०३ अन्विताभिधाने युक्तिदशकम्

अथ मतम्– अस्त्येवान्वये शक्तिः..

अथ अन्विताभिधाने युक्तिदशकम् ।

तर्कताण्डवम्

अथ मतम्–

अस्त्येवान्वये शक्तिः, किं तु सा स्वरूपसत्येव हेतुः, न तु ज्ञाता । पदार्थे शक्तिज्ञानादेवान्वयबोधोपपत्तेः ।

न च वैपरीत्यं शङ्क्यम् । अन्वयस्य पदार्थनिरूप्यत्वेन नागृहीत-विशेषणान्यायेन तत्रैव शक्तिग्रहस्य हेतुत्वात् । व्यवहारेण लिङ्गे-नान्विते शक्तिग्रहेऽपि गौरवान्यल्लभ्यत्वाभ्यामन्वयांशमपहाय पदार्थ-मात्रविषयत्वेनैव शक्तिग्रहस्य शाब्दबोधहेतुत्वकल्पनात् ॥

न चैवं पदार्थे ज्ञाता शक्तिरुपयोगिन्यन्वये त्वज्ञातेति शक्तिद्वित्वे गौरवमिति वाच्यम् । गुरुमते जातिविशिष्टव्यक्तिविषयायाः शक्ते-रेकत्वेऽपि जात्यंशमात्रे ज्ञातोपयोगित्ववदिहाप्यन्वितविषयायाः शक्तेरेकत्वेऽपि पदार्थांशमात्रे ज्ञातोपयोगित्वस्योपपत्तेः । अत एव कुब्जशक्तिवाद इति ।

न्यायदीपः

१यत्तु मणौ पदशक्तिवादपूर्वपक्षे प्राभाकरमतानुवादप्रस्तावे जातिव्यक्तिज्ञानजनकत्वादुभयत्रापि शब्दशक्तिर् जात्यंशे सा ज्ञाता, व्यक्त्यंशे तु स्वरूपसती हेतुर् लाघवादिति कुब्जशक्तिवादस्त्वया नैयायिकेनाप्यन्वये कुब्जशक्तिस्वीकारादिति दृष्टान्तमुखेनान्वये कुब्जशक्तिरुपक्षिप्ता तां तन्माताभिमतोपपादनपूर्वमनुवदति ॥ अथ मतमित्यादिना ॥ कुत इत्यतोऽन्यतो लभ्यत्वान्न तत्र ज्ञातोपयुज्यत इत्याह ॥ पदार्थ इति ॥ वैपरीत्यमिति ॥ अन्वये ज्ञाता पदार्थे स्वरूपसतीति वैपरीत्यमित्यर्थः ॥ नागृहीतेति ॥ ‘‘नागृहीतविशेषणा विशेष्ये बुद्धिरुत्पद्यते’’ इति न्यायेन प्रथमोपस्थितपदार्थरूपविशेषणांश एव शक्तिग्रहस्य हेतुत्वादित्यर्थः । व्यवहारलिङ्गकान्वितशक्तिग्रहविरोध इत्यत आह ॥ व्यवहारेणेति ॥

ननूभयत्र शक्तेरेकत्वे ज्ञातत्वाज्ञातत्वयोर्विरोधेन शक्तिभेदे गौरवमिति शङ्कते ॥ न चेति ॥ शक्त्यैक्येऽप्यवच्छेदकभेदादविरोध इति सदृष्टान्तमाह ॥ गुरमत इति ॥ जात्यंश इति ॥ नागृहीतविशेषेणान्यायेनेति भावः ॥ ज्ञातोपयोगित्ववदिति ॥ जातिविशिष्टव्यक्तिज्ञानहेतुत्वं यथा तथेत्यर्थः । ज्ञाताया उपयोगित्वं ज्ञातोपयोगित्वं तद्वत्, ‘‘तदशिष्यं१ प्रमाणत्वात्’’ इतिवदयं निर्देशः साधुः । एवमग्रेऽपि ॥ अत एवेति ॥ अंशभेदेनाज्ञातत्वादेवेत्यर्थः ।


उच्यते

तर्कताण्डवम्

उच्यते । अस्मिन्नपि पक्षेऽन्विते प्राथमिकी व्युत्पत्तिरित्यादि सिद्धान्तसाधकं युक्तिषट्कं सुस्थिरमेव ॥ न चान्वये शक्तेः सत्त्व-मात्रेण तस्य शाब्दत्वं तस्याः प्रत्यासत्तित्वं च युक्तमिति वाच्यम् । शक्तिभ्रमेणाऽपि शाब्दयोर्भ्रमप्रमयोर्दर्शनेन शक्तिज्ञानस्यैव शाब्दत्वे तन्त्रत्वात् । प्रत्यासत्तित्वाच्च ॥ किं च धूमोस्तीति वाक्ये धूमशब्दस्य वह्नौ लक्षणारूपवृत्तिज्ञाने सत्येव शाब्दधीरन्यथानुमिति-रित्यन्वयांशे वृत्त्यज्ञाने कथमन्वयस्य शाब्दत्वम् ।

न्यायदीपः

॥ सिद्धान्तसाधकमिति ॥ प्रागन्विते शक्तिरित्यत्रोक्तसाधकषट्क-मेवान्वयेऽपि शक्तिग्रहो हेतुरिति पक्षेऽपि समानमित्यर्थः । ननु यत् प्रागन्वयस्याशक्यत्वे तद्धियोऽशाब्दत्वमुक्तं, यच्च शब्दरूपकरण-स्यान्वयांशेऽप्रत्यासन्नत्वं स्यादित्युक्तं तद्द्वयमप्यन्वयांशे शक्तिग्रहस्य न हेतुत्वसाधकं, अन्यथैव तत्सिद्धेरिति शङ्कते ॥ न चान्वय इति ॥ भ्रमेणापीति ॥ स्वरूपसत्त्या एव शक्तेः शाब्दधीहेतुत्वे प्रत्यासत्तित्वे च तद्भ्रमेण शब्दभ्रमो न स्यात् । दृश्यते चायमतस् तज्ज्ञानमेव तत्र हेतुः । ज्ञातैव च सा तत्र प्रत्यासत्तिरित्यर्थः । क्वचिच्छाब्दप्रमाभ्रमयोर्दर्शनेनेति पाठः, स तु गाव्याद्यसाधुशब्दशक्तिग्रहे प्रमाया अपि दृष्टेस्तदभिप्रायः । केचित्तु यादृच्छिकप्रमाग्रह इत्याहुः ॥ एवं प्रागुक्तसाधकषट्कमध्येऽयुक्तत्वेन भ्रान्तं साधकद्वयमुपपाद्येदानीं १युक्तिं च चतुष्टयमधिकं विवक्षुर् अन्यत्र कप्तत्वाच्छक्तिस्थेऽपि तज्ज्ञानमन्वयांशेप्यावश्यकमित्याह ॥ किञ्चेति ॥ शाब्दधीविषयः स्वविषयशक्तिज्ञानविषयस् तज्जन्यज्ञानविषयत्वात् । न चासिद्धिः । पदार्थांशे शक्तिज्ञानस्य परेणापि हेतुत्वोपगमात् । न च दृष्टान्ताभावः ।