०१ आख्यातस्योदयनोक्तकृत्यर्थत्वभङ्गः

आख्यातार्थस्त्वधःसन्तपनादिरूपधात्वर्थानुकूलव्यापार एव..

आख्यातवादः

तर्कताण्डवम्

५२. अथाऽख्यातस्योदयनोक्तकृत्यर्थत्वभङ्गः ।

आख्यातार्थस्त्वधःसन्तपनादिरूपधात्वर्थानुकूलव्यापार एव, न तु यत्नरूपा कृतिरेवेति नियमः । चैत्रः पचति रथो गच्छतीत्यादौ चेतनाचेतनसाधारण्येनाख्यातस्य प्रयोगात् । आख्यातेन धात्वा-र्थानुकूलव्यापारस्यैव प्रतीतेश्च । कृतेस्तदर्थत्वेऽचेतने आख्यातो गौणः स्यात् । न च मुख्यसम्भवे तद्युक्तम् ।

अत्राहोदयनः । कृतिरेवाख्यातार्थः । पचति पाकं करोतीति कृत्यर्थककरोतिनाऽऽख्यातार्थस्य विवरणात् । किं करोतीति कृत्यर्थकप्रश्नस्य पचतीत्याख्यातेन प्रतिवचनाच्च । न हि भिन्नार्थं विवरणं भवति । न च प्रश्नोत्तरे व्यधिकरणे भवतः ।

न्यायदीपः

प्रसङ्गादाह ॥ अख्यातार्थस्त्विति ॥ तिङ्प््रात्ययार्थस्त्वित्यर्थः । पूर्वं लिङर्थनिरूपणेनाख्यातार्थस्मरणादिति ध्येयम् ॥ धात्विति ॥ विक्लृत्यादि-फलजनकाधःसन्तपनादिरूपपच्यादिधात्वर्थानुकूलशरीरस्पन्दादिरूपो व्यापार इत्यर्थः ।

कुत इत्यतः शब्दार्थनिर्णयस्य प्रयोगप्रत्ययाधीनत्वादिति भावेन स्वोक्तार्थें तावाह ॥ चैत्र इति ॥ व्यापारस्यैव प्रतीतिश्चेति च ॥ एतच्चोत्तरभङ्गे विवरिष्यते ॥ अत्रेति ॥ आख्यातार्थविषये व्याख्यानरूपं प्रश्नप्रतिवचन-रूपं च प्रमाणमाह ॥ पचति पाकं करोतीत्यादिना ॥ विवरणस्यान्यथो-पपत्तिमाशङ्क्य निराह ॥ न च पचतीत्यादाविति ॥

तर्कताण्डवं

नच पचतीत्यादावाख्यातोक्तेन व्यापारेण कृतेराक्षेपादाक्षिप्त-कृतेर्व्याख्यानपरं विवरणमिति वाच्यम् । अचेतनव्यापारसाधारण्येन व्यापारत्वेनोपस्थितस्य व्यापारस्य चेतनासाधारणकृत्यनाक्षेपकत्वात् । तदुक्तम्–

‘‘भावनैव हि यत्नात्मा सर्वाख्यातस्य गोचरः ।

तया विवरणग्रौव्यादाक्षेपानुपपत्तितः’’

इतीति । तन्न । व्यापारत्वेनोपस्थितेनापि व्यापारेण योग्यता-बलाच्छिद्रेतरघटवत्पर्यवसितस्य वा पाकाद्यर्थकपच्यादिसमभिव्याहार-बलादाक्षिप्तस्य वा यत्नस्य करोतिना विवरणसम्भवात् । न च शक्य-मेव विव्रियते इति नियमः । लाक्षणिकादेरपि योग्यताबलाद् विवरणसम्भवात् ।

