पदार्थस्तु व्यक्तिरेव
अथ प्राभाकरोक्तपदशक्तिभङ्गः
पदार्थस्तु व्यक्तिरेव
तर्कताण्डवम्
पदार्थस्तु व्यक्तिरेव । शक्तिग्राहकस्यानयनादिव्यवहारस्य तत्रैव सम्भवात् । अन्यथा शब्दात्तत्प्रतीतेरसम्भवाच्च ।
अत्र प्राभाकराः । अनिर्धारितयत्किञ्चिद्व्यक्तेः शक्यत्वे का व्यक्तिः शक्येत्यनध्यवसायेन गां दद्यादित्यादिवाक्यात्प्रवृत्तिर्न स्यात् । सर्वस्याः प्रत्येकं शक्यत्वे यत्र शक्तिग्रहस्तत्रैव शाब्दधीः स्यात् । अन्यत्र तु तदग्रहादपूर्वव्यक्तिधीर्न स्यात् । सर्वत्वेन शक्यत्वे गां दद्यादित्यादिशास्त्रमशक्यानुष्ठानार्थोपदेशकं स्यात् । तस्माच्छक्य-व्यक्त्यनुगमायाशक्यव्यक्तिव्यावृत्तये च सर्वैकौदासीन्येन विशेषणेन वोपलक्षणेन वा गोत्वेनावच्छिन्ना व्यक्तिः शक्येति शक्तिग्रहो वाच्यः । तथा च स्वत एवान्यव्यावृत्तगोत्वस्य प्रथमोपस्थितत्वाल्लघुत्वाच्च नागृहीतविशेषणन्यायेन जातिरेव शक्या ॥
न्यायदीपः
नन्वन्विते पदार्थे पदानां शक्तिरित्युक्तम् । तत्र कः पदार्थः किं जातिरुत व्यक्तिरिति तत्राह ॥ पदार्थस्त्वित्यादिना प्रकरणपञ्चकेन । पदस्य शक्यान्वयप्रतियोग्यर्थस्त्वित्यर्थः । व्यक्तय एव वाच्या इति पद्धत्युक्तेरिति भावः । अत्रैवकारः पराभ्युपगतानुगतजातिव्यावर्तको न तु घटत्वादि-तत्तदसाधारणधर्मनिरासकः । तस्यापि वाच्यत्वात् । यद्वा घटत्वादे-र्वाच्यत्वेऽपि वाच्यतावच्छेदकत्वेनैव न तु प्राधान्येनेति तदभिप्रायेणैवकारः । न तु तस्यावाच्यत्वेनेत्यग्रे व्यक्तम् ॥ अन्यथेति ॥ व्यक्तौ शक्तेरभाव इत्यर्थः । अत्रेति ॥ व्यक्तेः शक्यत्वपक्षे दोषमाहुः प्राभाकरा इत्यर्थः । पदशक्तिवादपूर्वपक्षे मण्युक्तं निष्कृत्याह ॥ अनिर्धारितेत्यादिना उच्यत इत्यन्तेन ॥
व्यक्तौ शक्तिरिति वदता वक्तव्यं किमेकस्यां व्यक्तावथ सर्वासु व्यक्तिष्विति । अन्त्येपि किं प्रत्येकं तत्तद्व्यक्तिषु पृथक्पृथक्शक्तिरुत सर्वत्वेन रूपेण सर्वास्वपि व्यक्तिष्वेकैव । आद्ये दोषो ॥ अनिर्धारितेति ॥ द्वितीय आह ॥ सर्वस्या इति ॥ एकदा सर्वासामुपस्थित्ययोगेन प्रत्येकं सर्वासु शक्तिग्रहायोगेन क्वचिदेवेति वाच्यत्वादिति भावः । तृतीय आह ॥ सर्वत्वेनेति ॥ गामिति पदेन सर्वगोव्यक्त्युपस्थित्या सर्वासामपि दानकर्मत्वप्रतीतेरिति भावः ।
एवं व्यक्तिपक्षे बाधकमुक्त्वा स्वपक्षमुपसंहारमुखेन सयुक्तिकमाह ॥ तस्मादिति ॥ केवलव्यक्तौ शक्तिपक्षस्यायोगादित्यर्थः ॥ शक्येति ॥ शक्यानां व्यक्तीनामनुगमाय सङ्ग्रहाय, अशक्यानामश्वादीनां व्यवच्छेदाय चेत्यर्थः । विशिष्टं शक्यमिति पक्ष आह ॥ विशेषणेन वेति ॥ गोत्वेनेत्यन्वयः । व्यक्तिमात्रमेव शक्यमिति पक्ष आह ॥ उपलक्षणेन वेति ॥ किं तत इत्यत आह ॥ तथाचेति ॥ गोत्वरूपधर्मेणैव गोव्यक्तीनामनुगतत्वान्यव्यावृत्तत्वयोः सपाद्यत्वे सतीत्यर्थः ॥ स्वत एवेति ॥ व्यक्तिवदनुगतधर्ममुखापेक्षां विनैवेत्यर्थः ।
ननु व्यक्तौ शक्त्यभावे कथं शब्दात्तद्धीरिति चेत्
तर्कताण्डवं
