साङ्ख्यास्तु..
३९. अथ साङ्ख्याद्युक्तश्येनाग्नीषोमीयवैषम्यभङ्गः ।
तर्कताण्डवं
साङ्ख्यास्तु अग्नीषोमीयहिंसायां१ असङ्कुचितवृत्तिना न हिंस्या-दित्यनेन निषिद्धतया पापहेतुत्वेऽपि महाफलसाधनवेदविहित-क्रतूपकारकत्वात्पापमल्पं सुपरिहरं च । पुण्यं तु महदित्याहुः ।
तन्न । सामान्यनिषेधस्य २न्याये सर्वसम्मते च विहितेतरपरत्वे सम्भवति विहितपरत्वं स्वीकृत्य वेदविहितहिंसायाः पापहेतुत्वोक्त्य-योगात् ।
अन्ये त्वग्नीषोमीयालम्भनं यद्यपि पशुप्राणवियोजकं, तथाऽपि तस्य
‘‘न वा उ एतन्म््रिायसे न रिष्यसि देवाम् इदेषि पथिभिः सुगेभिः’’
इत्यादिमन्त्रैः पापफलपशुशरीर३प्रहाणेनोत्कृष्टभोगसाधन दिव्यदेह-सम्पादकत्वावगमान्न हिंसा । न हि व्रणादिशान्त्यै दाहच्छेदादिकं कुर्वाणा व्रणचिकित्सका हिंसकाः । किं तु रक्षकाःइत्याहुः ।
तदपि न । चिकित्सककृतस्य व्रणशामकस्य व्यापारस्य दाहादि-त्वेऽपि अपापत्ववद्देवब्राह्मणकण्टकराक्षसव्याघ््र•दिमारणस्येव चाग्नी-षोमीयालम्भनस्य हिंसात्वेपि न हिंस्यादिति निषेधस्य विहितेतर-विषयत्वसम्भवेन निषेधास्पृष्टविधेयत्वेन धर्मत्वसम्भवेऽहिंसात्वोप-पादनायासानर्थक्यात् ।
एतदेवाभिप्ररोत्य गीतातात्पर्ये ‘‘साङ्ख्यैर्योगैश्च विहितहिंसाया अनर्थर्हेतुत्वाङ्गीकारात्’’ इति साङ्ख्याद्युक्तं वैषम्यद्वयं दूषयितुं विहितपदं हिंसापदं च प्रयुक्तम् ।
इतरे तु– श्येने हिंसा न विहिता । किं तु रागप्राप्ता । यदि हिंस्यात्तर्हि श्येनेन हिंस्यादिति तत्र विधिक्रमः । न तु हिंस्यादेवेत्याहुः । तदपि न । स्वर्ग इव वधरूपे फले रागतः प्राप्तेऽपि ज्योतिष्ठोमस्येव श्येनस्यापि विधिवाक्येनैव फलसाधकत्वरोधनात् ॥
॥ साङ्ख्याद्युक्तश्येनाग्नीषोमीयवैषम्यभङ्गः ॥ ३९ ॥
न्यायदीपः
‘‘अशुद्धमिति चेन्न शब्दात्’’ इति वैराग्यपादीयसूत्रभाष्याद्युक्तवैधी-हिंसाया अपापहेतुत्वादिकं साधयितुकाम आह ॥ साङ्ख्यास्त्विति ॥ आहुरित्यन्वयः ॥ महाफलेति ॥ स्वर्गादिरूपमहाफलसाधनं वेदविहितो यः क्रतुस्तदुपकारत्वादित्यर्थः । योगमतमाह ॥ अन्येत्विति ॥ तस्येत्यस्य दिव्यदेहसम्पादकत्वावगमादित्यनेनान्वयः । न वा इति विशस्यमानपशुं प्रत्युच्यते । म््रिायसे प्राणैर्वियुक्तो नासि । न रिष्यसि हिंसितो नासि । रिष हिंसायामिति धातोः । देवान् इत्, देवानेव सुगेभिः सुष्ठु गम्यैः । पथिभिर् मार्गैः । एषि प्राप्नोषीत्यर्थः ।
॥ पापफलेति ॥ पापस्य फलरूपं यत्पशुशरीरम् ॥ तत्प्रहापणे-नेति ॥ तिर्यग्जन्मनोपि नरकविशेषत्वादिति भावः । अपापत्ववदित्यस्य धर्मत्वसम्भव इत्यन्वयः ॥ मरणस्येव चेति ॥ तस्य हिंसात्वेपि यथा धर्मत्वं तथा सम्भव इत्यर्थः । दृष्टान्ते दार्ष्टान्तिके चोभयत्र हेतुर्न हिंस्यादिति ॥ एतदेवेति ॥ मतद्वेय कथितं दूषणमेवेत्यर्थः ॥ गीतेति ॥ द्वितीयेऽध्याये ॥ हिंसा न विहितेति ॥ अग्नीषोमीयादिपशुहिंसाव-च्छत्रुवधरूपहिंसा न विधिप्राप्तेत्यर्थः ॥ हिंस्यादेवेतीति ॥ शत्रुमिति शेषः । शत्रुवधे न विधिव्यापार इति भावः ।
॥ साङ्ख्याद्युक्तंश्येनाग्नीषोमीयवैषम्यभङ्गः ॥ ३९ ॥