तस्माद्व्यक्तय एव वाच्याः
अथ स्वमते पदशक्तिनिर्णयः ।
व्यक्तय एव वाच्याः
तर्कताण्डवं
तस्माद्व्यक्तय एव वाच्याः । जात्यादिकं तु प्रत्येकं तेषु तेषु शब्देषु प्रवृत्तिनिमित्तम् । उक्तं हि सुधायाम् । ‘‘ते ते व्यावृत्ताकारा एव तैस्तैर्व्यावृत्तैर्द्रव्यगुणकर्मसामान्यैर्निमित्तैस् तत्तच्छब्दवाच्याः’’ इति । न च गोत्वस्य प्रवृत्तिनिमित्तत्वे शक्यतावच्छेदकत्वेन पृथिवी-शब्देन गन्धवत्त्वस्येवाशक्यत्वं स्यात् । ततश्च गोशब्दजन्यधीविषयत्वं न स्यादिति शङ्क्यम् ।
अवच्छेदकं हि द्विविधम् । एकं सत्तया । यथा पृथिवीत्व-जातिनिमित्तके पृथिवीशब्दे गन्धवत्त्वम् । तस्य पृथिवीशब्दशक्यतया समनियतत्वेऽपि गन्धवत्तयाऽ२ज्ञात एव पृथिवीशब्दशक्तेर्ग्रहात् ।
अपरं ज्ञाततया । यथा गोत्वजातिनिमित्तके गोशब्दे गोत्वम् । गोत्ववत्तया ज्ञात एव गोशब्दशक्तिग्रहात् ।
तत्राद्यं न प्रवृत्तिनिमित्तम् । किं तु द्वितीयम् । तच्च शक्यमेव । यो ह्येतच्छब्दनिष्ठशक्तेरयं विषय इति ज्ञाने शक्तिं प्रति विषयतया भासते स एव शक्यः । शक्तिं प्रति विषयतया भानं च विशेष्य-रूपायां व्यक्ताविव विशेषणभूते गोत्वेऽप्यस्त्येव । तथा च कथं शक्यत्वव्याप्येन प्रवृत्तिनिमित्तत्वेन अशक्यत्वापादनम् । युक्तं च घटादिसाक्षात्कारजनकतावच्छेदकस्याप्युद्भूतरूपस्य तज्जनकत्व-वद्घटोऽयमिति ज्ञानं प्रति घटनिष्ठविषयतावच्छेदकस्यापि घटत्वस्य तद्विषयत्ववच्च शक्यतावच्छेदकस्यापि शक्यत्वम् । शक्यत्वाविशेषेपीदं प्रवृत्तिनिमित्तमिदं नेति व्यवस्था तु विशेषणत्वविशेष्यत्वाभ्याम् ॥
अत एव शक्यत्वे शक्यवृत्तित्वे च सति स्वभिन्नशक्यं प्रत्यनधिकरणत्वं प्रवृत्तिनिमित्तत्वमित्याहुः ॥
न्यायदीपः
नन्वेवं वाद्यन्तरैरुक्तपक्षचतुष्टयस्याप्ययोगे कस्तर्हि पदस्यार्थ इत्यतः प्राक्प्रतिज्ञातमेव सप्रमाणं स्मारयति ॥ तस्मादिति ॥ प्राभाकराद्युक्त-पक्षाणामयुक्ततया परिशेषप्रमाणादित्यर्थः ।
नन्वेवं ब्राह्मण इत्यादयो जातिशब्दाः, गौरः शुक्ल इत्यादयो गुणशब्दाः, गच्छतीत्यादयः क्रियाशब्दा, इति व्यवस्था न स्यात् । सर्वत्र व्यक्तीनामेव वाच्यत्वादित्यत आह ॥ जात्यादिकं त्विति ॥ प्रत्येकमिति ॥ जातिशब्दे जातिर् गुणशब्दे गुण इत्येवं प्रत्येकमित्यर्थः । जात्यादिनिमित्ता व्यक्तय एव वाच्या इत्यत्र सम्मतिमाह ॥ उक्तं हीति ॥
