ननु– तर्हि देवताप्रीतिरेव यागव्यापारोस्तु
४७. अथ क्रियाजन्यापूर्वस्येश्वरप्रीतिहेतुत्वसमर्थनम् ।
तर्कताण्डवं
ननु– तर्हि देवताप्रीतिरेव यागव्यापारोस्तु । किमपूर्वेण । तस्याः कप्तत्वेन धर्मिकल्पनात इति न्यायेन लाघवात् ।
१नचैवम् एतत्कल्पकृतयागादिना कल्पान्तरे फलं न स्यात् । एतत्कल्पीययागादिजन्याया एव एतत्कल्पीयेन्द्रप्रीतेः कल्पान्तरे-नुपयोगादुपयुक्तायाश्च कल्पान्तरीयेन्द्रप्रीतेरेतत्कल्पकृतयागाद्य-जन्यत्वादिति वाच्यम् । एतत्कल्पीयकर्मभिराराधितस्येन्द्रा-द्यन्तर्यामिणः परमेश्वरस्यैव कल्पान्तरे फलप्रदत्वादिति चेत् ।
न्यायदीपः
अस्तु देवताप्रीतिरेव व्यापार इति मण्युक्तचोद्यमपूर्वकल्पकार्थापत्तेर-न्यथोपपत्तिरूपमाशङ्कते ॥ ननु तर्हीति ॥ ध्वंसस्याव्यापारत्वेपीत्यर्थः ॥ एतत्कल्पीयेन्द्रेति ॥ कल्पभेदेनेन्द्रभेदादिति भावः ॥ परमेश्वर-स्येति ॥ तस्य च सर्वकल्पीयेन्द्रादिदेवेष्वेकत्वादिति भावः ।
तर्कताण्डवम्
उच्यते । साङ्गप्रधानक्रियानुष्ठानानन्तरमेवेश्वरप्रीतिश्चेत्फले विलम्बो न स्यात् । परमस्वतन्त्रेश्वरप्रीतेः फलजननेऽन्यानपेक्षत्वात् । तथा च फलपर्यन्तस्थायिना क्रियाजन्येनापूर्वेण फलाव्यवहितपूर्वकाले ईश्वरप्रसादः सम्पाद्य इत्येव युक्तम् । अन्यथा प्रोक्षणावघातादेः सन्निपत्योपकारकस्य प्रयाजादेरारादुपकारकस्य समप्रधानेषु षड्यागेषु एकैकस्य चानुष्ठानानन्तरमेव तत्तदनुष्ठानप्रयुक्तेश्वरप्रीतिर्भवतीति वाच्यम् । तथा च साङ्गप्रधानकाम्यकर्मण्यसमाप्तेपि प्रोक्षणादिजन्य-प्रीतेरमोघत्वाद्यत्किञ्चित्फलं स्वीकार्यं स्यात् ।
न्यायदीपः
किं कर्मकृत्यव्यवहितकाले देवताप्रसादोत्पत्तिरुत फलाव्यवहित-पूर्वकाले ।
आद्यं निराह ॥ साङ्गेति ॥ ननु कारणान्तरविलम्बादस्तु विलम्ब इत्यत आह ॥ परमेति ॥ एतेनोत्पन्नोपि परमेश्वरप्रसादस् तदीयप्रारब्ध-कर्मणा प्रतिबद्ध इति प्रत्युक्तम् । तथात्वे सर्वस्वातन्त्र्यभङ्गात् । उक्तं च सुधायाम्,
‘‘अज्ञानां ज्ञानदो विष्णुज्ञानिनां मोक्षदश्च सः’’
इति श्लोकव्याख्यानावसरे ‘‘प्रारब्धकर्मप्रतिबद्धो भगवत्प्रसाद इति तु मन्दम् । अचेतनानां कर्मणां भगवत्प्रसादप्रतिबन्धकत्वायोगाद्’’ इत्यादि ।
द्वितीयं परिशेषयति ॥ तथाचेति ॥ विलम्बायोगे सतीत्यर्थः ॥ इत्येव युक्तमिति ॥ एतेन यागस्य देवताप्रीतिहेतुत्वे मानाभावादिति मण्युक्तं निरस्तम् ।
‘‘तत्कर्म हरीतोषं यत्सा विद्या तन्मतिर्यया’’
इति पुराणवाक्यस्य; फलमत उपपत्तेरित्यधिकरणोक्तन्यायस्य; ‘‘विज्ञानमानन्दं ब्रह्म, रातिर्दातुः परायणम्’’ इत्यादिश्रुतेः ।
‘‘स भगवान् स्वकृतेन तुष्येत्’’
‘‘कर्मणा त्वधमः प्रोक्तः प्रसादः श्रवणादिभिः ।
मध्यमः ……….. ………. ……. ’’ ।
इत्यादिस्मृतेश्च मानत्वादिति भावः ।
