ननु षट्कान्तर्गता व्यक्तिप्रतिबन्दी न युक्ता
अथ व्यक्तिप्रतिबन्द्या दुष्परिहरत्वम् ।
तर्कताण्डवं
ननु षट्कान्तर्गता व्यक्तिप्रतिबन्दी न युक्ता । व्यक्तौ शक्ति-ज्ञानस्याहेतुत्वे जाताविव व्यक्तावपि १शक्तत्वेन ज्ञातत्वस्यैव प्रयोजकत्वसम्भवे शक्यत्वेन ज्ञातजातिसम्बन्धिव्यक्तित्वरूप-प्रयोजकान्तरकल्पने गौरवमिति चेत् सममन्वयेऽपि प्रयोजकान्तर-कल्पनेऽनुव्याख्यानोक्तं गौरवम् ॥
ननु गोत्वे गोपदं शक्तमिति ज्ञानं प्रति विषयतया जातेर् अवच्छेदकत्वं नागृहीतविशेषणान्यायेन विशेषणीभूतव्यक्तिमादायैव युक्तम् । व्यक्तिं विना जातेरनुपस्थितेः । अन्वये तु नैवम् । तं विनाऽपि पदार्थोपस्थितेरिति चेन्मैवम् ।
अन्वितविषयकव्यवहाररूपलिङ्गजन्ये शक्तिग्राहके ज्ञाने नियमोप-स्थितेरन्वयेऽपि सत्त्वात् । अन्यत्र नियमेन प्रतीतेस्तु नित्यादि-पदजन्यज्ञाने गोत्वप्रतीतावपि गवादिव्यक्तेर् अप्रतीत्या व्यक्तावप्य-सत्त्वात् । एवं व्यक्त्यन्वययोस्साम्येऽपि वैरूप्यकल्पने गौरवम् ॥
न्यायदीपः
ननु– यदुक्तं शक्तिः पदार्थे ज्ञातोपयुज्यते, अन्वये तु स्वरूपसतीति कुब्जशक्तिपक्षे साधकषट्कं स्थिरमेवेति तत्रान्वयस्य शाब्दत्वं करण-रूपशब्दस्य प्रत्यासन्नत्वं च शक्तिज्ञानं विना न युक्तमिति साधकद्वयस्योप-पादनेऽपि शक्तिर्जाताविव व्यक्तावपि तद्विशिष्टव्यक्तिबोधे ज्ञातोपयुज्यते न तु व्यक्त्यंशे अज्ञातेति यथोच्यते तथाऽन्वयांशेऽपीति यत्साधकमभिहितं तदयुक्तम् । येन जातिव्यक्तिप्रतिबन्द्याऽन्वयांशेऽपि शक्तिर्ज्ञातोपयुक्ता शाब्दबोधे स्यादिति भावेन शङ्कते ॥ नन्विति ॥
पदशक्तिवादसिद्धान्ते मण्युक्तमाह ॥ व्यक्ताविति ॥ व्यक्त्यंशे या शक्तिस्तज्ज्ञानस्य जातिविशिष्टव्यक्तिज्ञानहेतुत्वे व्यक्त्यंशे शक्तेः स्वरूपसत्या एव हेतुत्वे गौरवमित्यन्वयः । कथमित्यत उक्तं जाताविवेत्यादि । गवादिशब्देन गोत्वादिज्ञाने जनयितव्ये जातेर्गोपदशक्यत्वेन ज्ञातत्वं यथा प्रयोजकं तथा गोव्यक्तिज्ञाने जनयितव्येऽपि गोपदशक्यत्वेन ज्ञातत्वस्यैव प्रयोजकत्वसम्भवे तत्त्यागेन गोपदादिशक्यत्वेन ज्ञाता या गोत्वादिजाति-स्तत्सम्बन्धिव्यक्तित्वादिरूपप्रयोजकान्तरस्य कल्पनीयत्वादित्यर्थः ।
॥ प्रयोजकान्तरेति ॥ पदार्थ इवान्वयेऽपि शब्दशक्यत्वेन ज्ञातत्व-रूपकप्तप्रयोजकत्यागेन शक्यत्वेन ज्ञातपदार्थान्वयत्वरूपप्रयोजकान्तरकल्पने ‘‘गौरवं कल्पनेऽन्यथे’’ति साधकषट्कवादोदाहृतानुव्याख्यानोक्तगौरवमिति मूलारूढताप्रदर्शनायनुव्याख्यानेत्युक्तम् ॥