वैशेषिकाधिकरणे–
……………….शक्तिः सादृश्यगा यतः ।
तादृशोऽयं च तच्छब्द इति ज्ञापयति स्फुटम् ॥
इति श्लोकव्याख्यावसर उक्तमित्यर्थः । तेते घटपटादय इत्यर्थः । व्यावृत्तैः प्रतिवस्तु भिन्नभिन्नैर् न तु सर्वत्रानुगतैरित्यर्थः ॥ द्रव्येति ॥ दण्डी कुण्डलीत्येवमादयः शब्दा दण्डादिरूपद्रव्यनिमित्तका इति तदभिप्रायेण द्रव्येत्युक्तिः । अस्मिन् पक्षे गोशब्दाद्गोत्वविशिष्टप्रतीत्यभावरूपबाधकमाशङ्कते ॥ न चेति ॥ अवच्छेदकत्वेनेति ॥ अन्यूनानधिकदेशतया शक्यतायां नियामकत्वेनेत्यर्थः । अस्तु को दोष इत्यत आह ॥ ततश्चेति ॥ अशक्त्यत्वतश्चेति ॥ न स्यादिति ॥ न चेष्टापत्तिः । गोशब्दाद्गोत्व-विशिष्टगोव्यक्तिबुद्धेः साक्षिसिद्धत्वादिति भावः । गन्धवत्त्वस्येवेत्युक्त-दृष्टान्तवैषम्यं वक्तुमाह ॥ अवच्छेदकं हि द्विविधमिति ॥ शब्द-शक्यत्वस्य कारणरूपमेकं ज्ञापकरूपमेकमित्यर्थः ॥
ननु गन्धवत्त्वस्यापि पृथिवीशब्दवाच्यत्वसमनियतत्वेनाव्यभिचारात्कुतो न निमित्तत्वमित्यत आह ॥ तस्येति ॥ गन्धवत्त्वस्य गुरुत्वेन तज्ज्ञानं विनैव लघुभूतपृथिवीत्वज्ञानेनैव तच्छब्दशक्तिग्रहादिति भावः ॥ गोत्व-मिति ॥ न तु सास्नादिमत्त्वादिकमिति भावः ॥ तत्राद्यं न प्रवृत्ति-निमित्तमिति ॥ ‘‘गन्धवत्त्वं हि न पृथिवीशब्दवाच्यं, नापि तत्प्रवृत्ति-निमित्तम्’’ इति सुधोक्तेः शक्तिग्रहे तज्ज्ञानस्यानपेक्षितत्वाद्गुरुत्वाच्चेति भावः । यद्वा नविलक्षणत्वाधिकरणे याथार्थ्यमेव मानत्वमित्येतद् व्याख्यान-सुधायां, गन्धवत्त्वादिकं लक्ष्यस्वरूपप्रतिपत्तिकारणं भवत्तस्यान्यतो-व्यवच्छेदतत्तच्छब्दव्यवहारकर्तव्यत्वे च प्रतिपादयति, पृथिवीत्वादिकं च प्रवृत्तिनिमित्तं भवत्तद्व्यवहारमात्रकारणं भवतीत्युक्तदिशा शब्दव्यवहारा-साधारण्याभावान्न निमित्तमात्रम्१ । द्वितीयं तु व्यवहारासाधारण्यान्निमित्तमिति भावः ॥
यद्वा आद्यद्वितीययोर्वक्ष्यमाणनिमित्तलक्षणायुक्तत्वयुक्तत्वाभ्याम् अनिमित्तत्वनिमित्तत्वे इति भावः । कथं शक्यत्वमित्यतो व्यनक्ति ॥ योहीति ॥ भासत इत्यन्वयः ॥ एतच्छब्देति ॥ बुद्धिस्थो गवादि-शब्दः । अयं गोपिण्डादिः ।
