०४ पङ्कजादिशब्दानां कुमुदादौ लक्षणाभङ्गः

यत्तूक्तं मण्यादौ पङ्कजकुमुदमानयेत्यत्र ..

६३. अथ पङ्कजादिशब्दानां कुमुदादौ लक्षणाभङ्गः ।

तर्कताण्डवं

यत्तूक्तं मण्यादौ पङ्कजकुमुदमानयेत्यत्र पङ्कजसमुदायस्य स्वार्थपद्मत्वसम्बन्धिनि कर्तृत्वे लक्षणा ।

न च कुमुदे पद्मत्वस्यायोग्यतयानन्वये योगेनैव कुमुदे कर्तृत्वं बोध्यत इति वाच्यम् । एकपदोपादानरूपयान्तरङ्गप्रत्यासत्त्या कुमुदान्वयात्प्रागेव पद्माश्रितत्वेनोपस्थितस्य कर्तृत्वस्याश्रयाकाङ्क्षा-भावेन पुरोडाशकपालपदे तुषोपवापान्वयार्थमधिष्ठानस्येवेहापि कुमुदान्वययोग्यस्य स्वतन्त्रस्य कर्तृत्वस्योपस्थित्यर्थं लक्षणाया आवश्यकत्वात् । स्थपद्मं तु चम्पकादिवद्विजातीयमेव । पद्म-संस्थानसाम्यात् पङ्कजपदस्य तत्र समुदायलक्षणासाजात्येप्युक्तविधया स्थलान्वययोग्यस्य स्वतन्त्रस्य पद्मत्वस्योपस्थित्यर्थमेवावयव-लक्षणेति ।

तन्न । मण्डपं भोजयेत्यादौ यौगिकार्थपरे मण्डपपदे रूढ्येवात्रापि रूढ्या पूर्वं स्वार्थोपस्थानेपि पश्चात् कुमुदान्वयार्थं रूढेर्मूकीभावे सति योगेनैव स्वतन्त्रस्य कर्तृत्वस्योपस्थित्याकाङ्क्षासम्भवेन लक्षणा-नपेक्षणात् ।

न्यायदीपः

॥ यत्तूक्तमिति ॥ योगरूढिसमर्थनवादान्ते उक्तमित्यर्थः ॥ पङ्कज-समुदायस्येति ॥ पङ्कशब्दजशब्दसमुदायस्य स्वार्थो हि पद्मत्वं तत्समानाधिकरणतया तत्सम्बन्धि यत्पङ्कजनिकर्तृत्वं तन्मात्रं कुमुदे बोधयितुं पङ्कजेति पदद्वयस्य लक्षणाङ्गीक्रियत इत्यर्थः । लक्षणाबीजोक्त्यर्थं सम्बन्धिनीत्युक्तम् ।

योग एवास्त्वित्याङ्क्य निराह ॥ न चेति ॥ कर्तृत्वं पङ्कजनि-कर्तृत्वम् । एवमग्रेपि ॥ पुरोडाशेति ॥ पुरोडाशकपालेन तुषानुपवपतीति वाक्येन पुरोडाशनिर्वर्तककपाले तुषाणां स्थापनान्वयार्थं पुरोडाशकपालेनेत्य-स्याधिष्ठानभूतकपाले इत्यर्थबोधाय यथा लक्षणा तथेत्यर्थः ।

॥ स्वतन्त्रस्येति ॥ पद्मत्वं विनाकृतस्य ॥ अवयवेति ॥ अवयवयोरित्यर्थः ॥ योगिकार्थपरेति ॥ मण्डं पिबतीति मण्डपमिति व्युत्पत्त्या मण्डपानकर्तारमित्येवंरूपयौगिकार्थतात्पर्येण प्रयुक्ते वाक्येरूड्या पूर्वं गृहविशेषोपस्थापनेपि भोजनान्वयार्थं रूढेर्मूकीभावे सति योगेनैव मण्डपानकर्त्रुपस्थितिर्यथा तथेत्यर्थः ।

तर्कताण्डवं

लक्षणापक्षेऽपि हि समुदायशक्तेः स्वार्थं प्रति शाब्दानुभवा-प्रवेशकत्वलक्षणो मूकीभाव आवश्यकः । अधिकश्चापुनरुक्तयेऽवयव-शक्तेरपि मूकीभावः ।

गङ्गाशब्दादौ तच्छक्तेर्मूकत्वेन प्रवाहानुपस्थितावपि तीरोपस्थित्यर्थं लक्षणा । इह तु समुदायशक्तेर्मूकत्वेन १पद्मानुपस्थितावयवशक्त्यैव स्वतन्त्रकर्तृत्वोपस्थितिसम्भवात् किं लक्षणया ।

