०१ सादृश्येनैव शक्तिव्याप्त्यादिग्रहणम्

ननु त्वन्मते सर्वगोव्यक्तिसङ्ग्राहकस्य ..

अथ अनुगतजात्यभावेपि शक्तिव्याप्त्यादिग्रहणसमर्थनम् ।

सादृश्येनैव शक्तिव्याप्त्यादिग्रहणं

तर्कताण्डवं

ननु त्वन्मते सर्वगोव्यक्तिसङ्ग्राहकस्य शक्यतावच्छेदकस्यैकस्य गोत्वस्याभावेन शक्तिग्रहकाले सर्वगोवव्यक्युपस्थित्यसम्भवात् कथं गोशब्दस्य सर्वगोव्यक्युपसंहारेण शक्तिग्रहः । तद्ग्रहे च कथं गोशब्दादपूर्वगोव्यक्तिधीः । एवं सर्वधूमाग्निसङ् ग्राहकयोर्व्याप्यत्व-व्यापकतावच्छेदकयोर्धूमत्वाग्नित्वयोः कार्यत्वकारणत्वावच्छेदकयो-रनुगतयोर् घटत्वदण्डत्वयोश्च अभावे कथं सर्वोपसंहारेण व्याप्तेः कार्यकारणभावस्य च ग्रहः । कथं च कारणाकारणविभागः । व्यक्त्यपेक्षया नियतत्वस्य रासभेऽपि सत्त्वाज्जात्यपेक्षया नियमस्य त्वन्मते दण्डादावप्यभावात् ॥

न्यायदीपः

एवं शक्तिस्वरूपं निरूप्यावसरप्राप्तं तद् ग्रहप्रकारं–

‘‘इति व्युत्पत्तिरपि हि सादृश्येनैव गम्यते’’ ।

इत्यादिवैशेषिकाधिकरणानुव्याख्यानसुधयोः ‘‘समयप्रवृत्तौ तु सादृश्य-मुपधान’’मिति पद्धतौ चोक्तं समर्थयमानः सुधोक्तं पूर्वपक्षं सङ्क्षिप्यानुवदति ॥ ननु त्वन्मत इति ॥ अभावेनेति ॥ आगामिभङ्गे वक्ष्यमाणदिशेति भावः । अनुगतजातिपक्षे तु पुरोवर्तिचक्षुः संयुक्तघटादौ प्रत्यक्षावगतं घटत्वं प्रत्यासत्तीभूय स्वाश्रयभूतसमस्तघटव्यक्तीः प्रत्यक्षज्ञाने भासयतीति युगपदुप-स्थितानन्तव्यक्तिषु शक्तिग्रहः सुशक इति भावः । तुल्यन्यायविषयत्वादाह ॥ एवमिति ॥ व्याप्यत्वावच्छेदकव्यापकत्वावच्छेदकयोरित्यर्थः । धूमत्वाग्नित्वयोरित्यनन्तरम् एवमित्यनुषङ्गः ॥ सर्वोपसंहारेणेति ॥ सर्वेषां युगपदेकबुद्धिस्थत्वं सर्वोपसंहारः । तेन च धूमवह्निघटदण्डरूपसर्वव्यक्ति-निष्ठव्यापकभावग्रहः कार्यकारणभावग्रहो भवति स कथमित्यर्थः ।

मास्तु को दोषः पुरोवर्तिनोरेव व्याप्यादिभावग्रहोस्त्वित्यत आह ॥ कथं चेति ॥ उपलक्षणमेतत् । व्याप्याव्याप्यविभागश्च कथमित्यपि ध्येयम् । कार्यकारणविभागायोगं व्यनक्ति ॥ व्यक्तीति ॥ नियतपूर्ववृत्ति-त्वादिना हि कारणत्वादिकं वाच्यम् । तत्र नियमश्च दण्डे सति घटस् तदभावे तदभाव इति वाच्यः । स च दण्डघटरूपव्यक्तिमादाय चेत्तदा कस्मिंश्चिद् घटे जायमाने यत्र रासभोऽपि सन्निहितस्तत्र रासभे सति घट इत्यस्ति नियम इति रासभस्यापि कारणत्वग्रहः स्यात् ।

अथ– दण्डत्वावच्छिन्ने सति घटत्वावच्छिन्नमित्येवं नियमस्तु सिद्धान्तिनो मते न युक्तः । अनुगतदण्डत्वादेरभावात् । एवं व्याप्यत्वादि ग्रहेऽपि ज्ञेयम् । तथा च दण्डान्तरादौ कारणत्वाद्यग्रहेऽपि कारणत्वादि-स्वीकारे रासभादेरपि स्वीकारापत्तेः कारणाकारणादिविभागो न स्यादित्यर्थः ।


किं च क्रियावत्त्वं न द्रव्यलक्षणम् अव्याप्तेः..