॥ अन्यथेति ॥ कर्मोत्तरक्षण एव प्रसादोत्पत्तावित्यर्थः । यागेषु हि द्विविधमङ्गम् । किञ्चित्सन्निपत्त्योपकारकं, किञ्चिदारादुपकारकम् । यागस्वरूपोत्पत्तौ व्याप्रियमाणं ‘‘व्रीहिन् प्रोक्षति,’’ ‘‘व्रीहीनवहन्ती’’ इत्यादिवाक्योक्तप्रोक्षणावघातपेषणश्रपणादिकं सन्निपात्यङ्गम् । यागस्वरूप-निर्वृत्त्यनन्तरं तेन स्वर्गादिफले जनयितव्ये सहकारिभूतं ‘‘समिधो यजति, तनूनपातं यजति, इडोयजती’’ इत्यादिवाक्योक्तप्रयाजादिशब्दित-समिद्यागादिकमारादुपकारकाङ्गमिति ध्येयम् । अवघातादेः प्रयाजादेरित्यस्य तत्तदनुष्ठानेत्यनेनान्वयः ॥ समप्रधानेष्विति ॥ दर्शपूर्णमासाभ्यां र्स्वकामो यजेतेति फलवाक्ये दर्शपूर्णमासशब्दितानां ‘‘यदाग्नेयोष्टाकपाल’’ इत्यादि-वाक्यविहितानां षण्णामाग्नेयादीनां यागानामविशेषेण फलेहेतुत्वबोधनात् षडपि यागाः समाः प्रधानाश्च भवन्तीति समप्रधानेष्वित्युक्तम् ।
॥ असमाप्तेपीति ॥ केनचित्प्रबलनिमित्तेन विघि्नतेऽपीत्यर्थः ॥ किञ्चित्फलमिति ॥ न चेष्टापत्तिः । अङ्गत्वव्याघातात् । फलव-त्सन्निधावफलं तदङ्गमिति न्यायाविषयत्वात्काम्ये कर्मणि किञ्चिद्वैकल्येपि फलाभावस्य षष्ठेध्याये तृतीयपादे द्वितीयाघिकरणे व्यवस्थापित्वेन तद्विरोधाच्चेति भावः ।
तर्कताण्डवं
किञ्चैवं भाविमहाप्रायश्चित्तं महापातकं च जानत ईश्वरस्य पूर्वेण निषिद्धकरणेन उत्तरेण विहितकरणेन च तत्कोपस्य प्रसादस्य चोत्पत्तावविवेकित्वं स्यात् । तस्मात् कोपप्रसादातिरिक्ते निषिद्ध-विहितकरणजन्ये प्रायश्चित्तमहापातकनाश्ये पापपुण्ये स्वीकार्ये ।
न्यायदीपः
ननु– समाप्तकर्मस्थ एवायं नियमः । असमाप्तप्रधानस्थेऽनुष्ठिताङ्गानां फलोपगमेपि न दोषः । इति वदन्तं प्रत्याह ॥ किञ्चैवमिति ॥ कर्मकृत्युत्तरक्षण एव ईश्वरप्रसादाद्युत्पत्तावित्यर्थः ॥ निषिद्धेति ॥ कलञ्जभक्षणादिनिषिद्धकरणेन सन्ध्यावन्दनादिविहितकरणेन च कोपस्य प्रसादस्य चेत्यर्थः ॥ अविवेकित्वमिति ॥ भाव्युपमर्दकज्ञानिनस् तदुपमर्द्य-पूर्वभाविनिषिद्धविहितकरणकृतकोपप्रसादाभ्यामित्यर्थः । ततश्च किमित्यत आह ॥ तस्मादिति ॥
तर्कताण्डवम्
अपि च भोजनविषभक्षणयोरनुष्ठाने ताभ्यां तृप्तिमरणे भवता-मितीश्वरेच्छाभावे तयोरनुत्पत्तेस्तृप्तिमरणे अपि भोजनाद्यजनक-पुण्यपापफले स्याताम् ।
न्यायदीपः
कर्मणो विनैवापूर्वं प्रीत्यादिरूपेश्वरेच्छाविशेषव्यापारकत्वेऽति-प्रसङ्गान्तरमाह ॥ अपि चेति ॥ एवमित्यापादकांशस्यात्रोत्तरत्र चानुषङ्गो ध्येयः ।
