अन्ये तु– ‘‘मुख्यार्थबाधे तद्योगे रूढितोथ प्रयोजनात् ..
६५. अथ लक्षणादिहेतूक्तिः ।
तर्कताण्डवम्
अन्ये तु–
‘‘मुख्यार्थबाधे तद्योगे रूढितोथ प्रयोजनात् ।
अन्यार्थो लक्ष्यते यत्सा लक्षणारोपिता क्रिया’’
इति लक्षणादौ हेतुत्रयमाहुः ।
न्यायदीपः
एवं लक्षणादिवृत्तेर्लक्षणमुक्त्वा प्रयोगयुक्तेत्यनुव्याख्यानोक्तं शक्य-सम्बन्धशक्यसादृश्ययोरेव लक्षणादिबीजत्वं मुख्यार्थबाधादेः पूर्वायोगे परग्रह इत्युक्तप्रकारेणामुख्यार्थग्रहणहेतुत्वं च समर्थयमानः काव्यप्रकाशिकाद्युक्तमनूद्य निराह ॥ अन्ये त्विति ॥
॥ रूढित इति ॥ मञ्चाः क्रोशन्तीत्यादौ गङ्गायां घोष इत्यादौ पावित्र्यादिज्ञापनप्रयोजनाद् अन्यार्थोऽमुख्यार्थो यद् यस्माद्व्यापाराल्लक्ष्यते ज्ञायते सा आरोपिता क्रिया आरोपितः शब्दव्यापारो लक्षणेत्यर्थः । शब्द-व्यापारस्यारोपितत्वं च मुख्यार्थव्यवहितार्थनिष्ठत्वं ज्ञेयम् । लक्षणादौ लक्षणागौण्योः । गौणवृत्तिपक्षे तद्योग इत्यत्र तत्सदृश इति ध्येयम् ॥ बाधे तद्योग इति ॥ निमित्तार्थे सप्तम्यौ ।
रूढितोथ प्रयोजनादित्यस्य वैकल्पिकैकहेतुपरत्वाद्रूढित इत्यस्य लक्षणा-प्रभेदत्वेनाहेतुरूपत्वाद्वा मुख्यार्थबाधतद्योगाभ्यां सह त्रयो हेतव इति भावेनाह ॥ हेतुत्रयमिति ॥
तर्कताण्डवं
तन्न । गङ्गाशब्दो ह्यशक्यतीरबोधनेतिप्रसङ्गान्नियामकं शक्ति-स्थानीयं शक्यसम्बन्धमेव अपेक्षते । वक्ताप्यनेन सम्बन्धेन गङ्गापदं तीरं बोधयिष्यतीत्यभिप्रेत्यैव प्रयुंक्ते ।
नतु मुख्यानुपपत्तिर्बोधनार्थं शब्देन प्रयोगार्थं वक्त्त्रा वापेक्ष्यते । अनुपपत्तिदर्शनस्य बोधकशब्दप्रयोगोत्तरकालीनत्वात् । तस्य प्रथमोप-स्थितमुख्यार्थत्यागमात्रहेतुत्वेन तीरबोधनेऽनपेक्षितत्वाच्च ।
किं तु प्रतिपत्त्रा मुख्यार्थत्यागायापेक्ष्यते । प्रयोजनमपि न शब्दे-नापेक्ष्यते । अचेतनत्वात् । प्रयोजनस्य बोधकार्यत्वेन बोधाहेतुत्वाच्च ।
किं तु सति मुख्ये स्वायत्ते च शब्दप्रयोगे कस्मादमुख्यं प्रयोक्तव्यमिति वक्त्त्रा श्रोत्रा वानुसन्धीयत इति प्रतिपादकत्वरूपायां वृत्तावनुव्याख्यानोक्तोनुगतः सम्बन्ध एव हेतुः । अनुपपत्ति-स्त्वमुख्यार्थे तात्पर्यज्ञानहेतुः ।
न्यायदीपः