तर्कताण्डवं

किं च क्रियावत्त्वं न द्रव्यलक्षणम् अव्याप्तेः, न सत्त्वाश्रयत्वम् अतिव्याप्तेरित्यादिव्यवस्था न स्यात् । तत्तद्व्यक्तिमात्रविश्रान्त-द्रव्यत्वावच्छिन्नस्यैव लक्ष्यत्वात्तत्रच तत्तद्व्यक्तिनिष्ठायाः क्रियायाः सत्त्वेन लक्ष्यासङ् ग्रहरूपाया अव्याप्तेर् द्रव्यादिव्यक्तिषु प्रत्येकं विश्रान्तायाः सत्ताया गुणकर्माद्यवृत्तित्वेन लक्ष्यातिरिक्तसङ् ग्रहरूपाया अतिव्याप्तेश्चाभावात् । तस्मादनुगतजात्यनङ्गीकारे सर्वव्यवहारविलोपः स्यादिति ॥

उच्यते ।

अनुगतजातेरभावे किं शक्यव्याप्यादिरूपसर्वव्यक्त्युपस्थितिरेव न सम्भवतीत्युच्यते, किं वा तत्सम्भवेऽपि क्रोडीकारकस्यैकस्य गोत्वधूमत्वादेरभावे सर्वगोव्यक्त्याद्युपसंहारेण शक्तिव्याप्त्यादिग्रहो न सम्भवतीति ।

नाद्यः । त्वन्मते सामान्यप्रत्यासत्तिभूतेन शक्यत्वव्याप्यत्वा-वच्छेदकेनैकेन गोत्वेनेव मन्मतेप्युपदेशव्यवहारभूयोदर्शनादिना शक्तिव्याप्यादिग्रहकाले उपस्थितगवादिव्यक्तिविशेषधर्मिकेणातीता-नागतगवादिसकलव्यक्तिप्रतियोगिकेनैकेन सादृश्येनातीतानागतसकल-शक्यव्याप्यादिव्यक्तीनामुपस्थितिसम्भवात् ।

इयांस्तु भेदः । त्वन्मते जातिरतीताद्याश्रिता, मन्मते तु सादृश्यं ध्वंसादिवत्प्रतियोगित्वेन तत्तत्सम्बद्धमिति ।

युक्तं च तदनाश्रितत्वेऽपि संस्कारवत्प्रत्यासत्तित्वेन तदुप-स्थापकत्वम् । प्रत्युत त्वन्मते एवातीतादेरसत्त्वाज् जात्याश्रयत्व-मयुक्तम् ॥

न्यायदीपः

अनुगतजात्याभावे दोषान्तरमाह पूर्ववादी ॥ किं चेति ॥ गगनादाव-भावादाह ॥ अव्याप्तेरिति ॥ गुणकर्मादावपि भावादाह ॥ अतिव्याप्ते-रिति ॥ इत्यादीत्यादिपदेन द्रव्यत्वपृथिवीत्वादेः सामान्यविशेषव्यवस्था न स्यादिति, केचिच्छब्दा एकैकार्थाः केचित्त्वक्षादिशब्दा नानार्था इत्यादि-व्यवस्था न स्यादिति गृह्यते । एकानेकप्रवृत्तिनिमित्तकत्वादेकार्थकत्वादेरिति भावः । कुतो न स्यादित्यतः क्रमेण व्यनक्ति ॥ तत्तदिति ॥ अव्याप्तेरिति ॥ अभावादित्यन्वयः ।

॥ व्याप्त्यादीति ॥ कारणमादिपदार्थः । भूयो दर्शनादिनेत्यादिपदं पूर्वेणाप्यन्वेति । इयं गौरिति व्यक्तिविशेष उपदेशेन गामानयेत्यादि-वृद्धव्यवहारेण तत्रान्वितादिपदोपपत्तावुपमानकोशादिना शक्तिग्रहकाले भूयोदर्शनेन व्याप्तिग्रहकाले अन्वयव्यतिरेकदर्शनेन कारणत्वग्रहकाल इत्यर्थः ॥ सादृश्येनेति ॥ सादृश्यं च पदार्थान्तरम् । न त्वनुगतजातिघटित-मूर्तिकमिति भावः । व्याप्त्यादीत्यादिपदेन कारणव्यक्तिग्रहः । उप-स्थापकतायामविशेषद्योतनायाह ॥ इयांस्तु भेद इति ॥ इयानेव भेद इत्यर्थः । अतीतादेः कथं प्रतियोगित्वं नाम धर्मः । आश्रयाभावादित्यत उक्तम् ॥ ध्वंसादिवदिति ॥ प्रागभाव आदिपदार्थः । तथात्वे ध्वंसादेरपि तत्प्रतियोगिकत्वं न स्यादिति भावः ।

नन्वतीताद्यनाश्रितं पुरोवर्तिमात्राश्रितं सादृश्यं कथमतीताद्युपस्थापये-दित्यत आह ॥ युक्तं चेति ॥ संस्कारवदिति ॥ प्रत्यभिज्ञायां चन्दन-खण्ड इत्याद्युपनीतभानादौ च संस्कारस्यान्तः करणाद्याश्रितस्यापि यथा चक्षुरादिप्रत्यासत्तित्वं तथेत्यर्थः । एतच्च स्वमतावष्टम्भेनोक्तम् । परमते तु ज्ञानवदिति बोध्यम् । आत्मसमवेतस्यापि तत्तादिस्मृतिरूपज्ञानस्य प्रत्यभिज्ञादौ चक्षुरादिप्रत्यासत्तित्वं तथेति ध्येयम् । सामान्यप्रत्यासत्तिपक्ष एवोपस्थितिर्दुर्घटेत्याह ॥ प्रत्युतेति ॥