प्राभाकरास्तु
**३६. अथ कार्यताज्ञानस्य प्रवर्तकत्वभङ्गः । **
तर्कताण्डवम्
प्राभाकरास्तु । ज्ञानेन पाकविषयककृतौ जनयितव्यायां द्वार-भूतेच्छा पाकविशेष्यका कृतिसाध्यत्वप्रकारिकैव । पाकं कुर्या-मित्यनुभवात् । न तु केवलकृतिविषयकेच्छा । तस्या भिन्नविषयत्वेन पाकविषयककृतिं प्रत्यहेतुत्वात् । जानातीच्छति करोतीति त्रयाणामेकविषयत्वानुभवाच्च । सा चेच्छा स्वसमानप्रकारकज्ञान-साध्येति कार्यत्वप्रकारकमेव ज्ञानं प्रवर्तकम् । न त्विष्टसाधनत्व-ज्ञानम् । नित्ये सन्ध्योपासनादौ फलाभावात् । १फलवत्त्वे नित्यत्व-व्याघातादित्याहुः ॥
न्यायदीपः
ज्ञात्वैव हीष्टसाधनतामित्यत्र एवकारस्य भिन्नक्रमेण कार्यत्वज्ञानं प्रवर्तकं नेति यद्ग्रन्थकाराभिमतं तत्प्रपञ्चयितुमाह ॥ प्राभाकरास्त्विति ॥ कार्यत्वप्रकारकमेव ज्ञानं प्रवर्तकं न त्विष्टसाधनत्वज्ञानमित्याहुरित्यन्वयः । तत्र युक्तिमाह ॥ ज्ञानेनेति ॥ रागादिना जायमानकृताविच्छाद्वारत्वाभावाज् ज्ञानेनेत्युक्तम् ।
ननु द्वारभूतेच्छायाः कृतिसाध्यत्वप्रकारकत्वं पाकविशेष्यकत्वमयुक्तम् । ज्ञानेन कृतौ जनयितव्यायां चिकीर्षा हि द्वारम् । तस्याश्च कृतिविषय-कत्वमेव । ‘‘धातोः कर्मणः समानकर्तृकादिच्छायां वा’’ इति धात्वर्थ-गोचरेच्छायामेव सनो विधानादित्यत आह ॥ पाकमिति ॥ इच्छेत्यनन्तरं द्वारभूतेत्यनुकर्षः । येन कृताविष्टसाधनताज्ञानादेवेच्छेति इष्टसाधनत्वज्ञानं प्रवर्तकं स्यादिति भावः ।
अस्तु द्वारभूतेच्छा कृतिसाध्यत्वप्रकारिका । कृतिसाध्यत्वरूपकार्यत्व-ज्ञानं प्रवर्तकमित्यत्र किमायातमित्यत आह ॥ सा चेति ॥ न त्वित्युक्तार्थे हेतुमाह ॥ नित्य इति ॥ फलाभावादिति ॥ तथा च न तत्रेष्टसाधनत्व-ज्ञानं सम्भवतीति कस्यापि प्रवृत्तिर्न स्यादिति भावः ।
विश्वजिन्न्यायेन तत्रापि फलकल्पनाऽस्त्वित्यत आह ॥ सफलत्व इति ॥ ‘‘अहरहः सन्ध्यामुपासीत’’ इति वीप्सया ‘‘वसन्ते वसन्ते ज्योतिषा यजेत’’ इत्यादाविव नित्यत्वस्य व्यवस्थितत्वादिति भावः ॥
तन्न । कार्यत्वं हि न तावत्कृतिसाध्यत्वमात्रम्
तर्कताण्डवं
तन्न । कार्यत्वं हि न तावत्कृतिसाध्यत्वमात्रम् । तस्य स्वकृत्यसाध्ये१पि सत्त्वेन तत्रापि प्रवृत्त्यापातात् ।
