०१ अपूर्वस्य लिङ्वाच्यत्वभङ्गः

‘‘स्वर्गकामो यजेत’’ इत्यादौ ..

॥ श्रीः ॥

श्री व्यासतीर्थयतिविरचितं

तर्कताण्डवम्

अपूर्ववादः

४१. अथापूर्वस्य लिङ्वाच्यत्वभङ्गः ।

प्राभाकरास्तु

‘‘स्वर्गकामो यजेत’’ इत्यादौ स्वर्गकामं नियोज्यं प्रति क्रिया लिङ्शब्देन कार्यतया बोधयितुमशक्या । कामी हि काम्यादन्यत्काम्याव्यवहितसाधनमेव कार्यतया अवैति । न तु व्यवहितसाधनम् । क्रिया चास्थायित्वेन काम्यव्यवहितत्वान्न कामिनियोज्यान्वययोग्या । तृप्तिकामस्य व्यवहितसाधने पाके कार्यताधीस्तु न तृप्तिकामितया । किं तु तृप्तिसाधनौदनकामितयैव । अन्यथा सिद्धान्नस्यापि तृप्तिकामस्य व्यवहितसाधने पाके कार्यताधीः स्यात् । तस्मात् फलपर्यन्तस्थाय्यपूर्वमेव लिङा कार्यत्वेन बोध्यमित्यपूर्वं लिङ्वाच्यमित्याहुः ।

तन्न । क्रियायां व्यवहितफलान्वयस्येवापूर्वेण सह विषयतयाऽप्यन्वयस्य क्वाप्यदर्शनादपूर्वान्वयस्याप्ययोग्यत्वात् ।

श्रीराघवेन्द्रयतिविरचितः

न्यायदीपः

अपूर्वस्य कल्प्यत्वं साधयितुं १परोक्तं वाच्यत्वं निरसितुमाह ॥ प्राभाकरास्त्विति ॥ अपूर्वं लिङ्वाच्यमित्याहुरित्यन्वयः । लिङादेर्हि लोके वृद्धव्यवहारादिना कार्यत्वबोधकत्वमवगतमिति वेदेऽपि तथैव वाच्यम् । कार्यत्वं च लोक इव वेदे धात्वर्थस्य न बोधयितुं शक्यमित्यपूर्वमेव तथा बोध्यमिति युक्तिमाह ॥ स्वर्गेत्यादिना ॥ नियोज्यं प्रतीति ॥ ममेदं कार्यमिति बोद्धारं प्रतीत्यर्थः । अशक्येत्यस्य तस्मादित्यादिनान्वयः ।

कुतोऽशक्येत्यतोऽपूर्ववादपूर्वपक्षे मण्युक्तमाह ॥ कामीति ॥ यत्काम्यादन्यत्वे सति काम्याव्यवहितसाधनं तदेव कामी कार्यत्वेनावैतीति व्याप्तिरिहाभिमता । कामी यद्यत्कार्यत्वेनावैति तत्तत्काम्यादन्यत्वे सति काम्याव्यवहितसाधनमिति व्याप्यव्यापके ज्ञेये । नित्ये कर्मणि व्यभिचारा-त्का१म्येत्युक्तिः । काम्ये स्वर्गादावव्यभिचाराय काम्यादन्यदिति । काम्यात् स्वर्गादेः । २न च पाकत्वात्पाकः कार्य इत्यनुमितौ व्यभिचार इति शङ्क्यम् । तन्मते तत्रापि तदपेक्षाभ्युपगमात् ॥ कामिनियोज्येति ॥ कामिरूपो यो नियोज्यः ममेदं कार्यमिति बोद्धा तदन्वययोग्या तस्य कार्यत्वबोधविषयत्वयोग्येत्यर्थः ।

ननु तृप्तिकामस्य व्यवहितेपि पाके कार्यत्वबोधोस्त्येव । तत्र प्रवृत्तिरूपस्य कार्यत्वबोधकार्यस्य दर्शनात् । अन्यथा तत्र प्रवृत्त्यनु-पपत्तेरित्यत आह ॥ तृप्तीति ॥ ३अव्यवहितकाम्यसाधन एव प्रवृत्तिरिति पक्षे तु न दोषः । अन्नस्याकाम्यत्वात् । काम्यतृप्तिं प्रति च व्यवहितत्वाद-प्रवृत्युपपत्तेरिति भावः । अस्त्वेवं ततः किमित्यत आह ॥ तस्मादिति ॥ ॥ लिङा कार्यत्वेन बोध्यमिति ॥ यजेत स्वर्गकाम इत्यादौ स्वर्गकाम-नियोज्यकं यागविषयकमपूर्वं कार्यमित्येवंरूपेण बोध्यमित्यर्थः ।