न्यायदीपः

॥ आक्षेपादिति ॥ व्यापाररूपकार्येण तत्कारणस्याक्षेपादित्यर्थः ॥ तदुक्तमिति ॥ कुसुमाञ्जलौ पञ्चमे स्तबके उक्तमित्यर्थः ॥ तयेति ॥ भावनया करोतिनो१क्त्येत्यर्थः । आक्षेपानुपपत्तिरसिद्धेत्याह ॥ व्यापार-त्वेनेति ॥ योग्यतेति ॥ चेतननिष्ठव्यापारस्य प्रयत्नरूपत्वाद्योग्यता-बलादित्युक्तम् । घटेन जलमाहरेत्यादौ योग्यताबलाच्छिद्रेतरेणेत्यर्थपर्यवसानं यथा तथेहापि पाकानुकूलव्यापारस्य योग्यताया कृतित्वे पर्यवसानात्पाकानु-कूलव्यापारस्य पचिसमभिव्याहारलभ्यस्य यत्नेन विनायोगेन तेन तदाक्षेपाद्वा तद्विवरणसम्भवादित्यर्थः ।

विवरणान्यथानुपपत्त्या तस्य शक्यत्वमित्यत आह ॥ न चेति ॥ शक्यः शक्तिविषयः ॥ लाक्षणिकादेरिति ॥ गङ्गायां घोष इत्यादौ गङ्गातीरे घोष इति सिंहश्चैत्र इत्यादौ सिंहसदृश्चैत्र इत्यादिविवरणदर्शनादिति भावः । करोतेः कृत्यर्थत्वमुपेत्योक्तम् ।

तर्कताण्डवं

किं च करोतेरपि न कृतिरर्थः । किं तु क्रियैव । रथो गच्छति गमनं करोति इच्छति इच्छां करोति निद्राति निद्रां करोतीत्यादौ कृत्यसम्भवेऽपि करोतिना व्याख्यानात् ।

न च यत्ने शक्तस्यैव करोतेर्निद्रां करोतीत्यादौ व्यापारमात्रे लक्षणेति वाच्यम् । व्याख्येये लक्षणादिप्राप्तस्यापि तात्पर्यविषयस्य वाचकपदैर्विवरणार्थत्वाद्व्याख्यानस्य । अन्यथा पचतीत्येतद्व्याख्याने कृञोपि व्यापारमात्रे शक्तस्य कृतौ लक्षणा स्यात् । अत एव व्यापार-विषयस्य धात्वर्थविशेषस्य अनिर्धारणेन किं करोतीति प्रश्ने पचतीति धात्वर्थविशेषेणोत्तरं च युक्तम् ।

अथ क्रियाजन्यत्वाविशेषेपि कृतिजन्यत्वाजन्यत्वाभ्यां घटाङ्कुरयोः कृताकृतव्यवहारदर्शनात्तृजन्तकृधातुनिष्पन्नस्य कर्तृपदस्य यौगिकस्य कृत्याश्रयवाचकत्वाच्च कृञो यत्नार्थकत्वम् । तदुक्तम्

‘‘कृताकृतविभागेन कर्तृरूपव्यस्थया ।

यत्न एव कृतिः पूर्वा परस्मिन् सैव भावना’’ ।

इति चेन्न । इच्छां करोति प्रयत्नं करोति निद्रां करोति बीजमङ्कुरं करोतीत्यादौ यत्नजन्यत्वाभावेपि कृतव्यवाहरात् । प्रत्युत नैयायि-कानां घटाङ्कुरयोः कृतिजन्यत्वसाम्येऽपि शरीरव्यापारजन्यत्वा-जन्यत्वाभ्यामेव कृताकृतव्यवहारदर्शनात् कृञ्धातोर् व्यापाररूप-क्रियार्थत्वमेव युक्तम् । कर्तृपदमपि न यौगिकम् ।

यौगिकत्वे हि न तावत्कृधातोः कृतिरर्थः । तृचश्चाश्रयोऽर्थः । तथात्वे हि कृत्याश्रयः कर्तृपदार्थः स्यात् । न च तद्युक्तम् । पक्तेत्यनेन पाकाश्रयप्रतीतिप्रसङ्गात् । पाककृत्याश्रयाप्रतीतिप्रसङ्गाच्च ।