नापि स्वनिष्ठकृतिसाध्यत्वं कार्यत्वम् । जीवनादृष्टजन्य-स्वकृति-साध्ये प्राणपञ्चकसञ्चारेपि सत्त्वात् ।
नापीच्छाधीनस्वनिष्ठकृतिसाध्यत्वं कार्यत्वम्, प्राणपञ्चकसञ्चारे कृतिर्नेच्छाधीनेति वाच्यम् । फलरूपे सुखे दुःखाभावे च प्रवृत्ति-प्रसङ्गात् । तयोरपि परम्परया कृतिसाध्यत्वात् । साक्षात्कृति-साध्यत्वस्य च शरीरचेष्ठादिद्वारा कृतिसाध्ये लौकिके पाकादौ वैदिके यागादौ यागादिद्वारा कृतिसाध्ये नियोगे चाभावात् ।
नापि चिकीर्षाधीनस्वनिष्ठकृतिसाध्यत्वं कार्यत्वम्, सुखादौ चेच्छामात्रम् उद्देश्यत्वात्, न तु चिकीर्षेति वाच्यम् । सुखादावपि कृत्या सुखं साधयिष्यामीतीच्छाया अनुभवात् । तदतिरिक्तायाश्च चिकीर्षाया यागादावप्यभावात् ।
किं चैवं भोजनचिकीर्षाधीनकृतिजन्ये श्रमेऽपि प्रवृत्तिः स्यात् ॥ ननु श्रमः शरीरावयवस्पन्दरूपभोजनक्रियासाध्यो न तु कृतिसाध्यः । कृतेः स्वध्वंस१साक्षात्कारातिरिक्ते स्वजनकचिकीर्षाविषय एव जनकत्वनियमात् । अत एव श्रमो नान्तरीयक इत्युच्यत इति चेन्न । निगडनिश्चलदेहस्य २आमवातादिशिथिलीकृतदेहस्य च चलनादि-क्रियानुत्पादेऽपि श्रमानुभवेन कृतेरेव तत्र हेतुत्वात् । नच क्रिया-नुत्पादे कृतौ मानाभावः । अहं प्रयत इत्यनुभवात् ॥
न्यायदीपः
‘‘कार्यता च न काचित् स्यादिष्टसाधनतां विना’’
इत्यनुव्याख्यानोक्तदिशा इष्टसाधनत्वमेव कार्यत्वं न ततोन्यदस्तीति विवक्षुः, किमिदं कार्यत्वम् । कृतिसाध्यत्वं वा, स्वकृतिसाध्यत्वं वा, इच्छाधीनस्वकृतिसाध्यत्वं वा, चिकीर्षाधीनकृतिसाध्यत्वं वा, चिकीर्षाधीन-कृतित्वेन स्वकृतिसाध्यत्वं वा, स्वविषयचिकीर्षाधीनकृतिसाध्यत्वं वा, इदानीन्तनस्वविषयकेच्छाधीनकृतिसाध्यत्वं, वा, कृतिसाध्यतार्हत्वं वा, इष्टानुत्पत्तिप्रसञ्जनीभूताभावप्रतियोगिभूतकृतिविषयताप्रयोजकरूपवत्त्वं वा, कृतिसाध्यत्वे सति कृत्युद्देश्यत्वं वा, कृतिसाध्यत्वे सति प्राधान्यं वा, इष्टसाधनत्वलिङ्गगम्यचिकीर्षाधीनकृतिसाध्यत्वरूपं वा, शुचित्वे सति विहितकालजीवित्वरूपलिङ्गगम्यचिकीर्षाधीनकृतिसाध्यत्वरूपं वा स्वविशेषणवत्ताप्रतिसन्धानगम्यचिकीर्षाधीनकृतिसाध्यत्वरूपं वा क्रिया-ननुष्ठानप्रयुक्तेष्टानुत्पत्तिप्रसञ्जकविशेषणवत्त्वप्रतिसन्धानगम्यं तदेव वेति पञ्चदशधा विकल्प्याद्यं निराह ॥ कार्यत्वं हीत्यादिना ॥
