०५ मण्याद्यभिमतकुब्जशक्तिभङ्गः

ननु तथाऽपि ज्ञातकरणे सम्बन्धः ..

अथ मण्याद्यभिमतकुब्जशक्तिभङ्गः ।

तर्कताण्डवं

ननु तथाऽपि ज्ञातकरणे सम्बन्धः संसर्गिप्रतियोगिकतयैव ज्ञातो हेतुः । न तु संसर्ग१प्रतियोगितयाऽपि, व्याप्तौ तथा दर्शनात् । न हि वह्निव्याप्तिर्वह्निप्रतियोगिकतयेव वह्निसंसर्गप्रतियोगिकतया विज्ञायते । एवं च शक्तिः संसर्गीभूतपदार्थप्रतियोगिकतयैव ज्ञाता हेतुः । न त्वन्वयप्रतियोगिकतयेति चेन्मैवम् ।

व्याप्तिग्राहकमानेन वह्निनैव सह व्याप्तिग्रहः, अन्वितविषयक-व्यवहाररूपेण शक्तिग्राहकमानेन त्वन्वयेनापि सह शक्तिग्रह इति वैषम्यात् ॥ अन्यथा संसर्गेण सह व्याप्तिः स्वरूपेणैव नास्तीति अन्वयेपि शक्तिः स्वरूपेणैव न स्यात् । व्याप्तिर्व्यापकतावच्छेदक-प्रतियोगिकतयाऽपि न ज्ञायत इति शक्तिरपि शक्यतावच्छेदकजाति-प्रतियोगिकतयाऽपि न ज्ञातव्या, गौरवादित्यपि स्यात् ॥

न्यायदीपः

प्रकारान्तरेणान्वयांशे शक्तिज्ञानं न शब्दाधीहेतुरित्याक्षिप्य समाधत्ते ॥ ननु तथापीति ॥ व्यक्तिप्रतिबन्द्या दुष्परिहरत्वेपीत्यर्थः । तथा दर्शना-दित्युक्तं व्यनक्ति ॥ नहीति ॥ ततः किमित्यतः पक्षे योजयति ॥ एवं चेति ॥ ज्ञातकरणसम्बन्धस्य संसर्गिप्रतियोगिकतयैव ज्ञातस्य हेतुत्वे सतीत्यर्थः । हेतुः, शाब्दधीहेतुरित्यर्थः । शब्दशक्तेरपि ज्ञातकरणसम्बन्ध-त्वादिति भावः । एतदुक्तम्भवति । शब्दशक्तिः संसर्गिप्रतियोगिकतयैव ज्ञाता ज्ञानहेतुः । ज्ञातकरणसम्बन्धत्वात् । लिङ्गसम्बन्धरूपव्याप्तिवदिति । जातिव्यक्त्योरुभयोरपि संसर्गितयोभयांशे ज्ञाता शब्दशक्तिर् जातिविशिष्टव्यक्ति-ज्ञानहेतुश्चेदपि न तत्र व्यभिचार इति भावः ।

ज्ञातकरणसम्बन्धत्वाविशेषेऽपि यथाप्रमाणं हेतुत्वं कल्प्यमिति भावेन समाधिमाह ॥ व्याप्तीति ॥ व्यवहाररूपेणेति ॥ मानेनेत्यन्वयः । संसर्ग-प्रतियोगिकतया व्याप्तिग्राहकमानाभावादेव तेन रूपेणाज्ञाताया अपि तस्या अनमितिहेतुत्वेपीह शक्तौ संसर्गप्रतियोगिकतयाऽपि प्रागुक्तदिशा ग्राहकमान-भावेन तेन रूपेण ज्ञाताया एव शाब्दधीहेतुत्वोपपत्तेरित्यर्थः ॥ एतेन संसर्गप्रतियोगिकतया ग्राहकमानवैधुर्यमुपाधिः प्रागुक्तानुमानस्योक्तो भवति ॥ स्वरूपेणैव नास्तीति ॥ तेन सह व्याप्तिग्राहकमानाभावादिति भावः ।

ननु तत्रापि यत्र धूमस्तत्र वह्निसंसर्ग इत्यस्त्येव व्याप्तिरिति वदन्तं प्रति व्याप्तिशरीरप्रविष्टसम्बन्धेन व्याप्त्यभावरूपदोषे सत्यपि जातिप्रति-बन्दीमप्याह ॥ व्याप्तिरिति ॥ अन्यथेत्यनुषङ्गः ॥ इत्यपि स्यादिति ॥ तथा च पदशक्तिवादसिद्धान्ते जातिव्यक्युभयप्रतियोगिकतया ज्ञातैव हेतुरिति त्वदुपपादनविरोध इति भावः ।


न चान्वयस्यापि प्रागुपस्थितौ पदार्थस्येवान्वयस्यापि ..

