०१ रूढ्यादिवृत्तित्रयलक्षणम्

अस्य च शब्दस्य वृत्तिस्त्रिधा

वृत्तित्रयवादः

६०. अथ रूढ्यादिवृत्तित्रयलक्षणम् ।

अस्य च शब्दस्य वृत्तिस्त्रिधा । अभिधालक्षणा गौणी चेति । तदुक्तमनुव्याख्याने–

‘‘तस्मात्परममुख्यत्वं विष्णावन्यत्र मुख्यता ।

उपलक्षणा च गौणी च तिस्रः शब्दस्यवृत्तयः’’

इति । तत्राद्या मुख्यवृत्तिरित्युच्यते । द्वितीयतृतीये त्वमुख्यवृत्ती इति ।

न्यायदीपः

एवं प्रकृतिप्रत्ययोपसर्गादिशब्दार्थनिर्णये सति तदर्थबोधोपायरूप१प्रवृत्ति-चिन्तावसरः । तत्र–

‘‘प्रयोगमात्रबाहुल्यं रूढितिरत्यभिधीयते’’ ।

इत्यानुमानिकपादीयानुव्याख्यानसुधायां ‘‘मुख्यवृत्तिरपि त्रेधा भवति । योगो रूढिर्योगरूढि’’रित्यादिवाक्यानि विवृण्वानो वृत्तिसामान्यलक्षणमग्रे विवक्षुर्विभागेन तावन्निर्दिशति ॥ अस्य चेति ॥ यस्य शब्दस्या-न्वितार्थाभिधायकत्वादिरूपोर्थोऽभिहित अस्येति सङ्गतिं सूचयति । जात्यभिप्रायमेकवचनम् ।

यद्वास्येति लौकिकेष्वर्थेषु व्यवह्रियमाणस्य न तु विष्णावित्यर्थः । विष्णौ व्यवह्रियमाणशब्देषु वृत्तिभेदस्य चन्द्रिकायां व्युत्पादनात् । अतो न वक्ष्यमाणोपष्टम्भकानानुगुण्यमिति ध्येयम् । गौण्या लक्षणातो ज्यायस्त्वेप्यनु-व्याख्यानानुरोधेनायं निर्देशः ॥ तदुक्तमिति ॥ आनुमानिकपादे । अन्यत्र तिस्रः शब्दस्य वृत्तय इत्यन्वयः । गौणी चेत्यनन्तरमिति शब्दोऽध्याहार्यः ।

ननु– तत्र मुख्यतेत्येवोच्यते नत्वभिधेति तत्कथं सम्मतिरित्यत आह ॥ तत्राद्येति ॥ मुख्यतेत्युक्त्या लब्धार्थमाह ॥ द्वितीयतृतीये त्विति ॥

तर्कताण्डवं

वृत्तिश्च शब्दस्य तात्पर्यरूपमर्थप्रतिपादकत्वम् । न तु मण्युक्त-रीत्या शाब्दबोधानुकूलपदार्थोपस्थितिहेतुः पदार्थसम्बन्धः । वाक्यस्थं पदं न स्मारकमित्युक्तत्वेन शाब्दान्वयबोधानुकूलायाः स्मृतिरूपायाः पदार्थोपस्थितेरभावात् । अयं शब्दोनेन सम्बन्धेनात्रार्थे वर्तत इति सम्बन्धस्य वृत्तिहेतुत्वव्यवहाराच्च । गङ्गायां घोष इत्यादौ गङ्गाशब्दस्य प्रवाहे वृत्त्यभावव्यवहाराच्च ।

न्यायदीपः

का नाम वृत्तिरित्यतस्तत्सामान्यलक्षणमुक्त्वा तत्साधयति ॥ वृत्तिश्चेति ॥ अत एव प्रागेवानुक्तिः । प्रतिपादकत्वं प्रतिपत्तिजनकत्वम् ॥ मण्युक्तेति ॥ शक्तिवादे ॥ शाब्देति ॥ शाब्दबोधपदम् अन्वयबोधपरम् । शाब्दान्वय-बोधानुकूला या पदार्थोपस्थितिस्मृतिरूपा तद्धेतुः पदपदार्थनिरूपितः सम्बन्ध इत्यर्थः ।

