किञ्च स्थूलमुत्पन्नं, स्थूलं नष्टं..
अथ अनुगतजातौ बाधकम् ।
भिन्नाश्च भिन्नधर्माश्च पदार्था अखिला अपि
इष्ट-साधनत्वज्ञानमेव प्रवर्तकम्
तर्कताण्डवं
किञ्च स्थूलमुत्पन्नं, स्थूलं नष्टं, नीलमुत्पन्नं नीलं नष्टमितिवद्घट उत्पन्नो घटोनष्ट इत्यनुभवा१त्प्रत्यक्षावेव जात्युत्पत्तिविनाशौ ॥
न च विशिष्टोत्पत्त्यादिविषयेयं धीर्विशेष्यव्यक्तिमात्रोत्पत्त्यादि-नाऽपि युक्तेति वाच्यम् । वैपरीत्यस्यापि सुवचत्वात् । स्थूलमुत्पन्न-मित्यादिबुद्धेरपि तथात्वापाताच्च ।
न्यायदीपः
नन्वस्त्वेवं स्वर्णघटाद्युक्तस्थचतुष्टयेऽनुगतधर्माभावेनानन्यगत्याऽ-ननुगतधर्मैरेव शक्त्यादिग्रहोऽन्यत्र गवादावनुगतगोत्वदिसम्भवे तेनैव शक्त्यादिग्रहोऽस्तु । तत्रानन्यगतिकत्वाभावादित्यतस् तत्रापि त्वदभिमत-नित्यैकानुगतधर्मो नास्त्येव । प्रमाणबाधात्, साधकमानाभावाच्चेति भावेन–
कुतो भस्मत्वमाप्तस्य नरत्वं पुनरिष्यते ।
एकत्वे नास्ति मानं च . . . ॥
इत्यादिवैशेषिकनयानुव्याख्याने सुधावाक्यानि हृदि कृत्वा जातिविशिष्ट-वस्तूत्पत्तिनाशागोचरप्रत्यक्षेण समवाय्युत्पत्तिनाशादियुक्त्या जातेरुत्पत्तिनाश-बोधकागमेन जातिमात्रोत्पत्त्यादिग्राहिप्रत्यक्षेण श्रुत्या च जातेर्नित्यत्वादिक-मपाकुर्वन्नादौ तावद्विशिष्टप्रत्यक्षेण जातेरनित्यत्वमाह ॥ किं चेत्यादिना ॥ परिमाणस्य नीलरूपस्य चोत्पत्तिविनाशप्रत्ययाकाराभिनयोऽयं स्थूलमित्यादि ॥ इत्यनुभवादिति ॥ अस्य च १घटपटत्वादिजातिव्यक्त्युभयविषयकत्वा-त्प्रत्यक्षावेव जात्युत्पत्तिविनाशावित्युक्तम् ॥
ननु– जातिविशिष्टव्यक्तिविषयकोऽयमनुभवो न घटघटत्वोभयविषयकः । घटघटत्वे उत्पन्ने इत्युभयोत्पत्तिनाशाविषयीकरणात् । तथा चा२न्यथा-सिद्धोस्त्विति शङ्कते ॥ न चेति ॥ किमन्यतरमात्रविषयत्वेनोपपत्तौ उभयविषयकत्वे कल्पनागौरवादेवं कल्प्यते, अथ दण्डी नास्तीत्यादाविव विशेषणे बाधात् । आद्य आह ॥ वैपरीत्यस्यापीति ॥ जातिमात्रो-त्पत्त्यादिनेत्यस्यापीत्यर्थः । लाघवस्यैवमपि सम्भवात् । प्रत्युत एतदेव युक्तम् । विशेष्यं नाभिगच्छेत् क्षीणशक्तिर्विशेषणे इति न्यायादिति भावेनोक्तम् ॥ सुवचत्वादिति ॥ ननु प्राधान्याद्विशेष्यविषियत्वमेवोत्पत्त्यादिबुद्धेर्युक्तम् । न तु गुणभूतधर्मपरत्वमित्यत आह ॥ स्थूलमिति ॥ तथात्वेति ॥ विशेष्योत्पत्तिपरत्वे
किं च यथा द्रव्ये सत्येव पाकेन नीलरक्तरूपयोर्नाशोत्पादौ ..
तर्कताण्डवं
किं च यथा द्रव्ये सत्येव पाकेन नीलरक्तरूपयोर्नाशोत्पादौ तथा द्रव्ये सत्येवौषधादिना ताम्रत्वरजतत्वयोरपि तौ दृश्येते । न च पुरुषे नष्टेऽपि दण्डवद्व्यक्तौ१ नष्टायामपि तत्रैव प्रदेशे जातिरनुभूयते । येनोत्पत्त्यादिधीर्विशेष्योत्पत्त्यादिमात्रविषया स्यात् । व्यक्त्यन्तरेऽनु-भवस्तु परिमाणादावप्यस्ति । व्यञ्जकव्यक्तेरभावात्तत्र जातेरननुभव-कल्पनं तु परिमाणादावपि समम् । न चाद्यापि जातेर्नित्यत्वं सिद्धम् । येन परिमाणादितो वैषम्यं स्यात् । तदेवेदं गोत्वमिति प्रत्यभिज्ञाया अभावात् । अयं गौरयमपि च गौरिति धीस्त्वयं स्थलोऽयमपि च स्थूल इति धीवत्सादृश्यविषया ॥
न्यायदीपः
ननु सत्येव द्रव्ये नीलादिगुणस्य निवृत्तिदर्शनान्न तत्र तथात्वापातो युक्त इत्यत आह ॥ किं चेति ॥ विशेष्योत्पत्तिपरत्वेत्यर्थः ।
ननु सत्येव द्रव्ये नीलादिगुणस्य निवृत्तिदर्शनान्न तत्र तथात्वापातो युक्त इत्यत आह ॥ किं चेति ॥ पीलुपाकप्रक्रियाया अप्रमाणकत्वा-द्वक्ष्यमाणप्रत्यभिज्ञाप्रमाणविरुद्धत्वात्, सुधायां जातिनिरासप्रस्ताव एव दूषितत्वाच्च, पिठरपाकप्रक्रियैवोपेयेति भावेनोक्तम् ॥ द्रव्येसत्येवेति ॥ द्वितीयेपि किं व्यक्तिनाशस्थीयजात्यनुभवो वा बाधकउत व्यक्त्यन्तरे तदनुभवो वा । आद्यं निराह ॥ न चेति ॥ द्वितीयं निराह ॥ व्यक्त्यन्तर इति ॥ ननु– व्यक्तिनाशप्रदेशे जातेः सत्त्वेऽपि व्यञ्जकाभावादननु-भवोऽस्त्वित्यत आह ॥ व्यञ्जकेति ॥
ननु– परिमाणादौ नित्यत्वासिद्ध्याऽनुपलम्भस्य व्यञ्जकाभावप्रयुक्तत्व-कल्पनं निर्बीजम् । जातौ तु नैवमित्यत आह ॥ न चाद्यापीति ॥ ननु प्रत्यभिज्ञया अनुगतमत्या वा जातेर्नित्यत्वं सिद्धमित्यतः प्रत्यभिज्ञानस्य स्वरूपतः प्रमाणत्वेन च सन्दिग्धत्वादित्यादिसुधोक्तं व्यञ्जयन्नाह ॥ तदेवेदमिति ॥