अन्यथा यौगिकेन सिध्यन्नपि समुदायेन लक्षणीय इति निर्बन्धे मण्डपशब्देपि समुदायस्य मण्डपानकर्तरि लक्षणा स्यात् ।

न्यायदीपः

ननु यौगिकार्थान्वयपक्षे रूढेर्मूकीभावाश्रयणं दोषः स्यादित्यतस्तवापि सम इत्याह ॥ लक्षणेति ॥ तावता साम्यमेवेत्यत आह ॥ अधिक-श्चेति ॥ अपुनरुक्तय इति ॥ पङ्कजनिकर्तृत्वस्य लक्षणया बोधितत्वा-त्पुनरवयवशक्त्यापि बोधने पौनरुक्त्यापत्तेस्तान्निरासार्थमित्यर्थः ।

नन्वेवं गङ्गायां घोष इत्यादावपि लक्षणा न स्यादित्यतो वैषम्यमाह ॥ गङ्गेति ॥ तच्छक्तेर् गङ्गापदशक्तेः ॥ लक्षणेति ॥ तस्य रूढ-शब्दत्वेनावयवशक्त्या तीरबोधासम्भवादिति भावः । अन्यथेत्यस्य विवरणं यौगिकेनेत्यादि ।

॥ लक्षणा स्यादिति ॥ सा च नेष्टा । क्वचिद्यौगिकार्थान्वयसम्भवेपि रूढिपूर्विका लक्षणा यथा मण्डपं भोजयेत्यादिना लक्षणापक्षं पूर्वपक्षयित्वा त्वया तस्य निरासात् ।

तर्कताण्डवं

यत्तु– स्वतन्त्रकर्तृत्वोपस्थित्यर्थं पङ्कजपदस्य पुनरनुसन्धानादिकं कल्प्यम् । ततो वरं लक्षणैव लघुत्वादिति । तन्न । लक्षणार्थमपि पुनरनुसन्धेयत्वात् ।

पुनरननुसन्धानेपि तात्पर्याल्लक्षणेति चेत् स्वतन्त्रोपस्थितिरपि तथैवास्तु । पुरोडाशकपालपदे तु कपालमात्रार्थकत्वे पुरोडाशपद-वैय्यर्थ्यम् । अधिष्ठानकपालार्थकत्वे तु तच्छक्तः शब्दो नास्तीति लक्षणा । इह तु कर्तृत्वमात्रार्थकतायां न पदान्तरवैयर्थ्यम् । नापि तच्छक्तशब्दाभाव इति वैषम्यम् ।

न च यथा जातिविशिष्टव्यक्तौ शक्तस्य गोपदस्य गौर् द्रव्य-मित्यादावेकदेशे व्यक्त्यादौ लक्षणा तथा कर्तृत्वविशिष्टपद्मव्यक्तौ शक्तस्य पङ्कजशब्दस्य कर्तृत्वमात्रे लक्षणैव युक्तेति वाच्यम् । तत्र शक्तेरेकत्वेन मूकामूकविभागासम्भवात् । इह त्वनेकत्वेन तत्सम्भवात् ।

न्यायदीपः

एकपदोपादानेत्यादिना प्रागुक्तमनूद्य निराह ॥ यत्त्विति ॥ कथं तर्हि पुरोडाशकपालेनेत्यत्र अधिष्ठानलक्षणेत्यत आह ॥ पुरोडाशेति ॥

दृष्टान्तान्तरमाशङ्कय तद्वैषम्यमाह ॥ न च यथाजातीति ॥ एकदेशे-व्यक्त्यादाविति ॥ गोत्वजातौ द्रव्यत्वान्वयायोगादिति भावः ॥ एकत्वे-नेति ॥ व्यक्त्याकृतिजातयः पदार्थ इत्येकवचनप्रयोगरूपज्ञापकेन तथैव त्वयापि स्वीकृतत्वादिति भावः ।

॥ अन्यथेति ॥ शक्तिनानात्वेपि लक्षणोपगमे इत्यर्थः ॥ नानार्थ-स्येति ॥ शब्दस्येति योज्यम् । गवादिशब्दानां जलादौ स्वर्गादिविषय-शक्तेर्मूकीभावाल्लक्षणा स्यादित्यर्थः ।