ननु शक्यतावच्छेदकस्य शक्यत्वमयुक्तम् । तद्भावावच्छेदकस्यापि तद्भाव इत्यस्य क्वाप्यदृष्टेः । द्वयोः शक्यत्वे शक्यमिदम् इदं तु शक्तौ निमित्तमिति व्यवस्थानुपपत्तेश्चेत्येत आद्यं तावन्निराह ॥ युक्तं चेति ॥ शक्यत्वमित्यन्वयः । महत्त्वसमानाधिकरणोद्भूतरूपवत्त्वं हि बहिर्द्रव्य-प्रत्यक्षतायां तन्त्रमिति स्वीकारेणोद्भूतरूपस्य साक्षात्कारजनकतावच्छेदक-स्यापि १प्रत्यक्षे जनकत्वेन स्वस्यापि २जनकत्वादर्शनादिति भावः ।
३जातावेदतद्भावो न दृष्ट इत्यत आह ॥ घटोयऽमिति ॥ व्यवस्थानुपपत्तिं निराह ॥ शक्यत्वाविशेषेऽपीति ॥ विशेषणत्व-विशेष्यत्वाभ्यां युक्तेति विपरिणामेनानुकर्षः । कुत एवं कल्प्यं, शक्यत्वमेव नास्ति प्रवृत्तिनिमित्तत्वात्, शब्दात्तधीस्तु व्यक्तिशक्तादेवाक्षेपत इत्युपेयता-मित्यत आह ॥ अत एवेति ॥ जातेः शक्यत्वादेवेत्यर्थः । पृथिव्यादि-शब्दाप्रवृत्तिनिमित्ते गन्धवत्त्वादौ पृथिव्यादिशब्दशक्यपृथिव्यादिकं प्रत्य-नधिकरणे पृथिव्यादिवृत्तिमत्यतिव्याप्तिनिरासाय शक्यत्वे सतीत्युक्तिः । यत्पदप्रवृत्तिं प्रति निमित्तत्वमुच्यते तत्पदशक्यत्वे सतीति सम्बन्धि-शब्दत्वादेवानुक्तिसिद्धमिति यत्किञ्चित्पदशक्यत्वाद्गन्धवत्त्वादौ पुनरति-व्याप्तिरिति शङ्कानवकाशः । व्यक्तावतिव्याप्तिनिरासाय शक्यवृत्तित्वे च सतीत्युक्तम् । तावत्येवोक्ते प्रमेयत्वमपि प्रमेयत्वशब्दप्रवृत्तिनिमित्तं प्राप्नोति । प्रमेयत्वस्य केवलान्वयित्वेन स्ववृत्तितया शक्यत्वे सति शक्यवृत्तित्वादतः स्वभिन्नं शक्यं प्रत्यनधिकरणत्वमित्युक्तम् । तस्य प्रमेयत्वत्वरूप-स्वभिन्नशक्यं प्रत्यधिकरणत्वादिति वदन्ति ॥
यद्वा पूर्वोक्तज्ञाने शक्तिं प्रति विषयतया ..
तर्कताण्डवं
यद्वा पूर्वोक्तज्ञाने शक्तिं प्रति विषयतया भासमानत्वे सति यद्विशेष्यं तदेव शक्यम् । तथा च गोत्वमशक्यमेव शक्यताव-च्छेदकम् । शब्दात्तद्धीस्तु शक्यत्ववच्छक्यतावच्छेदकत्वस्यापि शाब्दधीविषयत्वे तन्त्रत्वाद्युक्ता । कथमन्यथा परमते पारिभाषिका-काशादिपदादशक्यशब्दाश्रयत्वस्य धीः । कथं च गङ्गापदाच्छक्य-सम्बन्धरूपलक्षणावृत्त्यविषयस्य तीरत्वस्य धीः । न च तीरस्य संयोगेन तीरत्वस्य तु संयुक्तसमवायेन धीरिति वाच्यम् । युगप-द्वृत्तिद्वयविरोधात् ।
किं च गङ्गापदेन तीरतीरत्वयोर्भिन्नसम्बन्धेन नानार्थाक्षादिपदेन तदर्थानामिव तीरतीरत्वयोरपि स्वतन्त्रयोरेव बोधापत्त्या तीरत्व-विशिष्टतीरधीर्न स्यात् ॥
न्यायदीपः
