यत्र तु साधने यागादौ ..
५०. अथ साधनस्योत्कर्षादिना फलेप्युत्कर्षादि ।
तर्कताण्डवं
यत्र तु साधने यागादौ गुरुत्वलघुत्वरूपोत्कर्षापकर्षयोः श्रवणेऽपि फले स्वर्गादौ तदश्रवणं तत्रैक रूप एव स्वर्गे द्वयोर्न विकल्पः । किं तु लघूपाये सति गुरुपायोपदेष्टुर्वेदस्य अप्रामाण्यपरिहाराय प्रयासाधि-क्येपि समफलप्रदस्येश्वरस्य वैषम्यनैर्घृण्यपरिहाराय च फलेप्युत्कर्षाप-कर्षौ श्रुतार्थापत्तिसिद्धौ ।
उक्तं हि ब्राह्मे–
‘‘साधनस्योत्तमत्वेन साध्यं चोत्तममाप्नुयुः’’ इति ।
अन्यैरपि–
‘‘कर्मणामल्पमहतां फलानां च स्वगोचरे ।
विभागःस्थानसामान्यादविशेषेऽपि चोदितः’’ इति ।
न्यायदीपः
नन्वेवं ‘‘दर्शपूणहमासाभ्यां स्वर्गकामो यजेत, ज्योतिष्टोमेन स्वर्गकामो यजेत’’ इत्यादौ श्रुतेष्टिसोमयोरेकरूपफलकयोरपि व्रीहियववद्विकल्पः स्यादित्यत आह ॥ यत्र त्विति ॥ एकरूप एवेति ॥ सप्तम्यन्तः स्वर्गविशेषणम् ।
॥ फलप्रदस्येति ॥ रातिर्दातुः परायणम् । ‘‘फलमत उपपत्तेः’’ इति श्रुतिसूत्रादिसिद्धत्वात् । फलप्रदस्येश्वरस्येत्युक्तम् ॥ श्रुतार्थापत्तीति ॥ साधनतारतम्यान्यथानुपपत्तिरूपेत्यर्थः ।
ब्राह्मे ब्रह्मपुराणे ॥ अन्यैरपीति ॥ मीमांसकैरपीत्यर्थः । उक्तमित्यनु-षङ्गः । ‘‘फलस्य कर्मनिष्पत्तेस् तेषां लोकवत्परिमाणतः फलविशेषःस्या’’ दित्यर्थवादाधिकरणसिद्धान्तगुणसूत्रे कर्मणामिति भट्टकारिका ।
॥ पलानां चेति ॥ अल्पमहतामित्यन्वयः ॥ स्थानेति ॥ यथा सङ्ख्यारूपस्थानप्रमाणसाम्येन विभागः विवेकः कार्यः । अल्पकर्मणामल्पफलं महाकर्मणां महाफलमित्येवं रूपेण विभाग इत्यर्थः ।
विशेषाश्रवणात्कथमेतदित्यत उक्तम् ॥ विशेषेपीति ॥ चोदित इति ॥ आह च मणिकृदप्यपूर्ववादसिद्धान्ते ज्योतिष्टोमादौ श्रुतस्वर्गफलत्वेपि गुरूपायत्वेनाननुष्ठानलक्षणाप्रामाण्यापत्त्या फलभूमा कल्प्यत इति ।
तर्कताण्डवम्
एवं देशकालपात्राद्युत्कर्षादिनाऽपि फलोत्कर्षादिकं द्रष्टव्यम् । यत्र तु शक्तिव्यवस्थया वा वर्णव्यवस्थया वा कालादिव्यवस्थया वानुकल्पो यथा–
‘‘सहस्रगुः शतं दद्याद्दश दद्याच्च गोशती ।
एकां गां दशगुर्दद्यात्सर्वे तुल्यफलाः स्मृताः ।
एकमेव तु शूद्राणां प्रभुः कर्मसमादिशत् ।
एतेषामेव वर्णानां शुश्रूषामनसूयया ।’’
‘‘कृते यद् द्वादशाब्देन तत् त्रेतायां हायनेन तु ।
द्वापरे तच्च मासेन अहोरात्रेण तत् कलौ ।’’
इत्यादौ तत्र फले नोत्कर्षादिकं कल्प्यमिति दिक् ।
॥ साधनस्योत्कर्षादिना फलेऽप्युत्कर्षादि ॥ ५० ॥
न्यायदीपः
उक्तस्यापवादमाह ॥ यत्र त्विति ॥ तस्य विवरणमित्यादावित्यन्तेन । अनुकल्पो नाम मुख्यस्याभावेन्यस्य चोदनम् । शक्तिव्यवस्थया अनुकल्प-स्थलमाह ॥ सहस्रगुरिति ॥ सहस्रं गावो यस्यसहस्रगुः । एवमग्रेपि । दशेति गाव इति योज्यम् ।
वर्णव्यवस्थया तमाह ॥ एकमेवेति ॥ एतेषामिति ॥ ब्रह्मक्षत्रिय-वैश्यानामित्यर्थः । समादिशदित्यन्वयः । कालव्यवस्थया तमाह ॥ कृत इति ॥ हायनेन वत्सरेण । नोत्कर्षादिकं कल्प्यमिति पदविभागः । एवं यत्र मुख्याभावे प्रतिनिध्युपादानं सोमाभावे पूतीकस्य व्रीहीणामभावेन नीवाराणां खादिराभावे कदरस्योपादानम् । तत्रापि न फलापकर्षकल्पनम् ।
ननु मुक्तौ साधनतारतम्ये सति न फलतारतम्यमित्यत आह ॥ दिगिति ॥ अन्यत्र विस्तृतं तदिति भावः ।
॥ साधनस्योत्कर्षादिना फलेप्युत्कर्षादिकम् ॥ ५० ॥