०१ आप्ताभिप्रायस्य लिङाद्यर्थत्वे बाधकम्

नन्विष्टसाधनत्वं न विधिः

विधिवादः

३२. अथ आप्ताभिप्रायस्य लिङाद्यर्थत्वे बाधकम् ।

नन्विष्टसाधनत्वं न विधिः । तथात्वे करणत्वस्य विध्यर्थेन लिङाभिहितत्वेन ‘‘उद्भिदा यजेत’’ इत्यादावनभिहिताधिकार-विहिततृतीयाऽनुपपत्तेरिति चेन्न । साधनत्वे अभिहितेऽपि तद्विशेषस्य करणत्वस्यानभिधानात् । लिङाऽन्तरङ्गस्वप्रकृतियज्यर्थमात्रगतेष्ट-साधनत्वेऽभिहितेऽपि यागविशेषरूपोद्भित्प्रातिपदिकार्थगतस्य तस्या-नभिधानेनोद्भित्प्रातिपदिकात्परस्यास् तृतीयायाः सम्भवाच्च ॥

केचित्तु यागगतेष्टसाधनत्वमपि संसर्गमर्यादयैव लभ्यते । न त्वभिधीयत इत्याहुः ॥

न्यायदीपः

प्रागुक्तमाक्षिपति ॥ नन्विति ॥१ विधिनिमन्त्रणेत्यादिपाणिनिसूत्रे लिङ्गाद्यर्थत्वेनोक्तो विधिरिष्टसाधनत्वं न भवतीत्यर्थः । येन तज्ज्ञानं प्रवर्तकमिति भावः । विध्यर्थेनेति बहुव्रीहिः । अभिहितत्वेन कथितत्वेनेत्यर्थः ॥ अनभिहिताधिकारेति ॥ द्वितीयस्य तृतीयपादे २‘‘अनभिहित’’ इत्यधिकारसूत्रम् । तिङ्कृत्तद्धितसमासैरकथित इत्यर्थकानभिहिताधि-कारेऽनभिहित इत्यनुवृत्तिप्रकरणे ३‘‘कर्तृकरणयोस्तृतीया’’ इति सूत्रेण तिङाद्यनभिहितकर्तरि करणे च तृतीया भवतीति विहिततृतीया न स्यात् । ‘‘उद्भिदा यजेत पशुकाम’’ इति पशुरूपेष्टसाधनत्वस्य यागनिष्ठत्वेन तस्य यागान्वितस्य यजेतेति तिङाऽभिहितत्वात् । उद्भिदेत्युपपदस्य चाद्याध्याय- चतुर्थपादीयोद्भिदधिकरणन्यायेन यागनामत्वेन यागनिष्ठकरणत्व-स्यैवोद्भित्पदगततृतीयाऽर्थत्वादिति भावः ।

॥ तद्विशेषस्येति ॥ १‘‘साधकतमं करणं’’ इति पाणिनिस्मृत्याऽति-शयितसाधनत्वरूपसाधनत्वविशेषस्य करणत्वात्तस्यैव च तृतीयार्थत्वा-दस्माभिश्चेष्टसाधनत्वस्यैव विधित्वाङ्गीकारेण इष्टकरणत्वस्य विधित्वानङ्गी-कारात् । तथा चोद्भिद्याग इष्टसाधनं करणकारकं चेति लिङ्तृतीया-विभक्तिभ्यामर्थो लभ्यत इति भावः ।

ननु करणत्वेनोद्भिदादियागस्य लिङाऽनभिधानेऽपि साधनत्वेना-प्यभिहितत्वात्कथं तृतीयेत्यतः साधनत्वेनाप्यभिधानमुद्भिदादेर्विशेषस्य नेत्याह ॥ लिङेति ॥

यद्वा लिङा करणत्वाभिधानेपि तृतीयालभ्यकरणत्वस्याभिधानं नास्त्ये-वेत्याह ॥ लिङेति ॥ उपपदान्वयात्पूर्वमेव लिङर्थान्वये हेतुरन्तरङ्गेति । तत्र हेतुः स्वप्रकृतीति । अन्विताभिधानवादेपि सामान्यत एवेतरान्वित-स्वार्थबोधकत्वेन विशिष्येतरान्वितस्वार्थाभिधानस्य पदान्तरसमभि-व्याहारकृतत्वादिति भावः ।

एतेन लिङैव साधनबोधनाद् उद्भिदेति तृतीया व्यर्था शब्दसाधुत्व-मात्रार्था वेति निरस्तम् । लिङनुक्तकरणत्वार्थकत्वेन वोद्भित्प्राति-पदिकार्थगतकरणत्वार्थकत्वेन वा तृतीयायाः सार्थक्यसम्भवात् ॥

