अत्र केचित्– पङ्कजादिशब्दास्तामरसे पद्मशब्दवद्रूढा एव
६१. अथ योगरूढिसमर्थनम् ।
तर्कताण्डवम्
अत्र केचित्– पङ्कजादिशब्दास्तामरसे पद्मशब्दवद्रूढा एव । कोशेषु पद्मपर्यायत्वेन पाठात् । योगस्य कुमुदादावतिप्रसक्तत्वेना-नतिप्रसङ्गाय रूढेरपि स्वीकारे आवश्यकत्वाद् रूढ्यैवोपपत्तेश्च । ‘‘सप्तम्यां जनेर्ड’’ इत्याद्यनुशासनं च ‘‘गमेर्डो’’ इत्यादिवच्छब्द-साधुत्वमात्रपरमित्याहुः ।
तन्न । पङ्कजपदेनौपगवादिपदैरिवावयवार्थस्य पङ्कजनिकर्तृत्वस्यापि प्रतीतेः । गोशब्देन तु गमनकर्तृत्वस्याप्रतीतेः । कोशपाठस्येन्द्रपर्याय-शचीपत्यादिशब्दानामिव यौगिकत्वेऽप्युपपत्तेः ।
न्यायदीपः
यत्तु सुधायां विरोधाद्वैफल्याच्च योगरूढिरयुक्तेति केचिदित्यादिना आनुमानिकपादे योगरूढिमाक्षिप्य तत्समाधानं कृतं तद्विवरितुमाह ॥ अत्र केचिदिति ॥ अभिधात्रैविध्यविषये योगरूढ्यपलापवादिन इत्याहुरित्य-न्वयः । कोशेषु अमरादिनिघण्टुग्रन्थेषु ।
योगवादिनोपि रूढिरावश्यकीत्याह ॥ योगस्येति ॥ नन्वेवं योगवृत्त्य-पलापे पाणिनिस्मृतिविरोध इत्यत आह ॥ सप्तम्यामिति ॥ सप्तम्यन्ते उपपदे जनीप्रादुर्भावे इत्यस्माद्धातोः कर्तरि डप्रत्यये पङ्के जायत इति पङ्कज-मिति तृतीयाद्यपादे व्युत्पादनापर्यायानुशासनं च गमेर्धातोर्डोप्रत्ययो भवती-त्यौणादिकगोशब्दव्युत्पादनवत्साधुत्वमात्रपरमित्यर्थः । न हि गोशब्दे अवयवार्थनिमित्तकत्वमस्ति । तथात्वे महिष्यादावपि गोशब्दप्रयोगापत्तिरिति भावः ।
यत्तु सप्तम्यामित्यादि तत्तावदुद्धरति ॥ पङ्कजपदेनेति ॥ अप्रतीते-रिति ॥ गोत्वप्रतीतेरेवानुभवात् प्रतीत्यनुरोधेनैव वृत्तिकल्पनाद् गोशब्दस्य केवलरूढत्वेपि पङ्कजादिपदानां योगरूढत्वमेवोपेयमिति भावः । कोशपाठा-न्यथानुपपत्तिमुद्धरति ॥ कोशेति ॥ ‘‘वास्तोष्पतिः सुरपतिर्बलारातिः शचीपतिः’’ इति यौगिकस्यापि रूढेन्द्रादिशब्दपर्यायत्वेन यथापाठस्तथो-पपत्तेरित्यर्थः ।
तर्कताण्डवम्
प्राभाकरास्त्वाहुः– ‘‘पङ्कजपदे रूढिः पद्मत्वभानार्थं वा कुमुदाद्य-भानार्थं वा । आद्येपि भानं स्मृतिरनुभूतिर्वा ।
नाद्यः । पद्मत्वस्य पङ्कजपदाशक्यत्वेप्यदृष्टादिना वा पद्मत्वाधि-करण एव नियतप्रयोगरूपसम्बन्धयुक्तेनाशक्तेनैव पदेन वोद्बुद्ध-संस्कारादेव स्मृतेः ।
नान्त्यः । उक्तरीत्या स्मृतं पद्ममादायव्यक्तिवचनन्यायेन पङ्कप्रातिपदिकजनिधातुडप्रत्ययरूपैरवयवैः पङ्कजनिकर्तृपद्ममित्या-द्यनुभवसम्भवात् ।
नचैवं गामानयेत्यादौ गोशब्दस्यापि गवि शक्तिर्न स्यादिति वाच्यम् । तथात्वे गोशब्दवैयर्थ्यात् । इह तु पङ्कजपदमुक्तकर्तृत्व-स्योपस्थित्यर्थम् ।
नचैवमदृष्टादिनेति पक्षे पङ्कजपदप्रयोगकाले कदाचिददृष्टादिना कुमुदस्यापि स्मृतौ तदादायावयवैः पङ्कजनिकर्तृ कुमुदमित्यनुभूयेतेति वाच्यम् । तत्काले पद्मस्यैव नियतस्मृतिदर्शनेन फलबलेन पद्मसंस्कारस्यैवोद्बोधकल्पनात् ।
न च प्रयोगसम्बन्धपक्षे पङ्कजपदप्रयोगविषये पद्मत्ववत् तद्व्यापकस्य कुसुमत्वादेस्तद्व्याप्यस्य पुण्डरीकत्वादेरपि सत्त्वात्तयोरपि स्मृतिः स्यादिति वाच्यम् । तयोः प्रयोगेण सह समनियमाभावात् ।
नापि कुमुदाद्यभानार्थमिति द्वितीयः । पङ्कजं कुमुदमानयेत्यादौ कुमुदादेरपि भानात् ।
किञ्च तदप्रतीत्यर्थं तत्प्रत्यायकयोगाभाव एव कल्प्यः । न तु पद्मत्वे रूढिः । तस्मात् पङ्कजपदं पद्मे यौगिकमेव’’ इति ।
न्यायदीपः
॥ प्राभाकरास्त्विति ॥ रूढ्यपलापमाहुरित्यर्थः । तत्प्रकारमाह ॥ पङ्कजेति ॥ यद्यप्येतन्मतम् अत्र मीमांसका इत्यादिनानूद्य मणावेव योगरूढिवादे दूषितम् । तथापि तदुक्तदूषणप्रकारमप्रीयमाणः स्वयं निष्कृष्य तन्मतमनूद्य प्रकारान्तरेण दूषयितुमिमं प्रयत्नमकरोदित्यदोषः ।