यथा यागस्य फलान्वयायोग एवमपूर्वान्वयायोगोऽपीत्यर्थापत्तिरप्रयोजिकैव न लिङ्वाच्यत्वमपूर्वस्य कल्पयतीति भावेनाह ॥ क्रियायामिति ॥ यागादावित्यर्थः ।


किञ्च न लिङा साक्षात्साधनत्वं बोध्यते

तर्कताण्डवं

किञ्च न लिङा साक्षात्साधनत्वं बोध्यते । येनायोग्यताधीः स्यात् । नापि परम्परयासाधनत्वं येन परम्पराघटकं द्वारमुपस्थाप्यं स्यात् । किं तु यदकरणे काम्यं न सिध्यति तत्त्वरूपं साक्षात्परम्परा-साधनसाधारणं साधनत्वसामान्यम् । तज्ज्ञानमात्रेण च कार्यताबुद्-ध्युपपत्तेरव्यवहितत्वविशेषणं व्यर्थम् । नह्युक्ते साधनत्वे ज्ञातेप्य-व्यवधानाज्ञानेन कार्यत्वाज्ञानं दृष्टम् ।

नच व्यवहितसाधनमसाधनमेव । भावार्थद्वारा कृतिसाध्यस्या पूर्वस्यापि कृत्यसाध्यतापत्तेः । काम्याभावव्याप्याभावप्रतियोगित्व-रूपस्य साधनत्वस्य व्यवधानेऽप्यहानेश्च । काष्ठादिकं पाकसाधन-मित्यबाधितव्यवहाराच्च ।

नापि साक्षात्साधनत्वरूपैकविशेषबाधे साधनत्वसामान्यस्यापि बाधोऽतिप्रसङ्गात् ।

न्यायदीपः

नन्वस्त्वेवं परस्यापि दोषः । तावता कथं स्वपक्षे साधनत्वबोधो लिङादिना स्यात् । न हि पराङ्गदाहेन स्वाङ्गदाहो निवर्तत इत्यतः स्वपक्षे दोषमुद्धरति ॥ किञ्चेति ॥ द्वारमिति ॥ अपूर्वलक्षणमुपस्थाप्यं तदर्थं लिङ्वाच्यं च स्यादिति योज्यम् ॥ तत्त्वरूपमिति ॥ स्वार्गादिलक्षण-काम्यसिद्धिविरहप्रयोजकविरहप्रतियोगिकृतिविषयत्वरूपमित्यर्थः । न च साक्षात्परम्परासाधारणं साधनत्वसामान्यमेव नास्तीति वाच्यम् । तथात्वे साक्षात्परम्परेति विशेषोक्तेरेवायोगेन व्याघातादिति भावः । ननु कृति-साध्यत्वज्ञानस्य भवद्भिरपि प्रवर्तकत्वोपगमात्तज्ज्ञानार्थं साक्षात्साधनत्व-ज्ञानमावश्यकमित्यत आह ॥ तज्ज्ञानेति ॥ कार्यतेति ॥ कृति-साध्यतेत्यर्थः । अव्यवहितत्वज्ञानस्यापि अन्वयव्यतिरेकावगतहेतुताकत्वात् कथं तद्व्यर्थमित्यत आह ॥ न ह्युक्तेति ॥ यदकरण इत्यादिनोक्त इत्यर्थः ।

नन्वव्यवहितत्वज्ञानस्य व्यतिरेकाभावेन स्वातन्त्र्येण तस्यानावश्य-कत्वेप्यव्यवहितपूर्ववृत्तित्वस्यैव साधनलक्षणतया तदभावे साधनत्वायोगेन तत्सम्पादकत्वेन वा साक्षात्साधनत्वरूपविशेषाभावे साधनत्वसामान्य-स्यैवाभावेन साधनत्वसामान्यसम्पादकत्वेन वाव्यवहितत्वमावश्यकमित्यत आद्यं निराह ॥ न चेति ॥ कार्याननुकूलव्यवहितस्या१साधनत्वेप्य-न्यादृशस्यासाधनत्वमेवेति तु नेत्यर्थः ।

तत्र हेतुत्रयमाह ॥ भावार्थेति ॥

‘‘धात्वर्थः केवलः शुद्धो भाव इत्यभिधीयते’’

इत्युक्तेः । यागादिरूपधात्वर्थद्वारा यागादिविषयकृतिसाध्यस्येत्यर्थः ।

अन्त्यं निराह ॥ नापीति ॥ अतिप्रसङ्गादिति ॥ शशशृङ्गबाधे शृङ्गसामान्यस्यापि बाधापत्तेः । नीलघटबाधे घटसामान्यस्यापि बाधापत्तेश्चेति भावः ।