यत्तु साधनत्वसामान्यमुखेन यागसाधनत्वसामान्यमुखेन वोद्भिद्रूप-यागविशेषस्य करणकारकस्य अभिधानाद् अनभिहिताधिकारोक्ततृतीया न युक्तेति रुचिदत्ताद्युक्तम् । तन्न । यथाकथञ्चिदभिहितत्वेन तृतीयाया अयोगे कटं कुर्यादित्यादाविष्टसाधनत्वस्य लिङर्थत्वे इष्टत्वेन कटस्याप्यभिहितत्वेन द्वितीयाऽनुपपत्त्यापत्तेः । तेन रूपेणाभिहितत्वस्यैव द्वितीयादिभञ्जकत्वे प्रकृतेऽपि साम्यात् ॥

यत्तु कर्तृकरणगतसङ्ख्यायास् तिङादिनाऽनभिधाने तृतीया भवति । अभिधाने तु न भवतीति पाणिनीयसूत्रार्थः । इह च करणगतसङ्ख्याया अनभिधानाद्भवति तृतीयेति पक्षधरादिमतम् । तन्न । कर्तृकर्मणो-राख्यातार्थत्वसमर्थनवादे कर्त्रादिगतसङ्ख्यामात्राभिधायित्वस्य निरसिष्यमाण-त्वादिति ॥

यत्तु मणौ विधिवादान्त्यभागे नव्यास्त्वित्यतः पूर्वं वस्तुतस्त्वभि-हितान्वयलभ्यं यागेष्टसाधनत्वम् । इष्टसाधनत्वमात्रस्य लिङर्थत्वादिति समाधानमुक्तं तदाह ॥ केचित्त्विति ॥ इह च यागस्य धातुलभ्यत्वाद्यागेष्ट-साधनत्वयोराधाराधेयभावस्य च प्रकृतिप्रत्ययस्य समभिव्याहारबलेन संसर्गमर्यादया भानोपपत्त्या तत्राभिधानवृत्तेर्गौरवेण केवलेष्टसाधनत्वस्यैव लिङाभिधानमिति भावः ॥

अत्रारुचिबीजं तु प्रागेवान्विताभिधानस्यान्वयाशक्यत्वेऽशाब्दत्वाद्यापत्ते-रुपपादितत्वेन तत्राभिधावृत्तेरेव वाच्यत्वात्त्वन्मतेऽपि वाक्यार्थरूपसंसर्गस्या- १शक्यत्वेऽपि तत्प्रतिपादनं लिङादेरस्त्येवेति ध्येयम् ।


ननु तथाऽपि नेष्टसाधनत्वं विधिः

तर्कताण्डवं

ननु तथाऽपि नेष्टसाधनत्वं विधिः । कुत इदं कर्तव्यमिति प्रश्ने इष्टसाधनत्वादितीष्टसाधनत्वस्य कर्तव्यत्वे हेतूकरणात् ।

‘‘तरति मृत्युं तरति ब्रह्महत्यां योऽश्वमेधेन यजेत’’

इत्यर्थवादेनेष्टसाधनत्वे बुद्धेऽपि विधिप्रत्ययानुमानाच्च । इष्टसाधनत्वबोधानन्तरं कर्मकाले प्रयुक्ताभ्यां कुर्याः कुर्यामिति मध्यमोत्तमपुरुषाभ्यां सम्बोध्यकर्तृकस्वात्मकर्तृकक्रियाविषय-योरभिप्राययोरेव प्रतीतेश्च ।

इच्छाविशेषरूपामन्त्रणाद्यर्थके लिङादाविच्छावाचित्वस्य कप्तत्वाच्च । इष्टसाधनत्वार्थकत्वे मानान्तरविरोधेन ‘‘न कलञ्जं भक्षयेत्’’ इत्यादौ तन्निषेधानुपपत्तेश्च ।

तदुक्तं कुसुमाञ्जलौ

‘‘हेतुत्वादनुमानाच्च मध्यमादौ १वियोगतः ।

अन्यत्र कप्तसामर्थ्यान्निषेधानुपपत्तितः’’

इति । तस्मादुक्तबाधकपञ्चकेनेष्टसाधनत्वार्थकत्वस्यायोगाद् वक्त्रभिप्रायरूपविध्यर्थक एव लिङादिरिति ॥

