०६ यागध्वंसस्य यागव्यापारत्वभङ्गः

ननु अस्तु यागध्वंस एव यागस्य व्यापारः

४६. अथ यागध्वंसस्य यागव्यापारत्वभङ्गः ।

तर्कताण्डवं

ननु अस्तु यागध्वंस एव यागस्य व्यापारः । यागजन्यत्वान्नत्व-पूर्वम् । कप्तस्य ध्वंसस्य फलजनकत्वमात्रकल्पने लाघवात् । अपूर्वस्य तु स्वरूपमपि कल्प्यम् ।

न च प्रतियोगिध्वंसयोः कथमेकत्रापेक्षा, विरोधादिति वाच्यम् । व्यापारव्यापारिभावेनापेक्षायामविरोधात् । एककाल एव हि तयो-रपेक्षा विरुद्धा । न तु कालभेदेऽपि ।

न्यायदीपः

कार्यकादाचित्कत्वनियामककारण१व्यवधानस्यान्यथोपपत्तिरूपं तथापि ध्वंस एव व्यापारोस्त्वित्यादिना मण्युक्तचोद्यमाह ॥ नन्वस्त्वित्यादिना ॥

तज्जन्यत्वे सति तज्जन्यजनकत्वस्यैव व्यापारत्वादाह ॥ यागेति ॥ ध्वंसस्येति योज्यम् ॥ स्वरूपमपीति ॥ न केवलं जनकत्वमित्यपेरर्थः ।

मण्युक्तसमाधिमाशङ्क्य निराह ॥ न च प्रतियोगीति ॥ तयो-रपेक्षेति ॥ स्वर्गादिरूपकार्यस्यैककालीनयागतद्ध्वंसविषयकापेक्षा जात्या विरुद्धा न तु भिन्नकालीनयोस् तयोर्विषये अपेक्षेत्यर्थः ।

तर्कताण्डवं

न चैवं कारणीभूताभावप्रतियोगित्वेन यागस्य प्रतिबन्धकत्वं स्यादिति वाच्यम् । कारणीभूताभावप्रतियोगित्वरूपप्रतिबन्धकत्वा-पादने इष्टापत्तेः । कार्यानुकूलविघटकत्वरूपप्रतिबन्धकत्वापादनं तु न युक्तम् । प्रतिबन्धकत्वेन प्रतिबन्धकत्वापादनायोगादिति चेन्मैवम् ।

ध्वंसस्यानन्तत्वेन फलानन्त्यापातात् । अपूर्वं तु फलविनाश्यम् ।

न चापूर्वमप्यनन्तकालं स्थित्वाऽनन्तफलमुत्पादयत्विति वाच्यम् । फले कालनियमस्य श्रुतिसिद्धत्वात् ।

न च ध्वंसस्यानन्त्येपि फलकालनियमः श्रुतिबलादेव अस्त्विति वाच्यम् । साङ्गवैदिककर्मजन्यव्यापरस्यापि १स्वनिष्पाद्येतरापेक्षया फलजनकत्वे बहुवित्तव्ययायाससाध्ये वैदिके कर्मणि निष्कम्प-प्रवृत्त्ययोगेन स्वानिष्पाद्येतरानपेक्षयैव फलजनकत्वे वक्तव्ये ध्वंसस्य व्यापारत्वे फलानन्त्ययस्य दुर्वारत्वेन कालनियमश्रुतिप्रामाण्यरक्षार्थमेव अपूर्वस्य कल्प्यत्वात् ।

॥ यागध्वंसस्य यागव्यापारत्वभङ्गः ॥ ४६ ॥

न्यायदीपः

॥ कारणीभूतेति ॥ ध्वंसस्यापि व्यापारतया कारणत्वादिति भावः ॥ प्रतिबन्धकत्वेनेति ॥ कारणीभूताभावप्रतियोगित्वस्य प्रतिबन्धकत्व-रूपत्वात्तेनैव कार्यानुकूलकिञ्चिद्धर्मविघटकत्वरूपप्रतिबन्धकत्वस्यापादने आपाद्यापादकाविशेष इत्यर्थः ॥ आनन्त्येनेति ॥ उत्तरावधिशून्यत्वे-नेत्यर्थः ।

अपूर्वोपगमेपि स्यादयं दोष इत्यत आह ॥ अपूर्वं त्विति ॥ प्रागभाववदिति भावः । उत्पत्तिमतो भावस्य विनाशनियमादिति दोषे सत्येव दोषान्तरमाह ॥ फल इति ॥ श्रुतीति ॥ ‘‘अमृतो वा सोमपो भवति यावदिन्द्रो यावन्मनुः’’ इत्यादिश्रुतिसिद्धत्वादित्यर्थः ।

स्वभावात्सावधिकफलजनकत्वमिति मण्युक्तमाशङ्क्य निराह ॥ न च ध्वंसस्येति ॥ स्वानिष्पाद्येतरापक्षयेति ॥ २कालनियमबोधक-श्रुत्यपेक्षयेत्यर्थः ।

॥ यागध्वंसस्य यागव्यापारत्वभङ्गः ॥ ४६ ॥