॥ उक्तत्वेनेति ॥ भाट्टभिमताभिहितान्वयभङ्गे । तथाचासम्भाविलक्षण-मिति भावः । प्रकारान्तरेण मण्युक्तलक्षणस्य वृत्तावसम्भवमाह ॥ अयमिति ॥ अनेनेति ॥ शक्तिसम्बन्धेन लक्षणासबन्धेनेति शक्त्यादिपरामर्शः । वर्तते वृत्तिमान्भवतीत्यर्थः ।

ननु– गजेन धनवानित्यादौ गजरूपधनवानित्यर्थवत् शक्तिसबन्धरूप-वृत्तिमानित्यर्थोस्त्विति वादिनं प्रत्याह ॥ गङ्गायामिति ॥ लाक्षणिकस्थे प्रवाहादौ वृत्तिहीनेपि गङ्गादिशब्दे शाब्दबोधानुकूलतीरादिपदार्थोपस्थिति-हेतुभूतस्य तीरसम्बन्धस्य प्रवाहे सत्त्वेन त्वदुक्तलक्षणसत्त्वाद्गङ्गादिपदेपि प्रवाहे वृत्तिः स्यात् । न चेष्टापत्तिः । तथा व्यवहाराभावात् । प्रत्युत वृत्यभावव्यवहार एवास्तीति त्वदुक्तलक्षणमतिव्याप्तमिति भावः ।

तर्कताण्डवं

तत्र शक्त्या प्रतिपादकत्वमभिधा । न तु मण्युक्तरीत्या शक्तिरेव । गङ्गायां घोष इत्यत्रापि गङ्गाशब्दस्य तीरे शक्तिसद्भावेन तदभिधत्त इति व्यवहारापातात् । तत्र शक्तेर्मूकीभूतत्वान्न तथा व्यवहार इति१ । अप्रतिपादकत्वातिरिक्तस्य मूकीभावस्याभावेन प्रतिपादकत्वस्यैवाभि-धात्वसिद्धेः ।

अभिधाऽपि त्रेधा । रूढिर्योगो योगरूढिश्चेति । तत्राखण्डशक्त्या प्रतिपादकत्वं रूढिः । यथा घटादिशब्देषु ।

न च तेप्यौणादिकप्रत्ययान्तत्वाद्योगिका इति शङ्क्यम् । अर्थानुगमादर्शनेन व्याकरणस्य साधुत्वमात्रपरत्वात् । अन्ततः प्रकृतिप्रत्ययोरपि स्वार्थे रूढेराश्रयणीयत्वाच्च । न तु समुदायशक्ती रूढिः । एकाक्षरप्रत्ययादौ समुदायाभावात् । योगविवक्षया प्रयुक्ते मण्डपादिशब्दे रूढिव्यवहारापाताच्च । अवयवशक्तिसापेक्षावृत्तिर्योगः । यथा कुम्भकारौपगवराजपुरुषादिशब्देषु ।

न्यायदीपः

एवं १सामान्यलक्षणविभागविशेषोद्देशौ च प्रदर्श्याभिधालक्षणं तावदाह ॥ तत्र चेति ॥ वृत्तित्रयमाध्ये ॥ तीरे शक्तिसद्भावेनेति ॥ प्रवाहगोचरशक्तेस्तीरं प्रत्यप्रतिहतत्वेन शब्दगतशक्तिमात्रस्य अभिधात्वे तीरमभिधत्ते इति स्यात् । शक्त्याभिधायकत्वमभिधेति पक्षे तु नायं दोषः । तीरप्रतिपादने प्रवाहशक्तेरकिञ्चित्करत्वादिति भावः । शक्तिरेवेत्यस्य ज्ञानजननसामर्थ्यमेवेत्यर्थः । तीरे शक्तीत्यस्य तीरज्ञानजनने सामर्थ्यसद्भावे-पीत्यर्थ इत्येके ॥ अखण्डेति ॥ २अवयशक्त्यर्थाप्रतिपादके योगेऽतिव्याप्ति-निरासायाखण्डेत्युक्तिः । अखण्डा वृत्ती रूढिर् अवयववृत्तिर्योग इति प्रमाणलक्षणटीकोक्तेरपि अयमेवार्थो ध्येय इति भावः ।

