नैयायिकैकदेशिनस्तु न मरणजनकव्यापारमात्रं हिंसा
३८. अथ नैयायिकोक्तश्येनाग्नीषोमीयवैषम्यभङ्गः ।
तर्कताण्डवं
नैयायिकैकदेशिनस्तु न मरणजनकव्यापारमात्रं हिंसा । कृष्यादौ गवि नष्टे कृषिकर्तुर्गोहन्तृत्वापत्तेः । किं तु साक्षान् मरणफलको व्यापारः । श्येनश्च न तथेति १‘‘मा हिंस्यात्’’ इति निषेधास्पृष्ट एव । लिङर्थश्च न बलवदनिष्टाननुबन्धित्वविशिष्टमिष्टसाधनत्वम् । किं तु बलवदनिष्टाजनकत्वविशिष्टम् । तच्च श्येनेस्तीति तत्र लिङ्मुख्य एव । तस्य नरकजनकवैरिवधजनकत्वेनानिष्टानुबन्धित्वेपि नरका-जनकत्वात् । एवं च श्येनस्य नरकाजनकत्वाद्विधानम् । नरकानु-बन्धित्वादनर्थत्वमित्याहुः ।
तन्न । गलग्नान्नकबेन मृतस्यात्महन्तृत्वापत्तेः । अन्ने विषप्रयोक्तुः खड्गेन व्रणपरम्परया घातकस्य चाहन्तृत्वापत्तेश्च ॥
किं च २खड्गकर्तुस्तु खड्गप्रक्षेपादिर्नरान्तरव्यापारो नाभि-संहितः । किं तु धनमेवेति नायं घातकः । यज्ज्ञातं सत्प्रवर्तकं स एव लिङर्थः । न च त्वदुक्तं तथा । साक्षादनिष्टाजनकत्वज्ञाने सत्यप्यनिष्टजनकजनकत्वज्ञाने सत्यप्रवृत्तेः ॥
एतदप्युक्तं लिङाद्यर्थस्त्विष्टसाधनत्वमेवेति । न तु बलवदनिष्टा-जनकत्वविशिष्टमित्यर्थः ।
न्यायदीपः
यत्तु मणौ लिङादेः पूर्वोक्तविशिष्टेष्टसाधनत्वार्थकत्वपक्षे श्येनादौ विधिप्रवृत्त्ययोगमाशङ्क्य श्येनयागस्य साक्षान्मृतिहेतुव्यापारत्वाभावेन वा मृतिरूपफलाव्यवहितव्यापारत्वाभावेन वाऽदृष्टाद्वारकमृतिहेतुव्यापारत्वाभावेन वा त्रेधा हिंसात्त्वाभावमुपेत्य तथानभिसंहितनरान्तरव्यापाराद्वारकत्वेन वा मृत्युद्देश्यकमृतिफलकव्यापारत्वेन वा हिंसात्वमुपेत्य च हिंसात्व-तदभावोपगमप्रकारपञ्चकेन श्येनयागे विधिप्रवृत्त्युपपादनम् पञ्चधा कृतम् । तत्रानभिसंहितनरान्तरेतिपक्षो मणावेव दूषितः । अन्यत्तु त्रयमन्य-मतत्वेनोक्तम् । पञ्चमं तु स्वमतत्वेनोक्तम् ।
तत्सर्वं स्पष्टं निराकुर्वन्नादौ तावदन्येत्वभिचारस्य वैरिवधफलत्वेन श्रुतत्वादित्यादिनोक्तमाद्यमतमनूद्य निराह ॥ नैयायिकेति ॥ आहु-रित्यन्वयः । पुल्लिङ्गोप्यस्ति गोशब्द इति नष्ट इति साघु ॥ श्येनश्च न तथेति ॥ खड्गहननादेरेव तथात्वात् । श्येनस्य च शत्रुशरीरे स्फोटकज्वरादिद्वारैव मृतिहेतुत्वादिति भावः ।
तावता तस्य कथं विधेयता शत्रुवधस्येष्टतया श्येनस्येष्टसाधनत्वेऽपि बलवदनिष्टानुबन्धित्वाद् बलवदनिष्टाननुबन्धीष्टसाधनत्वस्यैव लिङर्थ-त्वादित्यत आह ॥ लिङर्थश्चेति ॥ अजनकत्वविशिष्टमिति ॥ इष्टसाधनत्वमित्यनुषङ्गः । अनिष्टाजनकत्वं च साक्षादनिष्टजनकत्वाभावः ॥ तच्चेति ॥ साक्षादनिष्टजनकत्वाभावविशिष्टमिष्टसाधनत्वमित्यर्थः । तद्व्यनक्ति ॥ तस्येति ॥ अनर्थत्वमिति ॥ चोदनासूत्रेऽर्थपदव्यावर्त्य-तयोक्तमनर्थत्वमित्यर्थः ।
साक्षान्मरणफलकव्यापारत्वरूपहिंसात्वलक्षणस्यातिव्याप्त्यव्याप्ती आह ॥ गलग्नस्येति ॥ दोषान्तरं चाह ॥ किं चेति ॥ एतदपीति ॥ एकदेशिमतनिराकरणमपीत्यर्थः ।
न च फलाव्यवहितव्यापार एव धातुवाच्यः..
तर्कताण्डवं
न च फलाव्यवहितव्यापार एव धातुवाच्यः, अन्यथा तण्डुल-क्रयादावपि पचतीति स्यात्, तथा च हन्तेरपि मरणाव्यवहितव्यापार एवार्थः श्येनश्च न तथेति न हिंसेति वाच्यम् । फलजनकव्यापार-मात्रस्यैव धातुवाच्यत्वात् । अन्यथा विक्लित्त्यव्यवहितक्षण एव पचतीति स्यात् । तण्डुलक्रयस्तु नौदनहेतुः । क्रयं विनाप्राप्ततण्डुलैरपि तत्सिद्धेः ।
न्यायदीपः
द्वितीयमतमाशङ्क्य निराह ॥ न चेति ॥ वाच्यमित्यन्वयः ॥ फलेति ॥ तण्डुलविक्लित्तिरूपौदनाख्यफलाव्यवहितव्यापारः पचिधातुवाच्यः । मरणरूपफलाव्यवहितव्यापारश्च हनहिंसागत्योर् हिसि हिंसायामित्यादि धातुवाच्य इत्यर्थः ॥ अन्यथेति ॥ फलव्यवहितव्यापारस्यापि धातुवाच्यत्व इत्यर्थः । हन्तेरित्युपलक्षणम् । हिनस्तेरपीत्यपि ध्येयम् । हिंसेत्यस्य हिनस्तिधातुजन्यत्वात् ॥ श्येनश्च न तथेति ॥ खड्गहननादिरेव तथेति भावः ॥ अव्यवहितक्षण एवेति ॥ अव्यवहितपूर्वक्षण एवेत्यर्थः । क्षण इति सप्तमी ॥