तर्कताण्डवं

न चान्वयस्यापि प्रागुपस्थितौ पदार्थस्येवान्वयस्यापि संसर्गः शाब्दबोधे भासेतेति वाच्यम् । मन्मते शब्दस्य शक्तिज्ञानसीमकत्वेन तदविषयस्यान्वयप्रतियोगिकसंसर्गस्य अभानसम्भवात् ॥

न च त्वन्मतेऽप्ययं नियमः यः कारणीभूतधीविषयस् तत्संसर्गः कार्यभूतज्ञाने भासत इति । विशेषणज्ञानतया हेतुभूताया धारावाहिक-प्रथमादिबुद्धेर्विषयो यः संसर्गस् तत्प्रतियोगिकसंसर्गस्य द्वितीयादि-बुद्धावभानात् ॥

न च परोक्षज्ञानेऽयं नियमः । अनुमितिहेतुभूतव्याप्तिज्ञानस्य यो विषयः पर्वतवह्निसंयोगस्तत्समावयस्यानुमितावभानात् ॥

नापि शाब्दज्ञानेऽयं नियमः । हेतुभूतस्य पदार्थज्ञानस्य विषयो जातिव्यक्त्योर्वैशिष्ट्यरूपो यः सम्बन्धस् तत्संसर्गस्य शाब्दप्रमायाम-भानात् ॥

न्यायदीपः

अन्वयप्रतियोगिकतयाऽपि शक्तेर्ज्ञानस्य शाब्दधीहेतुत्वे बाधकान्तर-माशङ्क्य निराह ॥ न चेति ॥ प्रागिति ॥ शाब्दबोधात्पूर्वं पूर्वगृहीतशक्ति-स्मृतिदशायामेवान्वयस्यापि स्मृतौ सत्यामित्यर्थः । उभयप्रतियोगिकतया शक्तेर्व्युत्पत्तिदशायां ग्रहणे सति शाब्दबोधात्पूर्वं शक्तिस्मृतिदशायामप्युभय-प्रतियोगिकत्वेन स्मृतेरावश्यकत्वेनान्वयस्याप्युपस्थित्याऽन्वयनिरूपित-संसर्गोऽपि शाब्दबोधे भायात् । पदात्पदार्थस्य प्रागुपस्थित्या शाब्दबोधे तन्निरूपितसंसर्गवत्प्रागुपस्थितेः कारणतया तज्जन्यज्ञाने कारणीभूतज्ञान-विषयनिरूपितसंसर्गस्यापि भाननियमात् । तथा चानयनान्यवान्१ घट इति धीप्रसङ्ग इति भावः ।

॥ शक्तिज्ञानसीमकत्वेनेति ॥ शक्तिज्ञानमर्यादाकत्वेनेत्यर्थः । यद्विषये शक्तिज्ञानं तद्विषय एव ज्ञानजनकत्वं शब्दस्य स्वभावः । शक्तिज्ञानं च पदार्थे तदन्वये च प्रागसीदिति तयोरेव शाब्दबोधे भानं, न तु २संसर्गस्यापि । हेत्वभावादिति भावः ॥

न्यायमते ज्ञानयोः कार्यकारणभाव एव पूर्वज्ञानविषयसंसर्गभाने हेतुः । घटत्वनिर्विकल्पजन्ये तत्सविकल्पके तथा दर्शनात् । दण्डज्ञानजन्ये दण्डीति विशिष्टज्ञाने च दर्शनाच्चेत्यत आह ॥ न च त्वन्मतेऽपीति ॥ अयमिति ॥ वक्ष्यमाणः किमयं नियमोऽपरोक्षज्ञानेऽथ परोक्षज्ञानस्थे । आद्य आह ॥ विशेषणेति ॥ हेतुभूतत्वे हेतुर्विशेषणज्ञानतयेति ॥ यः संसर्ग इति ॥ अयं घट इत्यादिधारावाहिकस्थे घटघटत्वसंसर्ग इत्यर्थः ॥ अभा-नादिति ॥ अन्यथा ज्ञानानामविशेषानुभवविरोध इति भावः ।

अन्त्यमाशङ्कते ॥ न चेति ॥ तत्रापि किमनुमितिस्थेऽथ शाब्द-बोधस्थे । आद्य आह ॥ अनुमितीति ॥ पर्वतवह्निसंयोग इति ॥ यो यो धूमवानसावसावग्निमानिति महानसादौ व्याप्तिग्रहदशायां सामान्यलक्षणप्रत्यासत्त्योपस्थितसमस्तधूमवह्निव्यक्तीनां व्याप्तिग्रहनियमेन पर्वतीयधूमस्यापि पर्वतीयवह्निना व्याप्तिग्रहणे पर्वतवह्निसंसर्गस्यापि सामान्या-कारेण ज्ञानविषयत्वादिति भावः ॥ अभानादिति ॥ अन्यथा पर्वतो वह्निसंयोगवानित्येव धीः स्यान्न तु वह्निमानितीति भावः ।

अन्त्ये द्वितीयमाशङ्क्य निराह ॥ नापीति ॥ हेत्विति ॥ वाक्यार्थ-ज्ञानहेतुभूतस्येत्यर्थः ।