधीस्तु असाधुशब्दादिव शक्तिभ्रमादिति निश्चीयते । तस्याः प्रमात्वमपि वह्निमति धूमभ्रमजन्याया अनुमितेरिव यादृच्छिकम् ।

न्यायदीपः

रूढिमादाय योगापलापश्च स्यादित्युक्तदोषे परिहारमाशङ्कते ॥ नन्विति ॥ निर्णय इत्यनन्तरं येन योगापलापः स्यादिति योज्यम् ।

॥ सर्वविशेषेति ॥ साक्षात्सम्बन्धस्य वृत्तित्वकल्पनं रूढिरूपैक-विशेषानुसारि तथा च शब्दसामान्यवृत्तिकल्पने घटादिशब्दनिष्ठ-रूढिरूपविशेषानुसारिरीतिरिव कुम्भकारादिशब्दनिष्ठपरम्परासम्बन्धरूपयोग-रूपविशेषानुसारिरीतरप्यनुसर्तव्या । अन्यथा तत्र शब्दादर्थाप्रतीत्यापातात् । एवं च तद्रीत्या वृत्तिनिर्णये योगादिवृत्तिरावश्यकीति चेत् । तर्हि मुख्यवृत्तिरूपविशेषानुसारिरीतेरिव मुख्यार्थधीपूर्वकप्रतीतिस्थलीयलक्षणादि-विशेषानुसारिरीतेरप्यनुसर्तव्यत्वात् । तद्रीत्या लक्षणादिवृत्तिरभ्युपेयेति भावेनाह ॥ समं प्रकृतेऽपीति ॥

ननु– पूर इव तीरेपि गङ्गापदस्य व्युत्पत्तिग्रहेणार्थप्रत्ययसाम्येऽपि कुतो न मुख्यता तीरे गङ्गाशब्दस्य । न च शक्तिग्रहो भ्रमः । तज्जन्यार्थप्रतीतेः संवादेन प्रमात्वानुभवादित्यत आह ॥ यद्यपीति ॥ यद्वा प्रागपि चेत्यादि-नोक्तं पक्षं मणावन्येत्वित्यादिनानूद्य लक्षणायामव्युत्पन्नो बाह्य इत्यादिना तत्र दूषणं यदुक्तं तदनूद्य निराह ॥ यद्यपीत्यादिना ॥

तर्कताण्डवम्

एतेन सम्बन्धसादृश्ययोस्तद्धितमुत्पाद्य तस्य लुप्यभिधयैव सर्वं सेत्स्यति किममुख्यवृत्त्येति निरस्तम् । तथात्वे पूरानुपपत्तिपुरस्सरं तीरप्रतीत्यादेरयोगात् । न हि हरीतक्यादिशब्दाद्वृक्षानुपपत्तिपुरःसरं फलधीः ।

तस्माद्गङ्गादिशब्दस्य तीरादिशक्तौ प्रमाणाभावाद्गौरवात् पूरादि-शक्तेरावश्यकत्वात्पूरानुपपत्तिपुरःसरमेव तीरादिबोधकत्वादसन्देहा-दतिप्रसङ्गाच्चेति हेतुषट्कान्न तीरादौ शक्तिः ।

न्यायदीपः

यत्तु सुधायां ‘‘पूर्वायोगे परग्रहः’’ इत्यस्यार्थान्तरं वक्तुं सादृश्य-सम्बन्धयोस्तद्धितमुत्पाद्य तस्यापि लुपि कृत इत्यादिना लक्षणादि-वृत्त्यपलापचोद्यमनूद्य निरस्तं तन्निष्कृष्याह ॥ एतेनेति ॥ गङ्गा-सम्बन्धीत्यर्थे सिंहसदृश इत्यर्थे च गङ्गादिशब्दात्तस्येदमिति सूत्रेण वा १‘‘तद्धितार्थ’’ इति सूत्रेण वाण्यप्रत्यये तस्य लुपि कृते ‘‘लुपि युक्त-वद्व्यक्तिवचन’’ इति सूत्रेण पूर्ववल्लिङ्गवचनयोः प्राप्तत्वेन गङ्गासम्बन्धीत्यर्थे गङ्गायामितिशब्देन लक्षणां विनैव गङ्गासम्बन्धितीरप्रतीतेः सिंहसदृशमाणवक-प्रतीतेश्चोपपत्तेः । यथा हरीतक्यादिशब्दात्फलेर्थेऽण्यप्रत्यये तस्य लुप्चेति सूत्रेण लुपि सति लुपियुक्तवद्व्यक्तिभावे हरीतकीति रूपम् । तद्वदिति भावः । लुपित्यनन्तरं कृते सतीति शेषः । तेनोत्पाद्येति ल्यबन्तप्रयोगस्य साधुत्वं ज्ञेयम् । क्वचित्कृत इत्यपि पाठः ॥

