०२ भाट्टोक्तव्यक्त्याक्षेपभङ्गः

आक्षेपपक्षेऽपि व्यवहारादिना गृहीतशक्तेर्व्यक्तेः शब्दात्..

अथ भाट्टोक्तव्यक्त्याक्षेपभङ्गः ।

तर्कताण्डवम्

आक्षेपपक्षेऽपि व्यवहारादिना गृहीतशक्तेर्व्यक्तेः शब्दात् साक्षाद्धी-सम्भवेन शब्दबोधितजात्या व्यक्त्याक्षेपेऽनुव्याख्यानोक्तगौरवं तदवस्थमेव ।

किं च धूमाक्षिप्तवह्नेरिव व्यक्तेरशाब्दत्वेन विभक्त्यर्थान्वयो न स्यात् ॥

न्यायदीपः

यद्वेत्यादिनोक्ताक्षेपपक्षं च निराह ॥ आक्षेपेति ॥ व्यवहार-व्याकरणोपमानकोशादिनेत्यर्थः । गृहीतशक्तेरिति बहुव्रीहिः । शक्ति-श्चैवेत्यादित्रिपादीतात्पर्यार्थोक्तिः सम्भव इत्यन्तेन । गौरवं कल्पनेऽ-न्यथेत्यत्रत्यान्यथाशब्दोक्तिः शब्दबोधितेत्यादि ।

मण्युक्तं दोषमाह ॥ किं चेति ॥ न स्यादिति ॥ विभक्तीनां प्रकृतिरूपशब्दार्थान्वितस्वार्थबोधकत्वात् । व्यक्तेराक्षेप्यत्वे शब्दार्थत्वा-भावात् । तथा चानयनादिक्रियान्वयोपि न स्यात् । अन्यथा पूर्वमानयेत्यादौ पूर्वपदादिनाऽऽक्षिप्तापरपदार्थेऽपि विभक्त्यर्थान्वयः स्यात् । तथा च गामानयेत्यादावाक्षिप्तगोव्यक्तेरिव अपरपदार्थस्य आनयनप्रसङ्गः । न च पूर्वादिपदार्थस्थे समानवित्तिवेद्यत्वमेव न त्वाक्षेप्याक्षपकभाव इति शङ्क्यम् । जातिव्यक्त्योरपि तथात्वादिति ॥


किं च जातिर्व्यक्त्याश्रितेत्याक्षेपे ..

तर्कताण्डवं

किं च जातिर्व्यक्त्याश्रितेत्याक्षेपे जातिरूपपक्षविशेषणी-भूताश्रितत्वोपसर्जनीभूताया व्यक्तेः शाब्दत्वेऽपि उपसर्जनत्वाद्राज-पुरुषमानयेत्यत्र राज्ञ इवानयनान्वयो न स्यात् ॥

अपि च वह्न्यविवक्षया प्रयुक्तेन धूमपदेन वह्नेरिव गौरस्तीत्यादौ व्यक्त्यविवक्षया प्रयुक्तेन गोपदेन व्यक्तिधीर्न स्यात् । आक्षेपे बीज-स्यानुपपत्तेरभावात् ।

किं च गोत्वेन न तावद्गोत्वादिविशिष्टा व्यक्तिराक्षेप्या । गोत्व-स्याक्षेपकत्वेनाक्षेप्यशरीरे प्रवेशायोगात् । नाप्यन्यविशिष्टा व्यक्ति-राक्षेप्या । गौरिति ज्ञाने जातिव्यक्त्योरेव उल्लेखात् । अत एव न मुण्डितमश्वादिसाधारणव्यक्तिमात्रमाक्षेप्यम् । गौरित्युल्लेखायोगात् ।