तर्कताण्डवम्

अन्यथा नानार्थस्यैकस्मिन्नर्थे लक्षणा स्यात् । स्थलपद्ममप्य-बाधितपद्मत्वानुभवात्पुण्डरीकदिवत्पद्मजातीयमेव । एवं च रूढार्थ-परमण्डपपद इवात्राप्यवयवशक्तेः स्थालान्वयार्थं मूकीभावे रूढ्यैव-स्वतन्त्रस्य पद्मत्वस्योपस्थितिसम्भावान्न लक्षणा ।

अत एव–

‘‘तेषुतेषु पदार्थेषु रूढिरङ्गीकृता यतः ।

प्रयोजनबहुत्वेन तस्यतस्याविरोधतः’’

इत्यनुव्याख्याने विष्णौ योगरूढानामप्याकाशादिशब्दानामन्यत्र रूढ्यादिकमेव स्वीकृतम् । न तु लक्षणा । रूढिपदेन योगस्याप्युप-लक्षणात् ।

॥ पङ्कजादिशब्दानां कुमुदादौ लक्षणाभङ्गः ॥ ६३ ॥

न्यायदीपः

एवं १रूढ्यर्थानन्वयस्थे लक्षणा नेत्युक्त्वा अवयवार्थानन्वयस्थेपि न लक्षणेत्याह ॥ स्थलेति ॥ न लक्षणेति ॥ स्थलपङ्कजमानयेत्यादि पङ्कजपदस्येति योज्यम् ।

एवमुपपादितस्यार्थस्योपयोगो मूलग्रन्थोक्तसमर्थनमेवेति भावेनाह ॥ अत एवेति ॥

यद्वा किमेवं कल्पनायां ज्ञापकमित्यत आह ॥ अत एवेति ॥ योगरूढशब्दानामेकैकार्थान्वयस्थलेऽप्युक्तदिशा शक्तिसम्भवेन लक्षणाया अयुक्तत्वादेवेत्यर्थः । सर्वेषां शब्दानां भगवति यौगिकत्वादिना शक्तावङ्गी-कृतायां भगवति व्युत्पत्त्ययोगः, अवयवानां विष्ण्वर्थत्वात् कर्मानुष्ठानलोप-श्चेत्यतः प्रवृत्तं तेषुतेष्विति वाक्यम् ।

अस्यार्थः । ज्योतिष्टोमादिशब्दानां योगेन हरौ व्युत्पत्युपपत्तिः, कर्मानुष्ठानसम्भवः लोकव्यवहारानुच्छेदश्चेत्येवं प्रयोजनानां बहुत्वे कारणेन तेषु तेषु तत्तच्छब्धवाच्यतया निगमनिघण्टुव्याकरणादिप्रसिद्धेष्वर्थेषु त्तत्तच्छब्दानां रूढिरङ्गीकृता यतस्तस्मात् तस्यतस्याविरोधतस् तं तमर्थम-परित्यज्योपदेशलिङ्गप्रकरणादिबलेन सर्वशब्दानां विष्णौ च विष्णावपि शक्तिर्महायोगविद्वद्रूढिरूपा शक्तिर्गृह्यत इति । अनुव्याख्याने आनुमानिक-पादीयानुव्याख्यान इत्यर्थः । अन्यत्र भूताकाशादावित्यर्थः । ‘‘य एषोन्त-र्हृदय’’ आकाश इति तैत्तिरीये ‘‘दहरोस्मिन्नन्तराकाश’’ इति छन्दोग्यादौ च तत्रतत्र भूताकाशवाय्वग्न्यादिशब्दानां भगवन्निष्ठविद्वद्रूढ्यर्थस्य महायोगार्थस्य चानन्वयेपि रूढ्यर्थमात्रस्य योगार्थमात्रस्य वान्वयसम्भवेन शक्तिरेव स्वीकृतेत्यर्थः ।

ननु– श्लोके रूढिरङ्गीकृतेत्येवास्ति तत्कथं रूढ्यादिकमित्युक्तमित्यत आह ॥ रूढिपदेनेति ॥ यद्यपि सुधायां रूढिरित्युपलक्षणं वृत्तिरङ्गीकृता यत इति व्याख्यातम् । तथापि वृत्तिपदं रूढियोगरूपवृत्तिद्वयमात्रपरम् । न तु लक्षणादिसाधारणम् ।

‘‘रूढियोगौ विना कश्चिन्नैवार्थो वेदगो भवेत्’’

इत्यादिविरोधादिति भावेन योगस्येत्येवोक्तम् । प्रकृताभिप्रायेण योगस्येत्युक्तिरित्येके ।

**॥ पङ्कजादिपदानां कुमुदादौ लक्षणाभङ्गः ॥ ६३ ॥ **