०२ उदयनोक्तवक्त्रभिप्रायविधित्वभङ्गः

बाधकपञ्चकेऽप्याद्यं तावन्न युक्तम्

३३. अथ उदयनोक्तवक्त्रभिप्रायविधित्वभङ्गः ।

तर्कताण्डवम्

बाधकपञ्चकेऽप्याद्यं तावन्न युक्तम् । त्वन्मते इदं कर्तव्य-माप्ताभिप्ररोतत्वादिति हेतूकरणवदुपपत्तेः ।

नापि द्वितीयम् । अर्थवादादेवेष्टसाधनत्वे बुद्धे विधिप्रत्ययस्य वा तदर्थस्य वाऽनुमित्यनभ्युपगमात् । त्वत्पक्षेऽपि तत्र विधिप्रत्यया-द्यनुमानं व्यर्थमेव । तद्बोध्यस्य प्रवर्तकस्य इष्टसाधनत्वस्यार्थवादादेव सिद्धेः । असिद्धौ च कल्पकाभावात् । व्यापकानुपलब्धिरूप-बाधकनिरासेन सार्थक्यं तु मन्मतेऽपि समम् ॥

न्यायदीपः

इष्टोपायस्य लिङाद्यर्थत्वे प्रागुक्तपञ्चबाधकानि क्रमेण निराह ॥ बाधकेत्यादिना ॥ इति हेतूकरणवदिति ॥ इदं त्वया कर्तव्य-मित्युक्तेन कुत इति प्रत्युक्तो ब्रूते आप्ताभिप्ररोतत्वादिति । तत्र त्वन्मते इदं त्वया कर्तव्यमित्यस्य त्वत्कृतिविषयत्वेनाप्ताभिप्ररोतमित्यर्थः । तत्र कुत इत्याकाङ्क्षायामाप्ताभिप्ररोतत्वादिति हेतुरयुक्तः स्यात् । तत्र यदि कर्तव्यमित्यस्य कृतिविषय इत्येतावन्मात्रं विवक्षित्वा हेतोरुपपत्तिं मन्यसे तर्हि ममापि तथैवास्त्विति भावः ॥

विध्यनुमानाच्चेति बाधकं निराह ॥ नापि द्वितीयमिति ॥ इष्ट-साधनत्वे इति ॥ तथाचानुमानाच्चेति हेतोरसिद्धिरिति भावः ।

अस्तूदयनमतेऽयं दोष इत्यत आह ॥ त्वत्पक्षेऽपीति ॥ असिद्धौ चेति ॥ इष्टसाधनत्वस्यार्थवादादसिद्धौ विध्यनुमापकाभावादित्यर्थः । अश्वमेधादेरिष्टसाधनत्वादिति हेतुना ह्यश्वमेधादिकं कृतिविषयतयाऽप्ताभिप्ररोत-मित्यर्थकः ‘‘अश्वमेधेन यजेत ब्रह्महत्यातरणकाम’’ इति विधिरनुमातव्यः । इष्टसाधनत्वस्यैवाज्ञाने विध्यनुमितिरेव नोदीयादिति भावः ।

नन्वर्थवादान्निश्चितमपीष्टसाधनत्वं कर्तव्यत्वरूपविधिव्याप्तत्वादिह च तस्यानुपलम्भेन कुण्ठितशक्तिकं न प्रवर्तयितुमीष्टे इति विधिकल्पनमित्य आह ॥ व्यापकेति ॥


नापि तृतीयम्

तर्कताण्डवं

नापि तृतीयम् । उक्तरीत्येष्टसाधनत्ववाचिनो लिङ एकदेश-भूतायामिच्छायां लक्षणासम्भवात् । कुर्याः कुर्यामित्यत्रापि सम्बोध्यं स्वात्मानं च प्रतीष्टसाधनत्वस्यैव लिङर्थत्वे बाधकाभावाच्च ॥

नापि चतुर्थम् । त्वन्मते कप्तेच्छांशात्यागेनाप्तत्वांश इव मन्मतेऽपि तदत्यागेन साधनत्वांशे शक्तिकल्पनात् । कथं च लिङन्तरेऽन्योर्थ इति विध्यर्थलिङोपि स एवार्थः ॥

न्यायदीपः

मध्यमपुरुषादिप्रयोगे इष्टसाधनतारूपार्थवियोगादिति बाधकं निराह ॥ नापि तृतीयमिति ॥ उक्तेति ॥ अभिप्रायो हीच्छेत्यादिनोक्तरीत्येत्यर्थः ॥ एकदेशेति ॥ इष्टसाधनेत्यत्र साध्यविषयकत्वेनानुप्रविष्टेच्छाया एकदेशत्वात् । तद्विशिष्टार्थानुपपत्तावेकदेशस्य लक्षणया ग्रहणसम्भवा-दित्यर्थः । लक्षणैव दोष इत्यनुशयादाह ॥ कुर्या इति ॥ तवेष्टसाधनं ममेष्टसाधनमित्यर्थकत्वोपपत्तेरित्यर्थः ।

अन्यत्र कप्तसामर्थ्यादित्युक्तबाधकं निराह ॥ नापि चतुर्थमिति ॥ कप्तेति ॥ १इच्छाविशेषरूपामन्त्रणादौ लिङ्शक्तेः कप्तत्वेनामन्त्रणाद्यर्थक-लिङादौ कप्तेच्छार्थकत्वांशात्यागेन आप्तत्वांशमधिकमपि निवेश्याप्तेष्टत्वं विधिलिङोर्थ इति कल्प्यते । तथा मन्मतेपि कप्तेच्छार्थकत्वात्यागेनेच्छा-विषयसाधनत्वांशेपि लिङादेः शक्तिः कल्प्यते । अतोऽधिकांशे शक्ति-कल्पनस्य तुल्यत्वान्नेदं बाधकमिति भावः । आप्तत्वांश इत्युपलक्षणम् । कृतिसाध्यत्वांश इत्यपि ध्येयम् । मन्मते तु न तदंशेपि लिङादेः शक्तिरित्यग्रे व्यक्तम् ।

नन्वामन्त्रणादावाप्तत्वांशेऽपि शक्तिः कप्तेति वादिनं प्रत्याह ॥ कथं चेति ॥ नियामकाभावादिति भावः । एकत्र निर्णीतार्थोऽन्यत्रापीति न्यायस्त्वसति बाधके । प्रकृते चाप्तेच्छाया विध्यर्थत्वे बाधकत्रयस्य प्रागेवोक्तत्वादिति भावः ।