अदृष्टादेः कल्प्यत्वं मन्वानः पक्षान्तरमाह ॥ पद्मत्वाधिकरण एवेति ॥ उक्तेति ॥ अदृष्टादिना वेत्युक्तरीत्येत्यर्थः ॥ व्यक्तीति ॥ व्यक्तिवचनानां सन्निहितविशेषपरत्वनियमादिति न्यायेनेत्यर्थः ।
न्यायस्यायमर्थः । किञ्चिद्व्यक्तितात्पर्यकाणां शब्दानां बुद्धिस्थव्यक्ति-विशेषपरत्वादिति । यथाग्नेय्यग्नीध््रामुपतिष्ठत ‘‘इत्यत्राग्नेर्ढक्’’ इति सूत्रविहितढक्प्रत्ययान्ताग्नेयीशब्देन ज्योतिष्टोमप्रकरणसन्निहितैवाग्निप्रकाशिका अग्न आयाहिवीतय इत्यादिका ऋगुपस्थाप्यत इत्युक्तं तृतीयाध्यायद्वितीया-ष्टमाधिकरणे, यथावा घटेन जलमाहरेत्यादौ सन्निहितं घटादि तथा पङ्कज-पदमपि किञ्चिद्व्यक्तितात्पर्यकतया प्रयुक्तमिति पङ्कजपदगतावयवैः पङ्कज् अ इत्येवंरूपैर्बोध्यमानं पङ्कजनिकर्तृत्वं स्मर्यमाणतया बुद्धिस्थे पद्म एव बोध्यते । पङ्कजनिकर्तृपद्ममिति तथाचान्यथैवानुभवोपपत्तौ किं समुदाय-शक्त्येति भावः ।
एवं तर्हि रूढिमात्रविलय इति भावेनाशङ्क्य निराह ॥ नचैवमिति ॥ अदृष्टादिना वा गोत्वाधिकरण एव नियतप्रयोगरूपसम्बन्धयुक्तेन गोशब्देनैव वोक्तरीत्या गोपिण्डस्मृतिसम्भवान् न गोपदस्य गविशक्तिः कल्प्येत्यर्थः ॥ वैयर्थ्यादिति ॥ गोपदादिना गोत्वादेरनुपस्थितावन्यथोपस्थिते गोपिण्डे अवयवार्थसमर्पणरूपेणापि सार्थक्यासम्भवाद्गोपदस्य रूढत्वादिति भावः ।
पङ्कजादियोगरूढस्थलेप्येवमस्त्वित्यत आह ॥ इह त्विति ॥ पद्मत्वादिस्मृत्यनुभवयोर्या द्वेधोपपत्तिरुक्ता तद्द्वयं क्रमेणाक्षिप्य समाधत्ते ॥ न चैवमिति ॥ न च प्रयोगेति च ॥ तयोरपीति ॥ तथाच– कुसुमं पङ्कजनिकर्तृ पुण्डरीकं पङ्कजनिकर्तृ इत्यपि धीः स्यात् । न तु पद्मं पङ्कजनिकर्तृ इत्येव । पद्मत्वापेक्षयाधिकन्यूनधर्माधिकरणेप्यगवयवार्थान्वय- प्रसङ्ग इति भावः ।
॥ समनियमेति ॥ पद्मत्ववत्येव पङ्कजपदप्रयोगस् तत्प्रयोगवति पद्मत्वमितिवत्कुसुमत्ववत्येव पुण्डरीकत्ववत्येव वा पङ्कजपदप्रयोगाभावान्न पङ्कजपदप्रयोगविषये तयोः स्मृतिरिति भावः ।
तर्कताण्डवम्
उच्यते । पङ्कजपदस्य पद्मत्वविशिष्टे शक्त्याभावे किं पङ्कजपद-शक्यमिति प्रश्ने पद्ममित्यभियुक्तानां प्रतिवचनं कोशकाराणां पद्मपर्यायतया पाठश्च न स्यात् । पङ्कजं पद्ममिति कदाचित्सहप्रयोगश्च स्यात् ।
न च प्रतिवचनं ज्ञापकत्वमात्रेण युक्तम् । शक्तेरेव पृष्टत्वात् ।
न च कोशपाठो भ्रमराशक्तस्यापि द्विरेफशब्दस्य भ्रमरपर्यायतया पाठ इव युक्तः । स हि रेफद्वययुक्तभ्रमरशब्दरूपमुख्यार्थसम्बन्धाद् भ्रमरे लाक्षणिक इति वाच्यम् । द्विरेफशब्देन मुख्यार्थानुपपत्त्य-पुरस्कारेणैव भ्रमरप्रतीतेः । योगस्य रेफद्वययुक्तशब्दान्तरेतिप्रसक्तत्वेन भ्रमरशब्देपि रूढेरावश्यकतया भ्रमर एव रूढेरौचित्याच्च ।
न्यायदीपः
पद्मं पङ्कजपदशक्यं तच्छक्तिप्रश्नोत्तरविषयत्वात् सामान्यव्याप्त्या सम्मतवत् । पङ्कजपदं वा पद्मे शक्तं तद्वाचकपद्मादिशब्दपर्यायत्वेन कोशेषु पठ्यमानत्वाल्लोके पद्मादिशब्दैः सहाप्रयुज्यमानत्वाद्वा सम्मतवदिति प्रयोगत्रयं मन्वानो हेतूनामप्रयोजकत्वनिरासाय हेतूच्छित्तिरूपबाधकं तावदाह ॥ पङ्कजपदस्येत्यादिना ॥
आद्यप्रयोगस्यान्यथोपपत्तिमाशङ्क्य निराह ॥ न च प्रतिवचनमिति ॥ शक्तेरेवेति ॥ अन्यथा प्रश्नप्रतिवचनयोर्वैरूप्यापत्तेरिति भावः । द्वितीय-हेतोर्वा द्वितीयतर्कस्य वान्यथोपपत्तिमाशङ्क्य निराह ॥ न च कोशपाठ इति ॥ पाठ इवेति ॥ ‘‘द्विरेफपुष्पलिड्भृङ्गषट्पदभ्रमरालयः’’ इत्यमरादौ पाठ इवेत्यर्थः ।
भ्रमराशक्तत्वं व्यनक्ति ॥ स हीति ॥ द्विरेफशब्द इत्यर्थः । दृष्टान्ता-सङ्गत्या दूषयति ॥ द्विरेफेति ॥ कप्तयोगमुखलक्षणयैवोपपत्तौ समुदाय-शक्तिकल्पनं गुर्विति वादिनं प्रत्याह ॥ योगस्येति ॥ शब्दान्तरे– रामचन्द्र-हरिश्चन्द्रादिशब्दे ।
