रत्नकोशकारस्तु– धात्वर्थोऽधःसन्तपनादिव्यापारः
५४. अथाख्यातस्य रत्नकोशकारोक्तोत्पत्त्याद्यर्थत्वभङ्गः
तर्कताण्डवं
रत्नकोशकारस्तु–
धात्वर्थोऽधःसन्तपनादिव्यापारः । आख्यातार्थस्तु उत्पत्तिरेव । सा च धात्वर्थेनाधेयतया समानाधिकरणप्रातिपदिकार्थेन तु कार्यतयाऽ-न्वेति । अत एव चैत्रः पचति पाकमुत्पादयतीति विवरणम् । आख्यातेनोत्पत्तिमात्रे उक्तेऽपि उत्पत्तिं प्रति कारणत्वरूपस्योत्पाद-कत्वस्य अन्वयतयाप्रतीतेः ।
न्यायदीपः
॥ रत्नकोशकारस्त्विति ॥ आहेति वक्ष्यमाणेनान्वयः । यद्यप्ये-तन्मतं यत्तु रत्नकोशकृतोक्तमित्यादिना मणावेवानुद्य निरस्तम् । तथाऽपि गौरवादिरूपमण्युक्तदोषमप्रीयमाणः शिष्यव्युत्पादनार्थं निष्कृष्य तदुक्तमनूद्य पुनरिहनिरस्यत इत्यदोषः । धात्विति । पच्यादिधात्वर्थ इत्यर्थः ॥ आधेयतयेति ॥ पाकाश्रितोत्पत्तिरित्येवंरूपेणेत्यर्थः ।
॥ समानाधिकरणेति ॥ पचाति चैत्र इत्यादौ चैत्रादिरूप-प्रातिपदिकार्थेन कार्यतया चैत्रनिष्पाद्या पाकोत्पत्तिरिति वा पाकोत्पत्तिकारणं चैत्र इति वान्वेतीत्यर्थः । किं मानमत्रेत्यत आह ॥ अत एवेति ॥ आख्यातादेरुत्पत्त्याद्यर्थत्वादेवेत्यर्थः । अन्यथैवंरूपेण तस्य व्याख्यानशब्दितं विवरणं न नस्यादिति भावः ।
ननूत्पत्तिमात्रस्याख्यातार्थस्य चैत्रादिप्रातिपदिकार्थेन कार्यतालाभः कथमित्यत आह ॥ आख्यातेनेति ॥ अन्वयतयेति ॥ चैत्रादिपद-समभिव्याहारबलेन कार्यकारणभावो वाक्यार्थरूपेण भासत इत्यर्थः ।
तर्कताण्डवं
यद्वोत्पादनैवाऽख्यातार्थः । सा च धात्वर्थेन विषयितया प्रातिपदिकार्थेनाश्रिततयाऽन्वेति । एवं च धात्वर्थोत्पादकता चेतनेऽचेतने सर्वत्राप्यस्तीति सर्वत्राप्याख्यातो मुख्य एव । व्यापारस्य यत्नस्य चाख्यातार्थत्वे च यतते जानातीत्यादौ यत्नज्ञानविषयक-यत्नव्यापारयोरसम्भवेनाख्यातस्तत्र शब्दसाधुरेव स्यात् । उत्पत्त्यर्थ-कत्वे तु यत्नज्ञानयोरप्युत्पत्तिसम्भवादाख्यातोऽर्थसाधुः । न चार्थ-साधुत्वसम्भवे शब्दसाधुत्वं युक्तम् ।
न्यायदीपः
॥ उत्पादनैवेति ॥ उत्पादकनिष्ठो धर्मविशेष उत्पादना पचति चैत्र इत्यादौ पाकविषयकोत्पादनवांश्चैत्र इत्यर्थ इत्युपेत्याह ॥ सा चेति ॥ प्रातिपदिकार्थेन चैत्रादिना । एवमुक्तौ को लाभ इत्यतः रथो गच्छति, चैत्रो गच्छतीत्यादावाख्यातस्य मुख्यार्थलाभ इत्याह ॥ एवं चेति ॥ परपक्षे बाधकमाह ॥ व्यापारस्येति ॥ स्वपक्षे तत्रोपपत्तिमाह ॥ उत्पत्त्यर्थकत्वे त्विति । अर्थसाधुरिति ॥ अर्थविषयेपि साधुर्न तु पूर्वत्रेव शब्दमात्र इत्यर्थः ।
