ननु तथाऽपीष्टसाधनत्वं ..
३५. कृतिसाध्यत्वादिविशिष्टेष्टसाधनत्वस्य विधित्वभङ्गः ।
तर्कताण्डवं
ननु तथाऽपीष्टसाधनत्वं तक्षकचूडामण्याहरणादावप्रवृत्त्यर्थं कृतिसाध्यत्वेनावश्यं विशेषणीयमिति चेन्न । २कृतिसाध्यत्वज्ञान-दशायां प्रवृत्त्यापादने इष्टापत्तेः । तदसाध्यत्वज्ञानदशायां तु कृत्या फलं साधयिष्यामीति कृतिसाध्यत्वप्रकारिकायाः फलेच्छाया अभावा-देवाप्रवृत्तेः । न हि साधने कृत्यसाध्यत्वेन ज्ञाते फले कृतिसाध्यत्वं ज्ञातुं शक्यम् । न च फलस्य कृतिसाध्यत्वाज्ञाने फले तत्प्रकारि-केच्छा युक्ता ।
कृतिसाध्यत्वविशिष्टेष्टसाधनताज्ञानं वा कार्यताज्ञानं वा प्रवर्तक-मिति मतेऽपि हि उक्ता फलेच्छाऽऽवश्यकी । उक्ते ज्ञानद्वये सत्यप्युक्तफलेच्छारहितस्य चेतनस्याप्रवृत्तेः । दृश्यते हि फलं दैवादन्यकृतितोऽपि वा मम सिध्यत्वितीच्छायां त्वदुक्तविशिष्टेष्ट-साधनत्वज्ञाने कृतिसाध्यत्वज्ञाने च सत्यपि फलं कृत्या साधयिष्या-मीतीच्छाऽभावेन प्रवृत्त्यभावः ।
न्यायदीपः
॥ तथाऽपीति ॥ मण्याद्युक्तदिशा चतुर्धा विशेषणीयत्वाभावेपीत्यर्थः ॥ कृतिसाध्यत्वेन अवश्यं विशेषणीयमिति ॥ कृतिसाध्यं यदिष्टसाधनं तत्त्वज्ञानं प्रवर्तकमिति वाच्यमित्यर्थः । तक्षकचूडामण्याहरणादिकं च तक्षकदंशनभीत्या कृत्यसाध्यमिति भावः । असाध्यत्वाज्ञानदशायां विशेषणीयम् उत तत्त्वेन ज्ञानकाले । आद्य आह ॥ कृतीति ॥ अन्त्ये त्वन्यथैवा-प्रवृत्त्युपपत्तौ किं विशेषणेनेत्याह ॥ तदसाध्यत्वेति ॥
साधनस्य कृत्यसाध्यत्वज्ञानकाले फलेच्छाया अभाव एव कुत इति चेत् । कृतिसाध्यत्वप्रकारकफलगोचरेच्छायाः कृतिसाध्यत्वप्रकारकफल-विशेष्यकज्ञानजन्यत्वात् तादृशज्ञानस्य च कृतिसाध्यत्वप्रकारकसाधनगोचर-ज्ञानजन्यत्वात्कारणाभावादेव फलेच्छारूपकार्याभाव इत्येतद्व्यतिरेक-मुखेनोपपादयति ॥ न हीति ॥
अस्त्वेवं तथाऽपि फलेच्छाया आवश्यकत्वमेव कुत इत्यतः प्रतिज्ञापूर्वं हेतुमाह ॥ कृतिसाध्यत्वेति ॥ आद्यं तार्किकरीत्योक्तम् । अन्त्यं प्राभाकररीत्या । कुत इत्यत आह ॥ उक्त इति ॥ ज्ञानद्वये ॥ कार्यत्वज्ञानंवेत्यन्तेनोक्तज्ञानद्वये इत्यर्थः ।
॥ उक्तफलेच्छेति ॥ कृत्या फलं साधयिष्यामीत्युक्तकृतिसाध्यत्व-प्रकारकेच्छेत्यर्थः । चेतनस्येति स्पष्टार्थम् । ज्ञानद्वये सतीत्यस्य घटनार्थं वेति ध्येयम् । कथमेतदित्यतो व्यनक्ति ॥ दृश्यते हीति ॥ प्रवृत्त्यभाव इत्यन्वयः ॥ उक्तविशिष्टेति ॥ कृतिसाध्यत्वविशिष्टेत्यर्थः । कार्यत्वज्ञानं वेत्यस्य विवरणेन निर्देशः ॥ कृतिसाध्यत्वज्ञाने चेति ॥ इच्छाभावे-नेति ॥ इच्छाया अभावेनेत्यर्थः ॥
नन्वेवं क्रियायाः कृतिसाध्यत्वज्ञानमपि ..