तर्कताण्डवं
सहाप्रयोगोप्यनन्यथासिद्ध एव । न हि पङ्कजपदावयवाः कप्तया पङ्कजपदनिष्ठया शक्त्योपस्थितं पद्ममादाय पङ्कजनिकर्तृ पद्ममिति नानुभावयन्ति । किन्तु कल्प्येनादृष्टादिना वाशक्तेनैव पङ्कजपदेन वोपस्थितमेवानुभावयन्तीत्यत्र हेतुरस्ति । येन पद्मपदं१ प्रयुज्येत ।
किञ्चास्य पाचकपदवदरूढत्वे पद्मत्वविशिष्टे समुदायव्युत्पत्तेरपेक्षा न स्यात् । अस्ति च सा । अवयवव्युत्पन्नस्यापि पुंसः समुदाया-व्युत्पन्नस्य पद्मत्वाप्रतीतेः । अवयवाव्युत्पन्नस्यापि वृद्धव्यवहारादिना समुदायव्युत्पन्नस्य तत्प्रतीतेश्च ।
नच नियतप्रयोगरूपसम्बन्धग्रहार्थं वृद्धव्यवहारापेक्षा न तु शक्तिग्रहार्थमिति वाच्यम् । गोशब्दादावपि तत्प्रसङ्गात् ।
न्यायदीपः
तृतीयहेतोरन्यथासिद्धिं निराह ॥ सहाप्रयोगोपीति ॥ नन्वदृष्टादिना-वेत्युक्तरीतिद्वयेनोपस्थित एवपद्मे पङ्कजपदा वयवार्थान्वयेन पद्मपदाकाङ्क्षा-विरहादस्तु पद्मपदस्या सहप्रयोगनियमः । न तु द्वयोः शक्तत्वेन पर्यायतेत्यतः कथम२न्यथासिद्धत्वमित्यत आह ॥ न हीति ॥ हेतुरस्तीत्यनेनान्वयः ।
समुदायव्युत्पत्त्यपेक्षान्यथानुपपत्त्या च पद्मे शक्तिः पङ्कजपदस्येति-भावेनाह ॥ किञ्चेति ॥ इष्टापत्तिं निराह ॥ अस्ति च सेति ॥
व्यतिरेकान्वयावाह ॥ अवयवेति ॥ एतच्चावयवव्युत्पत्त्यान्यथा-सिद्धिनिरासायोक्तम् । समुदाये व्युत्पत्त्यभावे वृद्धव्यवहारापेक्षा नस्यादिति बाधकसूचनाय वृद्धव्यवहारादिनेत्युक्तम् । अत एव तदन्यथासिद्धिमाशङ्क्य निराह ॥ न चनियतेति ॥ तत्प्रसङ्गादिति ॥ शक्तिग्रहार्थत्वा-भावप्रसङ्गादित्यर्थः ।
तर्कताण्डवं
यत्त्वत्रोक्तं तथात्वे गोशब्दवैयर्थ्यं स्यादिति । तन्न । मया तद्वैयर्थ्यस्यैवापादनात् । कृतिराख्यातार्थ इति पक्षे करोतीत्यत्र धातोरिव गोप्रातिपदिकस्य कर्मत्वाद्युपस्थापकविभक्त्यनुग्रहार्थत्वोप-पत्तेश्च । पङ्कजपदाप्रयोगकाले पद्मत्वस्येव गोपदाप्रयोगकालेऽदृष्टादेः संस्कारानुद्बोधकत्वकल्पनेन गोपदस्य सार्थ कत्वसम्भवाच्च ।
किञ्चावैयर्थ्याय शक्तिकल्पने लाक्षणिकेपि तत्प्रसङ्गः । शक्ति-प्रमाणस्य वृद्धव्यवहारस्याभावात्तत्राशक्तिश्चेत् तत्प्रमाणस्यपङ्कजशब्दे भावाच्छक्तिरस्तु ।
यदि च गवादिशब्देष्वपि न स्मृत्यर्थं शक्तिः किन्त्वनुभवार्थं तर्हि पङ्कजशब्दे तदर्थमेवास्तु ।
स्मृतपद्मत्वविशिष्टकर्तृत्वानुभवो योगेनैव चेद्गामानयेत्यत्रापि स्मृतगोविशिष्टानयनानुभव आनयेत्यनेनैवास्तु । त्वत्पक्षे लक्षणा-स्थवत् ।
न्यायदीपः
॥ धातोरिवेति ॥ यथा कृधातोरपि तत्र कृतिवाचित्वे वैयर्थ्या-त्प्रत्ययानुग्रहार्थत्वं केवलप्रत्ययप्रयोगायोगेन धातुसाहित्येनैव प्रत्यय-प्रयोगात्तद्वदिहापीत्यर्थः । अदृष्टादिनावेत्यादिनोक्तदिशा जायमानगोपिण्डोप-स्थितिर्गोपदप्रयोगे सत्येव नान्यथा ।
अतोपि सार्थक्यमित्याह ॥ पङ्कजेति ॥ पद्मत्वस्येवेति ॥ यथा पद्मत्वगोचरस्मृतिजनकसंस्कारोद्बोधकत्वमदृष्टादेवेति कल्प्यते तथेत्यर्थः ॥ संस्कारेति ॥ गोत्वगोचरसंस्कारानुद्बोधकत्वेत्यर्थः ॥ लाक्षणिकेपीति ॥ गङ्गायां घोष इत्यादौ गङ्गापदेन विना तीरोपस्थितौ गङ्गापदवैयर्थ्यापत्त्या गङ्गापदस्य तीरे गोपदस्य गोपिण्ड इव शक्तिः स्यात् । तथाच लक्षणोच्छेद इति भावः ।
॥ तत्रेति ॥ लाक्षणिके गङ्गादिशब्दे शक्तिर्न चेदित्यर्थः ॥ तत्प्रमाणस्येति ॥ शक्तिग्राहकप्रमाणस्य वृद्धव्यवहारस्येत्यर्थः । न हि गवादिशब्दे स्मृत्यर्थं शक्तिः किं त्वनुभवार्थमित्यादिना मण्युक्तप्रकराशयमनूद्य सममित्याह ॥ यदि चेत्यादिना ॥