ननु व्यक्तौ शक्त्यभावे कथं शब्दात्तद्धीरिति चेत् । सत्यम् । पदेन जातिविशिष्टव्यक्तिज्ञानजननाद्विशिष्टे शक्तिरस्त्येव । किं त्वगृहीत-शक्तिकस्य बालस्यार्थाबोधात्कुत्रचिच्छक्तिज्ञानं सहकारि कल्पनीयम् । तत्र जात्यंशे शक्तिज्ञानस्यैव जाति जातिशक्तिज्ञानत्वेन कारणता-कल्प्यते । कार्यता तु जातिविशिष्टशाब्दज्ञानत्वेन । न तु जाति-विशिष्टशक्तिज्ञानत्वेन कारणता । जात्यंशे शक्तिज्ञाने सति जाति-विशिष्टे शक्तिज्ञानव्यतिरेकेण जातिविशिष्टव्यक्तिविषयकशाब्दबोध-व्यतिरेकादर्शनात् ।
यद्वा जातिशक्तिज्ञानत्वेनैव कारणता । जातिशाब्दज्ञानत्वेनैव कार्यता च । जातिभानसामग्री तु जातेर्व्यक्तिघटितमूर्तित्वेन व्यक्ति-मनादाय जातिबोधनाशक्ता तामादायैव जातिं बोधयति । यथा बुद्धि-मद्धेतुकानुमितित्वेन कार्यत्वे बुद्धिमद्धेतुकव्याप्यत्वेन च कारणत्वे सिद्धे क्षित्यादौ कार्यत्वेन हेतुना जायमानानुमितिर्बुद्धिनित्यत्वमादाय पर्यवस्यति । एतदेव हि समानसंवित्संवेद्यत्वम् । यदन्यबुद्धित्वा-वच्छिन्नकार्यताप्रतियोगिककारणादन्यत्र बुद्धिर्भवतीति ॥
न्यायदीपः
अन्यशक्तात्पदादन्यज्ञानायोगाद्गोपदाद्गोव्यक्तिधीरनुभवसिद्धा न स्यादिति भावेन शङ्कते ॥ नन्विति ॥ यत्तु मणौ प्राभाकरमतानुवादप्रस्तावे कुतस्तर्हि व्यक्तिधीरित्याशङ्क्य गोपदं हि नियमतो जातिव्यक्ती बोधयतीत्यादिना प्राभाकरमतमनूदितं तन्निष्कृष्याह ॥ सत्यमित्यादिना ॥ शक्तिज्ञानस्य सहकारित्वे युक्तिरगृहीतेत्यादि । पक्षधरोक्तं निष्कर्षमाह ॥ तत्रेति ॥ जात्यंशे शक्तिज्ञानस्यैव । न तु व्यक्त्यंशे शक्तिज्ञानस्यापीत्येवकारार्थः ॥ नन्वन्यज्ञानेनान्योत्पत्तावतिप्रसङ्ग इत्यतस्तद्विशिष्टत्वं नियामकमिति भावेनाह ॥ जातिविशिष्टेति ॥ कुत इत्यतो विशिष्टशक्तिज्ञानत्वेन कारणताग्राहक-मानाभावादित्याह ॥ जात्यंश इति ॥
अन्यज्ञानेनान्यज्ञानोत्पत्तावतिप्रसङ्गनिरासाय तद्विशिष्टत्वं नियामक-मेकमुक्तम् । सामानसंवित्संवेद्यत्वरूपनियामकान्तरं च ‘‘अथ वा जातिशक्तिज्ञानाज्जतिधीर्भवन्ती व्यक्तिमपि बोधयति’’ इत्यादिना मण्युक्तमाह ॥ यद्वेति ॥ व्यक्तिघटितेति ॥ गोत्वादेर्गवादिव्यक्तिनिष्ठधर्मविशेषरूप-त्वादिति वाऽनेकव्यक्तिवृत्तित्वरूपत्वादिति वा तात्पर्यम् । स्वयं दृष्टान्तमाह ॥ यथेति ॥ क्षित्यादिकं बुद्धिमद्धेतुकं कार्यत्वाद् घटवदितीश्वरानुमाने क्षित्यादिनिष्ठकार्यत्वहेतुना क्षित्यादेः सिद्ध्यद् बुद्धिमज्जन्यत्वं नित्यबुद्धि-मज्जन्यत्वं सिध्यति । बुद्धेर्नित्यत्वं विना क्षित्यादिनिष्ठकार्यत्वस्यायोगात् । लोके घटादिकार्ये च बुद्धिमद्धेतुकत्वगोचरानुमितित्वेन बुद्धिमज्जन्यत्वव्याप्य-कार्यत्ववत्त्वेन कार्यकारणभावग्रहो न नित्यत्वगर्भितबुद्धिमद्धेतुकत्वानु-मितित्वेनापि । तथाऽपि यथा क्षित्यादौ विशेषसिद्धिस्तथेत्यर्थः ॥ किमनेन नियामकमुक्तं स्यादित्यत आह ॥ एतदेव हीति ॥ एतदित्युक्तं व्यनक्ति ॥ यदिति ॥ जातिशाब्दज्ञानत्वावच्छिन्नकार्यताप्रतियोगिककारणाज्जाति-विशिष्टे बुद्धिरित्यर्थः ॥