नैयायिकास्तु– जात्याकृतिविशिष्टा व्यक्तिः पदार्थः
नैयायिकोक्तपदशक्ति वादः
अथ नैयायिकोक्तपदशक्तिभङ्गः ।
तर्कताण्डवं
नैयायिकास्तु– जात्याकृतिविशिष्टा व्यक्तिः पदार्थः । ‘‘जात्या-कृतिव्यक्तयः पदार्थ’’ इति सूत्रे एकवचनात् । यत्र गौर्नित्येत्यादौ जातिमात्रपरत्वं, तत्रैकदेशे लक्षणा । पिष्टमय्यो गाव इत्यादौ तु गवा-कृतिसदृशाकृतौ गौणी । अकृतिश्च अवयवसंयोगविशेष इत्याहुः ॥
तन्न । गुणकर्मादिपदेषु तद्विशेषस्पर्शरूपोत्क्षेपणापक्षेपणादिपदेषु द्रव्यविशेषात्मादिपदेषु चावयवसंयोगविशेषरूपाकृतेरेवाभावात् । द्रव्यादिपदेषु पृथिव्यबादिपदेषु ब्राह्मणक्षत्रियादिपदेषु चानुगता-कृतेरभावाच्च ॥
न्यायदीपः
एवं पदार्थस्तु व्यक्तिरेवेति प्रतिज्ञातार्थसिद्धये प्राभाकरभाट्टमतं निरस्य न्यायमतमपि निरसितुं पदशक्तिवादान्ते जातिर्विशेषवदवयवसंयोगरूपाकृतिरपि पदशक्या, गोपदाज्जात्याकृतिविशिष्टस्यैव अनुभवादित्यादिना मण्या-द्युक्तमनुवदति नैयायिकास्त्विति ॥ वैशिष्ट्यस्यापि शक्यत्वसूचनायोक्तं, विशिष्टा व्यक्तिरिति । मण्युक्तामेव सम्मतिमाह ॥ इति सूत्र इति ॥ गौतमसूत्र इत्यर्थः । अन्यथा जात्यादेः प्रत्येकं शक्यत्वे पदार्था इति बहुवचनोक्तिः स्यात् । तेन ज्ञायते विशिष्टव्यक्तावेकैव शाक्तिरितीति भावः ॥ तत्रेति ॥ जातिरूपैकदेश इत्यर्थः । यद्यपि मणौ जात्याकृतिव्यक्तीनां प्रत्येकमात्रपरत्वे लक्षणैवेत्युक्तम् । तथाऽपि गौरुत्पन्नेत्यादौ व्यक्तेः स्वातन्त्र्येणोपस्थितेर् गोत्वस्यावच्छेदकतयाप्यन्वयेन लक्षणानापत्तेर् जातिमात्रपरत्वमित्येवानुवादो न तु जात्यादिमात्रपरत्वमित्यनुवादः कृतः । आकृतेरपि शक्यत्वे पिष्टमय्यो गाव इत्यादौ अमुख्यत्वं गोपदादेर्न स्यादित्यत आह ॥ पिष्टेति ॥ अवयवेति ॥ कपालाद्यवयवानां यः संयोगविशेषः स इत्यर्थः । पृथुबुध्नोदराकारत्वादिरूपसंस्थानविशेष इति यावत् ।
किं सर्वत्राप्याकृतिरपि शब्दार्थ उत यत्रास्ति सा तद्वाचकपदेषु । आद्य आह ॥ गुणकर्मादीति ॥ जातिसमवायादिरादिपदार्थः ॥ रूपेति ॥ स्पर्शश्च रूपं चेति विग्रहः । वक्ष्यमाणादिपदस्यात्राप्यन्वयः । रसगन्धादि-स्तदर्थः । उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनरूपकर्मविशेषवाचिपदेष्वित्यर्थः ॥ आत्मादीति ॥ आत्माकाशदिगादिपदेष्वित्यर्थः । आत्मादेस्तन्मते नित्यत्वेन निरवयवत्वादिति भावः ।
द्वितीयपक्षे दोषमाह ॥ द्रव्येति ॥ आकृतिमद्वस्तुवाचकद्रव्यादि-सामान्यपदेषु तद्विशेषपृथिव्यादिपदेषु च वाच्यभूतार्थगताकृतिष्वनुगत-जातेरप्रामाणिकत्वेनान्यतरकर्मजत्वादिना साङ्कर्यापातेन चानुगतोपाधेर् अप्यनिरुक्त्या चानुगमकाभावेन तासां व्यक्तिवदननुगततयाऽऽनन्त्येन शक्यत्वग्रहणानुपपत्तेर् आकृतेरशक्यत्वमेव वाच्यमित्यर्थः ।
यत्तु गवादाववयवसंयोगत्वादिकमेवानुगमकमिति । तन्न । तथात्वे तत्प्रकारकप्रतीतेरप्यापातेन अनुभवविरोधात् ॥
किं च गवादिपदैर्जात्याकृतिवत्सर्षपादिपदैः..