तृप्तिजनकं पुण्यं हि भोजनद्वारा तृप्तिं जनयति । पापं हि विषभक्षण-मुत्पाद्य मृतिं जनयति । यदेश्वरेच्छाविशेषद्वारैव पुण्यापापयोस्तृप्तिमृतिहेतुत्वं तदा तृप्तिस्थे मृतिस्थे चेश्वरेच्छाया आवश्यकत्वात्तस्याश्च भोजनाद्य-जनकपुण्यपापव्यापारत्वस्य वाच्यत्वाद्भोजनादिजनकपुण्यादेर् भोजनादि-व्यापारकत्वात् । तथाचेश्वरेच्छाजन्ये तृप्तिमरणे भोजनाद्यजनकपुण्यपापफले स्याताम् । अतः सत्यामपीश्वरेच्छायां भोजनादिजनकपुण्यादिफलत्वमेव तृप्त्यादेर्वाच्यम् । एवं स्वगर्ोे नरको वा भवत्वितीश्वरेच्छायां सत्यामपि शुभाशुभरूपापूर्वजनकविहितनिषिद्धफलत्वं स्वर्गनरकयोर् वाच्यमिति भावः ।
तर्कताण्डवं
किञ्च–
‘‘देहो ब्रह्माथेन्द्रियाद्याः क्रियाश्च तथा दृष्टं पञ्चमं कर्महेतु’’ ।
इत्यादिश्रुतौ ब्रह्मादृष्टशब्दाभ्यां;
‘‘अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् ।
विविधा च पृथक्चेष्टा दैवं चैवात्र पञ्चमम्’’ ।
इत्यादिस्मृतौ च कर्तृदैवशब्दाभ्यामीश्वरादृष्टयोः पृथगुक्तिर्न स्यात् ।
न हीश्वरोऽप्रसन्नः शुभहेतुः । अकुपितो वाऽशुभहेतुः ।
न्यायदीपः
श्रुतिस्मृतिबलाच्चादृष्टमीश्वरप्रीतिश्च द्वयमप्युपेयमित्याह ॥ किं चेति ॥ देह इत्युपलक्षणम् । भूम्यादिरपि ग्राह्यः । आद्यपदेन स्रुक्स्रुवादयो ग्राह्याः । क्रिया हस्तादिचेष्टाः । हस्तादिक्रियाभिर् होमादिकर्मजननात् । हेत्विति छान्दसो लिङ्गव्यत्ययः । हेतुरित्यर्थः ।
॥ श्रुताविति ॥ अष्टादशे गीताभाष्योक्तायास्यश्रुतावित्यर्थः । अधिष्ठानं देहभूम्यादि कर्ता विष्णुः करणमिन्द्रियस्रुक्स्रुवादयश् चेष्टा हस्तादि क्रिया दैवमदृष्टम् इत्यादीत्यादिपदेन–
‘‘शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः ।
न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः’’ ।
इति वाक्यशेषग्रहः ॥ स्मृतौ चेति ॥ गीतायामन्तिमाध्यायोक्तस्मृतौ चेत्यर्थः ॥ ईश्वरादृष्टयोरिति ॥ प्रागुक्तश्रुतिसमाख्याबलात्कर्तृदैवपदयो-रीश्वरादृष्टवाचकत्वाङ्गीकारावश्यम्भावादिति भावः । नन्वेतावतेश्वरस्य हेतुत्व- प्राप्तावपि तत्प््राीतिकोपयोरपि कथं हेतुत्वप्राप्तिरित्यत आह ॥ न हीति ॥
तर्कताण्डवं
किञ्च–
‘‘अनादिकर्मभिर्बद्धो जीवः संसारमण्डले ।
वासुदेवेच्छया नित्यं भ्रमतीह सुखेतरम्’’ ।
इत्यादिस्मृतिषु कर्मशब्दार्थादृष्टेश्वरेच्छयोः पृथगुक्तिः,
‘‘द्रव्यं कर्म च कालश्च स्वभावो जीव एव च ।
यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया’’
इत्यादिस्मृतौ कर्मशब्दार्थस्यादृष्टस्येश्वरच्छाधीनत्वोक्तिः;
‘‘कर्माणि तानि च पृथक्चेतनान्येव सर्वशः ।
अचेतनशरीराणि स्वकर्मफलभाञ्जि च’’
इत्यादिस्मृतिषु कर्मणामभिमानिचेतनोक्तिः; उपनिषत्सु सुवर्ण-मलदृष्टान्तेन, सर्पकञ्चुकदृष्टान्तेन, राहुचन्द्रदृष्टान्तेन, पुष्करपालाश-दृष्टान्तेन च, सुवर्णमलादीनां सुवर्णाद्याश्रितत्ववत्कर्मणामपि जीवा-श्रितत्वोक्तिः, स्मृतिषु ‘‘अपूर्वं यत्तत्क्रियाफलं धर्माख्यं परब्रह्मणि यज्ञपुरुषे भगवति वासुदेव एव भावयान’’ इत्याद्युक्तिश्च; न स्यात् ।