मुख्यार्थबाधरूपहेतुं तावन्निराचिकीर्षुः स किं शब्देनापेक्ष्यमाणत्वाद्वा हेुतरुत वक्त्त्रा प्रयोगार्थमपेक्ष्यमाणत्वात्प्रतिपत्र्रा वा लक्ष्याप्रतिपत्त्यर्थमपेक्ष्य-माणत्वादिति कल्पान् हृदि कृत्वाद्यं निराह ॥ गङ्गाशब्दोहीति ॥ आवश्यके वक्तृश्रोत्रपेक्षिते तरिबोधन इत्यर्थः । अशक्येति क्वचित्पाठः ।
द्वितीयं निराह ॥ वक्त्त्रापीति ॥ उभयत्रैवकारव्यावर्त्यमाह ॥ न त्विति ॥ बोधनार्थम् ॥ तीरादिबोधनार्थम् । १शब्देनापेक्ष्यत इत्यन्वयः । यथोक्तं सुधायाम्– न शब्देनापेक्ष्यते नापि प्रयोक्त्त्रा किन्तु प्रतिपर्त्र्यै-वेत्यादिना । २अपेक्ष्यत इत्यत्र सुधोक्तमेव हेतुमाह ॥ अनुपपत्तीति ॥ न केवलमुत्तरकालीनत्वात्तदनपेक्षा किन्त्वन्यत्रोपक्षीणत्वेन सर्वथा तदपेक्षाभावाच्चेत्याह ॥ तस्येति ॥
तृतीयमभ्युपेत्य तदपेक्षायाः सुधोक्तदिशान्यत्रोपयोगमाह ॥ किं त्विति ॥ मुख्यार्थबाधरूपहेतुं निरस्य प्रयोजनादित्युक्तहेतुं च सुधोक्तदिशा निराह ॥ प्रयोजनमपीति ॥
॥ अनुव्याख्यानेति ॥
‘‘प्रयोगयुक्तसादृश्यं सम्बन्धो वाप्यमुख्यत’’ ।
इत्यनुव्याख्यानोक्त इत्यर्थः ॥ सम्बन्ध एवेति ॥ तद्योगपदोक्त-शक्यसम्बन्ध एवेत्यर्थः । कुतस्तर्हि मुख्यार्थानुपपत्तिर्मृग्यत इत्यतः सुधोक्तंसमाधिमाह ॥ अनुपपत्तिस्त्विति ॥ मुख्यार्थान्वयानुपपत्तिरित्यर्थः ।
तर्कताण्डवं
यद्यपि प्रतिपादकत्वमेव तात्पर्यम् । तथापि सम्बन्धस् तत्स्वरूपे हेतुः । अन्वयानुपपत्तिस्तु तज्ज्ञप्ताविति विवेकः ।
न्यायदीपः
ननु– ‘‘वाचकत्वं हि तात्पर्यं यदर्था अखिला रवाः’’ । इति ज्ञान-पादीयानुव्याख्याने ’’न च वाचनिकस्तात्पर्यार्थ इति विशेषः । तन्माना-भावादि’’ति कर्मनिणये ‘‘तात्पर्यवृत्तिर्नातिरिच्यत’’ इत्यानुमानिकपादीय-सुधाद्युक्त्या, चोक्तवृत्तिव्यतिरिक्ततात्पर्यवृत्तेरभावात् तात्पर्यज्ञानहेतुत्वोक्त्यै-वोक्तलक्षणावृत्तिहेतुत्वं प्राप्तं तथा च सम्बन्ध एव हेतुर्नत्वनुपपत्ति-रित्ययुक्तमित्याशङ्कामनूद्य निराह ॥ यद्यपीति ॥ वेदापौरुषेयत्ववादोक्तदिशा तत्प्रमितिशेषत्वरूपं प्रतिपादकत्वमित्यर्थः । सम्बन्धः शक्यसम्बन्धस् तीरादिप्रतिपादकत्वं, शब्दस्य सम्पादयति । मुख्यार्थभूतप्रवाहघोषाद्यन्वयानु-पपत्तिदृष्टिस्तु प्रतिपादकत्वज्ञानहेतुरित्यर्थः । नचैवं ‘‘तस्य प्रथमोपस्थित-मुख्यार्थत्यागमात्रहेतुत्वेनेति’’ पूर्वोक्तविरोधः । तस्यास्तद्द्वारा वृत्तिज्ञानहेतु-त्वेनेत्यर्थकत्वेनाविरोधाद् इति सम्प्रदाय इति ।