ननु पङ्कजशब्दसमुदायवृत्तिं विनैव पद्मेवयवार्थविशिष्टानुभवोवयववृत्त्यैव भविष्यतीत्याशङ्क्य एतदपि गोपदे सममिति तत्रापि रूढिर्नस्यादिति भावेनाह ॥ स्मृतेति ॥ त्वत्पक्ष इति ॥ लाक्षणिकं पदं नानुभावकमिति-तार्किकमते गङ्गायां घोष इत्यत्र घोषपदस्यैव तीरान्वयानुभावकत्वं यथा तथैवास्तु गोपदस्य पिण्डे शक्तिर्मास्त्विति भावः ।
तर्कताण्डवं
ननु व्युत्पत्त्यादेस्तौल्येनानयनपदवद्गोपदमपि स्वार्थानुभावकम् । अन्यथा वैपरीत्यं स्यात् । गङ्गापदं तु न नदी तीरे व्युत्पन्नमिति चेत्पङ्कजमानयेत्यत्रापि तत्तौल्येन द्वयमप्यनुभावकम् ।
ननु पङ्कजपदे यौगिकार्थानुभावकत्वेनापि तदुपपन्नं गोपदे तु न तदस्तीति चेत्तर्हि जातिविशिष्टव्यक्तौ व्युत्पन्नं गोपदमनन्यथा-सिद्धनियतपूर्ववर्तित्वादिविशिष्टे धर्मिणि व्युत्पन्नं कारणादिपदं च स्वार्थैकदेशस्यैवानुभावकं स्यात् ।
न्यायदीपः
लक्षणास्थलवैषम्यमाशङ्क्य निराह ॥ नन्विति ॥ तत्तौल्येनेति ॥ क्रियायामानयनपदस्येव पङ्कजपदसमुदायस्यापि पद्मेपि व्युत्पत्तिसाम्येना-नयनत्वविशिष्टानयनानुभावकं यथानयनपदं तथा पङ्कजपदमपि पद्मत्व-विशिष्टपद्मानुभावकमेव । न तु पद्मत्वेन स्मृतपद्मेवयववृत्त्या पङ्कजनिक्त-र्तृत्वमात्रानुभावकमित्यर्थः ।
गामानयेत्येतद्वैषम्यमाशङ्क्य निराह ॥ ननु पङ्कजेति ॥ तर्हीति ॥ व्युत्पत्तिबलेन पद्मत्वपङ्कजनिकर्तृत्वोभयविशिष्टानुभवेऽपि एकदेशानुभवाङ्गीकारे सतीत्यर्थः । कारणादीत्यादिपदेन कार्यादिग्रहः ।
तर्कताण्डवम्
अथ यावत्यर्थेव्युत्पत्तिः स सर्वोप्यनुभाव्यः । व्युत्पत्तिविषयत्व-तौल्यादिति चेत्तर्ह्यवयव्युत्पत्तेः पङ्कजादिकमिव समुदायव्युत्पत्तेः पद्मत्वं विषय एवेति तदप्यनुभाव्यमेव ।
इयांस्तु भेदः । गोशब्दे कारणादिशब्देचेकैव शक्तिरिह तु नानेति ।
किञ्च त्वदुक्तरीतिद्वयेन स्मृतकर्तृत्वान्वितपद्मानुभवो रूढ्यै-वास्त्विति योगो न सिध्येत् । यदि चावयवमात्रव्युत्पन्नस्य कर्तृत्व-प्रतीतेर्योगसिद्धिस्तर्हि समुदायमात्रव्युत्पन्नस्य पद्मत्वप्रतीते रूढिसिद्धि-रित्युक्तम् । तस्मादश्वकर्णादिशब्दवद्व्युत्पत्तिद्वयसापेक्षत्वाद्योग-रूढोयम् । एतावांस्तु विशेषोऽश्वकर्णादिषु योगरूढी भिन्नविषये इह त्वेकविषये इति ।
अपि च पद्मत्वविशिष्टस्य पङ्कजपदवृत्त्यविषयत्वे पङ्कजमान-येत्यादौ विभक्त्यर्थान्वयः शाब्दानुभवप्रवेशश्च नस्यात् । विभक्तीनां प्रकृत्यर्थान्वितस्वार्थाभिधायित्वस्य शाब्देनैव शाब्दान्वयस्य च व्युत्पत्तिसिद्धत्वात् । शिष्टं शब्दाध्याहारप्रस्तावे वक्ष्यते ।
न्यायदीपः
परमुखेनैव समाधिं वाचयित्वा समं पङ्कजपदमपीत्याह ॥ अथेति ॥ ननु केवलरूढगवादिपदैः कथं पङ्कजपदस्य साम्योक्तिरित्यत आह ॥ इयां-स्त्विति ॥ इह त्विति ॥ पङ्कजपदावयवसमुदायभेदेनेत्यर्थः ।
प्रतिबन्द्यापि योगरूढिं साधयितुं प्रतिबन्दिमुपादत्ते ॥ किञ्चेति ॥ रीतिद्वयेनेति ॥ अदृष्टादिना वा पङ्कजनिकर्तर्येव नियतप्रयोगसम्बन्धयुक्ते-नावयवशक्तिशून्य१पदपङ्कजपदेनैवा२बुद्धसंस्कारादेव पङ्कजनिकर्तरि स्मृति तत्र समुदायशक्त्या पद्मत्वविशिष्टानुभव इति पूर्वोक्तवैपरीत्यं किं नस्यादित्यर्थः ।
प्रतिबन्द्युद्धारमाशङ्क्य सममित्याह ॥ यदिचेति ॥ भिन्नविषय इति ॥ वृक्षविशेषरूढिर् अश्वकर्णसदृशकर्णवति पशुविशेषयोग इति भिन्नविषय इत्यर्थः ।
विभक्त्यर्थाद्यन्वयानुपपत्त्या च रूढिसिद्धिमाह ॥ अपि चेति ॥ उभयत्र हेतुमाह ॥ विभक्तीनामिति ॥ नन्वन्वयप्रतियोग्यलाभादन्वयानु-पपत्तिरित्यन्वयप्रतियोगिलाभेनैव भाव्यं न तु तस्य शब्दशक्त्यैव लाभेनैवेति नियम इत्यत आह ॥ शिष्टमिति ॥
तर्कताण्डवं
न च पङ्कजपदेन स्मृते पद्मे १पद्मत्वस्य प्रकृत्यर्थत्वशाब्दत्वे स्त इति वाच्यम् । ते हि न यथाकथंचित् प्रकृतिशब्दजन्यधीविषयत्वे । कार्यकारणसम्बन्धात् स्मृते आकाशादौ साहचर्यात् स्मृते पटशब्दे आश्रयाश्रयिसम्बन्धात् स्मृतायां घटपदनिष्ठायां शक्तौ च तयोः सत्त्वेन विभक्त्यर्थान्वयाद्यापातात् ।