व्यक्तिरेव वाच्येति पद्धतिगतैवकारस्वारस्यमनुरुद्ध्य पक्षान्तरमाह ॥ यद्वेति ॥ पूर्वोक्तेति ॥ एतच्छब्दनिष्ठशक्तेरयं विषय इति पूर्वोक्तज्ञाने इत्यर्थः । सत्यन्तमात्रस्य विशेषणे गोत्वादावपि गतत्वाद्यद्विशेष्यमित्युक्तम् । विशेष्यतया भासमानत्वमित्येवोक्तावसिद्धिः । विषयत्वेनैव शक्तिं प्रति भासमानत्वात् । शब्दशक्त्यविषयत्वे गोशब्दाद्गौरिति विशिष्टधीर्न स्यादित्यत आह ॥ शब्दादिति ॥ शक्यत्ववदिति ॥ शक्तिविषयत्वस्येवेत्यर्थः । कुतोवच्छेदकत्वस्य शब्दधीविषयत्वे तन्त्रत्वमित्यत आह ॥ कथमन्यथेति ॥ पारिभाषिकेति ॥ यथा डित्थादिशब्दः कस्मिंश्चित्सङ्केतो लक्षणादिमान् मुख्यवृत्तिमान्वा यथा न भवति, तथाऽऽकाशशब्दोप्याकाशे शक्त्यादिवृत्ति-शून्यः केवलं साङ्केतिक इत्यभ्युपगमादिति भावः ॥
ननु तत्राकाशबोधेऽपि वृत्तेरव्यापारत्वाद्व्यक्तिबोध इव शब्दाश्रयत्व-रूपधर्मबोधोपि सेत्स्यति । व्यक्त्यंशे वृत्तिद्वारा बोधकस्य गोत्वादिधर्मांशे वृत्तिं विना कथं बोधकत्वं शब्दस्येत्यत आह ॥ कथं चेति ॥ वृत्ति-द्वयेति ॥ लक्षणा लक्षितलक्षणा चेति वृत्तिद्वयेत्यर्थः । शक्यसम्बन्धस्य लक्षणात्वे लक्ष्यसम्बन्धस्य लक्षितलक्षणात्वादिति भावः । शक्यसम्बन्धस्य लक्षणात्वे लक्ष्यसम्बन्धस्य लक्षितलक्षणात्वादिति भावः । अस्तु गङ्गायां मीनघोषवित्यत्रेव वृत्तिद्वयमित्यत आह ॥ किं चेति ॥ यद्वा पूर्वं शक्य-संयोगेन तीरबोधे पश्चाच्छक्यसंयुक्तसमवायेन तीरत्वबोधोस्तु । एवं च न युगपद्वृत्तिद्वयापत्तिरित्यत आह ॥ किं चेति ॥ नानार्थेति ॥
नन्वक्षाण्यानयेत्यादौ विदेवनविभीतकरथचक्रादिरूपनानार्थबोधेऽन्योन्या-नपेक्षवृत्तिद्वारकत्वेन तत्र शब्दात्तेषां स्वतन्त्राणामेवार्थानामुपस्थितावपि गङ्गायां घोष इत्यादौ शक्यसम्बन्धघटितसमवायसम्बन्धेनैव तीरत्व-बोधनात्तीरान्वितत्वेनैव तीरत्वधीर्भविष्यतीति चेन्न । शब्दस्य विरम्य-व्यापारापत्तेः । शब्दात्तीरगोचरनिर्विकल्पकधीप्रसङ्गाच्च । पूर्वं तीरबोधेपि तस्य विशेष्यत्वेन पश्चाज्ज्ञायमानविशेषणरूपतीरत्वस्य १तीरविशिष्टेन बोधापत्तेश्च । संयोगसंयुक्तसमवायाभ्यां घटघटत्वयोरिव गङ्गायां घोष इत्यत्रापि शक्यसंयोगशक्यसंयुक्तसमवायरूपसम्बन्धद्वयेनापि तीरतीरत्वयो-र्युगपद्बोधस्यैव वाच्यतया युगपद्वृत्तिद्वयविरोधापरिहाराच्चेति भावः ॥