ननु कथमन्विते शक्तिः
अन्विताभिधान वादः
अथ अन्विताभिधाने साधनषट्कम् ।
तर्कताण्डवं
ननु कथमन्विते शक्तिः । पौनरुक्त्यादिदोषात् । पदार्थेषु शक्तैरेव पदैः पदार्थस्मृत्यवान्तरव्यापारैराकाङ्क्षादिसहकारिवशादन्वयविशेष-वदन्वयसामान्यस्यापि लाभेन तत्र शक्तिकल्पनायोगाच्च । अत एव न प्रमाणान्तरापत्तिः । शब्दस्यैवान्वये प्रमाणत्वात् । एतेन तदन्वय-बोधजनकं तत्राशक्तं चेति व्याहतमिति निरस्तम् । न ह्यत्राशक्त-शब्देनाजनकत्वं विवक्षितम् । किन्त्वभिधारूपवृत्तिराहित्यमात्रमिति चेत् ॥
उच्यते । न तावदन्वये शक्तिरेव नास्तीति युक्तम् । प्राथमिक-व्युत्पत्तिहेतुनान्वितविषयकेण व्यवहारेण सामान्यतो योग्येतरान्वित एव शक्तिग्रहात् ।
अनन्तरभाविनश्च व्याकरणोपमानकोशाप्तवाक्यवाक्यशेषविवरण-प्रसिद्धपदसमभिव्याहाररूपव्युत्पत्तिहेतवः, तदनुसारितया कप्तेऽन्वित एव शक्तिग्राहकाः । अन्यथाकल्पने गौरवात् ।
तदुक्तं भगवत्पादैः
‘‘शक्तिश्चैवान्विते स्वार्थे शब्दानामनुभूयते ।
अतोऽन्विताभिधायित्वं गौरवं कल्पनेऽन्यथा’’ इति ।
न्यायदीपः
एवं ननु स्वरूपसहकार्यतिरिक्तशक्तौ मानं नेत्युपक्रम्य प्रकरणसप्तकेन शक्तिरस्तीति समर्थ्य प्रसङ्गागतं तमसो द्रव्यत्वं सुवर्णस्य पार्थिवत्वं च प्रकरणपञ्चकेन समर्थ्येदानीमन्वयेे शक्तिरित्यर्थं प्रकरणसप्तकेन साधयितुकाम आक्षिपति ॥ नन्विति ॥ शक्तिरिति ॥ पदानामिति शेषः ॥ पौन-रुक्त्येति ॥ गामानयेत्यादौ गोपदेन बोधितस्य गवानयनान्वयस्यानयपदेनापि बोधनात् पुनरुक्तत्वम् । आदिपदेनोत्तरभङ्गे शङ्किष्यमाणदशविधबाधकानां ग्रहः । सामान्यान्वये शक्तिर्न तु विशेषान्वय इति सिद्धान्त्याभमितत्वा-त्तद्दृष्टान्तेनान्यलभ्यत्वाच्छक्तिकल्पनमयुक्तं चेति भावेन पदं करणं पदार्थ-स्मरणं व्यापार आकाङ्क्षादिसहकारिवशात् स्मारितार्थान्वयानुभवः फलम् इति मण्युक्तमाह ॥ पदार्थेष्विति ॥ नन्वन्यत्र शक्तानां कथमशक्यान्वय-बोधकत्वमित्यत उक्तं पदार्थेत्यादि । बहुव्रीहिः । अन्वयविशेषवदन्वय-विशेषस्येव । लाभेन बोधसम्भवेत्यर्थः । तत्र सामान्यान्वये । अन्यथाऽन्वय विशेषेऽपि शक्तिकल्पनाप्रसङ्ग इति भावः ॥
नन्वन्वयस्य पदशक्त्यविषयत्वे तद्बोधकं शब्दादन्यत्प्रमाणं स्यादित्यत आह ॥ अत एवेति ॥ पदार्थमात्रशक्तपदप्रमाणकत्वादेवान्वयस्येत्यर्थः । तदेवाह ॥ शब्दस्यैवेति ॥