तर्कताण्डवं
यद्यपि मन्मतेऽपि उत्पादयतीत्यादावुत्पादार्थकधातूत्तराख्याते शब्दसाधुत्वम् । तथाऽपि त्वन्मते जानातीच्छति यतते निद्रा-तीत्यादिषु बहुषु शब्दसाधुत्वमिति विशेषः । पचतीत्यादौ वर्तमान-यत्नलाभस्तु वर्तमानोत्पत्त्यन्वितधात्वर्थेनाक्षेपादित्याह ।
तदपि न । उत्पत्तेराख्यातार्थत्वे तया सह चैत्रस्य जनकत्व रूपोऽन्वय इति चैत्रः पचतीत्यनेन चैत्रः पाकोत्पत्त्युत्पादक इति धीः स्यात् । न तु पाकोत्पादक इति । पाकमुत्पादयतीति त्वदुक्तविवरण-विरोधश्च स्यात् । पक्षद्वयेप्यचेतनेपि ज्ञानोत्पादके इन्द्रियलिङ्गशब्दादौ जानातीति प्रयोगश्च स्यात् । इन्द्रियादेरप्युत्पत्तिं प्रति जनक-तयोत्पादनां प्रत्याश्रयत्वेनान्वयसम्भवात् । चैत्रो घटं जानातीत्युक्ते घटज्ञानवान्न वेति संशयश्च स्यादचेतनस्यापि ज्ञानोत्पादकत्वादिति ।
॥ आख्यातस्य रत्नकोशकारोक्तोत्पत्त्याद्यर्थत्वभङ्गः ॥ ५४ ॥
न्यायदीपः
ननूत्पादनैवाख्यातार्थ इति मतेपि घटमुत्पादयतीत्यादावुत्पादनादि-विषयकोत्पादनाभावाच्छब्दसाधुत्वमेवेति को विशेष इत्यत आह ॥ यद्यपीति ॥ मन्मतेपि ॥ रत्नकोशकारमतेऽपीत्यर्थः ॥ त्वन्मते ॥ यत्नाद्यर्थकत्व-वादिमते ।
नन्वेवं लडादिस्थे वर्तमानादियत्नलाभो न स्यादित्यत आह ॥ पचतीत्यादाविति ॥ वर्तमानोत्पत्त्यन्वितेत्युक्त्या शाब्दस्य वर्तमान-त्वस्य कथमाक्षिप्तयन्तान्वय इति निरस्तम् । शाब्दोत्पत्त्यैव अन्वयोपगमात् ।
॥ अन्वय इति ॥ इति शब्दो हेत्वर्थः ॥ त्वदुक्तविवरणविरोध इति ॥ पाकोत्पत्तिमुत्पादयतीत्येव विवरणापत्तेरिति भावः । पक्षद्वयेपीति । उत्पत्तिराख्यातार्थ उत्पादनैवाख्यातार्थ इति पक्षद्वयेपीत्यर्थः ॥ उत्पादनां प्रत्याश्रयत्वेनेति ॥ उत्पादकनिष्ठधर्मविशेषस्यैवोत्पादनारूपत्वात् । त्वया च कर्तृसाधारण्येनोत्पादनैवाख्यातार्थ इत्युक्तत्वेन करणानामप्युत्पादकत्वे-नोत्पादनाश्रयत्वसम्भवादिति भावः । उत्पादकत्वेनैव प्रातिपदिकार्थस्यान्वये दोषान्तरं चाह ॥ चैत्रो घटमिति ॥ कुत इत्यत आह ॥ अचेतना-स्यापीति ॥ ज्ञानहीनस्यापि चक्षुरादेरित्यर्थः ॥
॥ आख्यातस्य रत्नकोशकारोक्तोत्पत्त्याद्यर्थत्वभङ्गः ॥ ५४ ॥