तर्कताण्डवं
केचित्तु– छत्रिणो गच्छन्ति, यष्टीः प्रवेशय, काकेभ्यो दधि रक्ष्यतां, इत्यादावन्वयानुपपत्तेरभावात्तात्पर्यानुपपत्तिरेव हेतुरित्याहुः । तन्न । अपौरुषेयवेदानुगतं तात्पर्यं तत्प्रमितिशेषत्वरूपतत्प्रति-पादकत्वातिरिक्तं नास्तीत्युक्तत्वेनात्माश्रयात् । अन्वयानुपपत्ति-मज्ञात्वा तात्पर्यानुपपत्तेःर्दुर्बोधत्वेन अन्वयस्य विषयतया तात्पर्य-निरूपकत्वेन चान्वयानुपपत्तेः प्रथमोपस्थितत्वाच्च ॥
न चाव्याप्तिः । प्रकरणादिना गच्छन्तीत्यस्यैकसार्थवाहित्वेन छत्र्यछत्रिगमनमर्थः, प्रवेश्येत्यत्रभोजनप्रयोजनप्रवेशनमर्थः, रक्ष्यतामित्यस्य च दध्युपघातकमात्राद् रक्षणमर्थः, इत्यवगतत्वेन तत्राप्यन्वयानुपपत्तेः सत्त्वात् ।
न्यायदीपः
मण्युपन्यस्तमतमनूद्य निराह ॥ केचित्त्विति ॥ अभावादिति ॥ छत्रिणि गमनान्वयस्य यष्टिषु प्रवेशान्वयस्य काकेषुरक्षणावधित्वान्वयस्य सम्भवादिति भावः ॥ उक्तत्वेनेति ॥ वेदापौरुषेयत्ववादे उक्तत्वेन प्रतिपादकत्वानुपपत्त्या प्रतिपादकत्वरूपवृत्तिकल्पनमित्यात्माश्रयादित्यर्थः ।
मण्युक्तदोषं चाह ॥ अन्वयेति ॥ प्रवाहे घोषान्वयानुपपत्तिमज्ञात्वा गङ्गायां घोष इति प्रयोक्तुराप्तस्य प्रवाहे तात्पर्यानुपपत्तेर्ज्ञातुमशक्यत्वादित्यर्थः ॥ विषयतयेति ॥ अन्वयो हि शाब्दज्ञानविषयः । तात्पर्यं च तत्परं प्रधानप्रतिपाद्यं यस्य तस्य भावस्तात्पर्यमिति व्युत्पत्त्यान्वयनिरूप्यत्वात् तात्पर्यानुपपत्तिं ज्ञातुं पूर्वमेवान्वायनुपपत्तेर्ज्ञातव्यत्वादिति भावः ।
प्रागुक्तदोषं मण्युक्तदिशोद्धरति ॥ न चाव्याप्तिरिति ॥ छत्रिणो गच्छन्तीत्यादावन्वयानुपपत्त्यभावदोषो नेत्यर्थः । प्रकरणादिनेत्यादिपदेन प्रत्यक्षादिमानान्तरग्रहः । सार्थः समूहः । छत्र्यछत्रिसमूहकत्वेनेत्यर्थः ।
॥ तत्राप्यन्वयानुपपत्तेरिति ॥ छत्रिणि सार्थवाहिगमनान्वयस्य यष्टिसु भोजनार्थप्रवेशान्वयस्य, काकेषु यावद्दध्युपघाताकावधिकरक्षणान्वयस्य चानुपपत्तेः सत्त्वादित्यर्थः ।