न्यायदीपः

ननु– जातेरानयनानुपपत्तेर्व्यक्तेरानयनबलाच्च शब्दादाक्षिप्तस्यापि कथञ्चिच्छाब्दत्वमुपेत्य विभक्त्यर्थान्वयो वाच्य इति चेन्न । शब्दशक्यत्वेन व्यक्तेरपि शब्दार्थत्वेनैव विभक्त्यर्थान्वयोपपत्तेः । शब्दतात्पर्यविषयत्वमात्रेण शाब्दत्वे लक्षणोच्छेद इति भावः । अस्तु वा शाब्दत्वं कथञ्चित् तथापि व्यक्तेरशक्यत्वपक्षे गोत्वादिजातिर्व्यक्त्याश्रिता जातित्वादित्येवं रूपेण हि जात्याव्यक्त्याक्षेपो वाच्यः । तत्र च क्रियान्वयो व्यक्तेदुर्लभ इत्याह ॥ किञ्च जातिरिति ॥ इत्याक्षेपे ॥ एवं प्रकारेण व्यक्तिप्रतीतौ सत्याम् । गोत्वादिजातिरूपपक्षे विशेषणीभूतं यदाश्रितत्वं तत्र निरूपकतया उपसर्जनीभूताया इत्यर्थः ।

पूर्वत्र ह्याक्षेपाद्व्यक्तिबुद्धिमुपेत्य सुबर्थान्वयस्तथा क्रियान्वयश्च न युक्त इत्युक्तम् । अधुना व्यक्तिधीरेवाक्षेपपक्षे न युक्तेत्याह ॥ अपि चेति ॥ १वह्निविवक्षया धूममात्रविषयोक्ते यथा न वह्विधीस्तथा गौरस्ति गां पश्येत्यादौ जातिमात्रविवक्षया प्रयुक्तेन व्यक्तिधीर्न स्यात् । व्यक्तितात्पर्यानु-पपत्त्या वा अन्वयानुपपत्त्या वा आक्षेपो व्यक्तेर्वाच्यः । सा तु नास्ति । जातिमात्र एव तात्पर्यात् । अस्तित्वादियोग्यक्रियान्वयसम्भवाच्चेति भावः ।

न केवलं व्यक्तिप्रतीत्यनुपपत्तिः । अपि त्वाक्षेप्यानुपपत्तिश्च । तत्किं गोत्वादिना धर्मेण विशिष्टाऽक्षिप्यते व्यक्तिः, उत धर्मान्तरेण, अथ सर्वधर्मरहितव्यक्तिस्वरूपमात्रं गोत्वादिजात्याक्षेप्यम् । न त्रयमपि युक्तम् । आद्ये आक्षेपकत्वायोगो ऽन्त्ययोरनुभवविरोध इति भावेनाह ॥ किं च गोत्वेनेति ॥ प्रवेशायोगादिति ॥ ननु लिङ्गोपहितलैङ्गिकभानपक्षे लिङ्गस्यानुमितिविषयत्ववदाक्षेपकस्याप्यस्त्वाक्षेप्यशरीरप्रविष्टत्वमिति चेन्न । तस्यैव प्रामाण्यवादे दूषितत्वात् । वैषम्याच्च । लिङ्गेन विनाऽपि वह्नि-त्वादिना धर्मेण तत्र लैङ्गिकस्योपस्थितिसम्भवेऽपि सामग्रीबलाल्लिङ्गस्यापि तत्र भानम् । नह्येवं प्रकृते । गोत्वादिरूपलिङ्गेन विना व्यापकता-वच्छेदकधर्माभावात् । अत एवाक्षेप्यशरीर इत्युक्तमिति भावः ॥

॥ अन्येति ॥ गोत्वान्यसास्नादिमत्त्वादिरूपधर्मविशिष्टेत्यर्थः । मुण्डितं सास्नादिमत्त्वादिधर्मरहितमित्यर्थः ॥ गौरित्युल्लेखेति ॥ अश्वादि-व्यावर्तकगोत्वविशिष्टत्वेनैव गोपदादिना गोव्यक्तिप्रतीतेर् मुण्डितव्यक्ति-प्रतीतिरनुभवविरुद्धेति भावः । एतेन व्यक्तित्वेनाक्षेप्यधीरित्यपि प्रत्युक्तम् ।