द्वितीयं निराह ॥ नापि स्वनिष्ठेति ॥ अत्राप्यन्वयव्यभिचारान्नैतद्रूपं कार्यत्वज्ञानं प्रवृत्तिकारणमित्याह ॥ जीवनेति ॥ जीवनकारणं यददृष्टं तज्जन्या या स्वकृतिस् तत्साध्येत्यर्थः । एतच्च पररीत्योक्तम् । स्वमते तु प्राणापानव्यानोदानसमानरूपप्राणशब्दितपञ्चवायूनां सञ्चारस्य जीवस्य निष्प्रयत्नतादशारूपसुप्त्यादावपि दर्शनेन मुख्यप्राणकर्तृकत्वस्य द्वितीयेऽध्याये प्राणपादे स्थितत्वात् ।
तृतीयं निराह ॥ नापीच्छेति ॥ कृतिर्नेच्छाधीनेति ॥ अत एव मणावपि विधिवादपूर्वपक्षे ‘‘कृतौ चानुभवसिद्धं चिकीर्षाधीनत्वं विशेषः । तेन प्राणपञ्चकसञ्चारे जीवनयोनिकृतिसाध्ये न प्रवृत्तिरित्युक्तं’’ इति भावः । अत्रापि किं परम्परया साक्षाद्वा कृतिसाध्यत्वम् । आद्य आह ॥ फलेति ॥ परम्परयेति ॥ विषयानुभवद्वारेत्यर्थः ॥ कृतीति ॥ इच्छाधीन-कृतीत्यर्थः । एवमग्रेपि । अन्त्य आह ॥ साक्षादिति ॥ यागादीति ॥ यागदानहोमद्वारा कृतिसाध्येऽपूर्व इत्यर्थः । तथा च व्यतिरेकव्यभिचारादेवं-रूपकार्यत्वज्ञानमपि न प्रवर्तकमिति भावः ।
चतुर्थं निराह ॥ नापि चिकीर्षेति ॥ का नाम चिकीर्षा । किं कृतिसाध्यत्वप्रकारिकाथ ततोऽन्या । आद्य आह ॥ सुखादावपीति ॥ अन्त्य आह ॥ तदतिरिक्ताया इति ॥ सुखादिफलगोचरचिकीर्षा नेत्येतदभ्युपेत्यापि दोषान्तरमाह ॥ किं चैवमिति ॥ चिकीर्षाधीन-स्वकृतिसाध्यत्वं कार्यत्वं चेदित्यर्थः ॥ भोजनेति ॥ भोजनविषयिणी चिकीर्षाधीना या कृतिस् तत्साध्येत्यर्थः ।
श्रमस्तु भोजनक्रियासाध्यो न तु कृतिसाध्य इत्यादिना मणौ विधिवादपूर्वपक्षोक्तमाशङ्क्य निराह ॥ नन्वित्यादिना ॥ शरीरा-वयवेति ॥ तनुहस्ताद्यवयवपरिस्पन्दरूपेत्यर्थः ॥ स्वजनकेति ॥ कृतिजनिका या चिकीर्षा तद्विषयमात्रजनकत्वनियमादित्यर्थः ॥
यद्यपि कृतिपूर्ववर्तिगुणान्तरध्वंसे स्वजनकचिकीर्षां प्रत्यविषयेऽपि जनकत्वं कृतेरस्तीति नायं नियमोस्ति । न च कृतित्वेन कृतेर्जनकत्वं वक्ष्यमाणमभिप्ररोत्यायं नियम इति वाच्यम् । अदृष्टादिकं प्रति कृतित्वेनैव जनकत्वेन व्यभिचारानिस्तारात् । तथाप्यभ्युपेत्यान्यत्र व्यभिचारमाह ॥ निगडेति ॥ प्रयत इतीति ॥ यती प्रयत्न उत्तमपुरुषैकवचनम् ।