रूढ्यभावमाशङ्क्य निराह ॥ नचेति ॥ मण्डपादीति ॥ मण्डं पिबतीत्यर्थविवक्षया प्रयुक्तेपि शब्दे गृहविशेषविषयसमुदायशक्तेः सत्त्वादिति भावः । यद्वा मण्डशब्दपशब्दयोरपि प्रत्येकं समुदायरूपत्वेन समुदाय-शक्तेस्तत्रापि भावादिति भावः ।

॥ वृत्तिरिति ॥ अर्थप्रतिपादकत्वं योग इत्यर्थः । कृदन्ततद्धितान्त-समासशब्दानां त्रिविधानां यौगिकानां सुधोक्तानामेवोदाहरणानामुर्क्तिर्यथा कुम्भकारेत्यादि । कुम्भं करोतीति कुम्भपदे कर्मण्युपपदे ‘‘डुकृञ् करणे’’ इत्यस्मात् ‘‘कर्मण्यण्’’ इत्यण्यप्रत्यये कुम्भकारेति रूपम् । उपगोरपत्य-मित्यपत्यार्थे ‘‘तस्यापत्यम’’ इत्यण्यप्रत्यये औपगवेति रूपम् ।

तर्कताण्डवं

न चात्रापि व्याकरणं साधुत्वमात्रपरम् । अर्थानुगमदर्शनात् । यद्यपि कुम्भप्रातिपदिककरोतिधात्वण्यप्रत्ययाः स्वस्वार्थेन्यानपेक्षा रूढा एव । तथापि समुदायः कुम्भकर्तृरूपे विशिष्टेऽर्थेवयवशक्तिसापेक्षः । न त्वश्वकर्णादिशब्दो वृक्षविशेष इव तन्निरपेक्ष इति यौगिकः ।

न च वाक्यस्यापि स्वार्थबोधने स्वावयवभूतपदशक्तिसापेक्षत्वाद् योेगवृत्तिः स्यादिति वाच्यम् । अवयवशब्देन पदावयवस्य विवक्षित-त्वात् । न त्ववयवशक्तिरेव योगः । एकैकस्या अवयवशक्ते रूढित्वात् । शक्तिमेलनस्यावयवे समुदाये चाभावात् । रूढिविवक्षया प्रयुक्ते मण्डपादिशब्दे योगव्यवहारापाताच्च । अवयवशक्तिसापेक्ष-समुदायशक्त्या अर्थप्रतिपादकत्वं योगरूढिर्यथा पङ्कजादिशब्देषु । अयं ह्यवयवशक्त्या पङ्कजनिकर्तृत्वं, समुदायशक्त्या पद्मत्वं च बोधयति । न तु वृत्त्यन्तरं योगरूढिः । निरसिष्यमाणत्वात् ।

न्यायदीपः

शाकटायनाभिमतं योगवृत्त्यभावमाशङ्क्य प्रत्याह ॥ न चात्रापीति ॥ घटादिशब्देष्विवेत्यपेरर्थः ।

ननु– कुम्भादिपदानां प्रत्येकं रूढत्वात्कथं यौगिकत्वमित्याशङ्कामनूद्य प्रत्याह ॥ यद्यपीति ॥ योगलक्षणस्यातिव्याप्तिमाशङ्क्य निराह ॥ न च वाक्यस्यापीति ॥ पदावयवस्येति ॥ न चैवं राजपुरुष इत्यादौ योगिकत्वं न स्यात् । पदसमुदायरूपत्त्वात्तस्येति वाच्यम् । ऐकपद्यमैक-स्वर्यमैकविभक्तिकत्वं समासप्रयोजनमित्युक्त्या समस्तस्याप्येकपदत्वेन तदवयवस्यापि पदावयवत्वसत्त्वादिति भावः ।

पक्षान्तरं निराह ॥ न त्विति ॥ किमवयवशक्तिरेकैकैव योगो अथ तत्समुदाय इति कल्पौ क्रमेण निराह ॥ एकैकस्या इति ॥ योग-व्यवहारापातादिति ॥ तत्राप्यवयवशक्तेः सत्त्वात् । सिद्धान्ते तु तत्सत्त्वेपि तत्रावयवशक्तेर्मूकीभावेन तया समुदायस्यार्थप्रतिपादकत्वाभावान्न दोष इति भावः ।