दोषोस्तीत्येतन्निरसिष्यत इति भावेनाह ॥ न तावदिति ॥ प्राथमिकेति ॥ प्रथमं तावद्वृद्धव्यवहार एव शक्तिग्रहहेतुः । स च व्यवहारो न पदार्थमात्रे, किन्त्वन्वित एवेति तेनान्वित एव शक्तिग्रहादित्यर्थः । आनयनाद्यन्वयानां व्यभिचारात्कथमन्वये शक्तिरित्यत उक्तं सामान्यतो योग्येतरान्वित इति । आनयनबन्धनादिविशेषमपहाय क्रियान्वितं कारकं कारकान्विता क्रियेत्येवं रूपेण गवादिपदानां शक्तिग्रह इत्यर्थः ॥ व्याकरणेति ॥ ‘‘श्रोत्रियंश्छन्दोऽधीत’’ इत्यादिसूत्रैः श्रोत्रियादिशब्दानां छन्दोध्ययनकर्त्राद्यर्थे शक्तिग्राहकं व्याकरणम् अतिदेशवाक्यार्थस्मरण-सहकृतगोसादृश्यादिविशिष्टपिण्डज्ञानमुपमानं गवयादिपदशक्तिग्राहकम् । कोशोऽमरादिनिघण्टुः प्रसिद्धः । इयं गौरित्याद्याप्तवाक्यं गवादिपदशक्ति-ग्राहकम् ।
‘‘यन्न दुःखेन सम्भिन्नं न च ग्रस्तमनन्तरम् ।
अभिलाषोपनीतं च सुखं स्वर्गपदास्पदम् ।’’
इति वाक्यशेषः स्वर्गपदस्य सुखविशेषे शक्तिग्राहकः ।
तथा यवमयश्चरुर्भवतीत्यादौ यवशब्दस्य–
‘‘वसन्ते सर्वसस्यानां जायते पत्रशातनम् ।
मोदमानाश्च दृश्यन्ते यवाः कणिशशालिनः ॥’’
इति वाक्यशेषो दीर्घशूके शक्तिग्राहकः ॥
‘‘उग्रं वचोऽपावधीं स्वाहेति’’ श्रुतस्योग्रं वच इदि शब्दस्य ‘‘अशनाया पिपासे ह वा उग्रं वच’’ इत्यादिविवरणमशनापिपासयोः शक्तिग्राहकम् । ‘‘सहकारतरौ मधुरं रौति पिक’’ इत्यादौ पिकपदस्य कोकिले सहकारादि-प्रसिद्धपदसमभिव्याहारः शक्तिग्राहकः ॥
यद्यप्यसाधारणधर्मरूपलक्षणज्ञानमपि शक्तिग्राहकम् । तथापि तस्य धर्ममात्रोपमानरूपत्वादुपमानपदेनैव तस्य ग्रहणं प्राप्तमिति न पृथग्लक्षणस्य ग्रहः ॥
‘‘शक्तिग्रहं व्याकरणोपमानकोशाप्तवाक्याद्व्यवहारतश्च ।
वाक्यस्य शेषाद्विवृतेर्वदन्ति सान्निध्यतः सिद्धपदस्य वृद्धाः ॥’’
इति प्राचीनोक्तिरिति भावः ॥ व्युत्पत्तीति ॥ वाच्यवाचकभाव-सम्बन्धज्ञानहेतव इत्यर्थः ॥ अन्यथेति ॥ कप्तत्यागेनाकप्तस्य पदार्थमात्र-शक्तिग्राहकत्वस्य कल्पन इत्यर्थः ।
॥ तदुक्तमिति ॥ जिज्ञासाधिकरणानुव्याख्याने इत्यर्थः ॥ शक्तिश्चेति ॥ उपलक्षणमेतत् । तच्च नाभिहितान्वय इत्यादि शब्दा अन्वितवाचका इत्यन्तः भक्तिपादीयानुव्याख्यानसुधयोरुक्तम् । तद्विवरणमग्रे यथायोगं ध्येयम् । व्यवहारादिना शब्दशक्तिमवधारयता पुरुषेण शब्दानां शक्तिश्चान्वित एव स्वार्थेऽनुभूयते । अतोऽनुभवबलाच्छब्दानामन्वितस्वार्थाभिधायित्वमभ्युपेयम् । शक्तिग्रहानुसारित्वादभिधानस्य । अनुभवानादरेण स्वार्थमात्रशक्तिकल्पने गौरवमित्यर्थः । न केवलं पदानां किन्तु प्रकृतिप्रत्ययानामपीति द्योतनाय शब्दानामित्युक्तिः ॥
किं चेश्वरसङ्केतरूपायाः स्वाभाविकसम्बन्धरूपाया वा..