तर्कताण्डवं
किं च गवादिपदैर्जात्याकृतिवत्सर्षपादिपदैः परिमाणादेः-र्द्रव्यादिपदैर्द्रव्यत्वसमनियतगुणादेः पृथिव्यादिशब्दैः पृथिवीत्व-समनियतगन्धादेरपि प्रतीत्या तत्तज्जात्याकृतिभ्यामिव परिमाणगुण-गन्धादिनाऽपि विशिष्टा व्यक्तिः सर्षपद्रव्यपृथिव्यादिपदार्थः स्यात् । एवमाकाशादिपदेन शब्दाश्रयत्वादेरपि प्रतीत्या तद्विशिष्टा व्यक्ति-राकाशादिपदार्थः स्यात् । तच्च त्वया नेष्यते । सर्षपादिशब्दैः परिमाणादेराक्षेपश्चेदाकृतेरपि स एवास्तु । अन्यलभ्याकृतौ शक्त्यङ्गी-कारेऽनुव्याख्यानोक्तगौरवात् ॥
न्यायदीपः
ननु जातिव्यक्त्योरिवाकृतेरप्येकवित्तिवेद्यत्वाज्जातिवदाकृतिरपि वाच्यैव । उक्तं च मणौ ‘‘एकवित्तिवेद्यत्वनियमाज्जातिविशिष्टं शक्यमिति’’ । अन्यथा गोपदादाकृतेरपि व्यक्त्यैकवित्तिवेद्यत्वं न स्यादित्यत आह ॥ किञ्चेति ॥ यद्वा आकृतेः शक्यत्वमसाधारण्येन निरस्य पराभिमतानुगतजातेरपि न शक्यत्वमिति भावेन तदुक्तयुक्तेर्व्यभिचारमाह ॥ किं चेति ॥ शब्दा-श्रयत्वेति ॥ आकाशस्यैकव्यक्तित्वेनाकाशत्वजातेरयोगेन तस्य शब्दाश्रय-रूपत्वादितिभावः । इष्टापत्तिमाशङ्क्याह ॥ तच्च त्वयेति ॥ नेष्यत इति ॥ अन्यतो लभ्येऽपि शक्यत्वोपगमे गौरवापातात् । अन्यथा पदानामन्वयेऽपि शक्तिस्वीकारापत्तेश्चानिष्टमेतदिति भावः ॥
एतदपि ‘‘गौरवं कल्पनेऽन्यथा’’ इति मूलारूढमिति दर्शयति ॥ अन्यलभ्येति ॥ एतेनान्विते स्वार्थे व्यक्तिमात्ररूपे स्वार्थे इति पूर्व-त्रिपादीस्थस्वार्थशब्दार्थ इति दर्शितम् । अत्र सर्वत्राकृतावित्युपलक्षणम् । अनुगतजातावित्यपि ध्येयम् । यद्वा अनुगतजातेः स्वरूपेणैवाग्रे निरस्यत्वादाकृतिमात्रोपादानम् ।
नन्वाकृतेराक्षेपलभ्यत्वे तत्र विभक्त्यर्थानन्वयेनानयनादिक्रियान्वयोऽपि न स्यादिति चेत् । तर्हि परिमाणादेरपि तथात्वापत्तिः । व्यक्त्यानयनादिना परिमाणादेरप्यानुषङ्गिकतयाऽऽनयनादिसिद्धा१कृतेरपि तथाऽस्तु । अमूर्तस्य परिमाणादेरानयनादिक्रियान्वय एव नेति चेत् । संयोगविशेषाकृतेरपि तथास्त्विति भावः ॥