तर्कताण्डवं
नन्वेवं क्रियायाः कृतिसाध्यत्वज्ञानमपि त्वयाऽपि प्रवर्तकत्वेन स्वीकृतमिति चेत् । सत्यम् । न तु तल्लिङ्शब्दजन्यम् । क्रियायाः कृतिसाध्यत्वस्य कृत्यन्वयव्यतिरेकगम्यत्वेन तत्र लिङ्शक्तेर-कल्पनात् । न हि यजेतेतिशब्दः स्वर्गकामस्य यागः शक्य इत्याह । किन्त्विष्टसाधनमित्येव । तत्र शक्तः प्रवर्तते । अशक्तस्तु न । किञ्च कृतिसाध्यत्वे सति इष्टसाधनत्वं न लिङर्थः । साध्यत्वसाधनत्वयोः प्रतियोगिभेेदेन कालभेदेन चाविरोधेपि सकृत्प्रयुक्तेन लिङ्शब्देनावृत्तिं विनोपस्थित्यसम्भवात् । अन्यथा वाजिपेयाधिकरणेऽपि पूर्वपक्षरीत्या यजिना तयोर्युगपदुपस्थितिसम्भवेन तदसम्भवनिबन्धनः सिद्धान्तो न सिध्येत् ।
न्यायदीपः
गूढाभिप्रायेण शङ्कते ॥ नन्वेवमिति ॥ कृतिसाध्यत्वप्रकारक-फलेच्छायाः प्रवृत्तिहेतुत्वोपगम इत्यर्थः ॥ प्रवर्तकत्वेनेति ॥ उक्तरूप-फलेच्छां प्रति हेतुत्वेन फले कृतिसाध्यत्वज्ञानस्यावश्यकत्वेन तद्धेतु-क्रियायामपि कृतिसाध्यत्वज्ञानस्याङ्गीकृतत्वादिति भावः । तथाच तज्ज्ञानस्य लिङादिविधिप्रत्ययजन्यत्वात्कृतिसाध्यत्वस्यापि लिङाद्यर्थत्वं प्राप्तमिति हृदयम् ।
विदिताभिप्रायः ‘‘लिङाद्यर्थस्तु इष्टसाधनत्वमेव’’ इति कर्मनिर्णयवाक्यं हृदि कृत्वा परिहरति ॥ सत्यमित्यादिना ॥ केन तर्हि कृतिसाध्यत्वज्ञानं कुतो लिङादिजन्यं नेत्यत आह ॥ क्रियाया इति ॥ यागादिरूपाया इत्यर्थः । ननु यथा साधनत्वमात्रस्य लिङर्थत्वसम्भवेऽपि प्रतीतिबलादिष्ट-साधनत्वं लिङाद्यर्थ इत्युच्यते तथैव प्रतीतिबलात्कृतिसाध्यत्वमपि लिङाद्यर्थ इत्युच्यतामित्यत आह ॥ नहीति ॥ शक्य इति ॥ कृतिसाध्य इत्याहेत्यर्थः ॥ इष्टसाधनमित्येवेति ॥ याग इति योज्यम् । एवं तर्हि सर्वेपि कुतो न प्रवर्तन्ते कुतो वा सर्वेऽपि न निवर्तन्त इत्यत आह ॥ तत्र शक्त इति ॥ क्रियां कृत्या साधयितुं समर्थ इत्यर्थः ।
प्रतीत्यभावे विप्रतिपन्नं प्रत्याह ॥ किं चेति ॥ अत्रोच्यत इत्यादिना विधिवादसिद्धान्तमणिग्रन्थोक्तदिशा तयोरविरोधमनुवदति ॥ साध्यत्वेत्यादि ॥ प्रतियोगीति ॥ यद्यपि एकस्य पाकादेर्यं प्रति साध्यत्वं तं प्रति साधनत्वं विरुद्धम् ।१ काष्ठादिरूपस्वकारणं प्रति साध्यत्वमोदनादिकार्यं प्रति साधनत्वमविरुद्धम् । निरूपकभेदात् । तथा यदा साध्यत्वं तदैव २साधनत्वम् । तत्प्रयोजकयोरसिद्धत्वसिद्धत्वयोरेकदैकस्मिन्विरोधात् । कालभेदेन तु न विरुद्धम् । असिद्धताकाले साध्यत्वस्य सिद्धत्वदशायां साधनत्वस्य च सम्भवात् । तथापीत्यर्थः ॥ उपस्थित्यसम्भवादिति ॥ साध्यत्वसाधनत्वयोरित्यनुषङ्गः ॥ अन्यथेति ॥ आवृत्तिं विनाऽपि युगपदुपस्थितावित्यर्थः ।
आद्यस्य चतुर्थपादे ‘‘नामधेये गुणश्रुतेः स्याद्विधानमिति चेत्’’ इति पञ्चमेऽधिकरणे– ‘‘वाजपेयेन स्वाराज्यकामो यजेत’’ इत्यत्र वाजतेयशब्दः किं पेयं पातुं योग्यं वाजमन्नमिति द्रवरूपद्रव्याख्यगुणविधिपरोऽथ कर्मनामधेयमिति संशये यजेतेति श्रुताख्यातोपात्तप्रयत्नापरपर्यायभावनया यागस्य प्रकृतिप्रत्ययसमभिव्याहारबलेन कर्मत्व१कारणत्वसाधारण-सम्बन्धसामान्येऽवगते सति कर्मत्वांशमादाय वाजपेयपदोक्तगुणस्य पेयरूपवाजेन यागं कुर्यादित्यन्वयस्य कारणत्वांशमादाय यागेन स्वाराज्यं भावयेदिति फलान्वयस्य युगपदेव सम्भवाद्गुणविधिपर इति प्राप्ते कर्मत्व-कारणत्वौदासीन्येन सम्बन्धमात्रावगतौ गुणफलयोरन्यतरस्यापि२ यागेनान्वया-पाताद् विशिष्य कर्मत्वकारणत्वयोरुपस्थितेरावृत्तिमन्तरेणासम्भवाद् यागस्य कारणत्वेनैव बोधमुपेत्य फलान्वय एव वाच्यः वाजपेयपदं तु नामधेयमिति सिद्धान्तितम् । तत्सिद्धान्तभङ्गप्रसङ्ग इति भावः ।