॥ अवयवेति ॥ अवयवशक्तिसापेक्षया समुदायशक्त्येत्यर्थः । केवलरूढ्यादावतिव्याप्तिनिरासाय द्वयोरुक्तिः ॥ वृत्त्यन्तरमिति ॥ योगवृत्तिरूढिवृत्तिभ्यामन्या नेत्यर्थः । किन्तु तत्समाहाररूपैवेति भावः ॥ निरसिष्यमाणत्वादिति ॥ योगरूढिसमर्थनवादान्ते । ‘‘नन्वय-ववृत्तिर्योगः रूढिस्त्वखण्डवृत्तिरित्यादिना ग्रन्थेनेति भावः ।

तर्कताण्डवं

यत्तु सुधायाम्–

‘‘प्रयोगमात्रबाहुल्यं रूढिरित्यभिधीयते’’ ।

इत्यनुव्याख्यानानुसारेणयस्य यत्रावयवार्थमुख्यार्थसादृश्यसम्बन्धा-नपेक्षः प्रयोगस्तस्य तत्र रूढिः । तत्रावयवार्थानपेक्षत्वोक्त्या योगयोग-रूढिभ्यां मुख्यार्थसादृश्यसम्बन्धानपेक्षत्वोक्त्या गौणलक्षणाभ्यां च व्यवच्छेद इत्युक्तम् । तदखण्डशक्तौ प्रमाणमप्युक्तः प्रयोगोऽ-साधारणत्वाल्लक्षणं च भवतीत्यभिप्रेत्य । न तु शक्तिर्नास्तीति । अनुव्याख्याने–

‘‘शक्तिश्चैवान्विते स्वार्थे शब्दानामनुभूयते’’ ।

इति गवादिशब्देष्वपि शक्त्युक्तेः–

‘‘बहुातिप्रयोगतः । रूढमित्येव साध्यं स्यात्’’

इति प्रयोगेण रूढिसाधनाच्च । सुधायामपि–

‘‘प्रयोगयुक्तसादृश्यम्’’

इत्यनुव्याख्यानस्थप्रयोगशब्दस्य सामर्थ्यमर्थ इत्युक्तत्वाच्च ।

न्यायदीपः

उक्तरूढिलक्षणे योगरूढिलक्षणे चानुमानिकपादीयसुधोक्तिं विवृण्वान एव तद्विरोधमाशङ्क्य तत्तात्पर्योक्त्या निराह ॥ यत्त्विति ॥ तदिति वक्ष्यमाणेनान्वयः । सुधावाक्यानां विशकलितानां निष्कृष्य अनुवादः यस्य यत्रेत्यादि ॥ अवयवार्थेति ॥ अवयवार्थानपेक्षः मुख्यार्थसादृश्यानपक्षे मुख्यार्थसम्बन्धानपेक्ष इत्यर्थः ॥ तदिति ॥ इत्यभिप्रेत्येत्यन्वयः ।

॥ उक्तः प्रयोग इति ॥ अवयवार्थमुख्यार्थसादृशसम्बन्धानपेक्ष इत्युक्तः प्रयोगो ऽनुमानविधया अखण्डशक्तौ प्रमाणमपि लक्षणं च भवतीत्यभि-प्रेत्येत्यर्थः । तत्र हेतुरसाधारणत्वाद् अतिव्याप्त्यादिशून्यत्वादिति ।

एवमभिप्रायोक्तौ बीजमाह ॥ शक्त्युक्तेरिति ॥ जिज्ञासाधिकरण उक्तेरित्यर्थः । प्रमाणमपीत्युक्तार्थे ज्ञापकमाह ॥ बहुलेति ॥ रूढि-साधनाच्चेति ॥ अनुव्याख्यान इत्यनुषङ्गः । आनन्दमयनयानुव्याख्यान इत्यर्थः । न तु शक्त्यभावमभिप्रेत्येत्युक्तार्थे ज्ञापकमाह ॥ प्रयोगयुक्तेति ॥ आनुमानिकपादीयानुव्याख्यान इत्यर्थः । समग्रश्लोकोऽग्रे व्यक्तः । प्रयोगः सामर्थ्यमित्युक्तस्य प्रयोगशब्दस्य सामर्थ्यमर्थ इत्युक्तत्वादिति फलितानुवादः ।

