भाट्टास्तु
भाट्टोक्तव्यक्ति वादः
अथ भाट्टोक्तव्यक्तिलक्षणाभङ्गः ।
तर्कताण्डवम्
भाट्टास्तु । आनन्त्यव्यभिचाराभ्यां व्यक्तौ शक्तिग्रहासम्भवा-ज्जातिरेव शक्या, जातिविशिष्टा व्यक्तिस्तु लक्ष्या । एवं च व्यक्ते-स्तीरवत्प्रकृतिवृत्तिविषयत्वाद्विभक्त्यर्थान्वयो युक्तः । यद्वा व्यक्ति-स्त्वाक्षेपपलभ्येति न तत्र वृत्तिः कल्प्या इत्याहुः ।
तदपि न । उक्तरीत्या स्वार्थे व्यक्तौ शक्तिसम्भवे परम्परा-सम्बन्धरूपलक्षणाङ्गीकारेऽनुव्याख्यानोक्तगौरवात् । वाक्यस्थसर्व-पदानां लक्षकत्वेन लक्षकस्याननुभावकत्वपक्षे व्यक्तेरनुभवायोगाच्च ॥
न्यायदीपः
लक्षणाया आक्षेपतो वा व्यक्तिधीसम्भवादनन्यलभ्यजातावेव शक्तिरिति मतमप्यनूद्य निराह ॥ भाट्टास्त्विति ॥ आनन्त्येति ॥ व्यक्तौ शक्तिरिति पक्षे प्रतिव्यक्ति शक्तिग्रहो न सम्भवति । तासामानन्त्यात् । एकस्यां व्यक्तौ शक्तिग्रहे च शब्दश्रवणतो व्यक्त्यन्तरस्याप्युपस्थितिदर्शनेन तत्र शक्तिग्रहो व्यभिचारि । तेन विनापि तदुपस्थितेः । अतो व्यक्तौ शक्तिग्रहायोगात् सर्वानुगतायामेकस्यामेव गोत्वादिजातौ गोपदादिशक्तिग्रह इत्यर्थः । कथं तर्हि व्यक्तिधीः शब्दाज्जायेतेत्यतः पक्षद्वयमाह ॥ लक्ष्येति ॥ आक्षेपलभ्येति च ॥ आक्षेपज्ञेयेत्यर्थः ॥
यद्यपि मणौ भट्टमते तु व्यक्तिस्त्वाक्षेपलभ्येत्युक्त्वाऽऽक्षेपपक्ष एव दोषानुक्त्वा
जातावस्तित्वनास्तित्वे न हि कश्चिद्विवक्ष्यति ।
नित्यत्वाल्लक्षणीयाया व्यक्तेस्ते हि विशेषणे ॥
इति मण्डनश्लोकं सम्मतित्वेनोक्त्वा लक्षणापक्षं मण्डनमतत्वेनोपन्यस्य खण्डितवान् । तथाऽपि मण्डनस्य भट्टशिष्यत्वाद्भाट्टास्तु लक्ष्येत्याहु-रित्युक्तम् । आकृत्यधिकरणे च वार्तिकमते व्यक्तिलक्षणापक्षस्य स्फुटत्वाच्च ॥ उक्तं च शास्त्रदीपिकायमपि
‘‘लक्षणा वाऽभ्युपेतव्या जातेस्तेनाभिधेयता’’ इति ।
लक्ष्येति पक्षे प्रागुक्तदोषो नेत्याह ॥ एवं चेति ॥ प्रकृतिवृत्तीति ॥ प्रातिपदिकनिष्ठलक्षणारूपवृत्तिविषयत्वादित्यर्थः ॥ आक्षेपेति ॥ व्यक्तेर्जात्यविनाभूतत्वाच्छब्दाज्जातिबुद्ध्यनन्तरं क्रमेण व्याप्त्याद्यनुसन्धानेन व्यक्तिबुद्धिरित्यर्थः । जातिव्यक्त्येरेकवित्तिवेद्यत्वं त्वसिद्धमिति भावः । अनुव्याख्यानस्थत्रिपाद्यास्तात्पर्यार्थमाह ॥ स्वार्थ इति ॥ उक्तरीत्येति पाठे पूर्वभङ्गोक्तरीत्येत्यर्थः ।
‘‘गौरवं कल्पनोऽन्यथा’’ इति चतुर्थपादस्थान्यथाशब्दस्यार्थमाह ॥ परम्परेति ॥ शब्दसम्बन्धिजातिसम्बन्धरूपपरम्परासम्बन्धरूपेत्यर्थः । मूलारूढताद्योतनायानुव्याख्यानोक्तेत्युक्तम् । सुधायामेवमाद्यर्थाव्युत्पादनं शिष्यैरेवोह्यतामिति भावेन ग्रन्थगौरवभयादेव । न तु ग्रन्थकृतोऽ-नभिमतत्वात् । ‘‘ग्रन्थोऽयमपि बह्वर्थ’’ इति मूलकारैरेवोक्तेरतो न विरोधः शङ्क्यः । लक्ष्यकत्वेन इत्यस्य व्यक्तेरनुभवायोगाच्चेत्यन्वयः । कुत इत्यतो लाक्षणिकं पदं नानुभावकमिति यन्मतं तत्पक्ष इति ॥
किं च गङ्गात्वादिरूपात्स्वार्थादन्येन तीरत्वादिना..
