अत्रोक्तं मणौ । नेष्टसाधनत्वमात्रं विधिः
३४. बलवदनिष्टाननुबन्धित्वादिविशिष्टेष्ट-साधनत्वस्य विधित्वभङ्गः ।
तर्कताण्डवम्
अत्रोक्तं मणौ । नेष्टसाधनत्वमात्रं विधिः । अशक्ये तक्षक-चूडामण्याहरणादौ तात्कालिकेष्टसाधने विषसम्पृक्तमधुभक्षणे निषिद्ध-कर्मणि च प्रवृत्तिप्रसङ्गात् । किं तु कृतिसाध्यत्वे सति बलवदनिष्टा-ननुबन्धित्वेन वा इष्टोत्पत्तिनान्तरीयकदुःखाधिकदुःखाजनकत्वेन वा इष्टोत्पत्यनान्तरीयकदुःखाजनकत्वेन वा विशिष्टमेवेष्टसाधनत्वं विधिः ।
यद्यप्याद्ये बलवत्त्वमनुगतमेकं नास्तीति शङ्का । द्वितीयेऽप्य-क्लेशरूपे रामस्मरणादौ तत्साध्येष्टोत्पत्तिनान्तरीयकं दुःखमप्रसिद्धमिति शङ्का । तथापि तृतीये न काऽपि शङ्का ।
एवं च निषेधवाक्यस्थेन नञा बलवदनिष्टाननुबन्धित्वादिरूपं विशेषणमेव निषिध्यते । न तु विशेष्यम् । तथा च न मानान्तर-विरोधः ।
न्यायदीपः
॥ अत्रेति ॥ इष्टसाधनत्वमेव लिङाद्यर्थ इति प्रमेयविषये विशिष्टमेवेष्ट-साधनत्वं विधिप्रत्ययार्थ इत्युक्तमिति वक्ष्यमाणेनान्वयः । निषिद्धकर्मणि कलञ्जभक्षणादौ । तात्कालिकेष्टसाधन इत्यनुषङ्गः ॥ बलवदित्यादि ॥
यद्यपि मणाविष्टोत्पत्तिनान्तरीयकेत्यादि द्वितीयकल्प एव कण्ठोक्त-स्तथाऽपि श्येनादौ विधिप्रवृत्तिव्युत्पादनस्थे बलवदनिष्टाननुबन्धित्वमपि नान्वेतीत्यादिव्यवहारात्तदनुरोधेनाद्यः पक्षः । पक्षधरादिविवक्षानुरोधेन तृतीयः पक्ष उक्त इत्यदोषः ।
कृतिसाध्यत्वे सतीत्येतदुत्तरकल्पद्वयेऽप्यन्वेति । आद्यविशेषणेन तक्षकचूडामण्याहरणादौ न प्रवृत्तिप्रसङ्गः । द्वितीयेन तु विषसम्पृक्तमधुभक्षणे निषिद्धे च न प्रवृत्तिः । भोजनादिना तृप्त्यादिरूपेष्टोत्पत्तौ सत्यां यन्नान्त-रीयकं दुःखं श्रमादि तदधिकनरकादिदुःखाजनकत्वेनेति द्वितीयपक्षस्यार्थः । इष्टोत्पत्त्यनन्तरभाविदुःखाजनकत्वेनेति तृतीयपक्षस्यार्थः ।
आद्यपक्षे बलवदनिष्टाननुबन्धित्वं च न विशेषणम् । अनुगतस्य तस्याभावादिति मणिकृदुक्तमेव दोषं द्वितीयपक्षे पक्षधराद्युक्तं दोषमरुचिबीजं दर्शयति ॥ यद्यपीति ॥ इष्टापेक्षया अनिष्टस्याधिकत्वं बलवत्त्व-मित्यादिरूपेण कथञ्चिदनुगतेर् इष्टोत्पत्तिनान्तरीयकदुःखाधिकदुःखजनकत्वं प्रसिद्धम् । तदन्यत्वेन विवक्षितत्वस्य च सम्भवाच्छङ्केत्येवोक्तम् ॥ तृतीये न कापि शङ्केति ॥
यद्यप्यजनकत्वं जनकत्वात्यन्ताभावजनकान्योन्याभावरूपतया भिन्नम् । तथा च मितिज्ञानहेतुतायां गौरवमननुभवश्च । प्रत्येकज्ञानेऽपि फलसिद्धेश्च । प्रत्येकहेतुतायामननुगम इति शङ्कास्ति । तथाऽपि प्रत्येक-हेतुत्वेऽपि तादृशदुःखजनकत्वज्ञानविरोधित्वेनानुगमसम्भवादिति भावः ॥
निषेधस्थोक्तनिर्वाहमनुवदति ॥ एवं चेति ॥ विशिष्टस्य विध्यर्थत्व इत्यर्थः ॥ न मानान्तरेति ॥ तात्कालिकेष्टसाधनत्वग्राहिमानान्तरेत्यर्थः ।
नच नञो विध्यर्थैकदेशेन विशेषणेनान्वये ..
तर्कताण्डवं
नच नञो विध्यर्थैकदेशेन विशेषणेनान्वये एकशब्दार्थस्य अपर-शब्दार्थैकदेशेनान्वय१व्युत्पत्तिविरोध इति वाच्यम् ।
चैत्रमातेत्यादौ चैत्रस्य जनकस्त्रीवाचकमातृपदार्थैकदेशेन जनक-त्वेन चैत्रस्य जनिका स्त्रीत्येवमन्वयस्य, चैत्रस्य नप्तेत्यादौ चैत्रस्य २पौत्रवाचकनप्तृपदार्थैकदेशेन पुत्रेण चैत्रपुत्रस्य पुत्र इत्येवमन्वयस्य च दर्शनात् ॥
किं च कुमुदं श्वेतमेव पार्थ एव धनुर्धरो नीलं सरोजं भवेत्येवेत्यत्र विशेषणविशेष्यक्रियान्वितानामवधारणानां यथाक्रममयोगान्ययोगा-त्यान्तायोगव्यवच्छेदा अर्थाः । एवं च श्वेतादीनामवधारणार्थैक-देशेनायोगादिनाऽन्वयो दृश्यते ।
एवमघटः पट इत्यादौ मन्मते सामानाधिकरण्याय नञो ऽन्योन्याभाववति लाक्षणिकत्वेन पदार्थैकदेशेनान्योन्याभावेन घटस्य प्रतियोगित्वेनान्वयो दृश्यते । तथा चैकदेशेनान्वयव्युत्पत्तिरेव सिद्धा ।
न्यायदीपः
पक्षधराद्युक्तशङ्कोत्तरे व्यनक्ति ॥ न च नञ इति ॥ अवधारणार्थैकदेशेनेति ॥ अयोगव्यवच्छेदादित्रयस्याप्यवधारणार्थ-त्वेनै३कैकप्रक्रमात् स्थितायोगान्ययोगात्यन्तायोगानां व्यवच्छेदप्रतियोगि-नामवधारणार्थैकदेशत्वादिति भावः । मन्मते न्यायमते ॥ लक्षणिकत्वे-नेति ॥ व्यक्तमेतदग्रे नञर्थनिर्णयवादे ।