किं च त्वन्मतेऽपि..
अथ स्वर्णघटत्वादिप्रतिबन्दी
**अननुगतजातेरपि प्रवृत्तिनिमित्तत्वं युक्तम् **
तर्कताण्डवं
किं च त्वन्मतेऽपि– सुवर्णघटादौ तेजस्त्वादिना सङ्करापत्त्या घटत्वादिजातिः पृथिवीत्वादिव्याप्या नानैव । तारत्वादिजातिरपि कत्वादिजात्या चैत्रजत्वजात्या सङ्करापत्त्या गत्वादिव्याप्या नानैव । उद्भूतत्वजातिरपि नीलत्वादिना सङ्करापत्त्या शुक्लत्वादिव्याप्या नानैव ।
एवञ्च यथा तत्र घटत्वादीनां नानात्वेऽपि घटादिशब्दव्युत्पत्तिः, घटस्य कपालं प्रतिव्याप्यता, जलाहरणादिकारणता, घटाकारानुगत-प्रत्ययश्च; तथा गोत्वानां नानात्वेऽपि व्युत्पत्त्यादिकं किं न स्यात् ॥
न्यायदीपः
परसम्मत्याऽप्यननुगतधर्मेण शक्तिग्रहमुपपादयितुमुपोद्धातमाह ॥ किं च त्वन्मत इति ॥ नानैवेत्येतैरन्वयः ॥ सङ्करेति ॥ परस्परपरिहारेण वर्तमानयोरेकत्र समावेशः सङ्करः । इह च तेजस्त्वपरिहारेण मृद्घटे सतो घटत्वस्य घटत्वपरिहारेणालोकादौ सतस्तेजस्त्वस्य स्वर्णघटे समावेशात् स्वर्णस्य च परमते तेजस्त्वादतः साङ्कर्यदोषनिरासाय नानैवोपेया । तथा च तेजस्त्वादिव्याप्यस्य घटत्वस्य तेजस्त्वादिपरिहारेणान्यत्रावर्तमानत्वान्न साङ्कर्यम् । स्वर्णघटादौ तेजस्त्वादिपरिहारेणान्यत्रावर्तमानत्वान्न साङ्कर्यम् । स्वर्णघटादौ घटत्वादिजातिर्नेति मतेनाह ॥ तारत्वेति ॥ तारत्वकत्वयो-स्तारगकारे मन्दककारे च सतोस्तारककारे समावेशात्साङ्कर्यम् ॥ चैत्रज-त्वेति ॥ चैत्रजन्यतावच्छेदकजात्येत्यर्थः । तारत्वचैत्रजन्यतावच्छेदक-जात्योर् मैत्रीयतारककारे चैत्रकृतकटादौ च सतोश्चैत्रजन्यतारककारे समावेशा-त्साङ्कर्यं स्यात्तन्निरासाय नानैव वाच्या । एवमुद्भूतत्वनीलत्वयोः शुक्लरूपानु-द्भूतनीलरूपयोः सतोरुद्भूतनीलरूपे घटादिनिष्ठे समावेशेन साङ्गर्यनिरासाय नानैव वाच्येत्यर्थः ।
अस्तु किं तत इत्यत आह ॥ एवं चेति ॥ नानात्वे सतीत्यर्थः ॥ घटादिशब्दव्युत्पत्तिरिति ॥ मृद्घटादौ स्वर्णघटादौ चेत्यर्थः ॥ व्याप्यतेति ॥ यो घटः स कपालाश्रित इति व्याप्यतेत्यर्थः । मृद्घटादौ स्वर्णघटादौ चेति चतुर्ष्वपि सम्बध्यते । आदिपदेन तारादिशब्द-व्युत्पत्तिग्रहः ॥
न च घटत्वं संस्थानरूपावयवसंयोगवृत्तीति ..