प्रागुपपादितदूषणषट्कं सङ्ग्रहेण बुद्ध्यारोहायानुवदन्नुपसंहरति ॥ तस्मादिति ॥ तस्य विवरणं गङ्गेत्यादि पञ्चम्यन्तषट्कम् ।

तर्कताण्डवं

न च तीरशूरशब्दाध्याहार एव तर्ह्यस्त्विति वाच्यम् । निरा-काङ्क्षत्वात् । गङ्गासिंहशब्दयोर्वैयर्थ्याच्च । अवैयर्थ्याय गङ्गायां मत्स्य-स्तीरे घोष इत्याद्यध्याहारे च गौरवम् । प्रतीतैकवाक्यताभङ्गश्च ।

द्वारमित्यादावध्याहार एव । न तु द्वारशब्दस्य पिधाने लक्षणा । साकाङ्क्षत्वात् । अवैयर्थ्याद्द्वारबोधकाभावाच्च । तद्बोधार्थं शब्दान्तरा-ध्याहारे तु द्वारशब्दस्वारस्याविरोधिपिधेहिशब्दाध्याहार एव युक्तः ।

न्यायदीपः

प्रकारान्तरेण लक्षणाद्यमुख्यवृत्त्यपलापमाशङ्क्य निराह ॥ न च तीरेति ॥ घोष इत्यत्र तीर घोष इत्यन्वयाय तीरपदस्य, सिंहश्चैत्र इत्यत्र शूरश्चैत्र इत्यन्वयाय शूरपदस्य, अध्याहारः द्वारमित्यादाविव । अन्यथा तत्रापि लक्षणादि स्यादिति भावः ।

तर्कताण्डवं

ननु– तथाप्यर्थापत्त्यैव तीरशूरधीरस्तु वक्तुराप्तेः प्रतीतार्थानुपपत्तेश्च विरोधेनार्थान्तरकल्पनादिति चेन्न ।

लक्षणाद्यकल्पनेऽबोधकं पदं प्रयुञ्जानस्याप्तत्वानिश्चयेनाप्तत्वर-क्षणार्थमेव तत्कल्पनात् ।

तदेतदभिप्रेत्योक्तमनुव्याख्याने ‘‘पूर्वायोगे परग्रहः’’ इति ।

अस्य चाक्षादिशब्दवन्नानार्थत्वपक्षे तद्धितलोपपक्षे पूर्वस्य प्रथमप्रतीतस्य पूरस्यायोगे परस्य चरमप्रतीतस्य तीरस्य ग्रहः प्रत्ययो दृश्यते स न स्यात् । इति । अध्याहारपक्षे पूर्वस्य कप्तस्य पदस्या-योगेऽभावे परस्य कल्प्यस्याध्याहार्यस्य पदस्य ग्रहो द्वारमित्यादौ ॥

अत्र तु गङ्गापदं विद्यत इति अर्थापत्तिपक्षे पूर्वस्य प्रथम-प्रतीतस्यायोगेऽनुपपत्तौ प्राप्तायां परस्यास्तन्निर्वाहिकाया लक्षणाया ग्रहः स्वीकार इत्यर्थः । तस्माद्गङ्गाशब्दादेस्तीरादौ लक्षणादिरेव न शक्तिः ।

ननु शब्दस्यार्थे शक्तिर्नाम तज्ज्ञानजनकत्वम् । तच्च गङ्गाशब्दादे-स्तीरादावस्तीति चेन्न । अत्र शक्तिशब्देन जनकत्वप्रयोजकस्य शब्दस्यार्थेन सह साक्षात्सम्बन्धस्य अभिप्रेतत्वात् ।

उक्तं ह्यनुव्याख्याने–

‘‘नित्ययोगोपि शब्दानामर्थैर्नैव निवार्यते’’ इति ।

॥ लक्षणादेरभिधातो भेदसमर्थनम् ॥ ६६ ॥

न्यायदीपः

यदपि सुधायां ‘‘नन्वत्रानुपपत्तेरर्थप्रतीतिहेतुत्वे अर्थापत्तिरेवास्तु’’ इत्यादिना लक्षणाद्यपलापचोद्यं प्रकारान्तरेणानूद्य समाहितम्, तन्निष्कृष्य दर्शयति ॥ ननु तथापीति ॥

प्रागुक्तपक्षचतुष्टये उक्तदोषाणां मूलारूढतां व्यनक्ति ॥ अस्य चेति ॥ अनुव्याख्यानशेषस्येत्यर्थः । इत्यर्थ इत्यनेनान्वयः । स नस्यादितीत्यत्र विद्यत इतीत्यत्र चार्थपदं योज्यम् । नानार्थत्वपक्षे गङ्गादिपदस्येति योज्यम् ।

मण्यादिरीत्या शङ्कते ॥ ननु शब्दस्येति ॥ उक्तं हीति ॥ आनुमानिकपादे ।

**॥ लक्षणादेरभिधातो भेदसमर्थनम् ॥ ६६ ॥ **