एतेन पदं पदार्थस्मृतिमात्रोपक्षीणं नान्वितबोधकं ..
अभिहितान्वयवादः
अथ भट्टाभिमताभिहितान्वयभङ्गः ।
तर्कताण्डवम्
एतेन पदं पदार्थस्मृतिमात्रोपक्षीणं नान्वितबोधकं स्मृतपदार्थ एव तु तद् बोधक इति भाट्टमतमपास्तम् । एवं हि शब्दस्य स्मारक-मात्रत्वात्पदार्थस्यैवान्वयप्रमाकरणत्वमिति वाच्यम् । न च तद्युक्तम् ॥ प्रसिद्धं शब्दं त्यक्त्वाऽप्रसिद्धस्य पदार्थाख्यप्रमाणान्तरस्य कल्पनेऽनुव्याख्यानोक्तगौरवात् । तस्यातीतानागतादिरूपत्वेन फलभूतमन्वयानुभवं व्यापाराभिमतां पदार्थस्मृतिं च प्रति कारण-त्वस्यैवासम्भवेन तद्विशेषस्य करणत्वस्य दूरापास्तत्वाच्च ।
न च पदजन्या पदार्थस्मृतिरेव करणम् । प्रसिद्धत्यागादिदोष-द्वयात् । निर्व्यापारत्वाच्च । करणस्य च सव्यापारत्वनियमात् ।
न्यायदीपः
ननु यदुक्तम् अन्वयः पदशक्यः वृत्त्यन्तरं विना शाब्दत्वात्पदार्थवदिति । तन्न । अनन्यलभ्यत्वस्य उपाधित्वात् । पदशक्तिं विनाऽप्यन्वयबोध-सम्भवात् । न च पदान्वयव्यतिरेकानुविधानायोगः । तस्यान्यत्रोपक्षयादित्यत आह ॥ एतेनेति ॥ यद्वा शाब्दत्वादित्यसिद्धम् अन्वयबोधस्य पदार्थकरण-कत्वात् शब्दानुविधानस्यान्यत्रोपक्षयादिति मतान्तरं चानूद्य निराह ॥ एतेनेति ॥ पदार्थ एवेत्येकवचनं जात्यभिप्रायम् । ‘‘पदार्थास्तन्मतिर्वा स्यादिति’’ भाट्टोक्तेर्निर्व्यापारस्य कथं करणतेत्यत उक्तं स्मृत इति । स्मृतिरेवावान्तरव्यापार इति भावः । तैरपि पदार्थानामान्वयबोधकत्वं क्वाप्यनुपलब्धं तावत्कल्पनीयमेवेति सुधोक्तिं हृदि कृत्वाऽऽह ॥ एवं हीति ॥
‘‘पदमभ्यधिकाभावत् स्मारकान्न विशिष्यते’’
इत्युक्तेः स्मारकमात्रत्वादित्युक्तम् ॥ अनुव्याख्यानेति ॥ ‘‘गौरवं कल्पनेऽन्यथा’’ इत्यनुव्याख्यानोक्तेत्यर्थः । दोषान्तरं चाह ॥ तस्येति ॥ पदार्थस्येत्यर्थः । वृष्टिरासीद्वृष्टिर्भविष्यतीत्यतीतादिरूपत्वेनेत्यर्थः । कारणत्वा- सम्भवदोषपरिहारमाशङ्क्याह ॥ न चेति ॥ करणमिति ॥ अन्वयबोधं प्रतीत्यर्थः । एवमग्रेऽपि । पदानुविधानानुभवाविरोधायोक्तम् ॥ पदजन्येति ॥ प्रसिद्धेति ॥ प्रसिद्धशब्दत्यागाप्रसिद्धपदार्थस्मृतिरूपसप्तमप्रमाणकल्पना-रूपदोषद्वयादित्यर्थः । मण्युक्तं दोषमाह ॥ निर्व्यापारत्वाच्चेति ॥
नच शक्तिस्मृतिरेवावान्तरव्यापारः
तर्कताण्डवं
नच शक्तिस्मृतिरेवावान्तरव्यापारः । तस्याः पदार्थस्मृत्य-जन्यत्वात् । व्युत्पत्तिकाले शब्दस्यैव कारणत्वग्रहणाच्च । शब्दे-नायमर्थो ज्ञात इत्यनुभवे बाधकाभावाच्च । कारणत्वसम्बन्धेनाकाश-पदजनिताकाशस्मृतित आकाशान्वयबोधप्रसङ्गाच्च । घटः कर्मत्व-मानयनं कृतिरित्यादिपदजनितपदार्थस्मृतितोप्यन्वयबोधप्रसङ्गाच्च ॥
न च पदविशेषजनिता पदार्थस्मृतिरन्वयबोधाङ्गम् । तथात्वे प्रथमोपस्थितपदविशेषस्यैव हेतुत्वावश्यम्भावात् ॥
