नन्वन्विताभिधाने घटमानयतीत्यादौ..
अथ अन्विताभिधाने उदयनाद्युक्तबाधकदशकोद्धारः ।
तर्कताण्डवं
नन्वन्विताभिधाने घटमानयतीत्यादौ कारकपदेनान्वय-प्रतियोगितया क्रियायाः क्रियापदेनापि तत्प्रतियोगितया कारकस्याभि-धानात्पर्यायता स्यादिति चेन्न । कारकपदे क्रियान्वितकारकत्वस्य क्रियापदे च कारकान्वितक्रियात्वस्य प्रवृत्तिनिमित्तस्य भेदेन पुत्रपितृ-शब्दयोरिवापर्यायत्वात् । न हि प्रवृत्तिनिमित्तयोर्भेदेऽपि तयोस्सम-नियततामात्रेण पर्यायत्वम् ॥
नन्वेवमपि पदान्तरवैयर्थ्यम् । एकेनैवेतरान्वितस्वार्थोपस्थापना-द्विशेषणविशेष्यविपरिवृत्तिमात्रेणावैयर्थ्ये दण्डी पुरुषः पुरुषस्य दण्ड इत्यत्राप्येकस्य वैयर्थ्यं न स्यादिति चेन्न ।
मीमांसकमते धवखदिराविति द्वन्द्वे धवशब्दलक्षितसाहित्य-निरूपकद्वितीयस्य विशेषसमर्पणेन खदिरशब्दस्येवेहापि पदापेक्ष्यत-त्तद्विशेषोपस्थापनेन सार्थक्यात् । प्रयोजनान्तरेण सार्थकेऽपि पदे सामग्रीवशागतार्थिकपुनरुक्तेरदोषत्वात् ॥
न्यायदीपः
एवं साधकान्युक्त्वाऽन्विताभिधाने बाधकान्यप्याशङ्क्य निराह ॥ नन्वित्यादिना ॥ विशिष्यान्विताभिधानं भ्रान्त्याह ॥ कारकपदे-नापीति ॥ पर्यायता क्रियाकारकपदयोरिति शेषः । स्यादयं दोषो यदि घटः करीर इत्यादाविव पदप्रवृत्तिनिमित्तैक्यं भवेत् । नचैवमस्तीत्याह ॥ कारकपद इति ॥ पुत्रेति ॥ पुत्रादिशब्दस्य सम्बन्धिशब्दत्वेन पित्रा-द्युपस्थापकत्वेऽपि पुत्रत्वादिनिमित्तभेदाद् यथा न पर्यायत्वं तथेत्यर्थः ॥
ननु क्रियात्वकारकत्वादेः परस्पराविनाभावात्तद्वाचिनोरपि पर्यायत्वमित्यत आह ॥ न हीति ॥ पुत्रादिशब्देऽपि तथात्वापत्तेरिति भावः ॥ एवम-पीति ॥ अपर्यायत्वेऽपीत्यर्थः । कारकान्विता क्रिया क्रियान्वितं कारकमिति क्रियाकारकयोर्भानार्थं पदद्वयमर्थवदित्यत आह ॥ विशेषणेति ॥ विपरिवृत्तिर्व्यत्यासः ॥ एकस्येति ॥ वाक्यस्येत्यर्थः ॥
विशेषान्वयप्रतिपत्त्यर्थं पदान्तरसमभिव्याहारोपयोग इति दृष्टान्तोक्ति-पूर्वकमाह ॥ मीमांसकमत इति ॥ तन्मते हि धवखदिराविति द्वन्द्वे धवादावैकैकस्मिन्विभक्त्यर्थद्वित्वस्यानन्वयेन सहितयोर्द्वयोरेव तदन्वयेन द्वित्वान्वयार्थं धवपदमेव सहितोभयलक्षकमित्यभ्युपगमात्तदा खदिर-पदावैयर्थ्याय धवपदलक्षितधवसाहित्याश्रयसामान्यस्य खदिरत्वरूपविशेष-समर्पकत्वस्वीकारादित्यस्याग्रे द्वन्द्वसमासप्रस्तावे वक्ष्यमाणत्वादिति भावः । सुधोक्तमाह ॥ तत्तद्विशेषेति ॥
नन्वेवमपि पुनरुक्तिरूपबाधकमपरिहार्यमित्यतः ‘‘आर्थिकी तु पुनरुक्तिरदूषणम् । यश्चार्थादर्थो न स चोदनार्थ’’ इति न्यायादिति सुधोक्तमेव व्यञ्जयन्नाह ॥ प्रयोजनेति ॥ सामग्रीति ॥ समभिव्याहाररूपसामग्री-वशादित्यर्थः ।
न चैवमपि क्रियापदेनानयनरूपे क्रियाविशेषेऽभिहिते ..
तर्कताण्डवं
न चैवमपि क्रियापदेनानयनरूपे क्रियाविशेषेऽभिहिते घटपदेन तदन्वितघटाभिधानं, एवं घटपदेन घटरूपे कारकविशेषेऽभिहिते क्रियापदेन तदन्वितक्रियाभिधानमित्यन्योन्याश्रय इति वाच्यम् । विशेषान्विताभिधानमतेऽस्य अन्योन्याश्रयस्य सम्भवेऽपि सामान्यतोऽन्विताभिधानमिति मन्मते पदानां प्रत्येकमेव योग्येतर-सामान्यान्वितस्वार्थाभिधाने सामर्थ्येन पदान्तरनिरपेक्षतयाऽ-न्योन्याश्रयाऽभावात् ॥ अन्योन्याश्रयार्थमननुभूयमानविशेषा-न्विताभिधानकल्पने गौरवात् ॥
न्यायदीपः
बाधकान्तरमाशङ्कते ॥ न चैवमिति ॥ अन्योन्येति ॥ यावत्पूर्वपदं स्वार्थं नाभिधत्ते तावदुत्तरपदस्य पूर्वपदार्थान्वितस्वार्थाभिधानं नास्ति । यावच्चोत्तरपदं स्वार्थं नाभिधत्ते तावत्पूर्वपदस्योत्तरपदार्थान्वितस्वार्थप्रतिपादनं न भवतीति स्वस्वार्थाभिधानेऽन्योन्याभिधानापेक्षाऽवश्यम्भावेनान्योन्याश्रयान्न किमपि पदं कमप्यर्थमभिदध्यादित्यर्थः । ‘‘वयं तु ब्रूमः स्यादिदं विशेषान्विताभिधानवादिनां दूषणम्’’ इत्यादिना सुधोक्तमाह ॥ विशेषेति ॥ योग्यं यदितरत्सामान्यं तदन्वितेत्यर्थः ॥ पदान्तरेति ॥ तस्य विशेषोप-स्थितावेवोपयोगोक्तेरिति भावः ॥
‘‘गौरवं कल्पनेऽन्यथा’’ इति प्रागुक्तमूलारूढमेतदिति दर्शयितुमाह ॥ अन्योन्येति ॥ अन्योन्याश्रयमस्मान्प्रतिवक्तु१मभिहितान्वयवादिना नैयायिकेन विशेषान्विताभिधानकल्पन इत्यर्थः । गौरवादित्युपलक्षणम् । छलोत्तरत्वापातादित्यपि ध्येयम् ।