पदशक्तिवादसिद्धान्ते मण्युक्तदिशा शङ्कते ॥ नन्विति ॥ गोत्वे गोपदं शक्तमितिज्ञाने गोत्वं विशेष्यत्वेन विषयः । अत एव ज्ञाने व्यावर्तका-परपर्यायमवच्छेदकं जातौ च गोव्यक्तिर्विशेषणम् । तया विना जातेरप्रतीतेः । तथा च ‘‘नागृहीतविशेषणा विशेष्ये बुद्धिः’’ इति न्यायेन गोत्वे गोपदं शक्तमिति ज्ञानं गोव्यक्तिं गोत्वं च विषयीकरोतीति तादृशज्ञानं प्रति जातिव्यक्त्योर्द्वयोरपि विषयतयावच्छेदकत्वं न्याय्यमिति जात्यंश इव व्यक्त्यंशेऽपि शक्तिज्ञानं जातिविशिष्टव्यक्तिज्ञाने हेतुरिति युक्तम् । अन्वये तु नैवम् । तद्व्यनक्ति ॥ तमिति ॥
ज्ञान इति ॥ इतरान्विते शक्तमित्येवंरूपज्ञानस्यैव वृद्धव्यवहार-जन्यत्वस्य प्रागुपादानात् । तादृशज्ञाने च पदार्थस्येवान्वयस्यापि नियमेनोप-स्थित्या तं विना पदार्थोपस्थितेरित्यस्यासिद्धिरितिभावः ॥ ननु व्यवाहररूप-लिङ्गजन्यप्राथमिकशक्तिज्ञानेऽन्वयस्य नियमेनोपस्थितावपि व्याकरणोप-मानकोशादिजन्यपाश्चात्यशक्तिज्ञाने अन्वयप्रतितेरसत्वमेवेत्यतो व्यक्तावपि तथेत्याह ॥ अन्यत्रेति ॥ गौर्नित्येत्यादौ व्यक्तेर्बाधेन जातेरेव प्रतीत्या व्यक्तिप्रतीतेरसत्त्वादित्यर्थः ॥
‘‘गौरवं कल्पनेऽन्यथा’’ इति मूलारूढतां दर्शयति ॥ एवमिति ॥
एतेन जातिव्यक्त्योस्समानसंवित्संवेद्यतया..
तर्कताण्डवम्
एतेन जातिव्यक्त्योस्समानसंवित्संवेद्यतया व्यक्तिज्ञानत्वेन ज्ञात एव जातिज्ञाने शक्तिग्रहाद्व्यक्तेरप्यवच्छेदकतया शक्यत्वं, न त्वन्वयस्येति निरस्तम् । शक्तिग्राहके ज्ञाने समानसंवित्संवेद्यत्वस्या-न्वयेऽपि सत्त्वात् । अन्यत्र तदसत्त्वस्य अकिञ्चित्करत्वादित्युक्त-त्वात् । जातिव्यक्त्योः समानसंवित्संवेद्यत्वेऽपि तज्ज्ञानत्वयोस्तद-भावाच्च ।
न्यायदीपः
अपि च ‘‘यद्धर्मवत्तया ज्ञात एव यत्र यस्य ज्ञानं स तत्रावच्छेदक’’ इत्यादिमण्युक्तं हृदि कृत्वा वैषम्यान्तरमनूद्य निराह ॥ एतेनेति ॥ गोत्वाद्यर्थे गवादिपदं शक्तमित्येकं मतम् । गोत्वादिज्ञाने शक्तमित्यपरं मतम् । तन्मतावष्टम्भेन व्यक्तिज्ञानत्वेन ज्ञात एव जातिज्ञान इत्यनुवादः । जातिव्यक्त्युभयविषयज्ञानस्यैकत्वात् । अस्मिन् पक्षे शक्तिपदं कारणत्वपरम् । अर्थे शक्तमिति पक्षे चेश्वरसङ्केतपरमिति ध्येयम् । परमते अतीन्द्रिय-शक्तेरभावात् ।
॥ उक्तत्वादिति ॥ प्राथमिकव्युत्पत्तितोऽन्यत्र व्याकरणादि-व्युत्पत्तिस्थे समानवित्तिवेद्यत्वासत्त्वस्यान्यत्र नियमेन प्रतीतेस्त्वित्यादि-पूर्ववाक्ये जातिव्यक्त्योरपि तदसत्त्वस्योक्त्या एकिञ्चित्करत्वादित्युक्त-प्रायत्वादित्यर्थः ॥ तज्ज्ञानत्वयोरिति ॥ जातिज्ञानत्वव्यक्तिज्ञानत्वयो-रित्यर्थः । तथाच व्यक्तिज्ञानत्वेन ज्ञात एव जातिज्ञान इत्ययुक्तमिति भावः ।