नापि ते नियतप्रयोगसम्बन्धेन प्रकृत्यादिजन्यधीविषयत्वे । शक्तिलक्षणादिसम्बन्धेन तज्जन्यधीविषयेवाच्ये लाक्षणिकादौ विभक्त्यर्थानन्वयाद्यापातात् ।
पङ्कजशब्दे शक्तिकार्यस्य विभक्त्यर्थान्वयादेः शक्तिग्राहकप्रयोगेणैव निर्वाहाच्छक्तित्यागे गोशब्दादावपि तेनैव तन्निर्वाहाच्छक्तित्यागा-पत्तेश्च ।
प्रयोगसम्बन्धस्य विभक्त्यर्थान्वयादौ तन्त्रत्वे तस्य लक्षणादि-वद्वृत्त्यन्तरत्वापत्तेश्च ।
नचेष्टापत्तिः । क्लृप्तशक्त्यैवोपपत्तेः । गोशब्दादावपि तस्यैव वृत्त्यन्तरत्वापत्तेश्च । अन्यथाननुगमात् ।
ननु गोशब्दादौ शक्तिं विना नियतः प्रयोग एवायुक्तो ऽन्ध-परम्परात्वापातादिति चेत्समं प्रकृतेपि ।
तस्मात्कप्तवृत्तिविषयत्वरूपं प्रकृत्यर्थत्वादिकमेव विभक्त्यर्था-न्वयादौ तन्त्रम् ।
न्यायदीपः
तदुक्तहेतू प्रकृते स्त इत्याशङ्क्य निराह ॥ न च पङ्कजेति ॥ प्रकृत्यर्थतत्वादिकं किं कार्यकारणसम्बन्धेन प्रकृतिजन्यधीविषयत्वम् अथ साहचर्यसम्बन्धेन उताश्रयाश्रयिसम्बन्धेन वा नियतप्रयोगरूपसम्बन्धेन वा । न चतुष्टयमपि युक्तमिति क्रमेण निराह ॥ ते हीत्यादिना तस्मादित्य-न्तेन ॥ ते इति द्विवचनम् । कार्यकारणतया स्मृते आकाशकालादावित्यर्थः ।
॥ साहचर्यादिति ॥ आनय पङ्कजं पटेनेत्यादिवाक्ये पूर्वस्मा-त्पङ्कपदात्साहचर्यसम्बन्धेन स्मृते पटपदे इत्यर्थः ॥ तयोरिति ॥ प्रकृत्यर्थशाब्दत्वयोरित्यर्थः । आदिपदस्य शाब्दानुभवापातादित्यर्थः ॥ नापि ते इति ॥ प्रकृत्यर्थशाब्दत्व इत्यर्थः ।
॥ तस्यैवेति ॥ १प्रयोगरूपसम्बन्धत्वेन तु रूढिरूपस्येत्यर्थः ॥ अन्यथेति ॥ पङ्कजादौ प्रयोगसम्बन्धेन जन्यधीविषयत्वप्रकृत्यर्थत्वादिकं गवादिशब्दे तु समुदायशक्त्या तज्जन्यधीविषयत्वं प्रकृत्याद्यर्थत्वमित्यननुगमा-दित्यर्थः ॥ तन्त्रमिति ॥ तथा च पङ्कजमानयेत्यादौ तदभावा२द्विभक्त्य-र्थान्वयशाब्दान्वयपद्मत्वविशिष्टश्च न स्याद् इति सुस्थमिति भावः ।
तर्कताण्डवम्
पाचकमानयेत्यत्रापि पाककर्तुः पाचकपदयोगवृत्तिविषयत्वादेव कर्मत्वान्वयादिकम् । पद्मत्वविशिष्टस्तु न पङ्कजपदयोगविषयः । किं तु कर्तृत्वविशिष्ट एव ।
येषां तु तार्किकाणां यौगिकं पदं वाक्यं तेषां वाक्ये वृत्त्य-भावात्पाचकस्य कर्मत्वाद्यन्वयो न स्यादेव ।
किञ्च योगमात्रं चेत् कुमुदादावपि प्रतीतिप्रयोगौ स्याताम् । न च नियता पद्मोपस्थितिस्तत्प्रतिबन्धिका । रूढिं विना तस्या एवायोगात् ।
नापि पूर्वपूर्वाप्रयोगःप्रतिबन्धकः । प्रयोगहेतौ सत्यप्रयोग-स्यैवायोगात् ।
नापि १ग्रामग्रामादिशब्दस्येव पङ्कजपदस्य कुमुदेऽसाधुत्वग्रहः प्रतिबन्धकः । तस्य ग्रामगमनकर्तृजातीय एव असाधुत्वग्रहात् । अस्य तु पङ्कजनिकर्तृजातीये पद्मेऽसाधुत्वग्रहात् । प्रतिपदार्थं च साधुत्वग्रहस्य प्रयोगहेतुत्वे नवे पाचके पाचकपदप्रयोगो न स्यात् ।
न्यायदीपः
ननु नेदं तन्त्रम् । पाचकादियौगिकशब्दे समुदायशक्त्यविषयस्यापि विभक्त्यर्थान्वया२दर्शनाद् यौगिकपदस्य वाक्यरूपतया वृत्त्यभावेनावयव-वृत्तेरप्यविषयत्वात्तत्रावयववृत्तिविषयत्वेन विभक्तयर्थान्वये वा पङ्कजादावपि तथात्वमस्त्वित्यत आह ॥ पाचकमिति ॥ शक्यतावच्छेदकरूपेणोप-स्थि३तिर्हि प्रकृत्यर्थे प्रत्ययान्वयः । पद्मत्वस्य च समुदाये शक्त्यभावपक्षे ४शक्यतावच्छेदकत्वात्तेन रूपेण कर्मत्वाद्यन्वयो न स्यात् । न चेष्टापत्तिः । अनुभवविरोधादिति भावः ।
॥ कर्तृत्वेति ॥ जनिकर्तृत्वविशिष्ट इत्यर्थः । नन्वस्त्वेवं यौगिके अवयववृत्त्यभ्युपगमवादिनां सिद्धान्तिनां मते । न्यायमते तु कथमित्यत आह ॥ येषामिति ॥ कुमुदादौ प्रयोगप्रत्यययोरभावान्यथानुपपत्त्या पङ्कजादौ रूढिं साधयति ॥ किञ्चयोगेति ॥