नच पदं विनाऽपि पदार्थज्ञानमात्रात् काव्यादिमूलान्वय-बोधदर्शनाद्धेषादिश्रवणानन्तरं श्वेताश्वो धावतीति धीदर्शनाच्च, पदार्थ-ज्ञानमेव कारणमिति वाच्यम् । योगजसाक्षात्कारे योगजधर्म-सहकृतस्य मनस इव काव्यादिमूलसंसर्गानुभवे उत्प्रेक्षासहकृतस्य तत्तदर्थस्मृतिव्यापारकस्य मनस एव करणत्वात् ॥ अन्यथा गौरवात् ॥
अत एव नोत्प्रेक्षादेर्मानान्तरत्वापत्तिः । तस्यालोकवन्मनः-सहकारित्वात् । श्वेतो धावतीति धीस्तु, तवार्थापतत्त्या, मम तु अयं कालागरुवह्निमान् नीलसुरभिधूमवत्त्वादितिवदयं श्वेतो धावदश्वो हेषाखुर- निष्पेषवत्त्वादित्यनुमानेन । अन्यथा अनुमानमात्रोच्छेदः स्यात् ॥
न्यायदीपः
तस्या इति ॥ शक्तिस्मृतेरित्यर्थः । तज्जन्यत्वे सति तज्जन्यजनकस्यैव इन्द्रियसन्निकर्षादौ व्यापारत्वदर्शनादिह च शक्तिस्मृतेः पदार्थस्मृतिपूर्वभावित्वेन तदजन्यत्वादिति भावः ॥
ननु क्रियाया अयोगव्यवच्छेदेन सम्बन्धित्वं करणत्वमस्तु । एवं च निर्व्यापारमपि स्मरणं करणं स्यात् । स्मरणव्यापारकं मन एववास्तु करण-मित्यतो दोषान्तरमाह ॥ व्युत्पत्तीति ॥ शब्दस्यैव कारणत्वग्रहणाच्च न पदार्थस्मृतिरन्वयबोधं प्रति कारणमित्यनुषङ्गः । प्रथमगृहीतमपि शब्द-कारणत्वं त्यज्यताम् । न च शब्देनायमर्थो ज्ञायत इत्यनुभवविरोधान्नत्यागो युक्त इति वाच्यम् । तस्य भ्रमत्वोपपत्तेरित्यत आह ॥ शब्देनेति ॥
पदार्थस्मृतेरेव स्मृतपदार्थान्वयबोधहेतुत्वेऽतिप्रसङ्गं चाह ॥ कारण-त्वेति ॥ शब्दगुणकमाकाशमित्यादावाकाशे आकाशपदशक्तिग्रहहीनस्या-प्याकाशस्य शब्दमात्रं प्रति कारणत्वादाकाशमिति पदं प्रति कारणत्व-सम्बन्धेनाकाशस्मृतिमतो १आकाशशब्दगुणकत्वाद्यन्वयबोधः स्यादित्यर्थः ।
पदार्थस्मृतेः करणत्वे मण्युक्तं दोषान्तरं चाह ॥ घट इति ॥ पद-विशेषेति ॥ घटमानयेत्यादिद्वितीयाविभक्त्यन्तपदविशेषेत्यर्थः । चिन्तावशोपनीतपदार्थानामन्वयबोधात्काव्यादिरिति मण्युक्तं चोद्यमनुवदति ॥ न च पदमिति ॥
पश्यतः श्वेतमारूपं हेषाशब्दं च शृण्वतः ।
खुरनिष्पेषशब्दं च श्वेतोश्वो धावतीति धीः ॥
इत्युक्तन्यायेनास्त्येव पदार्थानामन्वयबोधकत्वमिति सुधोक्तचोद्यं सङ्क्षिप्याह ॥ हेषेति ॥ करणमन्वयबोधं प्रतीत्यर्थः । पदं विनाऽपीति कृतचोद्यस्य मण्युक्तमेव समाधिं स्पष्टमाह ॥ योगजेति ॥ उत्प्रेक्षा-नामोहजस्तर्कजं ज्ञानमित्याहुः ॥ गौरवादिति ॥ प्रसिद्धत्यागादिदोष-द्वयगौरवादिति मूलारूढतोक्तिः ।
अत एवेत्युक्तं व्यनक्ति ॥ तस्येति ॥ अन्यथाऽऽलोकस्यापि पृथङ्मानत्वापत्तिरिति भावः । हेषादीत्यादिचोद्यस्यानुमानादर्थापत्तेर्वा तत्रान्वयप्रतीतेरिति सुधोक्तसमाधिं स्पष्टयति ॥ तवेति ॥ पक्षधराद्युक्त-दिशा प्रयोगं व्यनक्ति ॥ श्वेत इति ॥ श्वेत इति पक्षः धावदश्व इति साध्यम् ॥ अन्यथेति ॥ तत्रापि पदार्थानामेवान्वयबोधकत्वे सर्वत्रानुमान-स्थे स्मृतव्याप्त्यादिपदार्थस्यैव साध्यान्वयानुभावकत्वसम्भवादिति भावः । उक्तं च मणिकृताऽपि श्वेतोऽश्वो धावतीति धीस्तु लिङ्गजेति ॥