तर्कताण्डवं

यदपि सुधायां ‘‘प्रवृत्तिनिमित्तापेक्षा वृत्ति र्योगः’’ इत्युक्तं तत्र प्रवृत्तिनिमित्तशब्देनावयवार्थोऽभिप्रेतः । रूढेरपि घटत्वादिनिमित्ता-पेक्षत्वात् । सुधायामेव रूढिलक्षणे प्रवृत्तिनिमित्तपदस्थानेऽवयवार्थ-पदप्रयोगाच्च ।

अत एवानुव्याख्याने ‘‘तस्माद्’’ इत्यादिश्लोके वृत्तितद्विशेष-रूढ्यादिलक्षणानां प्रतिपादकत्वगर्भितत्वस्य विवक्षितत्वादेव गौणलक्षणालक्षणपरे–

‘‘प्रयोगयुक्तसादृश्यं सम्बन्धोवाप्यमुख्यतः ।

वृत्तिहेतुरितिज्ञेयः पूर्वायोगे परग्रहः’’ ।

इति श्लोके सादृश्यसम्बन्धयोः प्रतिपादकत्वरूपवृत्तिहेतुत्वोक्तिः, सुधायां सम्बन्धं निमित्तीकृत्य वृत्तिर्लक्षणेत्याद्युक्तिश्च घटते ।

केचित्तु– शाब्दबोधानुकूलः शब्दस्यार्थेन सम्बन्धो वृत्तिः, अखण्डशक्तीरूढिः, सखण्डशक्तिर्योगो ऽवयवशक्तिसापेक्षा समुदाय-शक्तिर्योगरूढिरिति शाब्दबोधानुकूलसम्बन्धसामान्यस्यैव वृत्तित्वं तद्विशेषाणमखण्डशक्त्यादीनामेव च रूढ्यादित्वं तस्मादित्यादिश्लोके विवक्षितम् । वृत्तिहेतुरित्यत्र वृत्तिशब्दःप्रयोग परो न तु ‘‘तिस्रः शब्दस्य वृत्तय’’ इत्यत्रेव सम्बन्धपर इत्याहुः ।

तस्मादभिधा रूढ्यादिभेदेन त्रिविधा ।

॥ रूढ्यादिवृत्तित्रयलक्षणम् ॥ ६० ॥

न्यायदीपः

स्वोक्तयोगलक्षणेपि सुधाविरोधमाशङ्क्य निराह ॥ यदपीति ॥ इत्युक्तम् आनुमानिकपादे ‘‘प्रोयगमात्रबाहु•य’’ मित्येतदवतारिकायामुक्तमित्यर्थः ॥ रूढिलक्षणे इति ॥ यस्य यत्रावयार्थेत्याद्युक्तलक्षण इत्यर्थः ।

अत एवेत्यस्य विवरणं विवक्षितत्वादेवेत्यन्तम् । घटत इत्यनेनान्वयः ॥ इत्यादिश्लोक इति ॥ ‘‘तस्मात्परममुख्यत्व’’ मित्यादिप्रागुदाहृतश्लोक इत्यर्थः ॥ गौणेति ॥ गौणलक्षणयोर्लक्षणपर इत्यस्य श्लोक इत्यनेनान्वयः । श्लोकार्थस्तु– प्रयोगयुक्तस्य सामर्थ्ययुक्तस्य मुख्यार्थस्य तस्य सादृश्यं सम्बन्धो वाऽमुख्यतः शब्दवृत्तिहेतुर् गौणलक्षणा वृत्तिहेतुः पूर्वस्य मुख्यस्यायोगे गौणग्रहः गौणस्याप्ययोगे लशणाग्रह इति ।

॥ केचित्त्विति ॥ अत्रारुचिबीजं तु सम्बन्धादिपक्षे प्रागुक्तमेव दूषणं ध्येयम् ।

॥ रूढ्यादिवृत्तित्रयलक्षणम् ॥ ६० ॥