नापि तृचोपि कृतिरर्थः । तस्य धात्वर्थकृत्या सह विषयत्वेन जनकत्वेन वाऽन्वयासम्भवात् । अभेदान्वये च कृतिरित्येव धीः स्यात् । न तु कृत्याश्रय इति । पक्तेत्यत्रापि पाककृतिरित्येव धीः स्यात् । न तु पाककृतिमानिति । तस्मादगत्या तृचः कृतिमानर्थो वक्तव्यः । तेन पक्तेत्यत्र पाककृतिमानिति धीर्युक्ता । तथा च १पाककर्तेत्यत्र धातोः कृतिरर्थश्चेत्तृजर्थेन कृत्याश्रयेण सह कृधात्वर्थ-स्यानन्वयः स्यात् । न हि कृत्याश्रयस्य पुनः स्वकृत्यान्वयः । तस्मात् कर्तृपदं कृत्याश्रये वा क्रियाश्रये वा रूढमेव । न तु यौगिक-मिति न तेन व्याख्यानात् कृञः कृत्यर्थत्वसिद्धिरिति ।

॥ आख्यातस्योदयनोक्तकृत्यर्थत्वभङ्गः ॥ ५२ ॥

न्यायदीपः

वस्तुतस्तु तदेव नेत्याह ॥ किं चेति ॥ क्रियैवेति ॥ व्यापार-मात्रमेवेत्यर्थः ॥ अन्यथेति ॥ व्याख्यानेपि लक्षणाश्रयण इत्यर्थः । एवं प्रतिवचनगतिमुक्त्वा प्रश्नगतिमाह ॥ अत एवेति ॥

किं चेत्यादिनोक्तमसिद्धमिति शङ्कते ॥ अथेति ॥ तदुक्तमिति ॥ तत्रैव कुसुमाञ्जलौ पञ्चमपरिच्छेदे उक्तमित्यर्थः । कर्तृरूपव्यवस्थया चेति च शब्दोध्याहार्यः ॥ यत्न एव कृतिरिति ॥ यत्न एव करोत्यर्थ इत्यर्थः ।

नन्वेवमाख्यातस्य कृतिवाचकत्वे भावनाख्यातार्थ इति भज्येतेत्यत उक्तं पूर्वापरस्मिन्निति । एकं पदमिदम् । विषयसप्तमी । पूर्वापरीभूतव्यापार-कलापविषयिणी सैव कृतिर् भावनेत्युच्यत इत्यर्थः । मणौ वर्धमाने च प्रदर्शितानेव दोषान्व्यनक्ति ॥ इच्छां करोतीत्यादिना ॥ कृतव्यवहारा-दिति ॥ इच्छा कृता निद्रा कृतेति व्यवहारादित्यर्थः ।

दोषान्तरं च स्वयमाह ॥ प्रत्युतेति ॥ कार्यमात्रे ईश्वरकृतिजन्यत्वं न्यायमते स्वीक्रियत इति नैयायिकानामित्युक्तम् । यदपि कर्तृरूपव्यवस्थयेति तदपि मण्याद्युक्तदिशा निराह ॥ कर्तृपदमपीति ॥ डुकृञ् करणे इत्यस्मा-ण्ण्वुल्तृचाविति कर्तरि विहिततृच्प््रात्यये गुणे च कर्तेति निष्पन्नं रूपमिति नाङ्गीकर्तुं शक्यं किं तु रूढमित्येवोपेयमिति वक्ष्यन् यौगिकत्वे प्रसक्तपक्षत्रयं क्रमान्निराह ॥ न तावदित्यादिनातस्माद्रूढमेवेत्यन्तेन ॥ पाकाश्रय-प्रतीतिप्रसङ्गादिति ॥ कर्तेत्यत्रोक्तरीत्येति भावः । पररीत्योक्तं कृत्याश्रय इति । स्वरीत्योक्तं क्रियाश्रय इति । व्यापाराश्रय इत्यर्थः ।

**॥ आख्यातस्योदयनोक्तकृत्यर्थत्वभङ्गः ॥ ५२ ॥ **