ननु कुमुदादौ अवयवशक्तौ सत्यामप्यप्रयोगादिप्रतिबन्धादिति चेत् । तत्किं प्रतिबन्धकं मण्याद्युक्तदिशा नियतपद्मोपस्थितिर् वृद्धानां तत्राप्रयोगो वा तत्रासाधुत्वग्रहो वा पङ्कोत्तरजपदादिकं वा । आद्यमाशङ्क्य निराह ॥ न चेति ॥
द्वितीयं प्रत्याह ॥ नापीति ॥ तृतीयं निराह ॥ नापीति ॥ ग्राम१गामीति ॥ तृतीये ‘‘कर्मण्यण्’’ इति सूत्रे कर्मण्युपपदे अण्यप्रत्ययो विहितः कुम्भकार इत्यादिरूपसिद्ध्यर्थम् । २ग्रामगामीत्यादि त्वसाधु । ग्रामं गच्छतीत्यादौ नेत्युक्तत्वादिति भावः ।
ननु जातौ साधुत्वग्रहेपि कुमुदव्यक्तौ तद्ग्रहो नेत्यत आह ॥ प्रतिपदार्थं चेति ॥ नव इति ॥ नूतन इत्यर्थः ।
तर्कताण्डवं
यत्तु नयविवेके यदिशब्दादिकं विधिशक्तेरिव पङ्कोत्तरजपदादिकं कुमुदेऽवयवशक्तेः प्रतिबन्धकं कप्तस्य योगस्य प्रतिबन्धकत्वरूप-धर्ममात्रकल्पनं हि लघीयः रूढी रूढेर् योगप्रतिबन्धकत्वशक्तिश्चेति शक्तिद्वयकल्पना तु गरीयसीत्युक्तम् ।
तन्न । अवयवमात्रव्युत्पन्नस्यापि कुमुदादावप्रयोगापातात् । रूढिं विना पद्मत्वप्रतीतेरनिर्वाहाच्च । अत एव रसे चक्षुष इव कुमुदेऽवयव-शक्तेः कुण्ठनं स्वभावादेवेति निरस्तम् । अवयवमात्रव्युत्पन्नस्यापि कुमुदादावप्रयोगापातात् ।
न च यथा धेनुपदे धानकर्मत्वमात्रस्य निमित्तत्वेऽपि गोत्वं शक्तेः प्रयोगस्य चोपाधिः । तथा पद्मत्वमशक्यमेव तयोरुपाधिरिति युक्तम् । कारणादिपदैरिव धेनुपदेनापि विशिष्टस्यैव प्रतीत्या गोत्वविशिष्ट एव तस्य शक्तेः । अन्यथा घटादिपदेपि घटत्वादिरपि तयोरुपाधिः स्यात् ।
न्यायदीपः
चतुर्थं शङ्कते ॥ यत्त्विति ॥ रूढिरिति ॥ कल्प्येति शेषः । शक्ति-श्चेत्यत्रापि कल्प्येति ध्येयम् ॥ इत्युक्तमिति ॥ नामधेयपादे तथा निर्मथ्य इति दशमेधिकरणे ॥ रूढिं विनेति ॥ तदुपायानुक्तेरिति भावः ॥ कुण्ठन-मिति ॥ अभिभवोऽप्रवृत्तिरेव वा ।
ननु कुमुदादावप्रयोगो न प्रतिबन्धात् । येनोक्तदोषः । किं तु पद्मत्वरूपस्य प्रयोगोपाधेरभावाद्वा प्रतीतिनियामकस्य वा प्रयोगग्रहरूपस्य वा सहकारिणोऽभावाद्वेत्यत आद्यमाशङ्क्य निराह ॥ न च यथेति ॥ धानकर्मत्वस्येति ॥ पीयमानत्वरूपपानकर्मत्वस्येत्यर्थः । धेट् पाने इत्यस्य ‘‘धेट इच्च’’ इति धेटो नुप्रत्यये धातोरिकारादेशे च गुणे च सति धेनुरिति रूपात् ।
॥ निमित्तत्त्वेपि ॥ प्रवृत्तिनिमित्तत्वेपीत्यर्थः । उपाधिर्नियामक इत्यर्थः । अशक्यमेव पङ्कजादिपदशक्त्यविषय एव । तयोः शक्ति-प्रयोगयोर्नियामकः । अतो न कुमुदे तयोः प्रसङ्ग इति भावः । दृष्टान्ता-सम्मत्या दूषयति ॥ कारणादीति ॥ अनन्यथासिद्धनियमतपूर्ववृत्तित्वादि-विशिष्टमेव कारणकार्यादिपदैः प्रतीयते । यथा गोत्वविशिष्टमेव धेनुपदेन प्रतीयत इति प्रतीतिबलाद्गोत्वविशिष्ट एव धेनुपदस्य शक्तिग्रहादित्यर्थः ।
तर्कताण्डवं
नच यथाहमादिपदे आत्ममात्रशक्तेपि शक्तिग्रहसहकारितया स्वरूपसन्नेवोच्चारयितृत्वादिकं धीनियामकम् । तथा पद्मत्वमपीति युक्तम् । तत्रानुच्चारयितरि प्रयोगप्रत्यययोः कदाप्यभावादिह त्वपद्मेपि तयोः पङ्कजं कुमुदमिति दर्शनात् ।
न च धातोः प्रकर्षादिबोधने प्रादिरुपसर्ग इव पङ्कजपदस्य पद्मबोधने पद्मे प्रयोगग्रहः स्वरूपसन्नेवोपसन्दानमिति युक्तम् । घटादिशब्देष्वपि तत्प्रसङ्गात् । प्रकर्षादौ तु प्रादिसम्बन्धाद्धातोरेव वा प्रादेरेव वा शक्तिः ।
न्यायदीपः
द्वितीयमाशङ्क्य प्रत्याह ॥ न च यथेति ॥ धीनियामकमिति ॥ तत्तदात्मप्रतीतिनियामकम् । तथा पङ्कजपदात्पङ्कजनिकर्तृप्रतीतौ पद्मत्वं नियामकम् । कुमुदे च तदभावान्न पङ्कजपदात्तादृशकर्तृत्वेन कुमुदप्रतीतिरिति भावः ।
दृष्टान्तवैषम्येण निराह ॥ तत्रेति ॥ अहमादिपदे ॥ दर्शनादिति ॥ तथा च व्यभिचारान्नपद्मत्वमुक्तकर्तृत्वधीनियामकमिति भावः ।