तर्कताण्डवं
किं च गङ्गात्वादिरूपात्स्वार्थादन्येन तीरत्वादिना रूपेणोपस्थित एव तीरादौ गङ्गादिपदस्य लक्षणा दृष्टा । न चात्र व्यक्तिर्जातिं विना रूपान्तरेणोपस्थिता । गौरिति प्रतीत्या जातिव्यक्त्योरेवोल्लेखात् । काकेभ्यो दधि रक्ष्यतामित्यादावपि काकत्वादन्येन दध्युपघात-कत्वादिनोपस्थित एव लक्षणा ॥
किं च गां पश्य गौस्तिष्ठतीत्यादौ सत्यपि जातेरन्वय-योग्यत्वेऽनुपपत्त्यनुसन्धानं विनैव जातिविशिष्टव्यक्तिप्रतीतेर्न तत्र लक्षणा, प्रत्युत गौर्नित्या गौर्जातिरित्यादौ व्यक्त्यन्वयानुपपत्त्यैव जातिधीरिति तत्रैव लक्षणा ॥
किं च यस्यां व्यक्तावानयनादिव्यवहारेण शक्तिग्रह एवं गौर्नष्टा गौर्दीर्घा गौः शुक्ला गौः सास्नादिमती गौरनेका गौर्गच्छति गामानय गां बधानेत्यादौ प्रयोगप्रतीत्योः प्राचुर्यं च, तस्यां व्यक्तौ लक्षणा तद्विपरीतायां जातौ शक्तिरिति साध्वीयं व्यवस्था । न हि जातौ नाशाद्यस्ति ।
न्यायदीपः
लक्षणाबीजाभावान्न लक्षणेतिभावेन मण्युक्तदोषं चाह ॥ किञ्चेति ॥ अन्येन रूपेणोपस्थित एव लक्षणेत्यस्य व्यभिचारमाशङ्क्याह ॥ काकेभ्य इति ॥ न केवलमन्येन रूपेणोपस्थितिरूपबीजाभावो मुख्यार्थानुपपत्ति-प्रतिसन्धानरूपमपि लक्षणाबीजं नास्तीत्याह ॥ किं च गामिति ॥
प्रमितत्यागाप्रमितस्वीकाररूपदोषौ चाह ॥ किं च यस्यामिति ॥ तस्यामित्यनेनान्वयः । गवानयनादिवृद्धव्यवहारेण हि प्राथमिकशक्तिग्रह इत्युक्तं प्राक् । स च व्यवहार आनयनादियोग्यव्यक्तावेवैतस्यां लक्षणा चेत् कथं न प्रमितत्यागः । तद्रहिते जातौ शक्तिग्रहश्चेत् कथं नाप्रमितस्वीकार इत्यर्थः ।
॥ एवमिति ॥ यथा व्यक्तौ शक्तिग्रहस्तथा प्रयोगप्रतीत्योः प्राचुर्थं च यस्यां व्यक्तौ तस्यां लक्षणेति योजना ॥ साध्वीयमिति ॥ काकुस्वरेणासाधुत्वमुच्यते । गौर्नष्टेत्यादिधीर्जातिविषया अस्त्वित्यत आह ॥ न हीति ॥