तर्कताण्डवं
ननु– लक्षणायामन्वयानुपपत्तिवदयोग्यत्वनैराकाङ्क्ष्ये अपि स्त इति ते बीजे कस्मान्न स्याताम् । घोषस्य निबिडाधाराकाङ्क्षिणः प्रवाहे नैराकाङ्क्ष्यादिति चेन्न । नोभयं निमित्तम् । अन्यतरज्ञानेपि लक्षणा-दर्शनात् । नाप्येकैकमननुगमात् । अन्वयानुपपत्तिव्याप्यत्वेन चानुगमेऽन्वयानुपपत्तेरेव तद्बीजत्वात् ॥
एतेन– यथागङ्गायामित्यादावन्वयानुपपत्तिश् छत्रिण इत्यादौ तु तात्पर्यानुुपपत्तिरेवं क्वचिदयोग्यत्वं क्वचिन्नैराकाङ्क्ष्यं बीजमस्तु । न चाननुगमः । अनुपपत्तेर्ज्ञापकत्वेन वह्नौ धूमालोकादेरिवाननुगमेप्य-दोषात् । यदि छत्रिण इत्यादावन्वयानुपपत्तिः कल्प्यते तर्हि गङ्गाया-मित्यादौ तात्पर्यानुपपत्तिः कल्प्यताम् । इति निरस्तम् । ज्ञापकेप्यनु-गमसम्भवे त्यागायोगात् । अन्वयानुपपत्तेः प्रथमोपस्थितत्वाच्च ।
अत एवानुव्याख्याने पूर्वस्यान्वितस्य मुख्यार्थस्यायोग इति सुधायामपि मुख्यार्थानुपपत्तिदर्शनमित्युक्तम् । अत्र मुख्यायोग इति वक्तव्ये यत्पूर्वायोग इत्युक्तं तल्लक्षितलक्षणासङ्ग्रहार्थम् । तत्र लक्ष्यानु-पपत्तेरपि हेतुत्वात् ।
॥ लक्षणादिहेतूक्तिः ॥ ६५ ॥
न्यायदीपः
अन्वयानुपपत्तिरेव लक्षणाज्ञप्तौ हेतुरित्युक्क्तमयुक्तमिति भावेन मण्युक्तचोद्यमेवानूद्य निराह ॥ नन्वित्यादिना ॥
प्रवाहस्य घोषान्वये प्रवाहनिष्ठात्यन्ताभावप्रतियोगोगित्वप्रमा-विशेष्यत्वादिरूपायोग्यता व्यक्तेति तामुपेक्ष्य नैराकाङ्क्ष्यं व्यनक्ति ॥ घोषस्येति ॥
किं मितिं द्वयं निमित्तं प्रत्येकं वेति क्रमेण निराह ॥ नोभयमिति ॥ अन्वयानुपपपत्तीति ॥ अन्वयाभावव्याप्यत्वेनेत्यर्थः ॥ अनुपपत्तेरिति ॥ अमुख्यार्थप्रतिपादकत्वेनेत्यर्थः । तत्र दृष्टान्तः ॥ धूमेत्यादि ॥ कल्प्यत इति ॥ प्रागुक्तदिशेति भावः ।
‘‘पूर्वायोगे परग्रह’’ इति पूर्वोदाहृतश्लोके शेषस्यार्थमाह ॥ पूर्वस्येति ॥ स्वोक्तिसंवादायोक्तम् ॥ अन्वितस्येति ॥ लक्षितलक्षणैवनेतिकेचित् । मुख्यार्थबाध इत्युक्तत्वात् । अन्यथा मुख्यामुख्यार्थबाध इत्युच्येतेति । तदसदिति भावेनसुधोक्तमेवाह ॥ अत्रेति ॥ अनुव्याख्यानशेषे ।
॥ लक्षणादिहेतूक्तिः ॥ ६५ ॥