तर्कताण्डवं
किं चेश्वरसङ्केतरूपायाः स्वाभाविकसम्बन्धरूपाया वा शक्तेरभावे वृत्त्यन्तराविषयस्यान्वयस्य शाब्दधीविषयत्वं न स्यात् ।
किं च शब्दस्यापि करणत्वेन चक्षुरादेरिव विषयप्रत्यासन्नस्यैव क्रियाजनकत्वेन पदार्थेनेवान्वयेनापि शक्तिरूपप्रत्यासत्तिरङ्गीकार्या । अन्यथाकल्पने गौरवात् ॥
न च चक्षुषो रूपेण संयुक्तसमवाय इव शब्दस्यान्वयेन शक्यपदार्थसम्बन्ध एव प्रत्यासत्तिरिति वाच्यम् । साक्षात् सम्बन्ध-सम्भवेऽपि परम्परया सबन्धाश्रयणे गौरवात् । अन्यथा चक्षुःसंयुक्त-कपालसमवेते घटे संयोगः प्रत्यासत्तिर्न स्यात् ॥
न्यायदीपः
नन्वन्यलभ्येप्यन्वये शक्तिकल्पन एव गौरवमित्यतो ‘‘न चाशक्याभि-धायित्वम्’’ इत्यनुव्याख्यानांशस्य शब्दानामशक्यान्वयबोधजनकत्वं न चेत्यर्थमुपेत्याह ॥ किञ्चेत्यादिना ॥ परमतेनाह ॥ ईश्वरसङ्केतेति ॥ स्वमतेनाह ॥ स्वाभाविकेति ॥ शक्तेरभाव इति ॥ वाक्यार्थरूपान्वय इति योज्यम् । वृत्तिमात्रमन्वये नास्तीति मतेनोक्तं वृत्त्यन्तराविषयस्येति । लक्षणाऽवृत्तिरन्वयेऽस्तीति पक्षस्याग्रेऽन्वयलक्ष्यत्वभङ्गे निरसिष्यमाणत्वाच्च । तथा च नान्यलभ्यत्वमिति भावः ।
यद्वाऽन्विते शक्तिरित्यत्र प्राथमिकव्युत्पत्तिरूपमेकं मानमुक्त्वाऽन्वयः शब्दशक्तिविषयः वृत्त्यन्तराविषयत्वे सति शाब्दधीविषयत्वात् शक्तिविषय-पदार्थवद् इत्यनुमानं च मानमुपेत्य तस्याप्रयोजकत्वनिरासाय विपक्षे हेतूच्छित्तिरूपबाधकतर्कमाह ॥ किं चेश्वरेत्यादिना ॥ अर्थस्तु प्राग्वत् । एतेन १पदं करणं, पदार्थस्मरणं व्यापारः, अन्वयानुभवः फलं, इति मण्युक्तं निरस्तं ध्येयम् । वृत्तेरभावे पदजन्यानुभवविषयत्वायोगादिति ॥
शब्दोऽ२र्थप्रत्यासन्नो भवितुमर्हति बोधरूपक्रियाजनकत्वात्, जनकत्वं च करणत्वाच्चक्षुरादिवदिति सामान्यतोऽ३र्थेन शब्दस्य सम्बन्धस्य सिद्धा-वन्यस्यायोगाच्छक्तिरेव प्रत्यासत्तिः सामान्यपरिशेषाभ्यां सिध्यतीति भावेन
‘‘प्रत्यक्षवच्च प्रामाण्यं स्वत एवागमस्य४ च’’
इत्यत्र ‘‘स्वत एव स्वाभाविकसम्बन्धेनैव’’ इत्यादिसुधोक्तदिशाऽऽह ॥ किं च शब्दस्येति ॥ हेतोरप्रयोजकत्वं निराह ॥ अन्यथेति ॥ सम्बद्धस्यैव क्रियाजनकत्वमिति कप्तत्याग इत्यर्थः । यद्वा शब्दार्थयोः संयोग-समवायतादात्म्यरूपसम्बन्धान्तरकल्पन इत्यर्थः । द्रव्यत्वायुतसिद्धत्वादेरपि शब्दार्थयोरङ्गीकारप्रसङ्गाद्गौरवमिति भावः ।
क्रियाजनकत्वहेतोरशक्यान्वयस्य स्वरूपसतो नियामकत्वादित्यादि-मण्युक्तान्यथोपपत्तिमाशङ्क्य निराह ॥ न चेत्यादिना ॥ शक्येति ॥ शक्तिविषयेत्यर्थः । पदार्थसम्बन्धः पदार्थकर्मत्वादिरित्यर्थः ।
॥ अन्यथेति ॥ परम्परासम्बन्धेन साक्षात्सम्बन्धापलाप इत्यर्थः ॥ संयोग इति ॥ चक्षुष इति शेषः । तत्रापि घटोपलम्भरूपकार्यस्यैव परम्परासम्बन्धेनोपपत्तेः सुवचत्त्वादिति भावः ।