तृतीयमाशङ्क्य पराचष्टे ॥ न च धातोरिति ॥ उपसन्दानमिति ॥ द्योतकरूपं सहकारीत्यर्थः ॥ तत्प्रसङ्गादिति ॥ तथा च घटपदस्यापि घठे शक्तिर्न स्यादिति भावः ।
न्यायमतरीत्याह ॥ धातोरेवेति ॥ स्वमतरीत्याह ॥ प्रादेरेवेति ॥
तर्कताण्डवं
विवरणे तु कुमुदसाधारणेनापि योगेन पद्मस्यैव द्राग्धीरनेकार्थेनापि गोशब्दादिना सास्नादिमद्व्यक्ते१रेव प्रयोगप्राचुर्याद्युक्तेत्युक्तम् ।
तदप्यनेनैव निरस्तम् । कर्तृत्वेन बुद्धेर्योगेन द्राक्सिद्धावपि पद्मत्वेन बुद्धेरूढिं विनायोगात् ।
गोशब्दवत् पङ्कजशब्दस्यापि निरुपपदस्यार्थान्तरे प्रयोगापाताच्च ।
सास्नादिमद्व्यक्तावसाधारणस्य रूढस्य शब्दान्तरस्य अभावेन पद्मे तु तादृशस्य पद्मशब्दस्य भावेन वैषम्याच्च ।
न्यायदीपः
पङ्कजपदान्नियमेन पद्मप्रतीतौ नियामकान्तरमनूद्य निराह ॥ विवरणे त्विति ॥ प्राभाकरग्रन्थे ॥ कर्तृत्वेनेति ॥ पङ्कजनिकर्तृत्वप्रकारक-बुद्धेरित्यर्थः ।
तर्कताण्डवं
तस्मात्केवलयौगिकत्वे कुमुदादिषु प्रयोगादिकं दुर्वारम् । तस्मा-त्पद्मोपस्थितिनियमो वा पूर्वपूर्वाप्रयोगो वा कुमुदे पङ्कजशब्दस्या-साधुत्वं वा पङ्कोत्तरजपदादिकं वा प्रतिबन्धकमिति पक्षचतुष्टयं कुमुदेऽ-वयवशक्तेः कुण्ठनं पद्मत्वस्य शक्तिप्रयोगौ प्रत्युपाधित्वं पद्मत्वस्य स्वरूपसत एव धीनियामकत्वं पद्मे प्रयोगग्रहः स्वरूपसन्नेवोपसन्दानं प्रयोगप्राचुर्यात्पद्मस्यैव द्राग्धीरिति पक्षपञ्चकं चायुक्तम् ।
तदेतदभिप्रेत्योक्तं सुधायां ‘‘भेकादिष्वपि प्रयोगप्रसङ्गात्’’ इति ।
अस्य च भेकादिष्ववयवशक्तिप्रतिबन्धार्थं रूढिरङ्गीकार्येति नाभिप्रायो येन प्रतिबन्धकत्वे शक्तित्वं पारिभाषिकं स्यादिति शङ्क्येत । किं तु रूढ्या पद्मत्वमपि बोध्यमेवेति ।
यत्र तु ब्रह्मशब्दादौ योगो नातिप्रसक्तः रूढिबोध्यं धर्मान्तरं च नास्ति तत्रापि तेदव परमं बह्माहुरित्यादिश्रुत्या विष्णुव्यक्तौ रूढिसिद्धिरित्याद्यूह्यम् ।
तस्मात्प्रतिवचनं कोशपाठः सहप्रयोगाभावः समुदायव्युत्पत्त्यपेक्षा योगस्यैवापलापप्रसङ्गः पद्मत्वविशिष्टस्य विभक्त्यर्थान्वयः शाब्दानुभव-प्रवेशो योगमात्रं चेत्कुमुदादावपि प्रयोगप्रसङ्ग इति युक्त्यष्टकेन योगरूढिसिद्धिः ।
न्यायदीपः
निरुपपदस्य कुमुदाद्युपपदरहितस्य । किञ्च योगमात्रं चेत्यादिनोक्तमुप-संहरति ॥ तस्मादिति ॥ उक्तं सुधायामिति ॥ आनुमानिकपादे वृत्तिनिरूपणप्रस्तावे पङ्कजादिशब्दाः केवलयौगिका इति पक्षे ‘‘भेकादिष्वपिप्रयोगप्रसङ्गात्’’ इत्युक्तमित्यर्थः ।
प्राचीनतार्किकरीत्या रूढ्युपादानमिति भ्रमनिरासाय तस्य वाक्यस्य तात्पर्यमाह ॥ अस्य चेति ॥ पारिभाषिकं न्यायमत इवेति भावः ॥ पद्मत्वमपीति ॥ न केवलं योगेन पङ्कजनिकर्तृत्वमित्यपेरर्थः । नन्वेवं ब्रह्मादिपदे रूढता न स्यात् ।
अवयवशक्तेरन्यत्र१ प्रसङ्गेन तत्प्रतिबन्धरूपस्य धर्मान्तरबोधरूपस्य वा रूढिफलस्याभावादित्यत आह ॥ यत्रेति ॥ धर्मान्तरं चेति ॥ न च गुणपूर्तितोऽवयवार्थादन्यद्विष्णुत्वमेव पद्मत्वमिव ब्रह्मपदबोध्यमिति शङ्क्यम् । विष्णुत्वस्यापि गुणपूर्णत्वादिरूपत्वेनाखण्डधर्मत्वाभावात् । इति भावः । ‘‘तदेवर्तं तदु सत्यमाहुस्तदेव ब्रह्म परमं कवीनाम्’’ इति श्रुतिगत-पदानामन्वयमुखेनायमनुवाद इति न क्रमव्यत्यासदोषः शङ्क्यः ।
॥ आहुरिति ॥ प्रयोगबाहु•येन समुदायशक्तेरनुमानाच्छ्रुत्या रूढि-सिद्धिरित्युक्तम् । यद्वा प्रयोगबाहुल्यं रूढिरिति मताभिप्रायेण श्रुत्येत्युक्तम् । एवं विष्णुशब्दाक्षरादिशब्देष्वपि द्रष्टव्यमित्याह ॥ इत्याद्यूह्यमिति ॥