तर्कताण्डवं
न च घटत्वं संस्थानरूपावयवसंयोगवृत्तीति न सङ्कर इति वाच्यम् । अन्यतरकर्मादिप्रयोज्यजात्या सङ्करापातात् । स्थूलो घटश्चलतीति घटत्वस्य परिमाणकर्मादिसामानाधिकरण्यप्रतीतेश्च ॥
यदि च तारत्वादीनां सजातीयसाक्षात्कारप्रतिबन्धकता-वच्छेदकशब्दवृत्तिजातित्वेनानुगमस्तर्हीहापि गोत्वानामनुगतसादृश्य-सम्बन्धित्वेनानुगमोस्तु ॥
अपि च त्वन्मते यथा ज्ञेयत्वाभिधेयत्वमूर्तत्वकार्यत्वस्वरूपत्व-जातित्वादीनामननुगमेपि ज्ञेयाभिधेयादिशब्दव्युत्पत्तिस्तत्तदुचित-व्याप्त्यादिग्रहश्च, तथाऽत्रापि किं न स्यात् ।
न च ज्ञेयत्वादीन्यप्यनुगतानि । जातित्वापत्तेः । नचेष्टापत्तिः । सामान्यादावपि वृत्तेः ॥
न्यायदीपः
ननु– घटत्वं पृथिव्यात्मकेषु घटेष्वेकमेव । स्वर्णघटेष्वपि सर्वत्रैकमेव । गोत्वादि तु त्वन्मते बहु । एवं च घटत्वबहुत्वाभावान्न दोष इति चेन्न । अननुगतत्वे समानेऽस्य वैषम्यस्याप्रयोजकत्वात् । तारत्वादीनां बहुत्वेन तारादिशब्दव्युत्पत्त्याद्यभावापातस्यापरिहाराच्च । एकदेशिमतेन शङ्कते ॥ न च घटत्वमिति ॥ न सङ्कर इति ॥ तेजस्त्वादिनैकत्राधिकरणे समावेशाभावादिति भावः ॥ अन्यतरेति ॥ संयोगो हि न्यायमतेऽन्यतर-कर्मजोभयकर्मजसंयोगजभेदेन त्रिविध इति कारणत्वत्रयजन्यतावच्छेदक-जातयोऽपि संयोगे तृणारणिमणिन्यायेन तिस्रोऽङ्गीकार्याः । तथा चान्यतर-कर्मप्रयोज्या जातिर्घटत्वप्रहाणेन श्येनस्थाणुसंयोगेस्ति । घटत्वमपि तत्प्रहाणेन कपालद्वयकर्मजन्यसंयोगेस्ति । उभयमप्यन्यतरकपालकर्मजन्य-कपालान्तरसंयोगेस्तीति साङ्कर्यम् । एवमुभयकर्मप्रयोज्यजात्यादिनाऽपि साङ्कर्यं ध्येयम् । द्रव्यनिष्ठत्वावगाहिप्रत्यक्षबाधं चाह ॥ स्थूल इति ॥ यदपि तारत्वं नानेति तारादिशब्दव्युत्पत्त्यादिर्न स्यादित्यादिपदप्रयोगेनाभिमतं तत्रानुगतिमाशङ्क्याह ॥ यदि चेति ॥ सजातीयेति ॥ व्याख्यात-मेतच्छब्दनित्यत्ववादे ॥ अनुगतेति ॥ प्रागुक्तदिशानुगतं धर्मिप्रतियोगितया सर्वत्र विद्यमानं सादृश्यसम्बन्धित्वमित्यर्थः ॥
ननु सादृश्यान्यपि नानासम्बन्धित्वान्यपि तथैव, शब्दानुगममात्रस्याति-प्रसञ्जकत्वादिति भावेनाह ॥ अपि चेति ॥ मूर्तत्वमियत्तावच्छिन्न-परिमाणवत्त्वम् । कार्यत्वं कृतिविषयत्वम् ॥ तत्तदुचितेति ॥ यज्ज्ञेयं तत्सत्, तत्प्रमेयमित्यादि तत्तदुचितेत्यर्थः ॥ अत्रापीति ॥ गोत्वानामननु-गमेऽपि गवादिशब्दव्युत्पत्त्यादीत्यर्थः ।