मम त्वनन्यथासिद्धनियतपूर्ववृत्तित्वं न कारणत्वम्
४५. अथ स्वमतेऽपूर्वस्य कल्प्यत्वसमर्थनम् ।
तर्कताण्डवम्
मम त्वनन्यथासिद्धनियतपूर्ववृत्तित्वं न कारणत्वम् । घटमनुत्पाद्य नष्टेपि दण्डे कारणत्वव्यवहारात् । कारणं हि सन्नि-धाप्यते । नतु सन्निधानात्कारणम् । नापि सहकारिविरहप्रयुक्त-कार्याभाववत्वं कारणत्वम् । यागे तस्य असम्भवात् । वैदिकस्य साङ्गप्रधानकर्मणः फलोत्पादने स्वानिष्पाद्यान्यानपेक्षत्वात् । किं तु शक्त्याख्यमतीन्द्रियं धर्मान्तरम् ।
उक्तं चैतच्छक्तिवादे । तच्च क्वचिदन्वयव्यतिरेकाभ्यामुन्नीयते । क्वचिच्छब्देन । तदाश्रयस्य शक्तस्य कार्यकादाचित्कत्वनियामकत्वेन व्यवहितस्य जनकत्वे कार्यसातत्यापत्तेरव्यवधानमावश्यकम् । तच्चा-व्यवधानं चिरध्वस्तस्य यागस्य साक्षान्न सम्भवतीति व्यापारद्वारेण अव्यवधानं वक्तव्यमिति युक्तं द्वारीभूतस्यापूर्वस्य कल्पनम् ।
॥ स्वमतेऽपूर्वस्य कल्प्यत्वसमर्थनम् ॥ ४५ ॥
न्यायदीपः
॥ मम त्विति ॥ युक्तं द्वारीभूतस्यापूर्वस्य कल्पनमित्यन्वयः । मत इति पूर्वस्माद् विभागेनानुषङ्गः । कथमित्यतः कारणत्वान्यथानु-पपत्ति-रूपयुक्तिं वक्तुं कारणत्वनिर्धारणाय प्रसक्तप्रतिक्षेपं करोति ॥ अनन्यथे-त्यादिना ॥ यद्वा मम त्वित्यस्य सन्निहितेनाप्यन्वयः ।
नन्वनुत्पादकदण्डे कथं कारणत्वव्यवहारः कार्यसन्निधेरभावात् । सन्निहितस्यैव कारणत्वादित्यत आह ॥ कारणं हीति ॥ न त्विति ॥ अन्यथा रासभादेरपि कारणतापत्तेरिति भावः ॥ शक्तिवाद इति ॥ शक्तावर्थापत्तिपञ्चकोक्तिप्रस्ताव इत्यर्थः ।
कथं तज्ज्ञानमित्यत आह ॥ तच्च क्वचिदिति ॥ दण्डादौ ॥ क्वचि-च्छब्देनेति ॥ ईश्वरधर्माधर्माद्यतीन्द्रिये ‘‘पराऽस्य शक्तिः, यजेत स्वर्गकामः’’ इत्यादिशब्देनेत्यर्थः । तदाश्रयस्येत्यस्यैव निर्देशः ॥ शक्तस्येति ॥ दण्डादेरित्यर्थः ॥ कार्येति ॥ कार्यस्य कादाचित्कत्वं कार्यकादाचित्कत्वं तन्नियामकत्वमित्यर्थः । कार्यसान्तत्यं कार्यस्य सन्ततत्वम् ।
**॥ स्वमतेऽपूर्वस्य कल्प्यत्वसमर्थनम् ॥ ४५ ॥ **