तस्मात्क्रियाजन्यापूर्वेणेश्वरप्रीतिर्भवतीत्येव युक्तम् ।
॥ क्रियाजन्यापूर्वस्येश्वरप्रीतिहेतुत्वसमर्थनम् ॥ ४७ ॥
न्यायदीपः
अदृष्टस्येश्वरेच्छायाश्च द्वयोरप्यावश्यकत्वमिति भावेन विपक्षेऽनेक-स्पष्टवचनविरोधमप्याह ॥ किञ्चानादीत्यादिना ॥ इत्यादिस्मृति-ष्विति ॥ समयपादान्ते अनुव्याख्यानोक्तस्मृतिष्वित्यर्थः ।
न च कर्मशब्दः क्रियावचन इति युक्तम् अनादित्वायोगाद् आशुतर-विनाशिनां प्रवाहतोप्यनादित्वायोगाद् बद्ध इत्युक्त्ययोगाच्चेति भावेनाह ॥ कर्मशब्दार्थादृष्टेति ॥ उक्तिरित्येेतेषां न स्यादिति वक्ष्यमाणेनान्वयः । कर्मेति धर्माधर्माविति जिज्ञासाधिकरणसुधोक्त्यनुरोधेनाह ॥ इत्यादिस्मृतौ कर्मशब्दार्थस्येति ॥
भक्तिपादान्तेऽनुव्याख्यानोक्तस्मृतिमाह ॥ कर्माणि तानि चेति ॥ चेतनोक्तिरित्युपलक्षणम् । ब्रह्मपारस्तोत्रपठनेन ब्रह्महत्याया राजदेहा-न्निष्कान्तत्वाद्युक्तिश्चेत्यपि ध्येयम् । तस्य क्रियाजन्यस्थाय्यपूर्वपक्ष एव सम्भवादिति भावः ।
॥ सुवर्णमलेति ॥ वाजसनेये षष्ठे ‘‘तद्यथा पेशस्करी पेशसो मात्रा-मुपादायान्यन्नवतरं कल्याणतरं रूपं तनुते एवमेवायमात्मेदं शरीरं निहत्या-विद्यां गमयित्वा अन्यन्नवतरं कल्याणतरं रूपं कुरुत’’ इति श्रुतवाक्यस्य;
‘‘स्वर्णकारो यथा स्वर्णमलमग्नौ निहत्य च ।
शद्धेन तेन चात्मानं कुरुते रूपमञ्जसा ।’’
इत्यादिव्याख्यानादिति भावः ॥ सर्पकञ्चुकेति ॥ षट्प््राश्नोपनिषदि पञ्चमप्रश्नान्ते ‘‘यथा पादोदरस्त्वचा विनिर्मुच्यते एवं ह वै स पाप्मना विनिर्मुक्त’’ इति श्रवणादिति भावः ।
॥ राहुचन्द्रेति ॥ छान्दोग्योपनिषद्यष्टमाध्यायान्ते ‘‘अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात्प्रमुच्य धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसम्भवामि’’ इति श्रवणादिति भावः ।
॥ पुष्करपलाशेति ॥ छान्दोग्ये चतुर्थेऽध्याये ‘‘यथा पुष्करपलाश आपो न श्लिष्यन्त एवमेवंविदि पापं कर्म न श्लिष्यत’’ इति श्रवणात् ।
॥ अपूर्वं यत्तदिति ॥ पञ्चमस्कन्धे सप्तमाध्याये भरतस्त्वित्युपक्रम्य ‘‘ईजे च भगवन्तं यज्ञपुरुषं क्रतुभिरुच्चावचैः श्रद्धयाऽऽहिताग्निरग्निहोत्रं दर्शपूर्णमासचातुर्मास्यपशुसोमानां प्रकृतिविकृतिभिरनुसवनं चातुर्होत्रविधिना सम्प्रचरत्सु नानायागेषु विरचितक्रियेष्वपूर्वं यत्तत्क्रियाफलं धर्माख्यं परब्रह्मणि यज्ञपुरुषे सर्वदेवतालिङ्गानां मन्त्राणामर्थनियामकतया साक्षात्कर्तरि पर-देवतायां भगवति वासुदेव एव’’ इति श्रुतगद्ये प्रकृतोपयुक्तपदानामेवोद्धारेण प्रदर्शनमिति नान्यथानुवाददोषः शङ्क्यः ।
॥ क्रियाजन्यापूर्वस्येश्वरप्रीतिहेतुत्वसमर्थनम् ॥ ४७ ॥