उक्तं सर्वं बुद्ध्यारोहाय सङ्ग्रहेणानुवदन्नुपसंहरति ॥ तस्मादिति ॥ किं पङ्कजपदशक्यमिति प्रश्ने पद्ममिति प्रतिवचनमित्यर्थः । किं चास्या-पाचकपदवदित्यादिनोक्तमाह ॥ समुदायव्युत्पत्त्यपेक्षेति ॥ किञ्च त्वदुक्तिरितिद्वयेनोक्तमाह ॥ योगस्यैवेति ॥ अपि च पद्मत्वेत्यादिनोक्तमाह ॥ पद्मत्वेति ॥ शाब्दानुभवप्रवेश इत्यत्रापि प्रकृत्यर्थस्येत्यनुकर्षः । तथाच युक्त्यष्टकेनेति युक्तम् । किञ्च योगमात्रं चेत्यादिनोक्तमाह ॥ योगमात्रं चेदिति ॥
तर्कताण्डवं
नन्वयववृत्तिर्योगो रूढिस्त्वखण्डवृत्तिस्ते चैकस्य शब्दस्यैक-स्मिन्नर्थे विरुद्धे इत्यसमाहाररूपं वृत्त्यन्तरमेवेदमस्त्विति चेन्न ।
योगरूढ्योर्यथाक्रमं कर्तृत्वपद्मत्वरूपभिन्नधर्मनियतयोरपि तद्द्वारै-कस्मिन्धर्मिणि सैन्धवशब्दवृत्त्योरिव समाहारसम्भवात् । उभयकार्य-दर्शनस्य समाहारेणैवोपपत्तौ वृत्त्यन्तरकल्पने गौरवाच्च ।
नचैवमसिद्धिबाधसमाहारोपि हेत्वाभासान्तरं स्यादिति वाच्यम् । तत्रैकैकेनैवोद्देशस्य१ दुष्टत्वबोधस्य सिद्धेः । इह तु पङ्कजपदेनोद्देशस्य कर्तृत्वविशिष्टपद्मत्वबोधस्यैकैकेन असिद्धेः ।
न्यायदीपः
सुधोक्तं योगरूढिसमाहाराक्षेपमनूद्य समाधत्ते ॥ नन्वित्यादिना ॥ कर्तृत्वेति पङ्कजनकर्तृत्वेत्यर्थः ॥ सैन्धवेति ॥ सिन्धुसम्बन्धित्वाश्वत्वादि-धर्मनियतयोरप्यवयवाखण्डवृत्त्योर्घर्मद्वारैकस्मिन्धर्मिणि समाहारस्तथेत्यर्थः ।
॥ उभयेति ॥ अवयवशक्तिसमुदायशक्तिरूपोभयकार्यस्य कर्तृत्वस्मृति-पद्मत्वस्मृतिरूपस्य यद्दर्शनं तस्येत्यर्थः ।
तर्कताण्डवम्
अत एव–
‘‘……………..विद्वद्रूढिं च तत्रगाम् ।
बहुशो दर्शयत्यञ्जस्तात्पर्यात्सनिरुक्तिकम्’’
इत्यनुव्याख्याने रूढेर्योगसाहित्यं सनिरुक्तिकमित्यनेनोक्तम् ।
सन्न्यायरत्नावल्यामपि न चावयववृत्त्यखण्डवृत्त्योरेकस्य शब्दस्यै-कस्मिन्नर्थे विरुद्धत्वाद्योगरूढिर्नाम वृत्तिर् नास्तीति वाच्यम् । तस्याः पङ्कजादिशब्देषु दृष्टत्वादिति समाहार एवोक्तः ।
यत्तु सुधायां न हि योगरूढ्योः समाहारो योगरूढिर्येन विरोधः स्यात् । किं नाम रूढलक्षणालक्षणामात्रादिवेयं योगरूढिवृत्तिर्योग-मात्रात्प्रयोगबाहुल्याद्भिन्ना तृतीया वृत्तिरित्युक्तम् । तत् प्रयोगमात्र-बाहु•यमित्यनुव्याख्यानस्थबाहु•यशब्दस्य प्रयोजनं वक्तुम्, अनेनापि प्रकारेण वृत्तित्रित्वसिद्धिरित्यभिप्रेत्य वा एकत्रधर्मे समाहारो नेत्यभिप्रेत्य वेति द्रष्टव्यम् ।
अत एव सुधायां ‘‘विद्वद्रूढिं च तत्रगाम्’’ इत्यनुव्याख्यान-व्याख्यानावसरे सनिरुक्तिकं योगवृत्तिसाहित्येन तत्र गां परमेश्वर-विषयां सर्वशब्दानां विद्वद्रूढिं दर्शयतीत्युक्तम् । इति ।
॥ इति योगरूढिसमर्थनम् ॥ ६१ ॥
न्यायदीपः
वृत्तिद्वयसमाहारो योगरूढिरित्यत्रानुमानिकपादीयाचार्योक्तिं संवादयति ॥ अतएवेति ॥ योगरूढेः समाहाररूपत्वादेवेत्यर्थः । तत्र गां विष्णुनिष्ठां तं यच्छतं वर्षाण्यभ्यार्चदित्यादिका ऐतरेयोपनिषत् सनिरुक्तिकं योगवृत्तिसाहित्येन दर्शयतीत्यर्थः ।
॥ सन्न्यायत्नावल्यामिति ॥ पुरातनानुव्याख्यानटीकायाम् । सुधा-विरोधमाशङ्क्य समाधत्ते ॥ यत्त्विति ॥ इयमिति ॥ पङ्कजादिपदनिष्ठा १योगवृत्तिः कुम्भकारादियोगमात्राद्भिन्ना । कुतः । प्रयोगबाहुल्याद्धेतोरित्यर्थः ॥ इत्यनुव्याख्यानस्थेति ॥ तत्रोक्तरूढिलक्षणस्यैवाधिकप्रक्षेपेण योगरूढिलक्षणत्वेनोक्तेरिति भावः ।
॥ अनेनेति ॥ योगसहितप्रयोगबाहु•यरूपेणापि प्रकारेणेत्यर्थः । न केवलं योगसहितसमुदायशक्तिरूपेणेत्यपेरर्थः ॥ वृत्तित्रित्वेति ॥ मुख्यवृत्तित्रित्वेत्यर्थः । एवं तात्पर्यकल्पने ज्ञापकमाह ॥ अत एवेति ॥ एतच्चोपलक्षणम् । समाहारवृत्तयो हि ता इत्यानन्दमयाधिकणान्त्य-भागसुधावाक्यमपि ज्ञापकं ध्येयम् । एतेन पूर्वोत्तरविरोधोपि प्रत्युक्तः ।
॥ इति योगरूढिसमर्थनम् ॥ ६१ ॥