न्यायदीपः

वक्त्त्रभिप्राय एव लिङाद्यर्थ इत्युदयनमतं ‘‘आचार्यास्तु’’ इत्यादिना विधिवादान्ते मणिकृदनूदितमाशङ्कते ॥ नन्विति ॥ हेतुत्वादित्यादि-वक्ष्यमाणश्लोकस्थपञ्चहेतून् कुसुमाञ्जलिवर्धमानाभ्यामुक्तरीत्या निष्कृष्टार्थोक्त्या विवृणोति ॥ कुत इदमित्यादिना ॥ लिङ्लोट्तव्यादिनैवेष्टोपायत्वावगतौ हैतूक्तिर्व्यर्थेति । आप्ताभिप्रायस्य लिङाद्यर्थत्वेनेदं कर्तव्यमित्यस्य ममैतत्करणानुकूलेच्छा वक्तुरस्तीत्यर्थः स्यात् । तत्र च कुत इत्याकाङ्क्षायां २मदिष्टसाधनत्वादिति हेतुरर्थवानिति भावः ।

॥ इष्टसाधनत्व इति ॥ अश्वमेधयागस्य ब्रह्महत्यातरणरूपेष्ट-साधनत्वेऽवगतेप्यर्थवादाधिकरणे विध्यर्थवादयोरविनाभावस्य सिद्धतयाऽत्रार्थ-वादेन लिङादिविधिप्रत्ययानुमानादिति वा इष्टोपायत्वस्य विधिव्याप्यत्वात्तेन तदनुमानादिति वाऽर्थः । लिङादिनेष्टसाधनत्वबोधने ब्रह्महत्यातरण-कामाऽश्वमेधेन यजेतेति विध्यनुमानं व्यर्थं स्यात् । आप्ताभिप्रायत्वे त्वश्व-मेधादेर्मदिष्टसाधनत्वान्मत्प्रवृत्त्यनुकूलेच्छा आप्तस्यास्तीत्यनुमानभेदाददोष इति भावः ।

मध्यमेत्यादितृतीयहेतुं व्यनक्ति ॥ इष्टेति ॥ तवेदमिष्टसाधनमतः कुर्या ममेदमिष्टसाधनमतः कुर्यामिति मध्यमोत्तमपुरुषसञ्ज्ञिकाभ्यां लिङादेश-प्रत्ययाभ्यां कर्तृद्वयनिष्ठक्रियाविषययोः सङ्कल्पापरपर्यायाभिप्राययोरवगमे तत्रेष्टसाधनत्वार्थकत्वविरहादन्यत्रापि लिङ्लोडादेराप्ताभिप्राय एवार्थो वाच्य इति भावः ॥

अन्यत्र कप्तसामर्थ्यादिति हेतुं व्यनक्ति ॥ इच्छेति ॥ ‘‘विधि-निमन्त्रणामन्त्रणाधीष्टसम्प््राश्नप्रार्थनेषु लिङ्, लोट्च, आशिषि लिङ्गलोटौ’’ इति पाणिनिसूत्रोक्तदिशा इच्छाविशेषरूपो य आमन्त्रणाध्येषणादि-स्तदर्थवाचित्वस्य कप्तत्वात् । तदन्यत्रापि वक्त्रभिप्राय एव लिङाद्यर्थो नेष्टसाधनत्वमिति भावः । अपौनरुक्त्यायेच्छाविशेषेत्युक्तम् । विध्यादेः सर्वत्रेच्छारूपत्वेऽपि अवान्तरभेदः कुसुमाञ्जलावेव व्यक्तः ।

अन्तिमहेतुं व्यनक्ति ॥ इष्टेति ॥ लिङादेरिति योज्यम् ॥ मानान्त-रेति ॥ कलञ्जनामकमूलविशेषभक्षणमिष्टसाधनं नेत्यर्थः । आप्ताभिप्रायार्थत्वे तु मम कलञ्जभक्षणकरणेच्छाप्तस्य नास्तीत्यर्थकत्वाददोषः । स चाप्तो वेदे भगवानीश्वर एवेति भावः ।

॥ तदुक्तमिति ॥ पञ्चमस्तबकान्त्यभागे ॥ हेतुत्वात् ॥ कर्तव्यत्वे ॥ अनुमानाच्चेति ॥ विधेरिति शेषः ॥ मध्यमेति ॥ मध्यमोत्तमपुरुषलिङ इष्टसाधनतावियोगादित्यर्थः ॥ अन्यत्रेति ॥ इच्छाविशेषरूपे आमन्त्रणाध्येषणादौ लिङः कप्तशक्तित्वादित्यर्थः । ‘‘न कलञ्जं भक्षयेत्’’ इत्यादौ निषेधानुपपत्तित इत्यर्थः ।